भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.15

1.15.1

ब्राह्मण उवाच ॥
केन रोगेण हि मृतोऽधुना साध्वि तव प्रियः ॥
सर्वरोगचिकित्सां च जानामि च चिकित्सकः

1.15.2

मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति ॥
महाज्ञानेन तं जीवं जीवयाम्यवलीलया

1.15.3

राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः॥
निबध्य दातुं शक्तोऽहं व्याधो बद्ध्वा पशुं यथा

1.15.4

यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम् ॥
व्याधीनां कारणं यद्यत्सर्वं जानामि सुन्दरि

1.15.5

यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम् ॥
तदुपायं विजानामि शास्त्रतत्त्वानुसारतः

1.15.6

यो वा योगेन खेदेन देहत्यागं करोति च ॥
तस्य तं जीवनोपायं जानामि योगधर्मतः

1.15.7

ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती ॥
सस्मिता स्निग्धचित्ता सा तमुवाच प्रहर्षिता

1.15.8

मालावत्युवाच ॥
अहो श्रुतं किमाश्चर्य्यं वचनं वालवक्त्रतः ॥
वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम्

1.15.9

त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम ॥
विपरीतं न सद्वाक्यं तत्क्षणं जीवितः पतिः

1.15.1.15.10

जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः ॥
यद्यत्पृच्छामि सन्देहात्तद्भवान्वक्तुमर्हति

1.15.11

सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ ॥
त्वां हि प्रष्टुं न शक्ताऽहं विद्यमाने मदीश्वरे

1.15.12

एते ब्रह्मादयो देवा विद्यमानाश्च संसदि ॥
त्वं च वेदविदां श्रेष्ठो न च कश्चिन्मदीश्वरः

1.15.13

नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः ॥
शास्तिं करोति यदि स न कोऽपि रक्षिता भुवि

1.15.14

एवं देवेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः ॥
स्त्री पुम्भावश्च बोद्धव्यः स्वामी कर्त्ता च योषिताम्

1.15.15

स्वामी कर्त्ता च हर्त्ता च शास्ता पोष्टा च रक्षिता ॥
अभीष्टदेवः पूज्यश्च न गुरुः स्वामिनः परः

1.15.16

कन्या सत्कुलजाता या सा कान्तवशवर्तिनी ॥
या स्वतन्त्रा च सा दुष्टा स्वभावात्कुटिला ध्रुवम्

1.15.17

दुष्टा परपुमांसं च सेवते या नराधमा ॥
सा निन्दति पतिं शश्वदसद्वंशप्रसूतिका

1.15.18

उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ॥
वधूर्गन्धर्वराजस्य कान्तभक्ता सदा द्विज

1.15.19

सर्वं कालयितुं शक्तस्त्वं च वेदविदां वर ॥
कालं यमं मृत्युकन्यां मदभ्याशं समानय

1.15.1.15.20

मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः ॥
सभामध्ये समाहूय तान्प्रत्यक्षं चकार ह

1.15.21

ददर्श मृत्युकन्यां च प्रथमं मालती सती ॥
कृष्णवर्णां घोररूपां रक्ताम्बरधरां वराम्

1.15.22

सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम् ॥
कालस्य स्वामिनो वामे चतुष्षष्टिसुतान्विताम्

1.15.23

कालं नारायणांशं च ददर्श पुरतः सती ॥
महोग्ररूपं विकटं ग्रीष्मसूर्य्यसमप्रभम्

1.15.24

षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम् ॥
षट्पादं कृष्णवर्णं च रक्ताम्बरधरं परम्

1.15.25

देवस्य देवं विकृतं सर्वसंहाररूपिणम् ॥
कालाधिदेवं सर्वेशं भगवन्तं सनातनम्

1.15.26

ईषद्धास्यप्रसन्नास्यमक्षमालाकरं वरम् ॥
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम्

1.15.27

सती ददर्श पुरतो व्याधिसंघान्सुदुर्जयान् ॥
वयसाऽतिमहावृद्धान्स्तनन्धान्मातृसन्निधौ

1.15.28

स्थूलपादं कृष्णवर्णं धर्मिष्ठं रविनन्दनम् ॥
जपन्तं परमं ब्रह्म भगवन्तं सनातनम्

1.15.29

धर्माधर्मविचारज्ञं परं धर्मस्वरूपिणम् ॥
पापिनामपि शास्तारं ददर्श पुरतो यमम्

1.15.1.15.30

तांश्च दृष्ट्वा च निःशङ्का पप्रच्छ प्रथमं यमम् ॥
मालावती महासाध्वी प्रहष्टवदनेक्षणा

1.15.31

मालावत्युवाच ॥
हे धर्मराज धर्मिष्ठ धर्मशास्त्रविशारद॥
कालव्यतिक्रमे कान्तं कथं हरसि मे विभो॥

1.15.32

यम उवाच ॥
अप्राप्तकालो म्रियते न कश्चिज्जगतीतले ॥
ईश्वराज्ञां विना साध्वि नामृतं चालयाम्यहम्

1.15.33

अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः ॥
निषेकेण प्राप्तकालं कालयन्तीश्वराज्ञया

1.15.34

मृत्युकन्या विचारज्ञा यं प्राप्नोति निषेकतः ॥
तमहं कालयाम्येव पृच्छतां केन हेतुना

1.15.35

मालावत्युवाच ॥
त्वमपि स्त्री मृत्युकन्या जानासि स्वामिवेदनम् ॥
कथं हरसि मत्कान्तं जीवितायां मयि प्रिये

1.15.36

मृत्युकन्योवाच ॥
पुरा विश्वसृजा सृष्टाऽप्यहमेवात्र कर्मणि ॥
न च क्षमा परित्यक्तुं बहुना तपसा सति

1.15.37

सती सतीनां मध्ये च काचित्तेजस्विनी वरा ॥
मामेव भस्मसात्कर्तुं क्षमा यदि भवेद्भवे

1.15.38

सर्वापच्छान्तिरेवेह तदा भवति सुन्दरि ॥
पुत्राणां स्वामिनः पश्चाद्भविता यद्भविष्यति

1.15.39

कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयश्च वै ॥
न मत्सुतानां दोषश्च न च मे शृणु निश्चितम्

1.15.1.15.40

पृच्छ कालं महात्मानं धर्मज्ञं धर्मसंसदि ॥
तदा यदुचितं भद्रे तत्करिष्यसि निश्चितम्

1.15.41

मालावत्युवाच ॥
हे काल कर्मणां साक्षिन्कर्मरूप सनातन ॥
नारायणांशो भगवन्नमस्तुभ्यंपराय च

1.15.42

कथं हरसि मत्कान्तं जीवितायां मयि प्रभो ॥
जानासि सर्वदुःखं च सर्वज्ञस्त्वं कृपानिधे

1.15.43

कालपुरुष उवाच ॥
को वाऽहं को यमः का च मृत्युकन्या च व्याधयः ॥
वयं भ्रमामः सततमीशाज्ञापरिपालकाः

1.15.44

यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः ॥
सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः

1.15.45

ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः॥
जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः

1.15.46

यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात् ॥
स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया

1.15.47

संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात् ॥
धर्मश्च कर्मणां साक्षी यस्याज्ञापरिपालकः

1.15.48

राशि चक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात् ॥
दिगीशाश्चैव दिक्पाला यस्याज्ञापरिपालकाः

1.15.49

यस्याज्ञया च तरवः पुष्पाणि च फलानि च ॥
बिभ्रत्येव ददत्येव काले मालावतीसति

1.15.1.15.50

यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा ॥
क्षमावती पृथिवी कम्पिता न भयेन च

1.15.51

सहसा मोहिता माया मायया यस्य सन्ततम् ॥
सर्वप्रसूर्या प्रकृतिः सा भीता यद्भयादहो

1.15.52

यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि ॥
पुराणानि च सर्वाणि यस्यैव स्तुतिपाठकाः

1.15.53

यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट् ॥
षोडशांशो भगवतः स एव तेजसो विभोः

1.15.54

सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः ॥
सर्वविघ्नविनाशाय तं कृष्णं परिचिन्तय

1.15.55

सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः ॥
इमे यत्प्रेरिताः सर्वे स दाता सर्व सम्पदाम्

1.15.56

इत्युक्त्वा कालपुरुषो विरराम च शौनक ॥
कथां कथितुमारेभे पुनरेव तु ब्राह्मणः

1.15.15

इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे मालावतीकालपुरुषसंवादे पञ्चदशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc