भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.47

2.47.1

नारद उवाच ॥
का वा सा सुरभी देवी गोलोका दागता च या ॥
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः

2.47.2

नारायण उवाच ॥
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ॥
गवां प्रधाना सुरभी गोलोके च समुद्भवा

2.47.3

सर्वादिसृष्टेः कथनं कथयामि निशामय ॥
बभूव तेन तज्जन्म पुरा वृन्दावने वने

2.47.4

एकदा राधिकानाथो राधया सह कौतुकात् ॥
गोपांगनापरिवृतः पुण्यं वृन्दावनं ययौ

2.47.5

सहसा तत्र रहसि विजहार च कौतुकात् ॥
बभूव क्षीरपानेच्छा तदा स्वेच्छापरस्य च

2.47.6

ससृजे सुरभीं देवीं लीलया वामपार्श्वतः ॥
वत्सयुक्तां दुग्धवतीं वत्सानां च मनोरमाम्

2.47.7

दृष्ट्वा सवत्सां सुरभीं रत्नभाण्डे दुदोह सः ॥
क्षीरं सुधातिरिक्तं च जन्ममृत्युहरं परम्

2.47.8

तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम् ॥
सरो बभूव पयसा भाण्डविस्रंसनेन च

2.47.9

दीर्घे च विस्तृते चैव परितः शतयोजनम् ॥
गोलोकेषु प्रसिद्धं तद्रम्यं क्षीरसरोवरम्

2.47.2.47.10

गोपिकानां च राधायाः क्रीडावापी बभूव सा ॥
रत्नेन रचिता तूर्णं भूता वापीश्वरेच्छया

2.47.11

बभूव कामधेनूनां सहसा लक्षकोटयः ॥
तावत्यो हि सवत्साश्च सुरभीलोमकूपतः

2.47.12

तासां पुत्राश्च पौत्राश्च संबभूवुरसंख्यकाः ॥
कथिता च गवां सृष्टिस्तया संपूरितं जगत्

2.47.13

पूजां चकार भगवान्सुरभ्याश्च पुरा मुने ॥
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा

2.47.14

दीपान्विता परदिने श्रीकृष्णस्याज्ञया भवे ॥
बभूव सुरभीपूजा धर्मवक्त्रादिति श्रुतम्

2.47.15

ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्पूजाविधिक्रमम् ॥
वेदोक्तं च महाभाग निबोध कथयामि ते

2.47.16

ॐ सुरभ्यै नम इति मन्त्रोऽयं तु षडक्षरः ॥
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः

2.47.17

स्थितं ध्यानं यजुर्वेदे पूजनं सर्वसम्मतम् ॥
ऋद्धिदां वृद्धिदां चैव मुक्तिदो सर्वकामदाम्

2.47.18

लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ॥
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम्

2.47.19

पवित्ररूपां पूज्यां च भक्तानां सर्वकामदाम् ॥
यया पूतं सर्वविश्वं तां देवीं सुरभीं भजे

2.47.2.47.20

घटे वा धेनुशिरसि बद्धस्तंभे गवां च वा ॥
शालग्रामे जलेऽग्नौ वा सुरभी पूजयेद्द्विजः

2.47.21

दीपान्विता परदिने पूर्वाह्णे भक्तिसंयुतः ॥
यः पूजयेच्च सुरभीं स च पूज्यो भवेद्भुवि

2.47.22

एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ॥
क्षीरं जहार सहसा चिन्तिताश्च सुरादयः

2.47.23

ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा ॥
तदाज्ञया च सुरभीं तुष्टुवे पाकशासनः

2.47.24

महेन्द्र उवाच ॥
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ॥
गवां बीजस्वरूपायै नमस्ते जगदम्बिके

2.47.25

नमो राधाप्रियायै च पद्मांशायै नमो नमः ॥
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥
कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसंपदाम्

2.47.26

श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः

2.47.27

यशोदायै सौख्यदायै धर्मज्ञायै नमो नमः ॥
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः

2.47.28

आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्वदुर्लभम्

2.47.29

जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद

2.47.2.47.30

दुग्धाद् घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत्

2.47.31

स गोमान्धनवांश्चैव कीर्त्तिमान्पुण्यवान्भवेत् ॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः

2.47.32

इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम् ॥
सुचिरं निवसेत्तत्र कुरुते कृष्णसेवनम्

2.47.33

न पुनर्भवनं तस्य ब्रह्मपुत्र भवे भवेत्

2.47.47

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सुरभ्युपाख्याने तदुत्पत्ति तत्पूजादिकथनं नाम सप्तचत्वारिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc