ब्रह्मवैवर्त पुराण · अध्याय 1
अथ ब्रह्मखण्डम्
१ ग्रन्थादौ मङ्गलाचरणम्, नैमिषारण्ये शौनकादीन्प्रति सौतेरागमनम्, तत्र कुशलप्र-
श्नानन्तरं सौतिं प्रति शौनकमहर्षेः श्रीकृष्णभक्तीहापरसौख्यप्रदतन्महापुराणतत्त्वजि
ज्ञासया प्रश्नः । सौतिना शौनकं प्रति ब्रह्मवैवर्तमहापुराणप्रशंसा तत्पुराणस्थचतुष्ख-
ण्डगतमुख्यविषयवर्णनम् ॥ अध्यायेऽत्र संहत्य श्लोकसंख्याः
२ सौतिना गुरुवन्दनपूर्वक सर्वोपरिस्थगोलोकवर्णनम्--ततः शतकोटियोजनाधःप्रदेशे
वैकुण्ठलोकः । तदधः शिवलोकः । प्रलये वैकुण्ठशिवलोकयोः गोलोके लयः ॥
गोलोकस्य तूत्पत्तिलयाभावः ॥ गोलोकस्थतेजोमण्डलस्यैव सर्वजगत्कारणश्रीकृष्ण-
रूपत्ववर्णनम्
श्लो०
३ श्रीकृष्णपरमात्मनः जगत्सिसृक्षायां स्वाङ्गदक्षिणपार्श्वतः स्रष्टृणां त्रयोदशानां पञ्च
तन्मात्राणां महाभूतादीनां नारायणस्य चोत्पत्तिः । नारायणकृतश्रीकृष्णस्तोत्रम् ।
श्रीकृष्णाङ्गवामपार्श्वाच्छङ्करोत्पत्तिः । शंकरकृतश्रीकृष्णस्तोत्रम् । नाभिप्रदेशाद्ब्रह्मो
त्पत्तिस्तत्कृतश्रीकृष्णस्तोत्रम, तद्वक्षसो धर्मोत्पत्तिः तत्कृतश्रीकृप्णस्तोत्रम्। सर-
स्वतीमहालक्ष्मीदुर्गोत्पत्तिः । तत्कृतश्रीकृष्णस्तोत्रवर्णनम्
श्लो०
४ श्रीकृष्णनासाग्रतः सावित्र्युत्पत्तिः । तत्कृतकृष्णस्तुतिः । श्रीकृष्णमनसो मन्मथोत्पत्तिः तद्वामाङ्गाद्रत्युत्पत्तिः । रतिदर्शनेन ब्रह्मणो रेतःपतनम् । तस्माद्रेतसो वरुणोत्पत्तिः । अग्निस्वाहावरुणानीनां क्रमेणोत्पत्तिः । श्रीकृष्णरेतःस्खलनान्महाविष्णोरुत्पत्तिः । श्रीकृष्णकर्णमलान्मधुकैटभोत्पत्तिः । श्रीकृष्णकृतमधुकैटभवधवर्ण-
नम्
श्लो०
५ गोलोकगोगोपीनां नित्यानित्यत्वव्यवस्था ॥ शंभुनारायणयोः कल्पत्रयवर्ण
नम् । ब्रह्मणः कालनिर्णयः । मार्कण्डेयस्थितिकालनिर्णयः । श्रीकृष्णकृतगोगोप-
बलीवर्दोत्पत्तिः । प्रकृतेः सकाशाद्राधोत्पत्तिः । राधागण्डप्रदेशात्कोटिसंख्याकगो-
पीनामुत्पत्तिवर्णनम्
श्लो०
६ श्रीकृष्णेन नारायणादिभ्यो महालक्ष्म्यादीनां दानम् । महेश्वराय दुर्गायां सम-
पेयितत्यायां शंकरेण तत्स्वीकारप्रत्याख्यानम् । श्रीकृष्णेन शंकराय सर्वपूज्यत्वा-
दिवरप्रदानपूर्वकं तन्माहात्म्यवर्णनम् सिंहवाहिनीदेवीसमाश्वासनपूर्वकं मंत्रदानम् ।
ब्रह्मणे सृष्टिकरणायाज्ञाया दानम्
श्लो०
७ ब्रह्मदेवकृत पृथिव्यादिविश्वसृष्टिवर्णनम्
श्लो०
८ ब्रह्मणा सावित्र्यां वीर्याधानतो वेदशास्त्रादिसृष्टिवर्णनम्, ब्रह्मणः पृष्ठदेशादिभ्योऽ-
धर्माद्युत्पत्तिः । स्वसुतेभ्यः सृष्टिकरणे आज्ञादानम् । ब्रह्मणो नारदाय शापदानम् ।
नारदेन च ब्रह्मणे शापदानम्
श्लो०
९ ब्रह्माज्ञया नारदातिरिक्तसर्वमहर्षिकृतसृष्टिः । तत्र कश्यपादिसंबंधवर्णनम् । मंगलग्रहोत्पत्तिविषये इतिहासवर्णनम् । चंद्रपत्नीनां चरित्रे रोहिणसगतं चंद्रं प्रति दक्षेण यक्ष्मरोगित्वापादकशापदानम् । चन्द्रस्य शिवाश्रयम्।चंद्रपत्नीभिः स्वपतिलिप्सया पितृसमीपे पतिमाहात्म्य वर्णनम्। दक्षेण शिवाच्चन्द्रस्य याचनम् । शिवेन तत्प्रत्याख्यानम् । कृष्णेन दक्षाय चंद्रस्य दानम्
श्लो०
१० भृग्वादिभ्यश्च्यवनाद्युत्पत्तिः । कुबेरजन्मकथनम् । क्षत्रियादिजात्युत्पत्तिः । शिल्पकारोत्पत्तिः । शिल्पकाराणां पाततत्वादिवेषेण अयाज्यत्वे इतिहासवर्णनम् ।
घृताचीनामाप्सरोभिः सह विश्वकर्मणः समागमे उभयोः संवादः घृताच्या नीति
धर्मवर्णनम् । परस्परशापवर्णनम् । भूलोके विश्वकर्मणा ब्राह्मणजन्म । घृताच्या
गोपिकायाः गंगातीरे रमणं ततः मलये रमणम् ।ततो नवपुत्रोत्पत्तिः तेषां कार्यनि
र्णयः । संकरजातिवर्णनम् । वैद्यजातिनिर्णयेऽश्विनीकुमारोत्पत्तिवर्णनम् । सर्वजा
तिषु योनिसंबंधवर्णनम्
श्लो०
११ सुतपोब्राह्मणस्याश्विनीकुमाराभ्यां शापः । सूर्यकृतब्राह्मणस्तुतिः। सुतपसाश्विनी
कुमारयोर्नैरुज्यकरणम् । ब्राह्मणमाहात्म्यम्
श्लोक
१२ गंधर्वराजस्य पुत्रप्राप्तिनिमित्तं पुष्करक्षेत्रे शंकरोद्दशेन तपश्चर्या । तत्तपस्तुष्टेन
शंकरेण वरप्रदानम् । गंधर्वराजभार्याया नारदजननम्
श्लोक
१३ नारदस्य पूर्वजन्मनि उपबर्हणेतिनामकथनम् । उपबर्हणस्य दुष्करतपश्चरणेन गंधर्वकन्यानां परिणयनम् । रंभादर्शनेन उपबर्हणस्य वीर्यस्खलने तस्मै शूद्रत्वप्रापक
शापः । उपबर्हणस्य स्वदेहपरित्यागः । तन्निमित्तं मालावतीनामज्येष्ठपत्न्याः वि
लापः । शापोद्यतमालावतीभयाद्ब्रह्मादिसर्वदेवानां तत्रागमनम्
श्लो०
१४ मालावतीसमीपे श्रीविष्णोरागमनम्।स्वपतिमरणे कारणपृच्छायां ब्राह्मणेन सर्व
देवानां पृथक्पृथक फलप्राप्तिवर्णनम् । विष्णुप्रशंसा
श्लो
१५ ब्राह्मणस्य स्वयं सर्वज्ञताप्रशस्तिः । मालावत्या प्रत्यक्षतोदर्शन धर्मादीनाम्। धर्मादीन् प्रति निजकांतनिधनकारणपृच्छा । मालावतीकालपुरुषसंवादः
श्लो०
१६ मालावत्याः व्याध्युत्पत्तेः हेतुज्ञानाय प्रश्नः । ब्राह्मणेन व्याधिकारणवर्णनम् ।
तत्र आयुर्वेदविद्याप्रवृत्तिजरानाशकोपचारकथनम् । वातपित्तश्लेष्महारकोपाय
कथनम्
१७ ब्राह्मणरूपधारिविष्णो ब्रह्मशिवादिभिः सह संवादे विष्णुप्रशंसा
१८ ब्रह्मादीनां पुनः मालावतीसमीपं प्रागमनम्।गंधर्वजीवनम्॥तदा मालावतीकृत
महापुरुषस्तोत्रम् । कृष्णेन गन्धर्वजीवदानम् ॥ ४९, ॥ श्लो०
१९ विष्णुकवचम् । बाणेश्वरकचम्
श्लोक
२० उपबर्हणस्य ब्रह्मशापाद्वृषलीगर्भे जन्मवृत्तांतवर्णनम्
श्लोक
२१ कलावतीवृत्तांतः वृषलीपुत्रस्य नारदेतिनामकरणम् । वीर्यप्रदनारदजन्मवृत्तांत
वर्णनम् । श्रीकृष्णध्यानस्तोत्रकवचवर्णनम् । नारदस्य शापविमोचनम्
श्लो०
२२ ब्रह्मणः कंठान्नारदोत्पत्तिप्रसंगेन प्राचेतसादिमुनीनां ब्रह्मांगविशेषादुत्पत्तिवर्णनम् ब्रह्मपुत्रनाम्नोव्युत्पत्तिवर्णनम् ॥ ३१ । ॥ श्लो०
२३ ब्रह्मणः नारदं प्रति पुनः सृष्टिकरणे आज्ञा । नारदेन दारपरिग्रहनिंदाप्रसंगेन
स्त्रीस्वभाववर्णनम्
श्लो०
२४ ब्रह्मणो नारदं प्रति गार्हस्थ्यधर्मस्य वैदिकत्ववर्णनम्॥नारदस्य श्रीकृष्णमंत्रग्रहणाय ब्रह्मणि प्रार्थना । ब्रह्माज्ञया तदर्थं नारदस्य शिवलोकं प्रति गमनम् ॥४९।
२५ तत्र नारदस्य शिवदर्शनम्
श्लो०
२६ ब्राह्मणवैष्णवविधवानामाह्निकम्
श्लो०
२७ भक्ष्याभक्ष्यकर्तव्याकर्तव्यकथनम्
श्लो०
२८ ब्रह्मस्वरूपवर्णनं शिवाज्ञया नारदस्य बदरिकाश्रमं प्रति गमनम्
श्लो०
२९. श्रीकृष्णमाहात्म्यवर्णनम् । प्रकृतिमाहात्म्यवर्णनम्
श्लो०
३० भगवत्स्तुति
श्लो०
इति ब्रह्मखण्डम्
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0