भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.6

2.6.1

नारायण उवाच ॥
सरस्वती सा वैकुण्ठे स्वयं नारायणान्तिके ॥
गङ्गाशापेन कलया कलहाद्भारते सरित्

2.6.2

पुण्यदा पुण्यजननी पुण्यतीर्थस्वरूपिणी ॥
पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने

2.6.3

तपस्विनां तपोरूपा तपस्याकाररूपिणी ॥
कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी

2.6.4

ज्ञाने सरस्वतीतोये गतं यैर्मानवैर्भुवि ॥
तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि

2.6.5

भारते कृतपापश्च स्नात्वा तत्रैव लीलया ॥
मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम्

2.6.6

चतुर्दश्यां पौर्णमास्यामक्षयायां दिनक्षये ॥
ग्रहणे च व्यतीपातेऽन्यस्मिन्पुण्यदिनेऽपि च

2.6.7

अनुषङ्गेण यः स्नाति हेलया श्रद्धयाऽपि वा ॥
सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि

2.6.8

सरस्वतीमन्त्रकं च मासमेकं तु यो जपेत् ॥
महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः

2.6.9

नित्यं सरस्वतीतोये यः स्नात्वा मुण्डयेन्नरः ॥
न गर्भवासं कुरुते पुनरेव स मानवः

2.6.2.6.10

इत्येवं कथितं किंचिद्भारतीगुणकीर्त्तनम्॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि

2.6.11

सौतिरुवाच ॥
नारायणवचः श्रुत्वा नारदो मुनिसत्तमः ॥
पुनः पप्रच्छ सन्देहच्छेदं शौनक सत्वरम्

2.6.12

नारद उवाच ॥
कथं सरस्वती देवी गङ्गाशापेन भारते ॥
कलया कलहेनैव समभूत्पुण्यदा सरित्

2.6.13

श्रवणे श्रुतिसाराणां वर्द्धते कौतुकं मम ॥
कथामृतानां नो तृप्तिः केन श्रेयसि तृप्यते

2.6.14

कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् ॥
शान्ता सत्त्वस्वरूपा च पुण्यदा सर्वदा नृणाम्

2.6.15

तेजस्विन्योर्द्वयोर्वादकारणं श्रुतिसुन्दरम् ॥
सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि

2.6.16

नारायण उवाच ॥
शृणु नारद वक्ष्यामि कथामेतां पुरातनीम् ॥
यस्याः स्मरणमात्रेण सर्वपापात्प्रमुच्यते

2.6.17

लक्ष्मीस्सरस्वती गङ्गा तिस्रो भार्य्या हरेरपि ॥
प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ

2.6.18

चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम्॥
सस्मिता च सकामा च सकटाक्षं पुनः पुनः

2.6.19

विभुर्जहास तद्वक्त्रं निरीक्ष्य च मुदा क्षणम् ॥
क्षमां चकार तद्दृष्ट्वा लक्ष्मीर्नैव सरस्वती

2.6.2.6.20

बोधयामास तां पद्मा सत्त्वरूपा च सस्मिता ॥
क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह

2.6.21

उवाच गङ्गां भर्त्तारं रक्तास्या रक्तलोचना ॥
कम्पिता कोपवेगेन शश्वत्प्रस्फुरिताधरा

2.6.22

सरस्वत्युवाच ॥
सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीः प्रति ॥
धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च

2.6.23

ज्ञातं सौभाग्यमधिकं गंगायां ते गदाधर ॥
कमलायां च तत्तुल्यं न च किंचिन्मयि प्रभो

2.6.24

गंगायाः पद्मया सार्द्धं प्रीतिश्चापि सुसम्मता ॥
क्षमां चकार तेनेदं विपरीतं हरिप्रिया

2.6.25

किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् ॥
निष्फलं जीवनं तस्या या पत्युः प्रेमवञ्चिता

2.6.26

त्वां सर्वेशं सत्त्वरूपं ये वदन्ति मनीषिणः ॥
ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव

2.6.27

सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् ॥
मनसा तु समालोच्य स जगाम बहिः सभाम्

2.6.28

गते नारायणे गंगामवोचन्निर्भयं रुषा ॥
रागाधिष्ठातृ देवी सा वाक्यं श्रवणदुःसहम्

2.6.29

हे निर्लज्जे सकामे त्वं स्वामिगर्वं करोषि किम् ॥
अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि

2.6.2.6.30

मानहानिं करिष्यामि तवाद्य हरिसन्निधौ ॥
किं करिष्यति ते कान्तो मम वै कान्तवल्लभे

2.6.31

इत्येवमुक्त्वा गंगाया जिघृक्षुं केशमुद्यताम् ॥
वारयामास तां पद्मा मध्यदेशस्थिता सती

2.6.32

शशाप वाणी तां पद्मां महाकोपवती सती ॥
वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः

2.6.33

विपरीतं यतो दृष्ट्वा किंचिन्नो वक्तुमर्हसि ॥
सन्तिष्ठसि सभामध्ये यथा वृक्षो यथा सरित्

2.6.34

शापं श्रुत्वा च सा देवी न शशाप चुकोप न ॥
तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च

2.6.39

अत्युद्धतां च तां दृष्ट्वा कोपप्रस्फुरितानना ॥
उवाच गंगा तां देवीं पद्मां पद्मविलोचना

2.6.36

गंगोवाच ॥
त्वमुत्सृज महोग्रां तां पद्मे किं मे करिष्यति ॥
वाग्दुष्टा वागधिष्ठात्री देवीयं कलहप्रिया

2.6.37

यावती योग्यताऽस्याश्च यावती शक्तिरेव वा ॥
तथा करोतु वादं च मया सार्द्धं सुदुर्मुखा

2.6.38

स्वबलं यन्मम बलं विज्ञापयितुमर्हतु ॥
जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति

2.6.39

इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ॥
सरित्स्वरूपा भवतु सा या त्वामशपद्रुषा

2.6.2.6.40

अधो मर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ॥
कलौ तेषां च पापांशं लभिष्यति न संशयः

2.6.41

इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ॥
त्वमेव यास्यसि महीं पापिपापं लभिष्यसि

2.6.42

एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥
चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः

2.6.43

सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥
बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम्

2.6.44

श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ॥
उवाच दुःखितास्ताश्च वाक्यं सामयिकं विभुः

2.6.45

श्रीभगवानुवाच ॥
लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ॥
अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि

2.6.46

तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ॥
मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी

2.6.47

भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥
त्रैलोक्यपावनी नाम्ना तुलसीति च भारते

2.6.48

कलया च सरिद्भूत्वा शीघ्रं गच्छ वरानने ॥
भारतं भारतीशापान्नाम्ना पद्मावती भव

2.6.49

गङ्गे यास्यसि चांशेन पश्चात्त्वं विश्वपावनी ॥
भारतं भारतीशापात्पापदाहाय देहिनाम्

2.6.2.6.50

भगीरथस्य तपसा तेन नीता सुदुष्करात् ॥
नाम्ना भागीरथी पूता भविष्यसि महीतले

2.6.51

मदंशस्य समुद्रस्य जाया जाये ममाज्ञया ॥
मत्त्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि

2.6.52

गङ्गाशापेन कलया भारतं गच्छ भारति ॥
कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते

2.6.53

स्वयं च ब्रह्मसदनं ब्रह्मणः कामिनी भव ॥
गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु

2.6.54

शान्ता च् क्रोधरहिता मद्भक्ता मत्स्वरूपिणी ॥
महासाध्वी महाभागा सुशीला धर्मचारिणी

2.6.55

यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ॥
शान्तरूपा सुशीलाश्च प्रतिविश्वेषु योषितः

2.6.56

तिस्रो भार्य्यास्त्रयः श्यालास्त्रयो भृत्याश्च बान्धवाः ॥
ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः

2.6.57

स्त्री पुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ॥
निष्फलं जन्म वै तेषामशुभं च पदे पदे

2.6.58

मुखदुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ॥
अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम्

2.6.59

जनानां च स्थलानां च पुराणां प्राप्तिरेव च ॥
सततं सुलभा तत्र न तेषां तद्गृहेऽपि च

2.6.2.6.60

वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ॥
ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम्

2.6.61

व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥
दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते ॥

2.6.62

पुंसश्च स्त्रीजितस्येह जीवितं निष्फलं ध्रुवम् ॥
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्

2.6.63

स निन्दितोऽत्र सर्वत्र परत्र नरकं व्रजेत् ॥
यशकीर्तिविहीनो यो जीवन्नपि मृतो हि सः

2.6.64

बह्वीनां च सपत्नीनां नैकत्र श्रेयसी स्थितिः ॥
एकभार्य्यः सुखी नैव बहुभार्य्यः कदाचन

2.6.65

गच्छ गंगे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥
अत्र तिष्ठतु मद्देहे सुशीला कमलालया

2.6.66

सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता॥
इह स्वर्गसुखं तस्य धर्ममोक्षौ परत्र च

2.6.67

पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी ॥
जीवन्मृतोऽशुचिर्दुःखी दुश्शीलापतिरेव यः

2.6.68

इत्युक्त्वा जगतां नाथो विरराम च नारद ॥
अत्युच्चै रुरुदुर्देव्यः समालिङ्ग्य परस्परम्

2.6.69

ताश्च सर्वाः समालोच्य क्रमेणोचुः सदीश्वरम् ॥
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च

2.6.2.6.70

सरस्वत्युवाच ॥
प्रायश्चित्तं देहि नाथ दुष्टायां जन्मशोधकम् ॥
सत्स्वामिना परित्यक्ताः कुत्र जीवन्ति काः स्त्रियः

2.6.71

देहत्यागं करिष्यामि ध्रुवं योगेन भारते ॥
अत्युच्चतो निपतनं प्राप्तुमर्हति निश्चितम्

2.6.72

गंगोवाच ॥
अहं केनापराधेन त्वया त्यक्ता जगत्पते ॥
देहत्यागं करिष्यामि निर्दोषाया वधं लभ

2.6.73

निर्दोषकामिनीत्यागं कुरुते यो जनो भवे ॥
स याति नरकं कल्पं किं ते सर्वेश्वरस्य वा

2.6.74

लक्ष्मीरुवाच ॥
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ॥
प्रसादं कुरु चास्मभ्यं सदीशस्य क्षमा वरा

2.6.75

भारतं भारतीशापाद्यास्यामि कलया यदि ॥
कतिकालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम्

2.6.76

दास्यन्ति पापिनः पापं मह्यं स्नानावगाहनात् ॥
केन तस्माद्विमुक्ताऽहमागमिष्यामि ते पदम्

2.6.77

कलया तुलसीरूपा धर्मध्वजसुता सती ॥
भूत्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत

2.6.78

वृक्षरूपा भविष्यामि तदधिष्ठातृदेवता ॥
मामुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे

2.6.79

गंगा सरस्वतीशापाद्यदि यास्यति भारतम् ॥
शापेन मुक्ता पापाच्च कदा त्वां वा लभिष्यति

2.6.2.6.80

गंगाशापेन सा वाणी यदि यास्यति भारतम् ॥
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव

2.6.81

तां वाणीं ब्रह्मसदनं गंगां वा शिवमन्दिरम् ॥
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः

2.6.82

इत्युक्त्वा कमला कान्तपदं धृत्वा ननाम च ॥
सुकेशैर्वेष्टयित्वा च रुरोद च पुनः पुनः

2.6.83

उवाच पद्मनाभस्तां प्रभां कृत्वा स्ववक्षसि॥
ईषद्धासः प्रसन्नास्यो भक्तानुग्रहकारकः

2.6.84

नारायण उवाच ॥
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ॥
समतां च करिष्यामि शृणु तत्क्रममेव च

2.6.85

भारती यातु कलया सरिद्रूपा च भारतम् ॥
अर्द्धांशा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे

2.6.86

भगीरथेन नीता सा गंगा यास्यति भारतम् ॥
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे

2.6.87

तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ॥
ततः स्वभावतः पूताऽप्यतिपूता भविष्यति

2.6.88

कलांशांशेन गच्छ त्वं भारते कमलोद्भवे ॥
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी

2.6.89

कलेः पञ्चसहस्रे च गते वर्षे च मोक्षणम् ॥
युष्माकं सरितां भूयो मद्गृहे चागमिष्यथ ॥

2.6.2.6.90

सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् ॥
विना विपत्तिर्महिमा केषां पद्मे भवेद्भवे

2.6.91

मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ॥
युष्माकं मोक्षणं पापात्पापिस्पर्शनहेतुकात्

2.6.92

पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ॥
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात्

2.6.93

मन्मन्त्रोपासका भक्ता भ्रमन्ते भारते सति ॥
पूतं कर्त्तुं भारतं च सुपवित्रां वसुन्धराम्

2.6.94

मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ॥
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम्

2.6.95

स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ॥
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्

2.6.96

एकादशीविहीनश्च सन्ध्याहीनोऽपि नास्तिकः ॥
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्

2.6.97

असिजीवी मषीजीवी धावकः शूद्रयाजकः ॥
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्

2.6.98

विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यप्रदायकः ॥
न्यासहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात्

2.6.99

ऋणग्रस्तो वार्द्धुषिको जारजः पुंश्चलीपतिः ॥
पूतश्च पुंश्चलीपुत्रो मद्भक्तस्पर्शदर्शनात्

2.6.2.6.100

शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ॥
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात्

2.6.101

अश्वत्थघातकश्चैव मद्भक्तानां च निन्दकः ॥
अनिवेदितभोजी च पूतो मद्भक्तदर्शनात्

2.6.102

मातरं पितरं भार्य्यां भ्रातरं तनयं सुताम्॥
गुरोः कुलं च भगिनीं वंशहीनं च बान्धवम्

2.6.103

श्वश्रूं च श्वशुरं चैव यो न पुष्णाति नारद ॥
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात्

2.6.104

देवद्रव्यापहारी च विप्रद्रव्यापहारकः ॥
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा

2.6.105

महापातकिनश्चैते शूद्राणां शवदाहकाः ॥
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात्

2.6.106

लक्ष्मीरुवाच ॥
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकारक ॥
येषां सन्दर्शनस्पर्शात्सद्यः पूता नराधमाः

2.6.107

हरिभक्तिविहीनाश्च महाहङ्कारसंयुताः ॥
स्वप्रशंसारता धूर्त्ताः शठा वै साधु निन्दकाः

2.6.108

पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ॥
येषां च पादरजसा पूता पादोदकान्मही

2.6.109

येषां सन्दर्शनं स्पर्शं देवा वाञ्छन्ति भारते ॥
सर्वेषां परमो लाभो वैष्णवानां समागमः

2.6.2.6.110

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ॥
ते पुनन्त्युरुकालेन विष्णुभक्ताः क्षणादहो

2.6.111

सौतिरुवाच ॥
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः॥
निगूढतत्त्वं कथितुमृषिश्रेष्ठोपचक्रमे

2.6.112

श्रीनारायण उवाच ॥
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ॥
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम्

2.6.113

सारभूतं गोपनीयं न वक्तव्यं खलेषु च ॥
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय

2.6.114

गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे विशेद्वरः ॥
वदन्ति वेदवेदाङ्गात्तं पवित्रं नरोत्तमम्

2.6.115

पुरुषाणां शतं पूर्वं पूतं तज्जन्ममात्रतः ॥
स्वर्गस्थं नरकस्थं वा मुक्तिं प्राप्नोति तत्क्षणात्

2.6.116

यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जंतुषु ॥
जीवन्मुक्तास्ते च पूता यान्ति काले हरेः पदम्

2.6.117

मद्भक्तियुक्तो मत्पूजानियुक्तो मद्गुणान्वितः ॥ .
मद्गुणश्लाघनीयश्च मन्निविष्टश्च सन्ततम्

2.6.118

मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ॥
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृतिरेव च

2.6.119

न वाञ्छन्ति सुखं मुक्तिं सालोक्यादि चतुष्टयम् ॥
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने

2.6.2.6.120

इन्द्रत्वं च मनुत्वं च देवत्वं च सुदुर्लभम् ॥
स्वर्गराज्यादिभोगं च स्वप्नेऽपि न हि वाच्छति

2.6.121

ब्रह्माण्डानि विनश्यन्ति देवा ब्रह्मादयस्तथा ॥
कल्याणभक्तियुक्तश्च मद्भक्तो न प्रणश्यति

2.6.122

भ्रमन्ति भारते भक्ता लब्ध्वा जन्म सुदुर्लभम् ॥
तेऽपि यान्ति महीं पूतां कृत्वा तीर्थं ममालयम्

2.6.123

इत्येतत्कथितं सर्वं कुरु पद्मे यथोचितम् ॥
तदाज्ञाताश्च ताश्चक्रुर्हरिस्तस्थौ सुखासने

2.6.6

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वत्युपाख्यानं नाम षष्ठोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc