ब्रह्मवैवर्त पुराण · अध्याय 2.32
सावित्र्युवाच ॥
धर्मराज महाभाग वेदवेदाङ्गपारग ॥
नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ॥
कर्मच्छेदे बीजरूपं प्रशंस्यं सुखदं नृणाम्
यशःप्रदं धर्मदं च सर्वमंगलमंगलम् ॥
येन यामीं न ते यांति यातनां भवदुःखदाम्
कुण्डानि च न पश्यन्ति तत्र नैव पतंति च ॥
न भवेद्येन जन्मादि तत्कर्म वद सुव्रत
किमाकाराणि कुण्डानि कानि तेषां मतानि च ॥
केन रूपेण तत्रैव सदा तिष्ठंति पापिनः
स्वदेहे भस्मसाद्भूते यांति लोकान्तरं नराः ॥
केन देहेन वा भोगं भुञ्जते वा शुभाशुभम्
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ॥
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि
नारायण उवाच ॥ सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ॥
कथां कथितुमारेभे गुरुं नत्वा च नारद
यम उवाच ॥
वत्से चतुर्षु वेदेषु धर्मो वै संहितासु च ॥
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च
अन्येषु सर्वशास्त्रेषु वेदांगेषु च सुव्रते ॥
सर्वेष्टं सारभूतं च मंगलं कृष्णसेवनम्
जन्ममृत्युजरारोगशोकसन्तापतारणम् ॥
सर्वमङ्गलरूपं च परमानन्दकारणम्
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ॥
भक्तिवृक्षांकुरकरं कर्मवृक्षनिकृन्तनम्
गोलोकमार्गसोपानमविनाशिपदप्रदम्॥
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे
कुण्डानि यमदूतं च यमं च यमकिङ्करान् ॥
स्वप्नेऽपि नहि पश्यन्ति सति श्रीकृष्णकिङ्कराः
हरिव्रतं ये कुर्वंति गृहिणः कर्मभोगिनः ॥
ये स्नांति हरितीर्थे च नाश्नन्ति हरिवासरे
प्रणमंति हरिं नित्यं हर्य्यर्चां पूजयन्ति च ॥
न यान्ति ते च घोरां च मम संयमनीं पुरीम्
त्रिसन्ध्यपूता विप्राश्च शुद्धाचारसमन्विताः ॥
स्वधर्मनिरताः शान्ता न यान्ति यममन्दिरम्
ते स्वर्गभोगिनोऽन्ये च शुद्धा देवान्यकिंकराः ॥
यान्त्यायान्ति च मर्त्यं च स्वर्गं च नहि निर्वृताः ॥
निवृत्तिं न हि लिप्सन्ति कृष्णसेवां विना नराः
स्वधर्म्मनिरताश्चापि स्वधर्मविरतास्तथा ॥
गच्छन्तो मर्त्यलोकं च दुर्द्धर्षा यमकिङ्कराः
भीताः कृष्णोपासकाच्च वैनतेयादिवोरगाः ॥
स्वदूतं पाशहस्तं च गच्छन्तं तं वदाम्यहम्
यास्यसीति च सर्वत्र हरिभक्ताश्रमं विना ॥
कृष्णमन्त्रोपासकानां नामानि च निकृन्तनम्
करोति नखराञ्जल्या चित्रगुप्तश्च भीतवत् ॥
मधुपर्कादिकं ब्रह्मा तेषां च कुरुते पुनः
विलंघ्य ब्रह्मलोकं च गोलोके गच्छतां सताम् ॥
दुरितानि च नश्यन्ति तेषां संस्पर्शमात्रतः
यथा सुप्रज्वलद्वह्नौ काष्ठानि च तृणानि च ॥
प्राप्नोति मोहः संमोहं तांश्च दृष्ट्वाऽतिभीतवत्
कामश्च कामिनं याति लोभ क्रोधौ ततः सति ॥
मृत्युः पलायते रोगो जरा शोको भयं तथा
कालः शुभाशुभं कर्म्म हर्षो भोगस्तथैव च ॥
ये ये न यान्ति यामीं च कथितास्ते मया सति
शृणु देहस्य विवृतिं कथयामि यथागमम् ॥
पृथिवी वायुराकाशं तेजस्तोयमिति स्फुटम्
देहिनां देहबीजं च स्रष्टुः सृष्टिविधौ परम् ॥
पृथ्व्यादिपञ्चभूतैश्च यो देहो निर्मितो भवेत्
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥
वृद्धाङ्गुष्ठप्रमाणेन यो जीवः पुरुषाकृतिः
बिभर्ति सूक्ष्मदेहं च तद्रूपं भोगहेतवे ॥
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये
जलेन नष्टो देहो वा प्रहारे सुचिरं कृते ॥
न शस्त्रे च न चास्त्रे च सुतीक्ष्णे कण्टके तथा
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ॥
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वनेऽपि च ॥
न च दग्धो न भग्नश्च भुंक्ते संतापमेव च ॥
कथितं देवि वृत्तान्तं कारणं च यथागमम् ॥
कुण्डानां लक्षणं सर्वं निबोध कथयामि ते ॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने द्वात्रिंशत्तमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0