भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.48

2.48.1

नारद उवाच ॥
नारायण महाभाग नारायणपरायण ॥
नारायणांश भगवन्ब्रूहि नारायणीं कथाम्

2.48.2

श्रुतं सुरभ्युपाख्यानमतीव सुमनोहरम् ॥
गोप्यं सर्वपुराणेषु पुराविद्भिः प्रशंसितम्

2.48.3

अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ॥
तदुत्पत्तिं च तद्ध्यानं स्तोत्रं कवचमुत्तमम्

2.48.4

श्रीनारायण उवाच ॥
पुरा कैलासशिखरे भगवन्तं सनातनम् ॥
सिद्धेशं सिद्धिदं सर्वस्वरूपं शंकरं परम्

2.48.5

प्रफुल्लवदनं प्रीतं सस्मितं मुनिभिः स्तुतम् ॥
कुमाराय प्ररोचन्तं कृष्णस्य परमात्मनः

2.48.6

रासोत्सवरसाख्यानं रासमण्डलवर्णनम् ॥
तदाख्यानावसाने च प्रस्तावावसरे सती

2.48.7

पप्रच्छ पार्वती स्फीता सस्मिता प्राणवल्लभम् ॥
स्तवनं कुर्वती भीता प्राणेशेन प्रसादिता ।

2.48.8

प्रोवाच तं महादेवं महादेवी सुरेश्वरी ॥
अपूर्वं राधिकाख्यानं पुराणेषु सुदुर्लभम्

2.48.9

श्रीपार्वत्युवाच ॥
आगमं निखिलं नाथ श्रुतं सर्वमनुत्तमम् ॥
पाञ्चरात्रादिकं नीतिशास्त्रयोगं च योगिनाम्

2.48.2.48.10

सिद्धानां सिद्धिशास्त्रं च नानातन्त्रं मनोहरम् ॥
भक्तानां भक्तिशास्त्रं च कृष्णस्य परमात्मनः

2.48.12

देवीनामपि सर्वासां चरितं त्वन्मुखाम्बुजात् ॥
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ॥१ १॥
श्रुतौ श्रुतं प्रशस्तं च राधायाश्च समासतः ॥
त्वन्मुखात्काण्वशाखाया व्यासेनोक्तां वदाधुना

2.48.13

आगमाख्यानकाले च भवता स्वीकृतं पुरा ॥
नहीश्वरव्याहृतिश्च मिथ्या भवितुमर्हति

2.48.14

तदुत्पतिं च तद्ध्यानं नाम्नो माहात्म्यमुत्तमम् ॥
पूजाविधानं चरितं स्तोत्रं कवचमुत्तमम्

2.48.15

आराधनविधानं च पूजापद्धतिमीप्सिताम्॥
साम्प्रतं ब्रूहि भगवन्मां भक्तां भक्तवत्सल

2.48.16

कथं न कथितं पूर्वमागमाख्यानकालतः ॥
पार्वतीवचनं श्रुत्वा नम्रवक्त्रो बभूव सः

2.48.17

पञ्चवक्त्रश्च भगवाञ्छुष्ककण्ठोष्ठतालुकः ॥
स्वसत्यभङ्गभीतश्च मौनीभूय विचिन्तयन्

2.48.18

सस्मार कृष्णं ध्यानेनाभीष्टदेवं कृपानिधिम् ॥
तदनुज्ञां च संप्राप्य स्वार्द्धाङ्गां तामुवाच सः

2.48.19

निषिद्धोऽहं भगवता कृष्णेन परमात्मना ॥
आगमारम्भसमये राधाख्यानप्रसंगतः

2.48.2.48.20

मदर्द्धांगस्वरूपा त्वं न मद्भिन्ना स्वरूपतः ॥
अतोऽनुज्ञां ददौ कृष्णो मह्यं वक्तुं महेश्वरि

2.48.21

मदिष्टदेवकान्ताया राधायाश्चरितं सति ॥
अतीव गोपनीयं च सुखदं कृष्णभक्तिदम्

2.48.22

जानामि तदहं दुर्गे सर्वं पूर्वापरं वरम् ॥
यज्जानामि रहस्यं च न तद्ब्रह्मा फणीश्वरः

2.48.23

न तत्सनत्कुमारश्च न च धर्मः सनातनः ॥
न देवेन्द्रो मुनींद्राश्च सिद्धेन्द्राः सिद्धपुङ्गवाः

2.48.24

मत्तो बलवती त्वं च प्राणांस्त्यक्तुं समुद्यता ॥
अतस्त्वां गोपनीयं च कथयामि सुरेश्वरि

2.48.25

शृणु दुर्गे प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥
चरितं राधिकायाश्च दुर्लभं च सुपुण्यदम्

2.48.26

पुरा वृन्दावने रम्ये गोलोके रासमण्डले ॥
शतशृंगैकदेशे च मालतीमल्लिकावने

2.48.27

रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः ॥
स्वेच्छामयश्च भगवान्बभूव रमणोत्सुकः

2.48.28

रिरंसोस्तस्य जगतां पत्युस्तन्मल्लिकावने ॥
इच्छया च भवेत्सर्वं तस्य स्वेच्छामयस्य च

2.48.29

एतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः ॥
दक्षिणांगं च श्रीकृष्णो वामार्द्धांगा च राधिका

2.48.2.48.30

बभूव रमणी रम्या रासेशा रमणोत्सुका ॥
अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता

2.48.31

वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा ॥
तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा

2.48.32

सस्मिता सुदती शुद्धा शरत्पद्मनिभानना ॥
बिभ्रती कबरीं रम्यां मालतीमाल्यमण्डिताम्

2.48.33

रत्नमालां च दधती ग्रीष्मसूर्य्यसमप्रभाम् ॥
मुक्ताहारेण शुभ्रेण गंगाधारानिभेन च

2.48.34

संयुक्तं वर्तुलोत्तुंगं सुमेरु गिरिसन्निभम् ॥
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचिह्नितम्

2.48.35

मांगल्यं मंगलार्हं च स्तनयुग्मं च बिभ्रती ॥
नितम्बश्रोणिभारार्त्ता नवयौवनसुन्दरी

2.48.36

कामातुरः सस्मितां तां ददर्श रसिकेश्वरः ॥
दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः

2.48.37

दृष्ट्वा चैनं सुकान्तं च सा दधार हरेः पुरः ॥
तेन राधा समाख्याता पुराविद्भिर्महेश्वरि

2.48.38

राधा भजति तं कृष्णं स च तां च परस्परम् ॥
उभयोः सर्वसाम्यं च सदा सन्तो वदन्ति च

2.48.39

भवनं धावनं रासे स्मरत्यालिंगनं जपन् ॥
तेन जल्पति संकेतं तत्र राधां स ईश्वरः

2.48.2.48.40

राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ॥
धाशब्दोच्चारणाद्दुर्गे धावत्येव हरेः पदम् ॥

2.48.41

कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ॥
तस्याश्चांशांशकलया बभूवुर्देवयोषितः

2.48.42

रा इत्यादानवचनो धा च निर्वाणवाचकः ॥
ततोऽवाप्नोति मुक्तिं च तेन राधा प्रकीर्तिता

2.48.43

बभूव गोपीसंघश्च राधाया लोमकूपतः ॥
श्रीकृष्णलोमकूपेभ्यो बभूवुः सर्वबल्लवाः

2.48.44

राधावामांशभागेन महालक्ष्मीर्बभूव सा ॥
तस्याधिष्ठातृदेवी सा गृहलक्ष्मीर्बभूव सा

2.48.45

चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी॥
तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी

2.48.46

तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे ॥
दीपाधिष्ठातृदेवी च सा चैव गृहदेवता

2.48.47

स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता ॥
प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः

2.48.48

आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति ॥
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम्

2.48.49

परं प्रधानं परमं परमात्मानमीश्वरम् ॥
सर्वाद्यं सर्वपूज्यं व निरीहं प्रकृतेः परम्

2.48.2.48.50

स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् ॥
तद्भिन्नानां च देवानां प्राकृतं रूपमेव च

2.48.51

तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता ॥
महाविष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी

2.48.52

मानिनीं राधिकां सन्तः सेवन्ते नित्यशस्सदा ॥
सुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम्

2.48.53

स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः ॥
स्वयं देवी हरेः क्रोडे छायारूपेण कामिनी

2.48.54

स च द्वादशगोपानां रायाणप्रवरः प्रिये ॥
श्रीकृष्णांशश्च भगवान्विष्णुतुल्यपराक्रमः

2.48.55

सुदामशापात्सा देवी गोलोकादागता महीम् ॥
वृषभानुगृहे जाता तन्माता च कलावती

2.48.48

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधोत्पत्तितत्पूजादिकथनं नामाष्टचत्वारिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc