भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.31

2.31.1

यम उवाच ॥
हरिसेवां विना साध्वि न लभेत्कर्मखण्डनम् ॥
शुभकर्म्म स्वर्गबीजं नरकं च कुकर्म्मतः

2.31.2

पुंश्चल्यन्नं च यो भुंक्ते वेश्यान्नं च पतिव्रते ॥
तां व्रजेत्तु द्विजो यो हि कालसूत्रं प्रयाति सः

2.31.3

शतवर्षं कालसूत्रे स्थित्वा शूद्रो भवेद्ध्रुवम् ॥
तत्र जन्मनि रोगी च ततः शुद्धो भवेद्द्विजः ॥

2.31.4

पतिव्रता चैकपत्नी द्वितीये कुलटा स्मृता ॥
तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चली स्मृता

2.31.5

वेश्या च पञ्चमे षष्ठे युग्मी च परिकीर्तिता ॥
अत ऊर्ध्वं महावेश्या साऽस्पृश्या सर्वजातिषु

2.31.6

यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि ॥
वेश्य युग्मीं महावेश्यामवटोदं प्रयाति सः

2.31.7

शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् ॥
षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम्

2.31.8

युग्मीगामी दशगुणं वसेत्तत्र न संशयः ॥
महावेश्याकामुकश्च ततः शतगुणं वसेत्

2.31.9

तदा हि सर्वगामी चेत्येवमाह पितामहः ॥
तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः

2.31.2.31.10

तित्तिरिः कुलटागामी धृष्टागामी च वायसः॥
कोकिलः पुंश्चलीगामी वेश्यागामी वृकस्तथा

2.31.11

युग्मीगामी सूकरश्च सप्तजन्मसु भारते ॥
महावेश्याकामुकश्च श्मशाने शाल्मलिस्तरुः

2.31.12

यो भुंक्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूय्यर्योः ॥
अरुन्तुदं स यात्येव चन्द्रमानाब्दमेव च

2.31.13

ततो भवेन्मानवस्स्यादुदरव्याधिसंयुतः ॥
गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः

2.31.14

वाक्प्रदत्तां हि कन्यां च यश्चान्यस्मै ददाति च ॥
स वसेत्पांशुभोगे च तद्भोजी च शताब्दकम्

2.31.15

दत्तापहारी यः साध्वि पाशवेष्टं शताब्दकम् ॥
निवसेच्छरशय्यायां यमदूतेन ताडितः

2.31.16

न पूजयेद्यो हि भक्त्या शिवलिङ्गं च पार्थिवम् ॥
स याति शूलिनः कोपाच्छूलप्रोतं सुदारुणम्

2.31.17

स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥
ततो भवेद्देवलश्च सप्तजन्मस्वतः शुचिः

2.31.18

करोति दण्डं यो विप्रे यद्भयात्कम्पते द्विजः ॥
प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च

2.31.19

प्रकोपवदना कोपात्स्वामिनं या च पश्यति ॥
कटूक्तिं तं च वदति याति चोल्कामुखं च सा

2.31.2.31.20

उल्कां ददाति वक्त्रे च सततं यमकिङ्करः ॥
दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम्

2.31.21

ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥
भुक्त्वा दुःखं च वैधव्यं व्याधिं भुक्त्वा ततः शुचिः

2.31.22

या ब्राह्मणी शूद्रभोग्या साऽन्धकूपं प्रयाति च॥
तप्तशौचोदके ध्वान्ते तदाहारा दिवानिशम्

2.31.23

निवसेदतिसन्तप्ता यमदूतेन ताडिता ॥
शौचोदके निमग्ना च यावदिन्द्राश्चतुर्दश

2.31.24

काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥
कुक्कुटी शतजन्मानि शृगाली सप्तजन्मसु

2.31.25

पारावती सप्तजनौ वानरी सप्तजन्मसु ॥
ततो भवेत्सा चण्डाली सर्वभोग्या च भारते

2.31.26

ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली॥
ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः

2.31.27

वेश्या वसेद्वेधने च युग्मी वै दण्डताडने ॥
जालबन्धे महावेश्या कुलटा देहचूर्णके

2.31.28

स्वैरिणी दलने चैव धृष्टा वै शोषणे तथा ॥
निवसेद्यातनायुक्ता यमदूतेन ताडिता

2.31.29

विण्मूत्रभक्षणं तत्र यावन्मन्वन्तरं सति॥
ततो भवेद्विट्कृमिश्च वर्षलक्षं ततः शुचिः

2.31.2.31.30

ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्त्रियामपि क्षत्रियः ॥
वैश्यो वैश्यां च शूद्रां च शूद्रो वाऽपि व्रजेद्यदि

2.31.31

स्ववर्णपरदारी च कषं याति तया सह ॥
भुक्त्वा कषायतप्तोदं निवसेद्द्वादशाब्दकम्

2.31.32

ततो विप्रो भवेच्छुद्धश्चैवं च क्षत्रियादयः ॥
योषितश्चापि शुध्यन्तीत्येवमाह पितामहः

2.31.33

क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वाऽपि पतिव्रते ॥
मातृगामी भवेत्सोऽपि शूर्पं च नरकं व्रजेत्

2.31.34

शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ॥
प्रतप्तमूत्रभोजी च यमदूतेन ताडितः

2.31.39

तत्रैव यातनां भुंक्ते यावदिन्द्राश्चतुर्दश ॥
सप्तजन्मसु वाराहश्छागलश्च ततः शुचिः

2.31.36

करे धृत्वा च तुलसीं प्रतिज्ञां यो न पालयेत् ॥
मिथ्या वा शपथं कुर्य्यात्स च ज्वालामुखं व्रजेत्

2.31.37

गङ्गातोयं करे धृत्वा प्रतिज्ञां यो न पालयेत् ॥
शिलां च देवप्रतिमां स च ज्वालामुखं व्रजेत्

2.31.38

दत्त्वा च दक्षिणं हस्तं प्रतिज्ञां यो न पालयेत् ॥
स्थित्वा देवगृहे वाऽपि स च ज्वालामुखं व्रजेत्

2.31.39

स्पृष्ट्वा च ब्राह्मणं गां च वह्निं विष्णुसमं सति ॥
न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत्

2.31.2.31.40

मित्रद्रोही कृतघ्नश्च यो हि विश्वासघातकः ॥
मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत्

2.31.41

एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ॥
यथाऽङ्गारप्रदग्धाश्च यमदूतैश्च ताडिताः

2.31.42

चण्डालस्तुलसीस्पर्शी सप्तजन्मस्वतः शुचिः ॥
म्लेच्छो गंगाजलस्पर्शी पञ्चजन्मस्वतः शुचिः

2.31.43

शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ॥
अर्च्चास्पर्शी व्रणकृमिस्सप्तजन्मस्वतः शुचिः

2.31.44

दक्षहस्तप्रधाता च सर्पस्स्यात्सप्तजन्मसु ॥
ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः

2.31.45

मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥
विप्रादिस्पर्शकारी च सोऽग्रदानी भवेद्ध्रुवम्

2.31.46

ततो भवन्ति मूकास्ते बधिराश्च त्रिजन्मसु ॥
भार्य्याहीना वंशहीना बुद्धिहीनास्ततः शुचिः

2.31.47

मित्रद्रोही च न कुलः कृतघ्नश्चापि गण्डकः ॥
विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते

2.31.49

मिथ्यासाक्ष्यप्रदश्चैव भल्लूकः सप्तजन्मसु ॥
पूर्वान्सप्त परान्सप्त पुरुषान्हन्ति चात्मनः ॥ ऽ४८ ॥
नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥
यस्यानास्था वेदवाक्ये मन्दं हसति संतमम्॥

2.31.2.31.50

व्रतोपवासहीनश्च सद्वाक्यपरिनिंदकः ॥
जिह्मे जिह्मो वसेत्सोऽपि शताब्दं च हिमोदके

2.31.51

जलजंतुर्भवेत्सोऽपि शतजन्मक्रमेण च ॥
ततो नानाप्रकारा च मत्स्यजातिस्ततः शुचिः

2.31.52

यो वा धनस्यापहारं देवाब्रह्मणयोश्चरेत् ॥
पातयित्वा स्वपुरुषान्दश पूर्वान्दशापरान्

2.31.53

स्वयं याति च धूमांधं धूमध्वांतसमन्वितम् ॥
धूमक्लिष्टो धूमभोजी वसेत्तत्र चतुर्युगम् ॥

2.31.54

ततो मूषकजातिश्च शतजन्मानि भारते ॥
ततो नानाविधाः पक्षिजातयः कृमिजातयः

2.31.55

ततो नानाविधा वृक्षजातयश्च ततो नरः ॥
भार्याहीनो वंशहीनः शबरो व्याधिसंयुतः

2.31.56

ततो भवेत्स्वर्णकारः सुवर्णस्य वणिक्तथा ॥
ततो यवनसेवी च ब्राह्मणो गणकस्ततः

2.31.57

विप्रो दैवज्ञोपजीवी वैद्यजीवी चिकित्सकः ॥
व्यापारी लोहलाक्षादे रसादेर्विक्रयी च यः ॥

2.31.58

स याति नागवेष्टं च नागैर्वेष्टित एव च ॥
वसेत्स्वलोममानाब्दं तत्र वै नागदंशितः

2.31.59

ततो भवेत्स गणको वैद्यो वै सप्तजन्मसु ॥
गोपश्च कर्म्मकारश्च शङ्खकारस्ततः शुचिः

2.31.2.31.60

प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ॥
अन्यानि चाप्रसिद्धानि तत्र क्षुद्राणि सन्ति वै

2.31.61

सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः ॥
भ्रमंति तावत्संसारे किं भूयः श्रोतुमिच्छसि

2.31.31

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने कर्मविपाके पापिनां कुण्डनिर्णयो नामैकत्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc