ब्रह्मवैवर्त पुराण · अध्याय 1.10
सौतिरुवाच ॥
भृगोः पुत्रश्च च्यवनः शुक्रश्च ज्ञानिनां वर ॥
क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत
त्रयः पुत्राश्चाङ्गिरसो बभूवुर्मुनिसत्तमाः ॥
बृहस्पतिरुतथ्यश्च शम्बरश्चापि शौनक
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥
पराशरसुतः श्रीमान्कृष्णद्वैपायनो हरिः
व्यासपुत्रः शिवांशश्च शुकश्च ज्ञानिनां वरः ॥
विश्वश्रवाः पुलस्त्यस्य यस्य पुत्रो धनेश्वरः
शौनक उवाच ॥
अहो पुराण वदुषामत्यन्तं दुर्गमं वचः ॥
न बुद्धं वचनं किंचिद्धनेशोत्पत्तिपूर्वकम्
अधुना कथितं जन्म धनेशस्येश्वरादिदम् ॥
पुनर्भिंन्नक्रमं जन्म ब्रवीषि कथमेव माम्
सौतिरुवाच ॥
बभूवुरेते दिक्पालाः पुरा च परमेश्वरात् ॥
पुनश्च ब्रह्मशापेन स च विश्वश्रवस्सुतः
गुरवे दक्षिणां दातुमुतथ्यश्च धनेश्वरम् ॥
ययाचे कोटिसौवर्णं यत्नतश्च प्रचेतसे
धनेशो विरसो भूत्वा तस्मै तद्दातुमुद्यतः ॥
चकार भस्मसाद्विप्र पुनर्जन्म ललाभ सः
तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः ॥
रावणः कुम्भकर्णश्च धार्मिकश्च विभीषणः
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः ॥
सावर्णिर्गौतमाज्जज्ञे मुनिप्रवर एव सः
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः ॥
स्वयं वात्स्यश्च पुलहात्सावर्णिर्गौतमात्तथा
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः ॥
बभूवुः पञ्चगोत्राश्च एतेषां प्रवरा भवे
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः॥
ताः स्थिता देशभेदेषु गोत्रशून्याश्च शौनक
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः ॥
ब्रह्मणो बाहुदेशाच्चैवान्याः क्षत्रियजातयः
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ॥
तासां सङ्करजातेन बभूवुर्वर्णसङ्कराः
गोपनापितभिल्लाश्च तथा मोदककूबरौ ॥
ताम्बूलिस्वर्णकारौ च वणिग्जातय एव च
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः ॥
शूद्राविशोस्तु करणोऽम्बष्ठो वैश्यद्विजन्मनोः
विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः ॥
ततो बभूवुः पुत्राश्च नवैते शिल्पकारिणः
मालाकारः शङ्खकारः कर्मकारः कुविन्दकः ॥
कुम्भकारः कांस्यकारः षडेते शिल्पिनां वराः
सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च ॥
पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ॥
शौनक उवाच ॥
कथं देवो विश्वकर्मा वीर्य्याधानं चकार सः ॥
शूद्रायामधमायां च कथं ते पतितास्त्रयः
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना ॥
हे पुराणविदां श्रेष्ठ तन्नः शंसितुमर्हसि
सौतिरुवाच ॥
घृताची कामतः कामं वेषं चक्रे मनोहरम् ॥
तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानमः ॥
तां ययाचे स शृङ्गारं कामेन हृतचेतनः
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम् ॥
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्
बृहन्नितम्ब भारार्तां मुनिमानसमोहिनीम् ॥
अतिवेगकटाक्षेण लोलां कामातिपीडिताम्
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृतांशुकाम् ॥
अतीवोच्चैः स्तनयुगं कठिनं वर्तुलं परम्
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम् ॥
पक्वबिम्बफलारक्तस्वोष्ठाधरमनोहरम्
सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् ॥
कपोलमुज्ज्वलं शश्वन्महार्हमणिकुण्डलम्
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः ॥
कामाग्निवर्द्धनोद्योगि वचनं श्रुतिसुन्दरम्
विश्वकर्मोवाच ॥
अयि क्व यासि ललिते मम प्राणाधिके प्रिये ॥
मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम् ॥
स्वप्राणांस्त्यक्तुमिष्टोऽहं त्वां न दृष्ट्वा हुताशने
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम् ॥
आगच्छमहमेवाद्य चास्मिन्वर्त्मन्यवस्थितः
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे ॥
सुगन्धिमन्दशीतेन वायुना सुरभीकृते
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने॥
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत्
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी॥
कामुकी कोमलाङ्गी च सुन्दरीषु च सुन्दरी
मृत्युंजयवरेणैव मृत्युकन्या जिता मया ॥
कुबेरभवनं गत्वा धनं लब्धं कुबेरतः
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम् ॥
वह्निशुद्धं वस्त्रयुगं वह्नेः प्राप्तं महौजसः
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारम्॥
शृङ्गारशिल्पं यत्किञ्चिल्लब्धं चन्द्राच्च दुर्लभम्
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च ॥
तुभ्यं दातुं हृदि कृतं प्राप्तं तत्क्षणमेव च
गृहे तानि च संस्थाप्य चागतोऽन्वेषणे भवे ॥
विरामे सुखसम्भोगे तुभ्यं दास्यामि साम्प्रतम्
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने ॥
ददौ प्रत्युत्तरं शीघ्रं नीतियुक्तं मनोहरम्
घृताच्युवाच ॥
त्वया यदुक्तं भद्रं तत्स्वीकरोम्यधुना परम् ॥ ।
किन्तु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर
कामदेवालयं यामि कृतवेषा च तत्कृते ॥
यद्दिने यत्कृते यामो वयं तेषां च योषितः
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना ॥
त्वयोक्तमधुनेदं च पठितं कामदेवतः
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः ॥
मातुः सहस्रगुणवान्नास्त्यन्यस्तत्समो गुरुः
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता॥
पितुः शतगुणं पूज्या यथा माता विचक्षण
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुतः ॥
ततो लक्षगुणो दोषो गुरुपत्नीसमागमे
मातरित्येव शब्देन यां च सम्भाषते नरः ॥
स मातृतुल्या सत्येन धर्मः साक्षी सतामपि
तया हि संगतो यस्स्यात्कालसूत्रं प्रयाति सः ॥
तत्र घोरे वसत्येव यावच्चन्द्रदिवाकरौ
मात्रा सह समायोगे ततो दोषश्चतुर्गुणः ॥
सार्द्धं च गुरुपत्न्या च तल्लक्षगुण एव च
कुम्भीपाके पतत्येव यावद्वै ब्रह्मणो वयः ॥
प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम्
चक्राकारं कुलालस्य तीक्ष्णधारं च खङ्गवत् ॥
वसामूत्रपुरीषैश्च परिपूर्णं सुदुस्तरम्
शूलवत्कृमिसंयुक्तं तप्तमग्निसमं द्रवत् ॥
पापिनां तद्विहारं च कुम्भीपाकप्रकीर्तितम्
यावान्दोषो हि पुंसां च गुरुपत्नीसमागमे ॥
तावांश्च गुरुपत्न्यां वै तत्र चेत्कामुकी यदि
अद्य यास्यामि कामस्य मन्दिरं तस्य कामिनी ॥
वेषं कृत्वा गमिष्यामि त्वत्कृतेऽहं दिनान्तरे
घृताचीवचनं श्रुत्वा विश्वकर्मा रुरोष ताम् ॥
शशाप शूद्रयोनिं च व्रजेति जगतीतले
घृताची तद्वचः श्रुत्वा तं शशाप सुदारुणम् ॥
लभ जन्म भवे त्वं च स्वर्गभ्रष्टो भवेति च
घृताची कारुमुक्त्वा च साऽगच्छत्काममन्दिरम् ॥
कामेन सुरतं कृत्वा कथयामास तां कथाम्
सा भारते च कामोक्त्या गोपस्य मदनस्य च ॥
पत्न्यां प्रयागे नगरे लेभे जन्म च शौनक
जातिस्मरा तत्प्रसूता बभूव च तपस्विनी ॥
वरं न वव्रे धर्मिष्ठा तपस्यायां मनो दधौ
तपश्चकार तपसा तप्तकाञ्चनसन्निभा ॥
दिव्यं च शतवर्षं सा गङ्गातीरे मनोरमे
वीर्येण सुरकारोश्च नव पुत्रान्प्रसूय सा ॥
पुनः स्वलोकं गत्वा च सा घृताची बभूव ह
शौनक उवाच ॥
कथं वीर्य्यं सा दधार सुरकारोस्तपस्विनी ॥
पुत्रान्नव प्रसूता च कुत्र वा कति वासरान्
सौतिरुवाच ॥
विश्वकर्मा तु तच्छापं समाकर्ण्य रुषाऽन्वितः ॥
जगाम ब्रह्मणः स्थानं शोकेन हृतचेतनः
नत्वा स्तुत्वा च ब्रह्माणं कथयामास तां कथाम् ॥
ललाभ जन्म ब्राह्मण्यां पृथिव्यामाज्ञया विधेः
स एव ब्राह्मणो भूत्वा भुवि कारुर्बभूव ह ॥
नृपाणां च गृहस्थानां नानाशिल्पं चकार ह
शिल्पं च कारयामास सर्वेभ्यः सर्वतः सदा ।
विचित्रं विविधं शिल्पमाश्चर्य्यं सुमनोहरम्
एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च ॥
स्नातुं जगाम गङ्गां स चापश्यत्तत्र कामिनीम्
घृताचीं नवरूपां च युवतिं तां तपस्विनीम् ॥
जातिस्मरां तां बुबुधे स च जातिस्मरो द्विज
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः ॥
उवाच मधुरं शान्तः शान्तां तां च तपस्विनीम्
ब्राह्मण उवाच ॥
अहोऽधुना त्वमत्रैव घृताचि सुमनोहरे ॥
मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च
शापमोक्षं करिष्यामि भज मां तव सुन्दरि॥
त्वत्कृतेऽतिदहत्येव मनो मे स च मन्मथः॥
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी॥
उवाच मधुरं शान्ता नीतियुक्तं परं वचः
गोपिकोवाच॥
तद्दिने कामकान्ताऽहमधुना च तपस्विनी ॥
कथं त्वया संगता स्यां गंगातीरे च भारते
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम् ॥
अत्र यत्क्रियते कर्म भोगोऽन्यत्र शुभाशुभम्
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात् ॥
निबद्धः कुरुते कर्म मोहितो विष्णुमायया
माया नारायणीशाना परितुष्टा च यं भवेत् ॥
तस्मै ददाति श्रीकृष्णो भक्तिं तन्मन्त्रमीप्सितम्
यो मूढो विषयासक्तो लब्धजन्मा च भारते ॥
विहाय कृष्णं सर्वेशं स मुग्धो विष्णुमायया
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा ॥
घृताची सुरवेश्याऽहमधुना गोपकन्यका
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे ॥
नात्र स्थलं च क्रीडायाः स्थिरस्त्वं भव कामुक
अन्यत्र यत्कृतं पापं गंगायां तद्विनश्यति ॥
गंगातीरे कृतं पापं सद्यो लक्षगुणं भवेत्
तत्तु नारायणक्षेत्रे तपसा च विनश्यति ॥
यद्येव कामतः कृत्वा निवृत्तश्च भवेत्पुनः
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः ॥
जगाम तां गृहीत्वा च मलयं चन्दनालयम्
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ॥ ।
पुष्पचन्दनवातेन संततं सुरभीकृते
चकार सुखसम्भोगं तया स विजने वने ॥
पूर्णं द्वादशवर्षं च बुबुधे न दिवानिशम्
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः॥
सा सुषाव च तत्रैव पुत्रान्नव मनोहरान्
कृतशिक्षितशिल्पांश्व ज्ञानयुक्तांश्च शौनक॥
पूर्णप्राक्तनतो युग्यान्बलयुक्तान्विचक्षणान्
मालाकारान्कर्मकाराञ्छङ्खकारान्कुविन्दकान् ॥
कुम्भकारान्सूत्रकारान्स्वर्णचित्रकरांस्तथा
तौ च तेभ्यो वरं दत्त्वा तान्संस्थाप्य महीतले ॥
मानवीं तनुमुत्सृज्य जग्मतुर्निजमन्दिरम्
स्वर्णकारः स्वर्णचौर्याद्ब्राह्मणानां द्विजोत्तम ॥
बभूव पतितः सद्यो ब्रह्मशापेन कर्मणा
सूत्रकारो द्विजानां तु शापेन पतितो भुवि ॥
शीघ्रं च यज्ञकाष्ठानि न ददौ तेन हेतुना
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ॥
पतितो ब्रह्मशापेन ब्राह्मणानां च कोपतः॥९४।
कश्चिद्वणिग्विशेषश्च संसर्गात्स्वर्णकारिणः ॥
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः
कुलटायां च शूद्रायां चित्रकारस्य वीर्य्यतः ॥
बभूवाट्टालिकाकारः पतितो जारदोषतः
अट्टालिकाकारबीजात्कुम्भकारस्य योषिति ॥
बभूव कोटकः सद्यः पतितो गृहकारकः
कुम्भकारस्य बीजेन सद्यः कोटकयोषिति ॥
बभूव तैलकारश्च कुटिलः पतितो भुवि॥
सद्यः क्षत्रियबीजेन राजपुत्रस्य योषिति ॥
बभूव तीवरश्चैव पतितो जारदोषतः
तीवरस्य तु बीजेन तैलकारस्य योषिति॥
बभूव पतितो दस्युर्लेटश्च परिकीर्तितः
लेटस्तीवरकन्यायां जनयामास षट् सुतान् ॥
माल्लं मन्त्रं मातरं च भण्डं कोलं कलन्दरम्
ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः ॥
सद्यो बभूव चण्डालः सर्वस्मादधमोऽशुचिः ॥
तीवरेण च चण्डाल्यां चर्मकारो बभूव ह ॥
चर्मकार्य्यां च चण्डालान्मांसच्छेदो बभूव ह
मांसच्छेद्यां तीवरेण कोञ्चश्च परिकीर्तितः ॥
कोञ्चस्त्रियां तु कैवर्त्तात्कर्त्तारः परिकीर्तितः
सद्यश्चण्डालकन्यायां लेटवीर्य्येण शौनक ॥
बभूवतुस्तौ द्वौ पुत्रौ दुष्टौ हड्डिडमौ तथा
क्रमेण हड्डिकन्यायां सद्यश्चण्डालवीर्य्यतः ॥
बभूवुः पञ्च पुत्राश्च दुष्टा वनचराश्च ते
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक ॥
बभूव सद्यो यो बालो गङ्गापुत्रः प्रकीर्तितः
गङ्गापुत्रस्य कन्यायां वीर्य्याद्वै वेषधारिणः ॥
बभूव वेषधारी च पुत्रो युङ्गी प्रकीर्तितः
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह ॥
शुण्डीयोषिति वैश्यानु पौण्ड्रकश्च बभूव ह
क्षत्रात्करणकन्यायां राजपुत्रो बभूव ह ॥
राजपुत्र्यां तु करणादागरीति प्रकीर्तितः
क्षत्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्तितः ॥
कलौ तीवरसंसर्गाद्धीवरः पतितो भुवि
तीवर्यां धीवरात्पुत्रो बभूव रजकः स्मृतः ॥
रजक्यां तीवराच्चैव कोयालीति बभूव ह
नापिताद्गोपकन्यायां सर्वस्वी तस्य योषिति ॥
क्षत्राद्बभूव व्याधश्च बलवान्मृगहिंसकः
तीवराच्छुण्डिकन्यायां बभूवुः सप्त पुत्रकाः ॥
ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ॥
कुत्सितश्चोदरे जातः कूदरस्तेन कीर्तितः
तदशौचं विप्रतुल्यं पतितश्चर्तुदोषतः ॥
सद्यः कोटकसंसर्गादधमो जगतीतले
क्षत्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे ॥
जातः पुत्रो महादस्युर्बलवांश्च धनुर्द्धरः
चकार वागतीतं च क्षत्रियेणापि वारितः ॥
तेन जात्याः स पुत्रश्च वागतीतः प्रकीर्तितः
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ॥
बलवन्तो दुरन्ताश्च बभूवुर्म्लेच्छजातयः
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्जयाः ॥
शौचाचारविहीनाश्च दुर्द्धर्षा धर्मवर्जिताः
म्लेच्छात्कुविन्दकन्यायां जोला जातिर्बभूव ह॥ ।
जोलात्कुविन्दकन्यायां शराङ्कः परिकीर्तितः
वर्णसङ्करदोषेण बह्व्यश्चाश्रुतजातय ॥
तासां नामानि संख्याश्च को वा वक्तुं क्षमो द्विज
वैद्योऽश्विनीकुमारेण जातो विप्रस्य योषिति ॥
वैद्यवीर्य्येण शूद्रायां बभूवुर्बहवो जनाः
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ॥
तेभ्यश्च जाताः शूद्रायां ये व्यालग्राहिणो भुवि
शौनक उवाच ॥
कथं ब्राह्मणपत्न्यां तु सूर्य्यपुत्रोऽश्विनीसुतः ॥
अहो केनाविवेकेन वीर्य्याधानं चकार ह
सौतिरुवाच ॥
गच्छन्तीं तीर्थयात्रायां ब्राह्मणीं रविनन्दनः ॥
ददर्श कामुकः शान्तः पुष्पोद्याने च निर्जने
तया निवारितो यत्नाद्बलेन बलवान्सुरः ॥
अतीव सुन्दरीं दृष्ट्वा वीर्य्याधानं चकार सः
द्रुतं तत्याज गर्भं सा पुष्पोद्याने मनोहरे ॥
सद्यो बभूव पुत्रश्च तप्तकाञ्चनस न्निभः
सपुत्रा स्वामिनो गेहं जगाम व्रीडिता सदा ॥
स्वामिनं कथयामास यन्मार्गे दैवसङ्कटम्
विप्रो रोषेण तत्याज तं च पुत्रं स्वकामिनीम् ॥
सरिद्बभूव योगेन सा च गोदावरी स्मृता
पुत्रं चिकित्साशास्त्रं च पाठयामास यत्नतः ॥
नानाशिल्पं च मंत्रं च स्वयं स रविनन्दनः
विप्रश्च वेतनाज्योतिर्गणनाच्च निरन्तरम् ॥
वेदधर्मपरित्यक्तो बभूव गणको भुवि
लोभी विप्रश्च शूद्राणामग्रे दानं गृहीतवान् ॥
ग्रहणे मृतदानानामग्रादानो बभूव सः
कश्चित्पुमान्ब्रह्मयज्ञे यज्ञकुण्डात्समुत्थितः ॥
स सूतो धर्मवक्ता च मत्पूर्वपुरुषः स्मृतः
पुराणं पाठयामास तं च ब्रह्मा कृपानिधिः ॥
पुराणवक्ता सूतश्च यज्ञकुण्डसमुद्भवः
वैश्यायां सूतवीर्य्येण पुमानेको बभूव ह ॥
स भट्टो वावदूकश्च सर्वेषां स्तुतिपाठकः
एवं ते कथितः किंचित्पृथिव्यां जातिनिर्णय ॥
वर्णसङ्करदोषेण बह्व्योऽन्याः सन्ति जातयः
सबन्धो येषु येषां यः सर्वजातिषु सर्वतः ॥
तत्त्वं ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा
पिता तातस्तु जनको जन्मदाता प्रकीर्तितः ॥
अम्बा माता च जननी जनयित्री प्रसूरपि
पितामहः पितृपिता तत्पिता प्रपितापहः ॥
अत ऊर्ध्वं ज्ञातयश्च सगोत्राः परिकीर्तितः
मातामहः पिता मातुः प्रमातामह एव च ॥
मातामहस्य जनकस्तत्पिता वृद्धपूर्वकः
पितामही पितुर्माता तच्छ्वश्रूः प्रपितामही ॥
तच्छ्वश्रूश्च परिज्ञेया सा वृद्धप्रपितामही
मातामही मातृमाता मातृतुल्या च पूजिता ॥
प्रमातामहीति ज्ञेया प्रमातामहकामिनी
वृद्धमातामही ज्ञेया पत्पितुः कामिनी तथा ॥
पितृभ्राता पितृ व्यश्च मातृभ्राता च मातुलः
पितृष्वसा पितुर्मातृष्वसा मातुस्स्वसा स्मृता ॥
सूनुश्च तनयः पुत्रो दायादश्चात्मजस्तथा॥
धनभाग्वीर्य्यजश्चैव पुंसि जन्ये च वर्त्तते ॥
जन्यायां दुहिता कन्या चात्मजा परिकीर्तिता
पुत्रपत्नी वधू ज्ञेया जामाता दुहितुः पतिः ॥
पतिः प्रियश्च भर्ता च स्वामीकान्ते च वर्तते
देवरः स्वामिनो भ्राता ननांदा स्वामिनः स्वसा ॥
श्वशुरः स्वामिनस्तातः श्वश्रूश्च स्वामिनः प्रसूः
भार्य्या जाया प्रिया कान्ता स्त्री व पत्नी प्रकीर्तिता ॥
पत्नीभ्राता श्यालकश्च स्वसा पत्न्याश्च श्यालिका
पत्नीमाता तथा श्वश्रूस्तत्पिता श्वशुरः स्मृतः ॥
सगर्भः सोदरो भ्राता सगर्भा भगिनी स्मृता
भगिनीजो भागिनेयो भ्रातृजो भ्रातृपुत्रकः ॥
आवुत्तो भगिनीकान्तो भगिनीपतिरेव च
श्यालीपतिस्तु भ्राता च श्वशुरैकत्वहेतुना ॥
श्वशुरस्तु पिता ज्ञेयो जन्मदातुः समो मुने
अन्नदाता भयत्राता पत्नीतातस्तथैव च ॥
विद्यादाता जन्मदाता पंचैते पितरो नृणाम्
अन्नदातुश्च या पत्नी भगिनी गुरुकामिनी
माता च तत्सपत्नी च कन्या पुत्रप्रिया तथा
मातुर्माता पितुर्माता श्वश्रूपित्रोः स्वसा तथा॥
पितृव्यस्त्री मातुलानी मातरश्च चर्तुदश
पौत्रस्तु पुत्रपुत्रे च प्रपौत्रस्तत्सुतेऽपि च ॥
तत्पुत्राद्याश्च ये वंश्याः कुलजाश्च प्रकीर्तिताः
कन्यापुत्रश्च दौहित्रस्तत्पुत्राद्याश्च बांधवाः॥
भागिनेयसुताद्याश्च पुरुषा बांधवाः स्मृताः
भ्रातृपुत्रस्य पुत्राद्यास्ते पुनर्ज्ञातयः स्मृताः ॥
गुरुपुत्रस्तथा भ्राता पोष्यः परमबान्धवः
गुरुकन्या च भगिनी पोष्या मातृसमा मुने॥
पुत्रस्य च गुरुर्भ्राता पोष्यः सुस्निग्धबान्धवः
पुत्रस्य श्वशुरो भ्राता बन्धुर्वैवाहिकः स्मृतः॥
कन्यायाः श्वशुरे चैव तत्सम्बन्धः प्रकीर्तितः
गुरुश्च कन्यकायाश्च भ्राता सुस्निग्धबान्धवः ॥
गुरुश्वशुरभ्रातॄणां गुरुतुल्यः प्रकीर्तितः
बन्धुता येन सार्द्ध च तन्मित्रं परिकीर्तितम् ॥
मित्रं सुखप्रदं ज्ञेयं दुःखदो रिपुरुच्यते
बान्धवो दुःखदो दैवान्निस्सम्बन्धोऽसुखप्रदः ॥
सम्बन्धास्त्रिविधाः पुंसां विप्रेन्द्र जगतीतले
विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ॥
मित्रं तु प्रीतिजं ज्ञेयं स सम्बधः सुदुर्लभः
मित्रमाता मित्रभार्य्या मातृतुल्या न संशयः॥
मित्रभ्राता मित्रपिता भ्रातृतातसमौ नृणाम्
चतुर्थं नामसम्बन्धमित्याह कमलोद्भवः॥
जारश्चोपपर्तिर्बन्धुर्दुष्टा सम्भोगकर्त्तरि
उपपत्न्यां नवज्ञा च प्रेयसी चित्तहारिणी ॥
स्वामितुल्यश्च जारश्च नवज्ञा गृहिणी समा
सम्बन्धो देशभेदे च सर्वदेशे विगर्हितः ॥
अवैदिको निन्दितस्तु विश्वामित्रेण निर्मितः
दुस्त्यजश्च महद्भिस्तु देशभेदे विधीयते ॥
अकीर्तिजनकः पुंसां योषितां च विशेषतः
तेजीयसां न दोषाय विद्यमाने युगे युगे
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे जातिसम्बन्धनिर्णयो नाम दशमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0