भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.9

1.9.1

सौतिरुवाच ॥
अथ ब्रह्मा स्वपुत्रांस्तानादिदेश च सृष्टये ॥
सृष्टिं प्रचक्रुस्ते सर्वे विप्रेन्द्र नारदं विना

1.9.2

मरीचेर्मनसो जातः कश्यपश्च प्रजापतिः ॥
अत्रेर्नेत्रमलाच्चन्द्रः क्षीरोदे च बभूव ह

1.9.3

प्रचेतसोऽपि मनसो गौतमश्च बभूव ह ॥
पुलस्त्यमानसः पुत्रो मैत्रावरुण एव च

1.9.4

मनोश्च शतरूपायां तिस्रः कन्याः प्रजज्ञिरे ॥
आकूतिर्देवहूतिश्च प्रसूतिस्ताः पतिव्रताः

1.9.5

प्रियव्रतोत्तानपादौ द्वौ च पुत्रौ मनोहरौ ॥
उत्तानपादतनयो ध्रुवः परमधार्मिकः

1.9.6

आकूतिं रुचये प्रादाद्दक्षायाथ प्रसूतिकाम् ॥
देवहूतिं कर्दमाय यत्पुत्रः कपिलः स्वयम्

1.9.7

प्रसूत्यां दक्षबीजेन षष्टिकन्याः प्रजज्ञिरे ॥
अष्टौ धर्माय स ददौ रुद्रायैकादश स्मृताः

1.9.8

शिवायैकां सतीं प्रादात्कश्यपाय त्रयोदश ॥
सप्तविंशति कन्याश्च दक्षश्चन्द्राय दत्तवान्

1.9.9

नामानि धर्मपत्नीनां मत्तो विप्र निशामय ॥
शान्तिः पुष्टिर्धृतिस्तुष्टिः क्षमा श्रद्धा मतिः स्मृतिः

1.9.1.9.10

शान्तेः पुत्रश्च सन्तोषः पुष्टेः पुत्रो महानभूत् ॥
धृतेधैर्य्यं च तुष्टेश्च हर्षदर्पौ सुतौ स्मृतौ

1.9.11

क्षमापुत्रः सहिष्णुश्च श्रद्धापुत्रश्च धार्मिकः ॥
मतेर्ज्ञानाभिधः पुत्रः स्मृतेर्जातिस्मरो महान्

1.9.12

पूर्वपत्न्यां च मूर्त्यां च नरनारायणावृषी ॥
बभूवुरेते धर्मिष्ठा धर्मपुत्राश्च शौनक

1.9.13

नामानि रुद्रपत्नीनां सावधानं निबोध मे ॥
कला कलावती काष्ठा कालिका कलहप्रिया

1.9.14

कन्दली भीषणा रास्ना प्रमोचा भूषणा शुकी ॥
एतासां बहवः पुत्रा बभूवुः शिवपार्षदाः

1.9.15

सा सती स्वामिनिन्दायां तनुं तत्याज यज्ञतः ॥
पुनर्भूत्वा शैलपुत्री लेभे सा शङ्करं पतिम्

1.9.16

कश्यपस्य प्रियाणां च नामानि शृणु धार्मिक ॥
अदितिर्देवमाता वै दैत्यमाता दितिस्तथा

1.9.17

सर्पमाता तथा कद्रूर्विनता पक्षिसूस्तथा ॥
सुरभिश्च गवां माता महिषाणां च निश्चितम्

1.9.18

सारमेयादिजन्तूनां सरमा सूश्चतुष्पदाम् ॥
दनुः प्रसूर्दानवानामन्याश्चेत्येवमादिकाः

1.9.19

इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरा मुने ॥
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः

1.9.1.9.20

इन्द्रपुत्रो जयन्तश्च ब्रह्मञ्शच्यामजायत ॥ ।
आदित्यस्य सवर्णायां कन्यायां विश्वकर्मणः

1.9.21

शनैश्चरयमौ पुत्रौ कालिन्दी कन्यका तथा ॥
उपेंद्रवीर्य्यात्पृथ्व्यां तु मङ्गलः समजायत

1.9.22

शौनक उवाच ॥
कथं सौते स चोपेद्रान्मङ्गलः समजायत ॥
वसुन्धरायां बलवांस्तन्मे व्याख्यातुमर्हसि

1.9.23

सौतिरुवाच ॥
उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ॥
विधाय सुन्दरीवेषमक्षता प्रौढयौवना

1.9.24

मलये निर्जने रम्ये चारुचन्दनपल्लवे ॥
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम्

1.9.25

तं सुशीलं शयानं च शान्तं सस्मितमीप्सितम् ॥
सस्मिता तस्य तल्पे च सहसा समुपस्थिता

1.9.26

सुरम्यां मालतीमालां ददौ तस्मै वरानना ॥
सुगन्धि चन्दनं चारु कस्तूरीकुङ्कुमान्वितम्

1.9.27

उपेन्द्रस्तन्मनो ज्ञात्वा कामिनीं कामपीडिताम् ॥
नानाप्रकारशृङ्गारं चकार च तया सह

1.9.28

तदङ्गसङ्गसंसक्ता मूर्छां प्राप सती तदा ॥
मृतेव निद्रितेवासौ बीजाधानं कृते हरौ

1.9.29

तां विलग्नां च सुश्रोणीं सुखसम्भोगमूर्छिताम् ॥
बृहन्मुक्तनितम्बां च स स्मितां विपुलस्तनीम्

1.9.1.9.30

क्षणं वक्षसि कृत्वा तां तदोष्ठं च चुचुम्ब ह ॥
विहाय तत्र रहसि जगाम पुरुषोत्तमः

1.9.31

उर्वशी पथि गच्छन्ती बोधयामास तां मुने ॥
सा च पप्रच्छ वृत्तान्तं कथयामास भूश्च ताम्

1.9.32

वीर्य्यसंवरणं कर्तुं सा चाशक्ता च दुर्बला ॥
प्रवालस्याकरे त्रस्ता वीर्य्यन्यासं चकार सा

1.9.33

तेन प्रवालवर्णश्च कुमारः समपद्यत ॥
तेजसा सूर्य्यसदृशो नारायण सुतो महान्

1.9.34

मङ्गलस्य प्रिया मेधा तस्य घण्टेश्वरो महान्॥
व्रणदाताऽतितेजस्वी विष्णुतुल्यो बभूव ह

1.9.35

दितेर्हिरण्यकशिपुहिरण्याक्षौ महाबलौ ॥
कन्या च सिंहिका विप्र सैंहिकेयश्च तत्सुतः

1.9.36

निरृतिः सिंहिका सा च तेन राहुश्च नैरृतः॥
सूकरेण हिरण्याक्षोऽप्यनपत्यो मृतो युवा

1.9.37

हिरण्यकशिपोः पुत्रः प्रह्रादो वैष्णवाग्रणीः ॥
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम्

1.9.38

बलेः पुत्रो महायोगी ज्ञानी शङ्करकिंकरः ॥
दितेर्वंशश्च कथितः कद्रूवंशं निबोध मे

1.9.39

अनन्तं वासुकिं चैव कालीयं च धनञ्जयम् ॥
कर्कोटकं तक्षकं च पद्ममैरावतं तथा

1.9.1.9.40

महापद्मं च शंकुं च शंखं संवरणं तथा ॥
धृतराष्ट्रं च दुर्द्धर्षं दुर्जयं दुर्मुखं बलम्

1.9.41

गोक्षं गोकार्मुकं चैव विरूपादींश्च शौनक ॥
न तेषां प्रवराश्चैव यावत्यः सर्पजातयः

1.9.42

कन्यका मनसा देवी कमलांशसमुद्भवा ॥
तपस्विनीनां प्रवरा महातेजस्विनी शुभा

1.9.43

यत्पतिश्च जरत्कारुर्नारायणकुलोद्भवः ॥
आस्तीकस्तनयो यस्या विष्णुतुल्यश्च तेजसा

1.9.44

एतेषां नाममात्रेण नास्ति नागभयं नृणाम् ॥
कद्रूवंशो निगदितो विनतायाः शृणुष्व मे

1.9.45

वैनतेयारुणौ पुत्रौ विष्णुतुल्यपराक्रमौ ॥
तौ बभूवुः क्रमेणैव यावत्यः पक्षिजातयः

1.9.46

गावश्च महिषाश्चैव सुरभिप्रवरा इमे ॥
सर्वे वै सारमेयाश्च बभूवुः सरमासुताः ॥

1.9.47

दानवाश्च दनोर्वंशा अन्यास्सामान्यजातयः ॥
उक्तः कश्यपवंशश्च चन्द्राख्यानं निबोध मे

1.9.48

नामानि चन्द्रपत्नीनां सावधानं निशामय ॥
अत्यपूर्वं च चरितं पुराणेषु पुरातनम्

1.9.49

अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ॥
मृगशीर्षा तथाऽऽर्द्रा च पूज्या साध्वी पुनर्वसुः

1.9.1.9.50

पुष्याऽऽश्लेषा मघा पूर्वफल्गुन्युत्तरफल्गुनी ॥
हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका

1.9.51

ज्येष्ठा मूला तथा पूर्वाऽऽषाढा चैवोत्तरा स्मृता ॥
श्रवणा च धनिष्ठा च तथा शतभिषक् शुभा

1.9.52

पूर्वा भाद्रोत्तराभाद्रा रेवत्यन्ता विधुप्रियाः ॥
तासां मध्ये च सुभगा रोहिणी रसिका वरा

1.9.53

सन्ततं रसभावेन चकार शशिनं वशम् ॥
रोहिण्युपगतश्चन्द्रो न यात्यन्यां च कामिनीम्

1.9.54

सर्वा भगिन्यः पितरं कथयामासुरादृताः ॥
सपत्नीकृतसन्तापं प्राणनाशकरं परम्

1.9.55

दक्षः प्रकुपितश्चन्द्रमशपन्मन्त्रपूर्वकम् ॥
द्रुतं श्वशुरशापेन यक्ष्मग्रस्तो बभूव सः

1.9.56

दिने दिने यक्ष्मणा स क्षीयमाणश्च दुःखितः ॥
वपुष्यर्द्धं क्षीयमाणे शंकरं शरणं ययौ

1.9.57

दृष्ट्वा चन्द्रं शंकरश्च क्लेशितं शरणागतम् ॥
करुणासागरस्तस्मै कृपया चाभयं ददौ

1.9.58

निर्मुक्तं यक्ष्मणा कृत्वा स्वकपोले स्थलं ददौ ॥
अमरो निर्भयो भूत्वा स तस्थौ शिवशेखरे

1.9.59

तं शिवः शेखरे कृत्वा चाभवच्चन्द्रशेखरः ॥
नास्ति देवेषु लोकेषु शिवाच्छरणपंजरः

1.9.1.9.60

दक्षकन्याः पतिं मुक्तं दृष्ट्वा च रुरुदुः पुनः ॥
आजग्मुः शरणं तातं दक्षं तेजस्विनां वरम्

1.9.61

उच्चैश्च रुरुदुर्गत्वा निहत्याङ्गं पुनः पुनः ॥
तमूचुः कातरं दीना दीननाथं विधेः सुतम्

1.9.62

दक्षकन्या ऊचुः ॥
स्वामिसौभाग्यलाभाय त्वमुक्तोऽस्माभिरेव च ॥
सौभाग्यमस्तु नस्तात गतः स्वामी गुणान्वितः

1.9.63

स्थिते चक्षुषि हे तात दृष्टं ध्वान्तमयं जगत् ॥
विज्ञातमधुना स्त्रीणां पतिरेव हि लोचनम्

1.9.64

पतिरेव गतिः स्त्रीणां पतिः प्राणाश्च सम्पदः ॥
धर्मार्थकाममोक्षाणां हेतुः सेतुर्भवार्णवे

1.9.65

पतिर्नारायणः स्त्रीणां व्रतं धर्मः सनातनः ॥
सर्वं कर्म वृथा तासां स्वामिनां विमुखाश्च याः

1.9.66

स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा ॥
सर्वदानानि पुण्यानि व्रतानि नियमाश्च ये

1.9.67

देवार्चनं चानशनं सर्वाणि च तपांसि च ॥
स्वामिनः पादसेवायाः कलां नार्हंति षोडशीम्

1.9.68

सर्वेषां बान्धवानां च प्रियः पुत्रश्च योषिताम् ॥
स एव स्वामिनोंऽशश्च शतपुत्रात्परः पतिः

1.9.69

असद्वंशप्रसूता या सा द्वेष्टि स्वामिनं सदा ॥
यस्या मनश्चलं दुष्टं सन्ततं परपूरुषे

1.9.1.9.70

पतितं रोगिणं दुष्टं निर्धनं गुणहीनकम् ॥
युवानं चैव वृद्धं वा भजेत्तं न त्यजेत्सती

1.9.71

सगुणं निर्गुणं वापि द्वेष्टि या संत्यजेत्पतिम् ॥
पच्यते कालसूत्रे सा यावच्चंद्रदिवाकरौ

1.9.72

कीटैः शुनकतुल्यैश्च भक्षिता सा दिवानिशम् ॥
भुङ्क्ते मृतवसामांसं पिबेन्मूत्रं च तृष्णया

1.9.73

गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः ॥
श्वापदः शतजन्मानि सा भवेद्बन्धुहा ततः

1.9.74

ततो मानवजन्मानि लभेच्चेत्पूर्वकर्मणः ॥
विधवा धनहीना च रोगयुक्ता भवेद् ध्रुवम्

1.9.75

देहि नः कान्तदानं च कामपूरं विधेः सुत ॥
विधात्रा सदृशस्त्वं च पुनः स्रष्टुं क्षमो जगत्

1.9.76

कन्यानां वचनं श्रुत्वा दक्षः शंकरसन्निधिम् ॥
जगाम शम्भुस्तं दृष्ट्वा समुत्थाय ननाम च

1.9.77

दक्षस्तस्याशिषं कृत्वा समुवाच कृपानिधिम् ॥
तत्याज कोपं दुर्द्धषो दृष्ट्वा च प्रणतं शिवम्

1.9.78

दक्ष उवाच ॥
देहि जामातरं शम्भो मदीयं प्राणवल्लभम् ॥
मत्सुतानां च प्राणानां परमेव प्रियं पतिम्

1.9.79

न चेद्ददासि जामातर्मम जामातरं विधुम् ॥
दास्यामि दारुणं शापं तुभ्यं त्वं केन मुच्यसे

1.9.1.9.80

दक्षस्य वचनं श्रुत्वा तमुवाच कृपानिधिः ॥
सुधाधिकं च वचनं ब्रह्मञ्शरणपञ्जरः

1.9.81

शिव उवाच ॥
करोषि भस्मसाच्चेन्मां दद्या वा शापमेव च ॥
नाहं दातुं समर्थश्च चन्द्रं च शरणागतम्

1.9.82

शिवस्य वचनं श्रुत्वा दक्षस्तं शप्तुमुद्यतः ॥
शिवः सस्मार गोविन्दं विपन्मोक्षणकारकम्

1.9.83

एतस्मिन्नन्तरे कृष्णो वृद्धब्राह्मणरूपधृक्॥
समाययौ तयोर्मूलं तौ तं च नमतुः क्रमात्

1.9.84

दत्त्वा शुभाशिषं तौ स ब्रह्मज्योतिः सनातनः ॥
उवाच शङ्करं पूर्वं परिपूर्णतमो द्विज

1.9.85

श्रीभगवानुवाच ॥
न चात्मनः प्रियः कश्चिच्छर्व सर्वेषु बन्धुषु ॥
आत्मानं रक्ष दक्षाय देहि चन्द्रं सुरेश्वर

1.9.86

तपस्विनां वरः शान्तस्त्वमेवं वैष्णवाग्रणीः ॥
समः सर्वेषु जीवेषु हिंसाक्रोधविवर्जितः

1.9.87

दक्षः क्रोधी च दुर्द्धर्षस्तेजस्वी ब्रह्मणः सुतः ॥
शिष्टो बिभेति दुर्द्धर्षं न दुर्द्धर्षश्च कंचन

1.9.88

नारायणवचः श्रुत्वा हसित्वा शङ्करः स्वयम् ॥
उवाच नीतिसारं च नीतिबीजं परात्परम्

1.9.89

शङ्कर उवाच ॥
तपो दास्यामि तेजश्च सर्वसिद्धिं च सम्पदम् ॥
प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम्

1.9.1.9.90

यो ददाति भयेनैव प्रपन्नं शरणागतम् ॥
तं च धर्मः परित्यज्य याति शप्त्वा सुदारुणम्

1.9.91

सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो ॥
यः स्वधर्मविहीनश्च स च सर्वबहिष्कृतः

1.9.92

यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति ॥
धर्मं वेदेश्वर त्वं च किं मां ब्रूहि स्वमायया

1.9.93

त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः ॥
त्वयि भक्तिर्दृढा यस्य तस्य कस्माद्भयं भवेत्

1.9.94

शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित् ॥
चन्द्रं चन्द्राद्विनिष्कृष्य दक्षाय प्रददौ हरिः

1.9.95

प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे ॥
निजग्राह परं चन्द्रं विष्णुदत्तं प्रजापतिः

1.9.96

यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम् ॥
पक्षे पूर्णं क्षतं पक्षे तं चकार हरिः स्वयम्

1.9.97

कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज ॥
दक्षश्चन्द्रं गृहीत्वा च कन्याभ्यः प्रददौ पुनः

1.9.98

चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम् ॥
समं ददर्श ताः सर्वास्तत्प्रभृत्येव कम्पितः

1.9.99

इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने ॥
श्रुतं च गुरुवक्त्रेण पुष्करे मुनिसंसदि

1.9.9

इति श्रीबह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे नवमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc