भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 1.14

1.14.1

सौतिरुवाच ॥
तत्र स्थित्वा क्षणं देवा ब्रह्मेशानपुरोगमाः ॥
ययुर्मालावतीमूलं परं मङ्गलदायकाः

1.14.2

मालावती सुरान्दृष्ट्वा प्रणनाम प्रतिव्रता ॥
रुरोद कान्तं संस्थाप्य देवानां सन्निधौ मुने

1.14.3

एतस्मिन्नन्तरे तत्र कश्चिद्ब्राह्मणबालकः ॥
आजगाम सुराणां च सभामतिमनोहरः

1.14.4

दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ॥
दीर्घपुस्तकहस्तश्च सुप्रशान्तश्च सुस्मितः

1.14.5

चन्दनोक्षितसर्वाङ्गः प्रज्वलन्ब्रह्मतेजसा ॥
सुरान्संभाष्य तत्रैव विस्मितान्विष्णुमायया

1.14.6

तत्रोवास सभामध्ये तारामध्ये यथा शशी ॥
उवाच देवान्सर्वांश्च मालतीं च विचक्षणः

1.14.7

ब्राह्मण उवाच॥
कथमत्र सुराः सर्वे ब्रह्मेशानपुरोगमाः ॥
स्वयं विधाता जगतां स्रष्टा वै केन कर्मणा

1.14.8

सर्वब्रह्माण्डसंहर्त्ता शम्भुरत्र स्वयं विभुः॥
अहो त्रिजगतां साक्षी धर्मो वै सर्वकर्मणाम्

1.14.9

कथं रविः कथं चन्द्रः कथमत्र हुताशनः ॥
कथं कालो मृत्युकन्या कथं वाऽत्र यमादयः॥

1.14.1.14.10

हे मालावति ते क्रोडे कोऽतिशुष्कश्शवोऽनघे ॥
जीवितायाः कथं मूले योषितश्च पुमाञ्छवः

1.14.11

इत्युक्त्वा तांश्च तां विप्रो विरराम सभातले ॥
मालावती तं प्रणम्य समुवाच विचक्षणम्

1.14.12

मालावत्युवाच ॥ आनन्दपूर्वकं वन्दे विप्ररूपं जनार्दनम् ॥
तुष्टा देवा हरिस्तुष्टो यस्य पुष्पजलेन च

1.14.13

अवधानं कुरु विभो शोकार्ताया निवेदने ॥
समा कृपा सतां शश्वद्योग्या योग्ये कृपावताम्

1.14.14

उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च ॥
सर्वे मालावतीं कृत्वा वदन्ते विप्रपुङ्गव

1.14.15

दिव्यं लक्षयुगं रम्ये स्थाने स्थाने मनोहरे ॥
कृता स्वच्छन्दतः क्रीडा चानेन स्वामिना सह

1.14.16

प्रिये स्नेहो हि साध्वीनां यावान्विप्रेन्द्र योषिताम् ॥
सर्व शास्त्रानुसारेण जानासि त्वं विचक्षण

1.14.17

अकस्माद्ब्रह्मणः शापात्प्राणांस्तत्याज मत्पतिः॥
देवानुद्दिश्य विलपे यथा जीवति मत्पतिः

1.14.18

स्वकार्य्यसाधने सर्वे व्यग्राश्च जगतीतले ॥
भावाभावं न जानन्ति केवलं स्वार्थतत्पराः ॥

1.14.19

सुखं दुःखं भयं शोकं सन्तापः कर्मणां नृणाम् ॥
ऐश्वर्य्यं परमानन्दो जन्म मृत्युश्च मोक्षणम्

1.14.1.14.20

देवाश्च सर्वज नका दातारः कर्मणां फलम्॥
कर्त्तारः कर्मवृक्षाणां मूलच्छेदं च लीलया

1.14.21

न हि देवात्परो बन्धुर्न हि देवात्परो बली॥
दयावान्न हि देवाच्च न च दाता ततः परः

1.14.22

सर्वान्देवानहं याचे पतिदानं ममेप्सितम् ॥
धर्मार्थकाममोक्षाणां फलदांश्च सुरद्रुमान्

1.14.23

यदि दास्यन्ति देवा मे कान्तदानं यथेप्सितम् ॥
भद्रं तदाऽन्यथा तेभ्यो दास्यामि स्त्रीवधं ध्रुवम्

1.14.24

शपिष्यामि च सर्वांश्च दारुणं दुर्निवारकम् ॥
दुर्निवार्य्यः सतीशापस्तपसा केन वार्य्यते

1.14.25

इत्युक्त्वा मालती साध्वी शोकार्ता सुरसंसदि ॥
विरराम द्विजश्रेष्ठस्तामुवाच च शौनक

1.14.26

ब्राह्मण उवाच ॥
कर्मणां फलदातारो देवाः सत्यं च मालति ॥
न सद्यः सुचिरेणैव धान्यं कृषकवन्नृणाम्

1.14.27

गृही च कृषकद्वारा क्षत्रे धान्यं वपेत्सति ॥
तदङ्कुरो भवेत्काले काले वृक्षः फलत्यपि

1.14.28

काले सुपक्वं भवति काले प्राप्नोति तद्गृही ॥
एवं सर्वं समुन्नेयं चिरेण कर्मणः फलम्

1.14.29

अष्ठी वपति संसारे गृहस्थो विष्णुमायया ॥
काले तदङ्कुरो वृक्षः काले प्राप्नोति तत्फलम्

1.14.1.14.30

पुण्यवान्पुण्यभूमौ च करोति सुचिरं तपः ॥
तेषां च फलदातारो देवाः सत्यं न संशयः

1.14.31

ब्राह्मणानां मुखे क्षेत्रे श्रेष्ठेऽनूषर एव च ॥
यो यज्जुहोति भक्त्या च स तत्प्राप्नोति निश्चितम्

1.14.32

न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः ॥
नैव स्त्री न च सत्कान्तः किं भवेत्तपसा विना

1.14.33

सेवते प्रकृतिं यो हि भक्त्या जन्मनि जन्मनि॥
स लभेत्सुन्दरीं कान्तां विनीतां च गुणान्विताम्

1.14.34

श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम् ॥
प्रकृतेश्च वरेणैव लभेद्भक्तोऽवलीलया

1.14.35

शिवं शिवस्वरूपं च शिवदं शिवकारणम् ॥
ज्ञानानन्दं महात्मानं परं मृत्युंजयं परम्

1.14.36

तमीशं सेवते यो हि भक्त्या जन्मनि जन्मनि ॥
पुमान्प्राप्नोति सत्कान्तां कामिनी चापि सत्पतिम्

1.14.37

विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम् ॥
बलं धनं विक्रमं च लभेद्धरवरेण सः

1.14.38

ब्रह्माणं भजते यो हि लभेत्सोऽपि प्रजां श्रियम् ॥
विद्यामैश्वर्य्यमानन्दं वरेण ब्रह्मणो नरः

1.14.39

यो नरो भजते भक्त्या दीननाथं दिनेश्वरम् ॥
विद्यामारोग्यमानन्दं धनं पुत्रं लभेद् धुवम्

1.14.1.14.40

गणेश्वरं यो भजते देवदेवं सनातनम् ॥
सर्वाग्रपूज्यं सर्वेशं भक्त्या जन्मनि जन्मनि

1.14.41

विघ्ननाशो भवेत्तस्य स्वप्ने जागरणेऽनिशम् ॥
परमानन्दमैश्वर्य्यं पुत्रं पौत्रं धनं प्रजाः

1.14.42

ज्ञानं विद्यां सुकवितां लभते तद्वरेण च ॥
भजते यो हि विष्णुं च लक्ष्मीकान्तं सुरेश्वरम्

1.14.43

वरार्थी चेल्लभेत्सर्वं निर्वाणमन्यथा ध्रुवम् ॥
शान्तं निषेव्य पातारं सत्यं सत्यं लभेन्नरः

1.14.44

सर्वं तपः सर्वधर्मं यशः कीर्तिमनुत्तमाम् ॥
विष्णुं निषेव्य सर्वेशं यो मूढो लभते वरम्

1.14.45

विडम्बितो विधात्राऽसौ मोहितो विष्णुमायया ॥
माया नारायणीशाना सर्वप्रकृतिरीश्वरी

1.14.46

सा कृपां कुरुते यं च विष्णुमन्त्रं ददाति तम् ॥
धर्मं यो भजते धर्मी सर्वधर्मं लभेद् ध्रुवम्

1.14.47

इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥
यो यं देवं भजेद्भक्त्या स चादौ लभते च तम्

1.14.48

काले पश्चात्तेन सार्द्धं परं विष्णोः पदं लभेत् ॥
श्रीकृष्णं भजते यो हि निर्गुणं प्रकृतेः परम्

1.14.49

ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम् ॥
अक्षरं परमं ब्रह्म भगवन्तं सनातनम्

1.14.1.14.50

साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् ॥
सर्वाधारं च सर्वेशं परमानन्दमीश्वरम्

1.14.51

निर्लिप्तसाक्षिरूपं च भक्तानुग्रहविग्रहम् ॥
जीवन्मुक्तः स सत्यं हि न वरं लभते सुधीः

1.14.52

स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम् ॥
ब्रह्मत्वममरत्वं वा मोक्षं यत्तुच्छवत्सति

1.14.93

ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते ॥
इन्द्रत्वं च मनुत्वं च चिरजीवित्वमेव वा

1.14.54

जल बुद्बुदवद् बुद्ध्या चातितुच्छं न गण्यते ॥
स्वप्ने जागरणे वाऽपि शश्वत्सेवां च वाच्छति

1.14.59

दास्यं विना न याचेत श्रीकृष्णस्य पदं परम् ॥
तत्पादाब्जे दृढां भक्तिं लब्ध्वा पूर्णो निरन्तरम्

1.14.56

परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरः सदा ॥
आत्मनः कुलकोटिं च शतं मातामहस्य च

1.14.57

श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया ॥
दासं दासीं प्रसूं भार्यां पुत्रादपि परं शतम्॥

1.14.58

उद्धरेत्कृष्णभक्तश्च गोलोकं याति निश्चितम् ॥
तावद्गर्भे वसेत्कामी तावती यमयातना

1.14.59

तावद्गृही च भोगार्थी यावत्कृष्णं न सेवते ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रविश्यति

1.14.1.14.60

यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया ॥
मधुपर्कादिकं ब्रह्मा पुरैव तन्नियोजयेत्

1.14.61

अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति॥
तस्य वै निष्कृतिर्नास्ति कल्पकोटिशतैरपि

1.14.62

दुरितानि च भीतानि कोटिजन्मकृतानि च ॥
तं विहाय पलायन्ते वैनतेयं यथोरगाः

1.14.63

पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम् ॥
छिनत्ति कृष्णश्चक्रेण तीक्ष्णधारेण सन्ततम्

1.14.64

तं विहाय जरा मृत्युर्याति चक्रभिया सति ॥
अन्यथा शतखण्डं तां कुरुते च सुदर्शनः

1.14.65

निःशङ्को याति गोलोकं विहाय मानवीं तनुम् ॥
गत्वा दिव्यां तनुं धृत्वा श्रीकृष्णं सेवते सदा

1.14.66

यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा ॥
निमेषं मन्यते दासो नश्वरं ब्रह्मणो वयः

1.14.14

इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे विष्णुमालावतीसंवादो नाम चतुर्दशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc