भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.30

2.30.1

2.30
यम उवाच ॥
हरिसेवारतः शुद्धो योगी सिद्धो व्रतो सति ॥
तपस्वी ब्रह्मचारी च न याति नरकं यतिः

2.30.2

कटुवाचा बान्धवांश्च खलत्वेन च यो नरः ॥
दग्धान्करोति बलवान्वह्निकुण्डं प्रयाति सः

2.30.3

गात्रलोमप्रमाणाब्दं तत्र स्थित्वा हुताशने ॥
पशुयोनिमवाप्नोति रौद्रे दग्धस्त्रिजन्मनि

2.30.4

ब्राह्मणं तृषितं क्षुब्धं प्रतप्तं गृहमागतम् ॥
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः

2.30.5

तत्र लोमप्रमाणाब्दं स्थित्वा तत्र च दुःखितः ॥
तप्तस्थले वह्निकुण्डे पक्षी च सप्तजन्मसु

2.30.6

रविवारार्कसंक्रान्त्याममायां श्राद्धवासरे ॥
वस्त्राणां क्षारसंयोगं करोति यो हि मानवः

2.30.7

स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ॥
स व्रजेद्राजकीं योनिं सप्तजन्मसु भारते

2.30.8

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ॥
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः

2.30.9

षष्टिवर्षसहस्राणि विड्भोजी तत्र तिष्ठति ॥
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि

2.30.2.30.10

परकीयतडागे च तडागं यः करोति च ॥
उत्सृजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः

2.30.11

तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति ॥
भारते गोधिका चैव स भवेत्सप्तजन्मसु

2.30.12

एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति सः ॥
पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति

2.30.13

पूर्णमब्दशतं चैव स प्रेतो भारते भवेत् ॥
श्लेष्ममूत्रगरं चैव पूयं भुङ्क्ते ततः शुचिः

2.30.14

पितरं मातरं चैव गुरुं भार्य्यां सुतं सुताम् ॥
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः

2.30.15

पूर्णमब्दसहस्रं च तद्भोजी तत्र तिष्ठति ॥
ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः

2.30.16

दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ॥
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः

2.30.17

यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत्

2.30.18

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥
ततो नरो भवेद्भूमौ दरिद्रः सप्तजन्मसु

2.30.19

दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि॥
स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम्

2.30.2.30.20

ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः ॥
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ॥
ततो भवेन्मानवश्च दरिद्रोऽल्पायुरेव च

2.30.21

पुमांसं कामिनी वाऽपि कामिनीं वा पुमानथ ॥
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः

2.30.22

पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥
योनिकृमिः शताब्दं च भवेद्भुवि ततः शुचिः

2.30.23

सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ॥
स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम्

2.30.24

ततो भवेद्व्याधजन्म सप्तजन्मसु भारते ॥
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण च

2.30.25

अश्रु स्रवन्तं गायन्तं भक्तं दृष्ट्वा च गद्गदम् ॥
श्रीकृष्णगुणसंगीते हसत्येव हि यो नरः

2.30.26

स वसेदश्रुकुण्डे च तद्भोजी शतवत्सरम् ॥
ततो भवेत्स चण्डालस्त्रिजन्मनि ततः शुचिः

2.30.27

करोति खलतां शश्वदशुद्धहृदयो नरः ॥
कुण्डं गात्रमलानां च स च याति दशाब्दकम्

2.30.28

ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ॥
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्ध्रुवम्

2.30.29

बधिरं यो हसत्येव निन्दत्येव हि मानवः ॥
स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम्

2.30.2.30.30

ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ॥
सप्तजन्मस्वङ्गहीनस्ततः शुद्धिं लभेद्ध्रुवम् ॥

2.30.31

लोभात्स्वपालनार्थाय जीविनं हन्ति यो नरः ॥
मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवर्षकम्

2.30.32

ततो भवेत्स शशको मीनश्च सप्तजन्मसु ॥
एणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम्

2.30.33

स्वकन्यापालनं कृत्वा विक्रीणाति हि यो नरः ॥
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः

2.30.34

कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥
तं च कुण्डे प्रहारं च करोति यमकिङ्करः

2.30.35

मांसभारं मूर्ध्नि कृत्वा रक्तधारां लिहेत्क्षुधा ॥
ततो हि भारते पापी कन्याविट्सु कृमिर्भवेत्

2.30.36

षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥
त्रिजन्मनि वराहश्च कुक्कुरस्सप्तजन्मसु

2.30.37

सप्तजन्मसु मण्डूको जलौकाः सप्तजन्मसु ॥
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्ध्रुवम्

2.30.38

व्रतानामुपवासानां श्राद्धादीनां च संयमे ॥
न करोति क्षौरकर्म सोऽशुचिः सर्वकर्मसु

2.30.39

स च तिष्ठति कुण्डेषु नखादीनां च सुन्दरि ॥
तदेव दिनमानाब्दं तद्भोजी दण्डताडितः

2.30.2.30.40

सकेशं पार्थिवं लिङ्गं यो वाऽर्चयति भारते ॥
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम्

2.30.41

तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥
शताब्दाच्छुद्धिमाप्नोति स्वकुलं लभते ध्रुवम्

2.30.42

पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥
स तिष्ठत्यस्थिकुण्डे च स्वलोमाब्दं महोल्बणे

2.30.43

ततः स्वयोनिं संप्राप्य खञ्जः सप्तसु जन्मसु ॥
भवेन्महादरिद्रश्च ततः शुद्धो हि दण्डतः

2.30.44

यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥
प्रतप्तताम्रकुण्डे च शतवर्षं स तिष्ठति॥

2.30.49

अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥
लौहकुण्डे शताब्दं च स च तिष्ठति तप्तके

2.30.46

स व्रजेद्राजकीं योनिं कर्मकारीं च सप्तसु ॥
महाव्रणी दरिद्रश्च ततः शुद्धो भवेन्नरः ॥

2.30.47

यो हि घर्माक्तहस्तेन देवद्रव्यमुपस्पृशेत् ॥
शतवर्षप्रमाणं च घर्मकुण्डे स तिष्ठति

2.30.48

यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः

2.30.49

ततो भवेच्छ्रद्रयाजी ब्राह्मणः सप्तजन्मसु ॥
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद् ध्रुवम् ॥

2.30.2.30.50

वाग्दुष्टा कटुवाचा या ताडयेत्स्वामिनं सदा ॥
तीक्ष्णकण्टककुण्डे सा तद्भोजी तत्र तिष्ठति

2.30.51

ताडिता यमदूतेन दण्डेन च चतुर्युगम् ॥
तत उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचिः

2.30.52

विषेण जीविनं हन्ति निर्दयो यो हि पामरः ॥
विषकुंडे च तद्भोजी सहस्राब्दं च तिष्ठति॥

2.30.53

ततो भवेन्नृघाती च व्रणी स्यात्सप्तजन्मसु ॥
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्ध्रुवम्

2.30.54

दण्डेन ताडयेद्यो हि वृषं च वृषवाहकः ॥
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते

2.30.55

प्रतप्ततैलकुण्डे च स तिष्ठति चतुर्युगम् ॥
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम्

2.30.56

दन्तेन हन्ति जीवं यो लौहेन बडिशेन वा ॥
दन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति

2.30.57

ततः स्वयोनिं संप्राप्य चोदरव्याधिसंयुतः॥
क्लिष्टेन जन्मनैकेन ततः शुद्धो भवेन्नरः

2.30.58

यो भुंक्ते च वृथा मांसं मत्स्यभोजी च ब्राह्मणः ॥
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः

2.30.59

स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः

2.30.2.30.60

ब्राह्मणः शूद्रयाजी यः शूद्रश्राद्धान्नभोजकः ॥
शूद्राणां शवदाही च पूयकुण्डं व्रजेद्ध्रुवम्

2.30.61

यावल्लोमप्रमाणाब्दं यजमानस्य सुव्रते ॥
ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति

2.30.62

ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥
महाशूली दरिद्रश्च ततः शुद्धः पुनर्द्विजः

2.30.63

लघुं कूरं महान्तं वा सर्पं हन्ति च यो नरः ॥
स्वात्मलोमप्रमाणाब्दं सर्पकुण्डं प्रयाति सः

2.30.64

सर्पेण भक्षितः सोऽपि यमदूतेन ताडितः ॥
वसेच्च सर्पविट्जीवी ततः सर्पो भवेद्ध्रुवम्

2.30.65

ततो भवेन्मानवश्चाप्यल्पायुर्दद्रुसंयुतः ॥
महाक्लेशेन तन्मृत्युः सर्पेण भक्षणं ध्रुवम्

2.30.66

विधिं प्रकल्प्य जीवांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥
सदंशमशके कुण्डे जन्ममानदिनाब्दकम्

2.30.67

दिवानिशं भक्षितस्तैरनाहारश्च शब्दकृत् ॥
बद्धहस्तपदादिश्च यमदूतेन ताडितः

2.30.68

ततो भवेत्क्षुद्रजन्तुर्जातिर्वै यावती स्मृता ॥
ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः

2.30.69

यो मूढो मधु गृह्णाति हत्वा च मधुमक्षिकाः ॥
स एव गरले कुंडे जीवमानदिनाब्दकम्

2.30.2.30.70

भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः

2.30.71

दण्डं करोत्यदंड्ये च विप्रे दण्डं करोति च ॥
स कुण्डं वज्रदंष्ट्राणां कीटानां वै प्रयाति च

2.30.72

तल्लोममानवर्षं च तत्र तिष्ठत्यहर्निशम् ॥
शब्दकृद्भक्षितस्तैश्च ततः शुद्धो भवेन्नरः

2.30.73

अर्थलोभेन यो भूपः प्रजादण्डं करोति च ॥
वृश्चिकानां च कुण्डेषु तल्लोमाब्दं वसेद्ध्रुवम्

2.30.74

ततो वृश्चिकजातिश्च सप्तजन्मसु जायते ॥
ततो नरश्चाङ्गहीनो व्याधियुक्तो भवेद्ध्रुवम्

2.30.75

ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ॥
सन्ध्याहीनश्च मूढश्च हरिभक्तिविहीनकः

2.30.76

स तिष्ठति स्वलोमाब्दं कुण्डादिषु शरादिषु ॥
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः

2.30.77

कारागारे सान्धकारे निबध्नाति प्रजाश्च यः ॥
प्रमत्तः स्वल्पदोषेण गोलकुण्डं प्रयाति सः ॥

2.30.178

तत्कुण्डं तप्ततोयाक्तं सान्धकारं भयङ्करम् ॥
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम्

2.30.79

कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ॥
ततो भवेन्नीचभृत्यस्ततः शुद्धो नरो भुवि

2.30.2.30.80

सरोवरादुत्थितांश्च नक्रादीन्हन्ति यः सति ॥
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः १

2.30.81

ततो नक्रादिजातिश्च भवेन्नद्यादिषु ध्रुवम् ॥
ततः सद्यो विशुद्धो हि दण्डेनैव नरः पुनः

2.30.82

वक्षः श्रोणीस्तनास्यं च यः पश्यति परस्त्रियाः ॥
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते

2.30.83

स वसेत्काककुण्डं च काकैश्च क्षुण्णलोचनः ॥
ततः स्वलोममानाब्दं ततश्चान्धस्त्रिजन्मनि

2.30.84

सप्तजन्मदरिद्रश्च महाक्रूरश्च पातकी ॥
भारते स्वर्णकारश्च स च स्वर्णवणिक्ततः

2.30.89

यो भारते ताम्रचौरो लौहचौरश्च सुन्दरि ॥
स स्वलोमप्रमाणाब्दं वज्रकुण्डं प्रयाति वै

2.30.86

तत्रैव वज्रविड्भोजी वज्रैश्च क्षुण्णलोचनः ॥
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः

2.30.87

भारते देवचौरश्च देवद्रव्यादिहारकः ॥
सुदुष्करे वज्रकुण्डे स्वलोमाब्दं वसेद्ध्रुवम्

2.30.88

देहदग्धो हि तद्वज्रैरनाहारश्च शब्दकृत् ॥
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥

2.30.89

रौप्यगव्यां शुकानां च यश्चौरः सुरविप्रयोः ॥
तप्तपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम्

2.30.2.30.90

त्रिजन्मनि बकः सोऽपि श्वेतहंसस्त्रिजन्मनि ॥
जन्मैकं शङ्खचिल्लश्च ततोऽन्ये श्वेतपक्षिणः

2.30.91

ततो रक्तविकारी च शूली वै मानवो भवेत् ॥
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः

2.30.92

रैत्यकांस्यादिपात्रं च यो हरेत्सुरविप्रयोः ॥
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेद्ध्रुवम्

2.30.93

स भवेदश्वजातिश्च भारते सप्तजन्मसु ॥
ततोऽ धिकाङ्गयुक्तश्च पादरोगी ततः शुचिः

2.30.94

पुंश्चल्यन्नं च यो भुंक्ते पुंश्चलीजीव्यजीवनः ॥
स्वलोममानवर्षं च लालाकुण्डे वसेद्ध्रुवम्

2.30.95

ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥
ततश्चक्षुश्शूलरोगी ततः शुद्धः क्रमेण सः

2.30.96

।
म्लेच्छसेवी मषीजीवी यो विप्रो भारते भुवि ॥
स च तप्तमषीकुण्डे स्वलोमाब्दं वसेद्ध्रुवम्

2.30.97

ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति ॥
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति

2.30.98

त्रिजन्मनि भवेच्छागः कृष्णसर्पस्त्रिजन्मनि ॥
ततश्च तालवृक्षश्च ततः शुद्धो भवेन्नरः

2.30.99

धान्यादि सस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ॥
आसनं च तथा तल्पं चूर्णकुण्डं प्रयाति सः

2.30.2.30.100

शताब्दं तत्र निवसेद्यमदूतेन ताडितः ॥
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि

2.30.101

ततो भवेन्मानवश्च कासव्याधियुतो भुवि ॥
वंशहीनो दरिद्रश्चाप्यल्पायुश्च ततः शुचिः

2.30.102

चक्रं करोति विप्राणां हृत्वा द्रव्यं च यो नरः ॥
स वसेच्चक्रकुण्डे च शताब्दं दंडताडितः

2.30.103

ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ॥
व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः

2.30.104

बान्धवेषु च विप्रेषु कुरुते वक्रतां नरः॥
प्रयाति वज्रकुण्डं च वसेत्तत्र युगं सति

2.30.105

ततो भवेत्स वक्रांगो हीनाङ्गः सप्तजन्मसु ॥
दरिद्रो वंशहीनश्च भार्य्याहीनस्ततः शुचिः

2.30.106

शयने कूर्ममांसं च ब्राह्मणो यो हि भक्षति ॥
कूर्म्मकुण्डे वसेत्सोऽपि शताब्दं कूर्म्मभक्षितः

2.30.107

ततो भवेत्कूर्म्मजन्म त्रिजन्मनि च सूकरः॥
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि

2.30.108

घृततैलादिकं चैव यो हरेत्सुरविप्रयोः ॥
ज्वालकुण्डं स वै याति भस्मकुण्डं च पातकी

2.30.109

तत्र स्थित्वा शताब्दं च स भवेत्तैलपायिकः ॥
सप्तजन्मसु मत्स्यः स्यान्मूषकश्च ततः शुचिः

2.30.2.30.110

सुगन्धितैलं धात्रीं च गन्धद्रव्यं तथैव वा ॥
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः

2.30.111

वसेद्दुर्गन्धकुंडे च दुर्गन्धं च लभेत्सदा ॥
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत्

2.30.112

दुर्गंधिकः सप्तजनौ मृगनाभिस्त्रिजन्मनि ॥
सप्तजन्म सुगंधिश्च ततो वै मानवो भवेत्

2.30.113

बलेनैव खलत्वेन हिंसारूपेण वा सति ॥
बली च यो हरेद्भूमिं भारते परपैतृकीम्

2.30.114

स वसेत्तप्तशूले च भवेत्ततो दिवानिशम् ॥
तप्ततैले यथा जीवो दग्धो भ्रमति सन्ततम्

2.30.115

भस्मसान्न भवत्येव भोगदेहो न नश्यति ॥
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति

2.30.116

शब्दं करोत्यनाहारो यमदूतेन ताडितः ॥
षष्टिवर्षसहस्राणि विट्कृमिर्भारते ततः

2.30.117

ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः ॥
ततः स्वयोनिं संप्राप्य शुभकर्मा भवेत्पुनः

2.30.118

छिनत्ति जीविनः खङ्गैर्दयाहीनः सुदारुणः ॥
नरघाती हन्ति नरमर्थलोभेन भारते

2.30.119

असिपत्रे च स वसेद्यावदिन्द्राश्चतुर्दश ॥
तेषु चेद्ब्राह्मणान्हन्ति शतमन्वन्तरं तदा

2.30.2.30.120

छिन्नाङ्गश्च भवेत्पापी खङ्गधारेण सन्ततम् ॥
अनाहारः शब्दकृच्च यमदूतेन ताडितः

2.30.121

चण्डालः शतजन्मानि भारते सूकरो भवेत् ॥
कुक्कुरः शतजन्मानि सृगालः सप्तजन्मसु

2.30.122

व्याघ्रश्च सप्तजन्मानि वृकश्चैव त्रिजन्मनि ॥
जन्मसप्तसु गंडो स्यान्महिषश्च त्रिजन्मनि

2.30.123

ग्रामं वा नगरं वाऽपि दाहनं यः करोति च ॥
क्षुरधारे वसेत्सोऽपि च्छिन्नाङ्गस्त्रियुगं सति ॥

2.30.124

ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमेन्महीम् ॥
सप्तजन्मामेध्यभोजी खद्योतः सप्तजन्मसु

2.30.125

ततो भवेन्महाशूली मानवः सप्तजन्मसु ॥
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः

2.30.126

परकर्णोपजापेन परनिन्दां करोति यः ॥
परदोषे महातोषी देवब्राह्मणनिन्दकः

2.30.127

सूचीमुखे स च वसेत्सूचीविद्धो युगत्रयम् ॥
ततो भवेद्वृश्चिकश्च सर्पः स्यात्सप्तजन्मसु

2.30.128

वज्रकीटः सप्तजनौ भस्मकीटस्ततः परम् ॥
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः

2.30.129

गृहिणां च गृहं भित्त्वा वस्तुतेयं करोति यः ॥
गाश्च च्छागांश्च मेषांश्च याति गोधामुखं च सः

2.30.2.30.130

ततो भवेत्सप्तजनौ गोजातिर्व्याधिसंयुतः ॥
त्रिजन्ममेषजातिश्च च्छागजातिस्त्रिजन्मनि

2.30.131

ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ॥
भार्य्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः

2.30.132

सामान्यद्रव्यचौरश्च याति नक्रमुखं युगम् ॥
ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥

2.30.133

हन्ति गाश्च गजांश्चैव तुरगांश्च नरांस्तथा ॥
स याति गजदंशं च महापापी युगत्रयम्

2.30.134

ताडितो यमदूतेन गजदन्तेन सन्ततम् ॥
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥
गोजातिम्लेच्छजातिश्च ततः शुद्धो भवेन्नरः

2.30.135

जलं पिबन्तीं तृषितां गां वारयति यो नरः ॥
तच्छुश्रूशाविहीनश्च गोमुखं याति मानवः

2.30.136

नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ॥
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि

2.30.137

ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ॥
सप्त जन्मन्यन्त्यजातिः ततः शुद्धो भवेन्नरः

2.30.138

गोहत्यां ब्रह्महत्यां च यः करोत्यतिदेशिकीम् ॥
यो हि गच्छेदगम्यां च सन्ध्याहीनोऽप्यदीक्षितः

2.30.139

प्रतिग्राही च तीर्थेषु ग्रामयाजी च देवलः ॥
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः

2.30.2.30.140

गोहत्यां ब्रह्महत्यां च स्त्रीहत्यां च करोति यः ॥
मित्रहत्यां भ्रूणहत्यां महापापी च भारते

2.30.141

कुम्भीपाके स च वसेद्यावदिन्द्राश्चतुर्दश ॥
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम्

2.30.142

क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥
क्षणं च तप्ततैलेषु तप्ततोयेषु च क्षणम्

2.30.143

क्षणं च तप्तपाषाणे तप्तलोहे क्षणं ततः ॥
गृध्रकोटिस्रहस्राणि शतजन्मानि सूकरः

2.30.144

काकश्च सप्तजन्मानि सर्पस्स्यात्सप्तजन्मसु ॥
षष्टिवर्षसहस्राणि ततो वै विट्कृमिर्भवेत्

2.30.145

ततो भवेत्स वृषणो गलत्कुष्ठी दरिद्रकः ॥
यक्ष्मग्रस्तो वंशहीनो भार्य्याहीनस्ततः शुचिः

2.30.146

सावित्र्युवाच ॥
ब्रह्महत्या च गोहत्या किंविधा वाऽऽतिदेशिकी ॥
का वा नृणामगम्या वा को वा सन्ध्याविहीनकः

2.30.147

अदीक्षितः पुमान्को वा को वा तीर्थे प्रतिग्रही ॥
द्विजः को वा ग्रामयाजी को वा विप्रश्च देवलः

2.30.148

शूद्राणां सूपकारः कः प्रमत्तो वृषलीपतिः ॥
एतेषां लक्षणं सर्वं वद वेदविदां वर

2.30.149

यम उवाच ॥
श्रीकृष्णे च तदर्च्चायां मृन्मय्यां प्रकृतौ तथा ॥
शिवे च शिवलिङ्गे वा सूर्य्ये सूर्य्यमणौ तथा

2.30.2.30.150

गणेशे वा तदर्च्चायामेवं सर्वत्र सुन्दरि ॥
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

2.30.151

स्वगुरौ स्वेष्टदेवे वा जन्मदातरि मातरि॥
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः

2.30.152

वैष्णवेष्वन्यभक्तेषु ब्राह्मणेष्वितरेषु च ॥
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः

2.30.153

यो मूढो विष्णुनैवेद्ये चान्यनैवेद्यके तथा ॥
हरेः पादोदकेष्वन्यदेवपादोदके तथा ॥
करोति समतां यो हि ब्रह्महत्यां लभेत्तु सः

2.30.154

सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ॥
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि

2.30.155

माययाऽनेकरूपे वाऽप्येक एव हि निर्गुणे ॥
करोत्यन्येन समतां ब्रह्महत्यां लभेत्तु सः

2.30.156

पितृदेवार्चनां पौर्वापरां वेदविनिर्मिताम् ॥
यः करोति निषेधं च ब्रह्महत्यां लभेत्तु सः

2.30.157

ये निन्दन्ति हृषीकेशं तन्मन्त्रोपासकं तथा ॥
पवित्राणां पवित्रं च ब्रह्महत्यां लभन्ति ते

2.30.158

शिवं शिवस्वरूपं च कृष्णप्राणाधिकं प्रियम् ॥
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम्

2.30.159

प्रधानं वैष्णवानां च देवानां सव्यमीश्वरम्॥
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभंति ते

2.30.2.30.160

ये विष्णुमायां निन्दन्ति विष्णुभक्तिप्रदां सतीम् ॥
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम्

2.30.161

सर्वदेवीस्वरूपां च सर्वाद्यां सर्ववन्दिताम् ॥
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते

2.30.162

कृष्णजन्माष्टमीं रामनवमीं पुण्यदां पराम् ॥
शिवरात्रिं तथा चैकादशीं वारं रवेस्तथा

2.30.163

पञ्चपर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ॥
लभन्ते ब्रह्महत्यां ते चाण्डालाधिकपापिनः

2.30.164

अम्बुवीच्यांबुखनने जले शौचादिकं च ये ॥
कुर्वन्ति भारते वत्से ब्रह्महत्यां लभन्ति ते

2.30.165

गुरुं च मातरं तातं साध्वीं भार्य्यां सुतं सुताम् ॥
अनाथान्यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः

2.30.166

विवाहो यस्य न भवेन्न पश्यति सुतं च यः ॥
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः

2.30.167

हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ॥
पुण्यं पार्थिवलिंगं वा ब्रह्महत्यां लभेत्तु सः

2.30.168

आहारं कुर्वतीं गां च पिबन्तीं यो निवारयेत् ॥
याति गोविप्रयोर्म्मध्ये गोहत्यां च लभेत्तु सः

2.30.169

दण्डैर्गास्ताडयेन्मूढो यो विप्रो वृषवाहकः ॥
दिने दिने गवां हत्यां लभते नात्र संशयः

2.30.2.30.170

ददाति गोभ्य उच्छिष्टं योजयेद्वृषवाहकम् ॥
भोजयेद्वृषवाहान्नं स गोहत्यां लभेद्ध्रुवम्॥

2.30.171

वृषलीपतिं याजयेद्यो भुंक्तेऽन्नं तस्य यो नरः ॥
गोहत्याशतकं सोऽपि लभते नात्र संशयः

2.30.172

पादं ददाति वह्नौ च गाश्च पादेन ताडयेत् ॥
गृहं विशेदधौतांघ्रिः स्नात्वा गोवधमाप्नुयात्

2.30.173

यो भुंक्ते स्निग्धपादेन शेते स्निग्धांघ्रिरेव च ॥
सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेद्ध्रुवम्

2.30.174

अवीरान्नं च यो भुंक्ते योनिजीवी च वै द्विजः ॥
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद् ध्रुवम्

2.30.175

पितॄंश्च पर्वकाले च तिथिकाले च देवताम् ॥
न सेवतेऽतिथिं यो हि गोहत्यां स लभेद्ध्रुवम्

2.30.176

स्वभर्तरि च कृष्णे च भेदबुद्धिं करोति या ॥
कटूक्त्या ताडयेत्कान्तं सा गोहत्यां लभेद्ध्रुवम्

2.30.177

गोमार्गखननं कृत्वा वपते सस्यमेव च ॥
तडागे वा तदूर्ध्वं वा स गोहत्यां लभेद्ध्रुवम्

2.30.178

प्रायश्चित्तं गोवधस्य यः करोति व्यतिक्रमम् ॥
अर्थलोभादथाज्ञानात्स गोहत्यां लभेद्ध्रुवम्

2.30.179

राजके दैवके यत्नाद्गोस्वामी गां न पातयेत् ॥
दुःखं ददाति यो मूढो गोहत्यां स लभेद्ध्रुवम्

2.30.2.30.180

प्राणिनं लंघयेद्यो हि देवार्चायां रतं जलम् ॥
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद्ध्रुवम् ॥

2.30.181

शश्वन्नास्तीति वादी यो मिथ्यावादी प्रतारकः ॥
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद्ध्रुवम्

2.30.182

देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ॥
सम्भ्रमान्न नमेद्यो हि स गोहत्यां लभेद्ध्रुवम्

2.30.183

न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ॥
विद्यार्थिने च विद्यां वै स गोहत्यां लभेद्ध्रुवम्

2.30.184

गोहत्या ब्रह्महत्या च कथिता चातिदेशिकी ॥
यथा श्रुतं सूर्य्यवक्त्रात्किं भूयः श्रोतुमिच्छसि

2.30.185

सावित्र्युवाच ॥
वास्तवे चातिदेशे च सम्बन्धे पापपुण्ययोः ॥
न्यूनाधिके च को भेदस्तन्मां व्याख्यातुमर्हसि

2.30.186

यम उवाच ॥
कुत्रापि वास्तवः श्रेष्ठो न्यूनोऽतिदेशिकस्सदा ॥
कुत्रातिदेशिकः श्रेष्ठो वास्तवो न्यून एव च

2.30.187

कुत्र वा समता साध्वि तयोर्वेदप्रमाणतः ॥
करोति तत्र नास्थां यो गुरुहत्यां लभेत्तु सः

2.30.188

पुरा परिचिते विप्रे विद्यामन्त्रप्रदातरि ॥
गुरौ पितृत्वमारोपाद्वस्तुतश्श्रेष्ठ उच्यते

2.30.189

पितुः शतगुणा माता मातुः शतगुणस्तथा॥
विद्या मन्त्रप्रदाता च गुरुः पूज्यः श्रुतेर्मतः

2.30.2.30.190

गुरुतो गुरुपत्नी च गौरवे च गरीयसी ॥
यथेष्टं देवपत्नी च पूज्या चाभीष्टदेवता॥

2.30.191

विप्रः शिवसमो यश्च विष्णुतुल्यपराक्रमः ॥
राजाऽऽतिदेशिकाच्छ्रेष्ठो वास्तवो गुणलक्षतः

2.30.192

सर्वं गङ्गासमं तोयं सर्वे व्याससमा द्विजाः ॥
ग्रहणे सृर्य्यशशिनोश्चात्रैव समता तयोः

2.30.193

आतिदेशिकहत्याया वास्तवश्च चतुर्गुणः ॥
सम्मतः सर्ववेदानामित्याह कमलोद्भवः

2.30.194

आतिदेशिकहत्याया भेदश्च कथितः सति ॥
या याऽगम्या नृणामेव निबोध कथयामि ते

2.30.195

स्वस्त्री गम्या च सर्वेषामिति वेदे निरूपिता ॥
अगम्या च तदन्या या चेति वेदवेदो विदुः

2.30.196

सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ॥
अत्यगम्याश्च या या वै निबोध कथयामि ते

2.30.197

शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ॥
अत्यगम्याऽतिनिन्द्या च लोके वेदे पतिव्रते

2.30.198

शूद्रश्चेद्ब्राह्मणीं गच्छेद्ब्रह्महत्याशतं लभेत् ॥
तत्समं ब्राह्मणी चापि कुम्भीपाकं व्रजेद्ध्रुवम्

2.30.199

यदि शूद्रां व्रजेद्विप्रो वृषलीपतिरेव सः ॥
स भ्रष्टो विप्रजातेश्च चण्डालात्सो ऽधमः स्मृतः

2.30.2.30.200

विष्ठासमश्च तत्पिंडो मूत्रतुल्यं च तर्पणम् ॥
तत्पितॄणां सुराणां च पूजने तत्समं सति

2.30.201

कोटिजन्मार्जितं पुण्यं सन्ध्यार्चातपसाऽर्जितम् ॥
द्विजस्य वृषलीभोगान्नश्यत्येव न संशयः

2.30.202

ब्राह्मणश्च सुरापीती विड्भोजी वृषलीपतिः ॥
हरिवासरभोजी च कुम्भीपाकं व्रजेद्ध्रुवम्

2.30.203

गुरुपत्नीं राजपत्नीं सपत्नीमातरं प्रसूम् ॥
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सति

2.30.204

सोदरभ्रातृजायां च मातुलानीं पितृप्रसूम् ॥
मातुः प्रसूं तत्त्वसारं भगिनीं भ्रातृकन्यकाम् ॥

2.30.205

शिष्यां च शिष्यपत्नीं च भगिनेयस्य कामिनीम् ॥
भ्रातुः पुत्रप्रियां चैवाप्यगम्यामाह पद्मजः

2.30.206

एतास्वेकामनेकां वा यो व्रजेन्मानवोऽधमः ॥
स्वमातृगामी वेदेषु ब्रह्महत्याशतं लभेत्

2.30.207

अकर्म्मार्होऽपि सोऽस्पृश्यो लोके वेदेऽति निन्दितः ॥
स याति कुम्भीपाकं च महापापी सुदुस्तरम्

2.30.208

करोत्यशुद्धां सन्ध्यां च सन्ध्यां वा न करोति यः॥
त्रिसन्ध्यां वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः

2.30.209

वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ॥
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः

2.30.2.30.210

प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ॥
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वरे

2.30.211

तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे॥
वाराणस्यां बदर्य्यां च गङ्गासागरसंगमे

2.30.212

पुष्करे भास्करक्षेत्रे प्रभासे रासमण्डले ॥
हरिद्वारे च केदारे सोमे बदरपावने

2.30.213

सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ॥
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमालये

2.30.214

एष्वन्यत्र च यो दानं प्रतिगृह्णाति कामतः ॥
स च तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति च

2.30.215

शूद्रातिरिक्तयाजी यो ग्रामयाजी च कीर्त्तितः ॥
तथा देवोपजीवी यो देवलः परिकीर्त्तितः

2.30.216

शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ॥
सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः

2.30.217

उक्तं पूर्वप्रकरणे लक्षणं वृषलीपतेः ॥
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते

2.30.218

कुंडान्यन्यानि ते यान्ति निबोध कथयामि ते

2.30.30

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने यमसावित्रीसंवादे कर्मविपाके पापिनरकनिरूपणं शिवप्राशस्त्यं ब्रह्महत्यादिपदार्थपरिभाषानिरूपणं नाम त्रिंशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc