भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.7

2.7.1

नारायण उवाच ॥
पुण्यक्षेत्रे ह्याजगाम भारते सा सरस्वती ॥
गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे

2.7.2

भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ॥
वागधिष्ठातृदेवी सा तेन वाणी च कीर्त्तिता

2.7.3

सर्वं विश्वं परिव्याप्य स्रोतस्येव हि दृश्यते ॥
हरिः सरस्सु तस्येयं तेन नाम्ना सरस्वती

2.7.4

सरस्वती नदी सा च तीर्थरूपाऽतिपावनी ॥
पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी

2.7.5

पश्चाद्भगीरथानीता महीं भागीरथी शुभा ॥
समाजगाम कलया वाणीशापेन नारद

2.7.6

तत्रैव समये तां च दधार शिरसा शिवः ॥
वेगं सोढुमशक्ताया भुवः प्रार्थनया विभुः

2.7.7

पद्मा जगाम कलया सा च पद्मावती नदी ॥
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे

2.7.8

ततोऽन्यया सा कलया चालभज्जन्म भारते ॥
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च

2.7.9

पुरा सरस्वतीशापात्तत्पश्चाद्धरिशापतः ॥
बभूव वृक्षरूपा सा कलया विश्वपावनी

2.7.2.7.10

कलेः पञ्चसहस्रं च वर्षं स्थित्वा च भारते ॥
जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम्

2.7.11

यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ॥
यास्यन्ति सार्द्धं ताभिश्च हरेर्वैकुण्ठमाज्ञया

2.7.12

शालग्रामो हरेर्मूर्त्तिर्जगन्नाथश्च भारतम्॥
कलेर्दशसहस्रान्ते ययौ त्यक्त्वा हरेः पदम्

2.7.13

वैष्णवाश्च पुराणानि शङ्खाश्च श्राद्धतर्पणम् ॥
वेदोक्तानि च कर्माणि ययुस्तैः सार्द्धमेव च

2.7.14

हरिपूजा हरेर्नाम तत्कीर्त्तिगुणकीर्त्तनम् ॥
वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्द्धमेव च

2.7.15

सत्त्वं च सत्यं धर्मश्च वेदाश्च ग्राम्यदेवताः ॥
व्रतं तपस्याऽनशनं ययुस्तैः सार्द्धमेव च

2.7.16

वामाचाररताः सर्वे मिथ्याकापट्यसंयुताः॥
तुलसीवर्जिता पूजा भविष्यति ततः परम्

2.7.17

एकादशीविहीनाश्च सर्वे धर्मविवर्जिताः ॥
हरिप्रसङ्गविमुखा भविष्यन्ति ततः परम्

2.7.18

शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः ॥
चौराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम्

2.7.19

पुंसां भेदस्तथा स्त्रीणां विवाहो वादनिर्णयः ॥
स्वस्वामिभेदो वस्तूनां न भविष्यत्यतः परम्

2.7.2.7.20

सर्वे जनाः स्त्रीवशाश्च पुंश्चल्यश्च गृहे गृहे ॥
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च

2.7.21

गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ॥
चेटीभृत्यासमा वध्वः श्वश्रूश्च श्वशुरस्तथा

2.7.22

कर्त्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ॥
विद्यासम्बन्धिभिः सार्द्धं सम्भाषाऽपि न विद्यते

2.7.23

यथा परिचिता लोकास्तथा पुंसश्च बान्धवाः ॥
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना

2.7.24

ब्रह्मक्षत्त्रियविट्शूद्रा जात्या चारविनिर्णयः ॥
संध्या च यज्ञसूत्रं च भावलुप्तं न संशयः

2.7.25

म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ॥
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय ते ॥
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ

2.7.26

सूपकारा भविष्यन्ति धावका वृषवाहकाः ॥
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी

2.7.27

फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम्

2.7.28

दम्पती प्रीतिहीनौ च गृहिणः सुखवर्जिताः ॥
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः

2.7.29

जलहीना नदा नद्यो दीर्घिकाः कन्दरादयः ॥
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च

2.7.2.7.30

लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥
कुत्सिता विकृताकारा नरा नार्य्यश्च बालकाः

2.7.31

कुवार्त्ताः कुत्सितपथा भविष्यन्ति ततः परम् ॥
केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः

2.7.32

केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च

2.7.33

अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥
सस्यानि च भविष्यन्ति तडागेषु नदीषु च

2.7.34

क्षेत्राणि सस्यहीनानि प्रकृष्टान्यर्थतः परम् ॥
हीनाः प्रकृष्टा धनिनो बलदर्पसमन्विताः

2.7.35

प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥
अलीकवादिनो धूर्त्ताः शठा वै सत्यवादिनः

2.7.36

पापिनः पुण्यवन्तश्चाप्यशिष्टः शिष्ट एव च ॥
जितेन्द्रिया लम्पटाश्च पुंश्चल्यश्च पतिव्रताः

2.7.37

तपस्विनः पातकिनो विष्णुभक्ता अवैष्णवाः ॥
हिंसकाश्च दयायुक्ताश्चौराश्च नरघातिनः

2.7.38

भिक्षुवेषधरा धूर्त्ता निन्दन्त्युपहसन्ति च ॥
भूतादिसेवानिपुणा जनानां मोदकारिणः

2.7.39

पूजितास्ते भविष्यन्ति वञ्चका ज्ञानदुर्बलाः ॥
वामना व्याधियुक्ताश्च नरा नार्य्यश्च सर्वतः

2.7.2.7.40

अल्पायुषो जरायुक्ता यौवनेषु कलौ युगे ॥
पलिता षोडशे वर्षे महावृद्धास्तु विंशतौ

2.7.41

अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥
वत्सरान्ते प्रसूता स्त्री षोडशेन जरान्विता

2.7.42

एताः काश्चित्सहस्रेषु वन्ध्याश्चापि कलौ युगे ॥
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च

2.7.43

मातृजायावधूनां च जारोपार्जनतत्पराः ॥
कन्यानां भगिनीनां च जारोपार्जनजीविनः

2.7.44

हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥
स्वयमुत्सृज्य दानं च कीर्तिवर्द्धनहेतवे

2.7.45

तत्पश्चान्मनसाऽऽलोच्य स्वयमुल्लङ्घयिष्यति ॥
देववृत्तिं ब्रह्मवृत्तिं वृत्तिं गुरुकुलस्य च

2.7.46

स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ॥
कन्यकागामिनः केचित्केचिच्छ्वश्र्वभिगामिनः

2.7.47

केचिद्वधूगामिनश्च केचित्सर्वत्रगामिनः ॥
भगिनीगामिनः केचित्सपत्नीमा तृगामिनः

2.7.48

भ्रातृजायागामिनश्च भविष्यति कलौ युगे ॥
अगम्यागमनं चैव करिष्यन्ति गृहे गहे

2.7.49

आत्मयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥
पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे

2.7.2.7.50

प्रजानां चैव वस्तूनां ग्रामाणां च विशेषतः॥
अलीकवादिनः सर्वे सर्वे चौर्यार्थलम्पटाः

2.7.51

परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः

2.7.92

लाक्षालोहरसानां च व्यापारं लवणस्य च ॥
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः

2.7.53

शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥
पञ्चपर्वपरित्यक्ताः कुहूरात्रिषु भोजिनः

2.7.54

यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः

2.7.55

पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला॥
विप्राणां रन्धनागारे भविष्यन्ति च पाचिकाः

2.7.56

अन्नानां निर्णयो नास्ति योनीनां च विशेषतः ॥
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे

2.7.57

एवं कलौ संप्रवृत्ते सर्वे म्लेच्छमया भवे ॥
हस्तप्रमाणे वृक्षे चाङ्गुष्ठमाने च मानवे

2.7.58

विप्रस्य विष्णुयशसः पुत्रः कल्की भविष्यति ॥
नारायणकलांशश्च भगवान्बलिनां बली

2.7.59

दीर्घेण करवालेन दीर्घघोटकवाहनः ॥
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति

2.7.2.7.60

निर्म्लेच्छां वसुधां कृत्वा चान्तर्द्धानं करिष्यति ॥
अराजका च वसुधा दत्युग्रस्ता भविष्यति

2.7.61

स्थूलप्रमाणं षड्रात्रं वर्षाधाराप्लुता मही ॥
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति

2.7.62

ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ॥
प्राप्नोति शुष्कतां पृथ्वी समा तेषं च तेजसा

2.7.63

कलौ गते च दुर्द्धर्षे संप्रवृत्ते कृते युगे ॥
तपस्सत्यसमायुक्तो धर्मः पूर्णो भविष्यति

2.7.64

तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ॥
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे

2.7.65

राजानः क्षत्रियाः सर्वे विप्रभक्ताः स्वधर्मिणः ॥
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा

2.7.66

वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ॥
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः

2.7.67

विप्रक्षत्त्रविशां वंशा विष्णुयज्ञपरायणाः ॥
विष्णुमन्त्ररताः सर्वे विष्णुभक्ताश्च वैष्णवाः

2.7.68

श्रुतिस्मृतिपुराणज्ञा धर्मज्ञा ऋतुगामिनः ॥
लेशो नास्ति ह्यधर्माणां धर्मपूर्णे कृते युगे

2.7.69

धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे स्मृतः॥
कलौ प्रवृत्ते पादात्मा सर्वलोपस्ततः परम्

2.7.2.7.70

वाराः सप्त यथा विप्र तिथयः षोडश स्मृताः ॥
यथा द्वादश मासाश्च ऋतवश्च षडेव हि

2.7.71

द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ॥
चतुर्भिः प्रहरे रात्रिर्मासस्त्रिंशद्दिनैस्तथा

2.7.72

वर्षः पञ्चविधो ज्ञेयः कालसंख्यां निबोध मे ॥
यथा चायान्ति यान्त्येव तथा युगचतुष्टयम्

2.7.73

वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ॥
शतत्रये षष्ट्यधिके नराणां च युगे गते ॥
देवानां च युगो ज्ञेयः कालसंख्याविदां मतः

2.7.74

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥
मन्वतरसमं ज्ञेयं चेन्द्रायुः परिकीर्तितम्

2.7.75

अष्टाविंशतिमे चेन्द्रे गते ब्राह्मं दिवानिशम् ॥
अष्टोत्तरे वर्षशते गते पातो विधेर्भवेत्

2.7.76

प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः

2.7.77

ऋषयो जीविनः सर्वे लीनाः कृष्णे परात्परे ॥
तत्रैव प्रकृतिर्लीना तेन प्राकृतिको लयः

2.7.78

लये प्राकृतिकेऽतीते पाते च ब्रह्मणो मुने ॥
निमेषमात्रः कालश्च कृष्णस्य परमात्मनः

2.7.79

एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥
स्थितौ गोलोकवैकुण्ठौ श्रीकृष्णश्च सपार्षदः

2.7.2.7.80

निमेषमात्रः प्रलयो यत्र विश्वं जलप्लुतम् ॥
निमेषानन्तरे काले पुनः सृष्टिः क्रमेण च

2.7.81

एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥
कतिकृत्वो गतायातः संख्यां जानाति कः पुमान्

2.7.82

सृष्टीनां च कलानां च ब्रह्माण्डानां च नारद ॥
ब्रह्मादीनां च विध्यण्डे संख्यां जानाति कः पुमान्

2.7.83

ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥
सर्वेषां परमात्मा च श्रीकृष्णः प्रकृतेः परः

2.7.84

ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥
तस्यांशश्च विराट् क्षुद्रस्तस्यांशा प्रकृतिः स्मृता

2.7.85

स च कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ॥
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्

2.7.86

ब्रह्मादितृणपर्य्यन्तं सर्वं प्राकृतिकं भवेत् ॥
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च

2.7.87

विद्ध्येकं सृष्टिमूलं तत्सत्यं नित्यं सनातनम् ॥
स्वेच्छामयं परं ब्रह्म निर्लिप्तं निर्गुणं परम्

2.7.88

निरुपाधिं निराकारं भक्तानुग्रहविग्रहम् ॥
अतीव कमनीयं च नवीनघनसन्निभम्

2.7.89

द्विभुजं मुरलीहस्तं गोपवेषं किशोरकम् ॥
सर्वज्ञं सर्वसेव्यं च परमात्मानमीश्वरम्

2.7.2.7.90

करोति धाता ब्रह्माण्डं ज्ञानात्मा कम लोद्भवः ॥
शिवो मृत्युञ्जयश्चैव संहर्त्ता सर्वतत्त्ववित्

2.7.91

यस्य ज्ञानाद्यत्तपसा सर्वेशस्तत्समो महान् ॥
महाविभूतियुक्तश्च सर्वज्ञः सर्वदा स्वयम्

2.7.92

सर्वव्यापी सर्वपाता स दाता सर्वसम्पदाम् ॥
विष्णुः सर्वेश्वरः श्रीमान्यस्य ज्ञानाज्जगत्पतिः

2.7.93

महामाया च प्रकृतिः सर्वशक्तिमतीश्वरी ॥
यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया

2.7.94

सावित्री वेदमाता च वेदाधिष्ठातृदेवता ॥
पूज्या द्विजानां वेदज्ञा यज्ञाद्यस्याश्च सेवया

2.7.95

सर्वविद्याधिदेवी सा पूज्या च विदुषां पुरा ॥
यत्सेवया यत्तपसा यस्य ज्ञानात्सरस्वती

2.7.96

यत्सेवया यत्तपसा प्रदात्री सर्वसंपदाम् ॥
धनसस्याधिदेवी सा महालक्ष्मीः सनातनी

2.7.97

यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदा यिनी

2.7.98

सर्वेश्वरी सर्ववन्द्या सर्वेशं प्राप या पतिम् ॥
सर्वस्तुता च सर्वज्ञा दुर्गा दुर्गतिनाशिनी

2.7.99

कृष्णवामांशसम्भूता कृष्णप्रेमाधिदेवता ॥
कृष्णप्राणाधिका प्रेम्णा राधिका कृष्णसेवया

2.7.2.7.100

सर्वाधिकं च रूपं च सौभाग्यं मानगौरवम् ॥
कृष्णवक्षस्थलस्थानं पत्नीत्वं प्राप सेवया

2.7.101

तपश्चकार सा पूर्वं शतशृङ्गे च पर्वते ॥
दिव्यं युगसहस्रं च निराहाराऽतिकर्शिता

2.7.102

कृशां निःश्वासरहितां दृष्ट्वा चन्द्रकलोपमाम् ॥
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ॥

2.7.103

वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥
मम वक्षःस्थले तिष्ठ मयि ते भक्तिरस्त्विति

2.7.104

सौभाग्येन च मानेन प्रेम्णा वै गौरवेण च ॥
त्वं मे श्रेष्ठा परं प्रेम्णा ज्येष्ठा त्वं सर्वयोषिताम्

2.7.105

वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥
सन्ततं तव साध्योऽहं बाध्यश्च प्राणवल्लभे

2.7.106

इत्युक्त्वा जगतां नाथश्चक्रे तच्चेतनां ततः ॥
सपत्नीरहितां तां च चकार प्राणवल्लभाम्

2.7.107

येषां या याश्च देव्यो वै पूजितास्तस्य सेवया ॥
तपस्या यादृशी यासां तासां तादृक्फलं मुने

2.7.108

दिव्यं वर्षसहस्रं च तपस्तप्त्वा हिमालये ॥
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह

2.7.109

सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा

2.7.2.7.110

लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥
सर्वसम्पत्प्रदात्री सा चाभवत्तस्य सेवया

2.7.111

सावित्री मलये तप्त्वा द्विजपूज्या बभूव सा ॥
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम्

2.7.112

शतमन्वन्तरं तप्तं शंकरेण पुरा विभो ॥
शतमन्वन्तरं चैव ब्रह्मणा तस्य भक्तितः

2.7.113

शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥
शतमन्वन्तरं धर्मस्तप्त्वा पूज्यो बभूव ह

2.7.114

मन्वन्तरं तपस्तेपे शेषो भक्त्या च नारद ॥
मन्वन्तरं च सूर्य्यश्च शक्रश्चन्द्रस्तथा गुरुः

2.7.115

दिव्यं शतयुगं चैव वायुस्तप्त्वा च भक्तितः ॥
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः

2.7.116

एवं कृष्णस्य तपसा सर्वे देवाश्च पूजिताः ॥
मुनयो मानवा भूपा ब्राह्मणाश्चैव पूजिताः

2.7.117

एवं ते कथितं सर्वं पुराणं च तथाऽऽगमम् ॥
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि

2.7.7

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारद नारायणसंवादे युगतन्माहात्म्यमन्वन्तरकालेश्वरगुणनिरूपणं नाम सप्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc