भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.20

2.20.1

नारायण उवाच ॥
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ॥
ययौ स्वयं च समरं स्वगणैः सह नारद

2.20.2

शंखचूडः शिवं दृष्ट्वा विमानादवरुह्य च ॥
ननाम परया भक्त्या दण्डवत्पतितो भुवि

2.20.3

तं प्रणम्य च वेगेन विमानं ह्यारुरोह सः ॥
तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम्

2.20.4

शिवदानवयोर्युद्धं पूर्णमब्दं बभूव ह ॥
न वै बभूवतुर्ब्रह्मंस्तयोर्जयपराजयौ

2.20.5

न्यस्तशस्त्रश्च भगवान्न्यस्तशस्त्रश्च दानवः ॥
रथस्थः शंखचूडश्च वृषस्थो वृषभध्वजः

2.20.6

दानवानां च शतकमुद्वृत्तं च बभूव ह ॥
रणे ये मृताः शंभोर्जीवयामास तान्विभुः

2.20.7

ततो विष्णुर्महामायो वृद्धब्राह्मणरूपधृक् ॥
आगत्य च रणस्थानमवोचद्दानवेश्वरम्

2.20.8

वृद्धब्राह्मण उवाच ॥
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ॥
त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम्

2.20.9

निराहाराय वृद्धाय तृषितायातुराय च ॥
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति

2.20.2.20.10

ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ॥
कवचार्थी जनश्चाहमित्युवाच स मायया

2.20.11

तच्छ्रुत्वा दानवश्रेष्ठो ददौ कवचमुत्तमम् ॥
गृहीत्वा कवचं दिव्यं जगाम हरिरेव च

2.20.12

शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥
गत्वा तस्यां मायया च वीर्य्याधानं चकार ह

2.20.13

अथ शम्भुर्हरेः शूलं दानवार्थं समग्रहीत् ॥
ग्रीष्ममध्याह्नमार्त्तण्डशतकप्रभमुज्ज्वलम्

2.20.14

नारायणाधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ॥
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम्

2.20.15

किरणावलिसंयुक्तं प्रलयाग्निशिखोपमम् ॥
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥

2.20.16

तेजसा चक्रतुल्यं च सर्वशस्त्रविघातकम् ॥
शिवकेशवयोरन्यद् दुर्वहं च भयंकरम्

2.20.17

धनुस्सहस्रं दैर्घ्येण विस्तृत्या शतहस्तकम् ॥
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्मितम्

2.20.18

संहर्तुं सर्वविध्यण्डमेकदा दैवलीलया ॥
चिक्षेप घूर्णनं कृत्वा शंखचूडे च नारद

2.20.19

राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ॥
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥

2.20.2.20.20

शूलं च भ्रमणं कृत्वा न्यपतद्दानवोपरि ॥
चकार भस्मसात्तं च सरथं चैव लीलया

2.20.21

राजा धृत्वा दिव्यरूपं बालकं गोपवेषकम् ॥
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम्

2.20.22

नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ॥
गोलोकादागतं यानमारुह्य तत्पुरं ययौ

2.20.23

गत्वा ननाम शिरसा राधामाधवयोर्मुने ॥
भक्त्या तच्चरणाम्भोजं रासे वृन्दावने मुने॥
सुदामानं तौ च दृष्ट्वा प्रसन्न वदनेक्षणौ

2.20.24

तदा च चक्रतुः क्रोडे स्नेहेन परिसंप्लुतौ ॥
अथ शूलश्च वेगेन प्रययौ शूलिनः करम्

2.20.25

शङ्करस्तेन शूलेन दानवस्यास्थिजालकम्

2.20.26

प्रेम्णा च प्रेरयामास लवणोदे च सागरे ॥
अस्थिभिः शंखचूडस्य शंखजातिर्बभूव ह ॥

2.20.27

नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने ॥
प्रशस्तं शंखतोयं च देवानां प्रीतिदं परम्

2.20.28

तीर्थतोयस्वरूपं च पवित्रं शंकरं विना ॥
शंखशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा

2.20.29

स स्नातः सर्वतीर्थेषु यः स्नातः शंखवारिणा ॥
शंखं हरेरधिष्ठानं यत्र शंखस्ततो हरिः

2.20.2.20.30

तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् ॥
स्त्रीणां च शंखध्वनिभिः शूद्राणां च विशेषतः ॥
भीता रुष्टा याति लक्ष्मीः स्थलमन्यं स्थलात्ततः

2.20.31

शिवश्च दानवं हत्वा शिवलोकं जगाम सः॥
प्रहृष्टो वृषमारुह्य स्वगणैश्च समावृतः

2.20.32

सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ॥

2.20.33

बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ॥
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः

2.20.20

इति श्रीब्रह्मवैवर्त्ते महापु राणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने शंखचूडवधे शंखप्रस्तावो नाम विंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc