ब्रह्मवैवर्त पुराण · अध्याय 2.21
नारद उवाच ॥
नारायणश्च भगवान्वीर्य्याधानं चकार ह ॥
तुलस्या केन रूपेण तन्मे व्याख्यातुमर्हसि
नारायण उवाच ॥
नारायणश्च भगवान्देवानां साधनेन च ॥
शंखचूडस्य रूपेण रेमे तद्रामया सह
शंखचूडस्य कवचं गृहीत्वा मायया हरिः ॥
पुनर्विधाय तद्रूपं जगाम तुलसीगृहम्
दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ ॥
जयशब्दरवद्वारा बोधयामास सुन्दरीम्
तच्छ्रुत्वा सा च साध्वी च परमानन्दसंयुता ॥
राजमार्गगवाक्षेण ददर्श परमादरात्
ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् ॥
बन्दिभ्यो भिक्षुकेभ्यश्च वाचिकेभ्यो धनं ददौ
अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ ॥
अमूल्यरत्नसंक्लृप्तं सुन्दरं सुमनोहरम्
दृष्ट्वा च पुरतः कान्तं शान्तं कान्ता मुदाऽन्विता ॥
तत्पादं क्षालयामास ननाम च रुरोद च
रत्नसिंहा सने रम्ये वासयामास कामुकी ॥
ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम्
अद्य मे सफलं जन्म ह्यद्य मे सफलाः क्रियाः ॥
रणागतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे
सस्मिता सकटाक्षं च सकामा पुलकाञ्चिता ॥
पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा
तुलस्युवाच ॥
असंख्यविश्वसंहर्त्रा सार्द्धमाजौ तव प्रभो ॥
कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे
तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः ॥
शंखचूडस्य रूपेण तामुवाचानृतं वचः
श्रीहरिरुवाच ॥
आवयोः समरं कान्ते पूर्णमब्दं बभूव ह ॥
नाशो बभूव सर्वेषां दानवानां च कामिनि
प्रीतिं च कारयामास ब्रह्मा च स्वयमावयोः ॥
देवानामधिकारश्च प्रदत्तो ब्रह्मणा पुरा
मयाऽऽगतं स्वभवनं शिवलोकं शिवो गतः ॥
इत्युक्त्वा जगतां नाथः शयनं च चकार ह
रेमे रमापतिस्तत्र रामया सह नारद ॥
सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥
सर्वं वितर्कयामास कस्त्वमेवेत्युवाच ह
तुलस्युवाच ॥
को वा त्वं वद मायेशो भुक्ताऽहं मायया त्वया
दूरीकृतं मत्सतीत्वमथवा त्वां शपामहे ॥
तुलसीवचनं श्रुत्वा हरिः शापभयेन च
दधार लीलया ब्रह्मन्स्वां मूर्तिं सुमनोहराम् ॥
ददर्श पुरतो देवी देवदेवं सनातनम् ॥
नवीननीरद श्यामं शरत्पङ्कजलोचनम्
कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥
ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससा
तं दृष्ट्वा कामिनी कामान्मूर्छां संप्राप लीलया ॥
पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह
हे नाथ ते दया नास्ति पाषाण सदृशस्य च॥
छलेन धर्मभङ्गेन मम स्वामी त्वया हतः
पाषाणसदृशस्त्वं च दयाहीनो यतः प्रभो ॥
तस्मात्पाषाणरूप स्त्वं भुवि देव भवाधुना
ये वदन्ति दयासिन्धुं त्वां ते भ्रान्ता न संशयः ॥
भक्तो विनाऽपराधेन परार्थे च कथं हतः
दुर्वृत्तस्त्वं च सर्वज्ञो न जानासि परव्यथाम् ॥
अतस्त्वमेकजनुषि स्वमेव विस्मरिष्यसि
इत्युक्त्वा च महासाध्वी निपत्य चरणे हरेः ॥
भृशं रुरोद शोकार्त्ता विललाप मुहुर्मुहुः
तस्याश्च करुणां दृष्ट्वा करुणामयसागरः ॥
नारायणस्तां बोधयितुमुवाच कमलापतिः
श्रीभगवानुवाच ॥
तपस्त्वया कृतं साध्वि मदर्थे भारते चिरम् ॥
त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः
कृत्वा त्वां कामिनीं कामी विजहार च तत्फलात् ॥
अधुना दातुमुचितं तवैव तपसः फलम्
इदं शरीरं त्यक्त्वा च दिव्यं देहं विधाय च ॥
रासे मे रमया सार्द्धं त्वं रमासदृशी भव
इयं तनुर्नदीरूपा गण्डकीति च विश्रुता ॥
पूता सुपुण्यदा नृणां पुण्या भवतु भारते
तव केशसमूहाश्च पुण्यवृक्षा भवन्त्विति ॥
तुलसीकेशसम्भूता तुलसीति च विश्रुता
त्रिलोकेषु च पुष्पाणां पत्राणां देवपूजने ॥
प्रधानरूपा तुलसी भविष्यति वरानने
स्वर्गे मर्त्ये च पाताले वैकुण्ठे मम सन्निधौ॥
भवन्तु तुलसीवृक्षा वराः पुष्पेषु सुन्दरि
गोलोके विरजातीरे रासे वृन्दावने भुवि ॥
भाण्डीरे चम्पकवने रम्ये चन्दनकानने
माधवीकेतकीकुन्दमल्लिकामालतीवने ॥
भवन्तु तरवस्तत्र पुष्पस्थानेषु पुण्यदा
तुलसीतरुमूले च पुण्यदेशे सुपुण्यदे ॥
अधिष्ठानं तु तीर्थानां सर्वेषां च भविष्यति
तत्रैव सर्वदेवानां समधिष्ठानमेव च ॥
तुलसीपत्रपतनं प्रायो यत्र वरानने
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
तुलसीपत्रतोयेन योऽभिषेकं समाचरेत्
सुधाघटसहस्रेण सा तुष्टिर्न भवेद्धरेः ॥
या च तुष्टिर्भवेन्नॄणां तुलसीपत्रदानतः
गवामयुतदानेन यत्फलं लभते नरः ॥
तुलसीपत्रदानेन तत्फलं लभते सति
तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् ॥
स मुच्यते सर्वपापाद्विष्णुलोकं स गच्छति
नित्यं यस्तुलसी तोयं भुङ्क्ते भक्त्या च यो नरः ॥
स एव जीवन्मुक्तश्च गंगास्नानफलं लभेत्
नित्यं यस्तुलसीं दत्त्वा पूजयेन्मां च मानवः॥
लक्षाश्वमेधजं पुण्यं लभते नात्र संशयः
तुलसीं स्वकरे धृत्वा देहे धृत्वा च मानवः ॥
प्राणांस्त्यजति तीर्थेषु विष्णु लोकं स गच्छति
तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः ॥
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्
तुलसीं स्वकरे धृत्वा स्वीकारं यो न रक्षति ॥
स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ
करोति मिथ्याशपथं तुलस्या यो हि मानवः ॥
स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ॥
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च॥2.21.५०।
पूर्णिमायाममायां च द्वादश्यां रविसंक्रमे ॥
तैलाभ्यंगे चास्नाते च मध्याह्ने निशि सन्ध्ययोः
आशौचेऽशुचिकाले वा रात्रिवासान्विते नराः ॥
तुलसीं ये च छिन्दन्ति ते छिन्दन्ति हरेः शिरः
त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति ॥
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्चने
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ॥
शुद्धं तु तुल सीपत्रं क्षालनादन्यकर्मणि
वृक्षाधिष्ठात्री देवी या गोलोके च निरामये ॥
कृष्णेन सार्द्धं रहसि नित्यं क्रीडां करिष्यति।५५॥
नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा ॥
लवणोदस्य पत्नी च मदंशस्य भविष्यति
त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ ॥
रमासमा च रासे च भविष्यसि न संशयः
अहं च शैलरूपी च गण्डकीतीरसन्निधौ ॥
अधिष्ठानं करि ष्यामि भारते तव शापतः
वज्रकीटाश्च कृमयो वज्रदंष्ट्राश्च तत्र वै ॥
तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम
एकद्वारे चतुश्चक्रं वनमालाविभूषितम् ॥
नवीननीरदश्यामं लक्ष्मीनारायणाभिधम्
एकद्वारे चतुश्चक्रं नवीननीरदोपमम्॥
लक्ष्मीजनार्दनं ज्ञेयं रहितं वनमालया
द्वारद्वये चतुश्चक्रं गोष्पदेन समन्वितम् ॥
रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥
अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् ॥
दधिवामनाभिधं ज्ञेयं गृहिणां च सुखप्रदम्
अतिक्षुद्रं द्विचक्रं च वनमा लाविभूषितम् ॥
विज्ञेयं श्रीधरं देवं श्रीप्रदं गृहिणां सदा
स्थूलं च वर्तुलाकारं रहितं वनमालया ॥
द्विचकं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्
मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् ॥
रणरामाभिधं ज्ञेयं शरतूणसमन्वितम्
मध्यमं सप्तचक्रं च छत्रतूणसमन्वितम् ॥
राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम्
द्विसप्तचक्रं स्थूलं च नवीनजलदप्रभम् ॥
अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम्
चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् ॥
सगोष्पदं मध्यमं च विज्ञेयं मधुसूद नम्
सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् ॥
द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्त्तितम्
अतीव विस्तृतास्यं च द्विचक्रं विकटं सति ॥
नरसिंहाभिधं ज्ञेयं सद्यो वैराग्यदं नृणाम्
द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् ॥
लक्ष्मीनृसिंहं विज्ञेयं गृहिणां सुखदं सदा
द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् ॥
वासुदेवं च विज्ञेयं सर्वकामफलप्रदम्
प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् ॥
सुषिरे च्छिद्रबहुलं गृहिणां च सुखप्रदम्
द्वे चक्रे चैकलग्ने च पृष्ठे यत्र तु पुष्कलम् ॥
संकर्षणं तु विज्ञेयं सुखदं गृहिणां सदा
अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् ॥
सुखप्रदं गृहस्थानां प्रवदन्ति मनी षिणः
शालग्रामशिला यत्र तत्र सन्निहितो हरिः ॥
तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
तानि सर्वाणि नश्यंति शालग्रामशिलार्च्चनात्
छत्राकारं भवेद्राज्यं वर्तुले च महाश्रियः ॥
दुःखं च शकटाकारे शूलाग्रे मरणं धुवम्
विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च ॥
लग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं धुवम्
व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् ॥
शालग्रामशिलायाश्चैवाधिष्ठानात्प्रशस्तकम्
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत्
सर्वदानेषु यत्पुण्यं प्रादक्षिण्ये भुवो यथा ॥
सर्वयज्ञेषु तीर्थेषु व्रतेष्वनशनेषु च
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च ॥
जीवन्मुक्तो महापूतो भवेदेव न संशयः
पाठे चतुर्णां वेदानां तपसां करणे सति ॥
तत्पुण्यं लभते नृनं शालग्रामशिलार्चनात्
शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः ॥
सुरेप्सितं प्रसादं च जन्ममृत्युजराहरम्
तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखि लानि च ॥
जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम्
तत्रैव हरिणा सार्द्धमसंख्यं प्राकृतं लयम् ॥
पश्यत्येव हि दास्ये च निर्मुक्तो दास्यकर्मणि
यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥
तं च दृष्ट्वा भिया यान्ति वैनतेयमिवो रगाः
तत्पादपद्मरजसा सद्यः पूता वसुन्धरा ॥
पुंसां लक्षं तत्पितॄणां निस्तारस्तस्य जन्मनः
शालग्रामशिला तोयं मृत्युकाल च यो लभेत् ॥
सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति
निर्वाणमुक्तिं लभते कर्मभोगाद्विमुच्यते ॥
विष्णुपादे प्रलीनश्च भविष्यति न संशयः
शालग्रामशिलां धृत्वा मिथ्यावादं वदेत्तु यः॥
स याति कूर्मदंष्ट्रं च यावद्वै ब्रह्मणो वयः
शालग्रामशिलां स्पृष्ट्वा स्वीकारं यो न पालयेत् ॥
स प्रयात्यसिपत्रं च लक्षमन्वन्तराधिकम्
तुलसीपत्र विच्छेदं शालग्रामे करोति यः ॥
तस्य जन्मान्तरे काले स्त्रीविच्छेदो भविष्यति
तुलसीपत्रविच्छेदं शंखे यो हि करोति च ॥
भार्य्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु
शालग्रामं च तुलसीं शंखमेकत्र एव च ॥
यो रक्षति महाज्ञानी स भवे च्छ्रीहरिप्रियः
सकृदेव हि यो यस्यां वीर्य्याधानं करोति यः ॥
तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम्
त्वं प्रिया शंखचूडस्य चैकमन्वन्तरावधि ॥
शंखेन सार्द्ध त्वद्भेदः केवलं दुःखदस्तव
इत्युक्त्वा श्रीहरिस्तां च विरराम च सादरम् ॥
स च देहं परित्यज्य दिव्यरूपं दधार ह
यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि ॥
प्रजगाम तया सार्द्धं वैकुण्ठं कमला पतिः
लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद ॥
हरेः प्रियाश्चतस्रश्च वभूवुरीश्वरस्य च
सद्यस्तद्देहजाता च बभूव गण्डकी नदी ॥
हरेरंशेन शैलश्च तत्तीरे पुण्यदो नृणाम्
कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने ॥
जले पतन्ति या याश्च जलदाभाश्च निश्चितम्
स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्धरेरिति ॥
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारायणनारदसंवादे तुलस्युपाख्यानं एकविंशो ऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0