भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 · अध्याय 3.4

3.4.1

॥66॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥3॥
तृतीयाध्याये चतुर्थः पादः ।
स्तर्त् ब्स्व्भ्_3,4.1.1
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः

3.4.2

स्थितं कृत्वोपनिषदामपवर्गाख्यपुरुषार्थसाधनात्मज्ञानपरत्वमुपासनानां च तत्तत्पुरुषार्थसाधनत्वमधस्तनं विचारजातमभिनिर्वर्तितम् ।
सम्प्रति तु किमौपनिषदात्मतत्त्वज्ञानमपवर्गसाधनतया पुरुषार्थमाहो क्रतुप्रयोगापेक्षितकर्तृप्रतिपादकतया क्रत्वर्थमिति मीमांसामहे ।
यदा च क्रत्वर्थं तदा यावन्मात्रं क्रतुप्रयोगविधिनापेक्षितं कर्तृत्वमामुष्मिकफलोपभोक्तृत्वं च न चैतदनित्यत्वे घटते कृतविप्रणाशाकृताभ्यागमप्रसङ्गादतो नित्यत्वमपि, तावन्मात्रमुपनिषत्सु विवक्षितम् ।
इतो ऽन्यदनपेक्षितं विपरीतं च नोपनिषदर्थः स्यात् ।
यथा शुद्धत्वादि ।
यद्यपि जीवानुवादेन तस्य ब्रह्मत्वप्रतिपादनपरत्वमुपनिषदामिति महता प्रबन्धेन तत्र तत्र प्रतिपादितं तथाप्यत्र केषाञ्चित्पूर्वपक्षशङ्काबीजानां निराकरणे तदेव स्थूणानिखननन्यायेन निश्चलीक्रियत इत्यप्यस्ति विचारप्रयोजनम् ।
तत्र यद्यपि प्रोक्षणादिवदात्मज्ञानं न कञ्चित्क्रतुमारभ्याधीतम्, यद्यपि च कर्तृमात्रं नाव्यभिचारितक्रतुसंबन्धं कर्तृमात्रस्य लौकिकेष्वपि कर्मसु दर्शनाद्येन पर्णतादिवदनारभ्याधीतमप्यव्यभिचरितक्रतुसंबन्धजुहूद्वारेण वाक्येनैव क्रत्वर्थमापद्यते तथापि यादृश आत्मा कर्तामुष्मिकस्वर्गादिफलभोगभागीदेहाद्यतिरिक्तो वेदान्तैः प्रतिपाद्यते न तादृशस्यास्ति लौकिकेषु कर्मसूपयोगः ।
तेषामैहिकफलानां शरीरानतिरिक्तेनापि यादृशतादृशेन कर्त्रोपपत्तेः ।
आमुष्मिकफलानां तु वैदिकानां कर्मणां तमन्तरेणासंभवात्तत्संबन्ध एवायमौपनिषदः कर्तेति तदव्यभिचारात्तान्यनुस्मारयज्जुह्वादिवद्वाक्येनैव तज्ज्ञानं पर्णतावत्क्रत्वैदमर्थ्यमापद्यत इति फलश्रुतिरर्थवादः ।
तदुक्तम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति औपनिषदात्मज्ञानसंस्कृतो हि कर्ता पारलौकिकफलोपभोगयोग्यो ऽस्मीति विद्यावाच्छ्रद्धावान्क्रतुप्रयोगाङ्गं नान्यथा प्रोक्षिता इव व्रीहयः क्रत्वङ्गमिति ।
प्रियादिसूचितस्य च संसारिण एवात्मनो द्रष्टव्यत्वेन प्रतिज्ञापनादपहतपाप्मत्वादि तु तद्विशेषणं तस्यैव स्तुत्यर्थम् ।
न तु तत्परत्वमुपनिषदाम् ।
तस्मात्क्रत्वर्थमेवात्मज्ञानं कर्तृसंस्कारद्वारा न पुनः पुरुषार्थमिति ।
एतदुपोद्बलनार्थं च ब्रह्मविदामाचारादिः श्रुत्यवगत उपन्यस्तः ।
न केवलं वाक्यादात्मज्ञानस्य क्रत्वर्थत्वम् ।
तृतीयाश्रुतेश्च ।
न त्वेतत्प्रकृतोद्गीथविद्याविषयं यदेव विद्ययेति सर्वनामावधारणाभ्यां व्याप्तेरधिगमत् ।
यथा य एव धूमवान्देशः स वह्निमानिति ।
समन्वारम्भवचनं च फलारम्भे विद्याकर्मणोः साहित्यं दर्शयति ।
तच्च यद्यप्याप्नेयादियागषट्कवत्समप्रधानत्वेनापि भवति तथाप्युक्तया युक्त्या विद्यायाः कर्म प्रत्यङ्गभावेनैव नेतव्यम् ।
वेदार्थज्ञानवतः कर्मविधानादुपनिषदो ऽपि वेदार्थ इति तज्ज्ञानमपि कर्माङ्गमिति ॥1॥
स्तर्त् ब्स्व्भ्_3,4.1.2
शेषत्वात् पुरुषार्थवादो यथान्येष्व् इति जैमिनिः

3.4.3

॥ 2 ॥
स्तर्त् ब्स्व्भ्_3,4.1.3
आचारदर्शनात्

3.4.4

॥ 3 ॥
स्तर्त् ब्स्व्भ्_3,4.1.4
तच्छ्रुतेः

3.4.5

॥ 4 ॥
स्तर्त् ब्स्व्भ्_3,4.1.5
समन्वारम्भणात्

3.4.6

॥ 5 ॥
स्तर्त् ब्स्व्भ्_3,4.1.6
तद्वतो विधानात्

3.4.7

॥ 6 ॥
स्तर्त् ब्स्व्भ्_3,4.1.7
नियमाच् च

3.4.8

सुगमम् ॥7॥
स्तर्त् ब्स्व्भ्_3,4.1.8
सिद्धान्तयति-
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्

3.4.9

यदि शरीराद्यतिरिक्तः कर्ता भोक्तात्मेत्येतन्मत्र उपनिषदः पर्यवसिताः स्युस्ततः स्यादेवं, न त्वेतदस्ति ।
तास्त्वेवंभूतजीवानुवादेन तस्य शुद्धबुद्धोदासीनब्रह्मरूपताप्रतिपादनपरा इति तत्र तत्रासकृदावेदितम् ।
अनधिगतार्थबोधनस्वरसता हि शब्दस्य प्रमाणान्तरसिद्धानुवादेन ।
तथा चौपनिषदात्मज्ञानस्य क्रत्वनुष्ठानविरोधिनः क्रतुसंबन्ध एव नास्ति ।
किमङ्ग पुनः तदव्यभिचारस्ततश्च क्रतुशेषता ।
तथाच नापवर्गफलश्रुतेरर्थवादमात्रत्वमपि तु फलपरत्वमेव ।
अत एव प्रियादिसूचितेन संसारिणात्मनोपक्रम्य तस्यैवात्मनो ऽधिकोपदिदीक्षायां परमात्मनात्यन्ताभेद उपदिश्यते ।
यथा समारोपितस्य भुजगस्य रज्जुरूपादत्यन्ताभेदः प्रतिपाद्यते यो ऽयं सर्पः सा रज्जुरिति ।
यथा विद्यायाः कर्माङ्गत्वे दर्शनमुपन्यस्तमेवकर्माङ्गत्वे दर्शनमुक्तम् ।
तत्र कर्माङ्गत्वदर्शनानामन्यथासिद्धिरुक्ता केवलविद्यादर्शनानां तु नान्यथासिद्धिः ॥8॥
स्तर्त् ब्स्व्भ्_3,4.1.9
तुल्यं तु दर्शनम्

3.4.10

॥ 9 ॥
स्तर्त् ब्स्व्भ्_3,4.1.10
असार्वत्रिकी

3.4.11

व्याप्तिरप्युद्गीथविद्यापेक्षया तस्या एव प्रकृतत्वान्न त्वशेषापेक्षया ।
यथ सर्वे ब्राह्मणा भोज्यन्तामिति निमन्त्रितापेक्षया तेषामेव प्रकृतत्वात् ॥10॥
स्तर्त् ब्स्व्भ्_3,4.1.11
विभागः शतवत्

3.4.12

सुगमम् ।
अविभागे ऽपि न दोष इत्याह- न चेदं समन्वारम्भवचनमिति ।
संसारिविषया विद्या विहिता यथोद्गीथविद्या ।
प्रतिषिद्धा च यथासच्छास्त्राधिगमनलक्षणा ॥11॥
स्तर्त् ब्स्व्भ्_3,4.1.12
अध्ययनमात्रवतः

3.4.13

अध्ययनमात्रवत एव कर्मविधिर्नतूपनिषदध्ययनवतः ।
एतदुक्तं भवति-यदध्ययनमर्थावबोधपर्यन्तं कर्मसूपयुज्यते यथा कर्मविधिवाक्यानां तन्मात्रवत एवाधिकारः कर्मसु नोपनिषदध्यनवतः तदध्ययनस्य कर्मस्वनुपयोगादिति ।
अध्ययनमात्रवत एवेति मात्रग्रहणेनार्थज्ञानं वा व्यवच्छिन्नमिति मन्वानो भ्रान्तश्चोदयति- नन्वेवं सतीति ।
स्वाभिप्रायमुद्घाटयन्समाधत्ते- न वयमिति ।
उपनिषदध्ययनापेक्षं मात्रग्रहणं नार्थबोधापेक्षमित्यर्थः ॥12॥
स्तर्त् ब्स्व्भ्_3,4.1.13
नाविशेषात्

3.4.14

कुर्वन्नेवेह कर्माणीत्यविद्यावद्विषयमित्यर्थः ॥13॥
स्तर्त् ब्स्व्भ्_3,4.1.14
विद्यावद्विषयत्वे ऽप्यविरोधो विद्यास्तुत्यर्थत्वादित्याह-
स्तुतये ऽनुमतिर् वा

3.4.15

॥14॥
स्तर्त् ब्स्व्भ्_3,4.1.15
कामकारेण चैके

3.4.16

अपिच विद्याफलं प्रत्यक्षं दर्शयन्ती श्रुतिः कालान्तरभाविफलकर्माङ्गत्वं विद्याया निराकरोतीत्याह- कामकारेण चैके ।
कामकार इच्छा ॥15॥
स्तर्त् ब्स्व्भ्_3,4.1.16
उपमर्दं च

3.4.17

अधिकोपदेशादित्यनेनात्मन एव शुद्धबुद्धोदासीनत्वादय उक्ताः ।
इह तु समस्तक्रियाकारकफलविभागोपमर्दं चेति ॥16॥
स्तर्त् ब्स्व्भ्_3,4.1.17
ऊर्ध्वरेतःसु च शब्दे हि

3.4.18

सुबोधम् ॥17॥
स्तर्त् ब्स्व्भ्_3,4.2.18
परामर्शं जैमिनिरचोदना चापवदति हि

3.4.19

सिद्ध ऊर्ध्वरेतसामाश्रमित्वे तद्विद्यानामकर्माङ्गतयापवर्गार्थं स्यात् ।
आश्रमित्वं त्वेषामन्यार्थपरामर्शमात्रान्न सिध्यति ।
विध्यभावात् ।
स्मृत्याचारप्रसिद्धिश्च तेषां प्रत्यक्षश्रुतिविरोधादप्रमाणम् ।
निन्दति हि प्रत्यक्षा श्रुतिराश्रमान्तरं ऽवीरहा वा एष देवानाम्ऽइत्यादिका ।
प्रत्यक्षश्रुतिविरोधे च स्मृत्याचारयोरप्रामाण्यमुक्तं ऽविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्ऽइति ।
तदेतत्सर्वमाह- त्रयो धर्मस्कन्धा इत्यादिना ।
अनधिकृतविषया वेति ।
अन्धपङ्ग्वादयो हि ये नैमित्तिककर्मानधिकृतास्तान्प्रत्याश्रमान्तरविधिरिति ।
अपिचापवदिति हि ।
न केवलमन्यपरतया परामर्शस्याश्रमान्तरं न लभ्यते अपि त्वाश्रमान्तरनिन्दाद्वारेणापवादादपीत्यर्थः ।
स्यादेतत् ।
भवत्वेष परामर्शो ऽन्यार्थः ।
ये चेमे ऽरण्य इत्यादिभ्यस्त्वाश्रमान्तरं सेतस्यतीत्यत आह- ये चेमे ऽरण्य इति ।
अस्यापि देवपथोपदेशपरत्वान्नैतत्परत्वमित्यर्थः ।
न चान्यपरादपि स्फुटतराश्रमान्तरप्रत्यत इत्याह- संदिग्धं चेति ।
नहि तप एव द्वितीय इत्यत्राश्रमान्तराभिधायी कश्चिदस्ति शब्द इति ।
नन्वेतमेव प्रव्राजिन इति वचनादाश्रमान्तरं सेत्स्यतीत्यत आह- तथैतमेवेति ।
एतदपि लोकसंस्तनवनपरमिति ।
अधिकरणारम्भमाक्षिप्य नास्ति प्रत्यक्षवचनमितिकृत्वा चिन्तेयमिति समाधत्ते- ननु ब्रह्मचर्यादेवेति ॥18॥
स्तर्त् ब्स्व्भ्_3,4.2.19
अनुष्ठेयं बादरायणः साम्यश्रुतेः

3.4.20

भवत्वन्यार्थः परामर्शस्तथाप्येतस्मादाश्रमान्तराणि प्रतीयमानानि च नापाकरणमर्हन्ति ।
एवं तान्यपाक्रियेरन्यद्यस्मान्न प्रतीयेरन् ।
प्रतीयमानानि वा श्रुत्या बाध्येरन् ।
न तावन्न प्रतीयन्ते ।
तथाहि-त्रयो धर्मस्कन्धा इति स्कन्धत्रित्वं प्रतिज्ञातम् ।
तत्र स्कन्धशब्दो यद्याश्रमपरो न स्यादपि तु समूहवचनस्ततो धर्माणां यज्ञादीनां प्रातिस्विकोत्पत्तीनां किमपेक्ष्य त्रित्वसङ्ख्या सुव्यवस्थाप्येत ।
एकैकाश्रमोपसंगृहीतास्त्वाश्रमाणां त्रित्वाच्छक्यास्त्रित्वे व्यवस्थापयितुमित्याश्रमत्रित्वप्रतिज्ञोपपत्तिः ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो ब्रह्मचारीति द्वितीयस्तप इति च, तपःप्रधानात्तु वानप्रस्थाश्रमान्नान्यः, ब्रह्मसंस्थ इति च पारिशेष्यात्परिव्राडिति वक्ष्यति ।
तस्मादन्यपरादपि परामर्शादश्रमान्तराणि प्रतीयमानानि देवताधिकरणन्यायेन न शक्यन्ते ऽपाकर्तुम् ।
नच प्रत्यक्षश्रुतिविरोधो वीरहा वेत्यादेः प्रतिपन्नगार्हस्थ्यं प्रमादादज्ञानाद्वाग्निमुद्वासयितुं प्रवृत्तं प्रत्युपपत्तेः ।
एवञ्च अविरोधे सिद्धवत्परामर्शादश्रमान्तराणां शास्त्रान्तरसिद्धिं वा कल्पयिष्यामो यथोपवीतविधिपरे वाक्ये ऽउपव्ययते देवलक्ष्ममेव तत्कुरुतेऽइत्यत्र निवीतं मनुष्याणां प्राचीनावीतं पितृणामिति शास्त्रान्तरसिद्धयोर्निवीतप्राचीनावीतयोः परामर्श इति ॥19॥
स्तर्त् ब्स्व्भ्_3,4.2.20
विधिर् वा धारणवत्

3.4.21

यद्यपि ब्रह्मसंस्थत्वस्तुतिपरतयास्य संदर्भस्यैकवाक्यता गम्यते ।
संभवान्त्यां चैकवाक्यतायां वाक्यभेदो ऽन्याय्यः ।
तथाप्याश्रमान्तराणां पूर्वसिद्धेरभावात्परामर्शानुपपत्तेः, अपरामर्शे च स्तुतेरसंभवेन किंपरतया एकवाक्यतास्त्विती तां भङ्क्त्वा धारणवद्वरमपूर्वत्वाद्विधिरेवास्तु ।
यथा ऽअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽइत्यत्र सत्यामप्यधोधारणेनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथोक्तम् ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽइति ।
तथेहाप्याश्रमान्तरपरामर्शश्रुतिर्विधरेवेति कल्प्य्ते ।
संप्रति परामर्शे ऽपीतरेषामाश्रमाणां ब्रह्मसंस्थता संस्तवसामर्थ्यादेव विधातव्या ।
न खल्वविधेयं संस्तूयते तदर्थत्वात्संस्तवस्येत्याह- यदापीति ।
अत्रावान्तरविचारमारभते- सा च किं चतुर्ष्विति ।
विचारप्रयोजनमाह- यदि चेति ।
ननु अनाश्रम्येव ब्रह्मसंस्थो भविष्यतीत्यत आह- अनाश्रयमित्वेति ।
तत्र पूर्वपक्षमाह- तत्र तपःशब्देनेति ।
अयमभिसंधिः ।
यदि तावद्ब्रह्मसंस्थ इति पदं प्रत्यस्तमितावयवार्थं परिव्राजके ऽश्वकर्णादिपदवद्रूढं तदाश्रमप्राप्तिमात्रेणैवामृतीभाव इति न तद्भावाया ब्रह्मज्ञानमपेक्षेत ।
तथाच नान्यः पन्था विद्यते ऽयनायेति विरोधः ।
नच संभत्यवयवार्थे समुदायशक्तिकल्पना ।
तस्माद्ब्रह्मणि संस्थास्येति ।
ब्रह्मसंस्थः ।
एवञ्च चतुर्ष्वाश्रमेषु यस्यैव ब्रह्मणि निष्ठत्वमाश्रमिणः स ब्रह्मसंस्थो ऽमृतत्वमेतीति युक्तम् ।
तत्र तावद्ब्रह्मचारिगृहस्थौ स्वशब्दाभिहितौ तपःपदेन च तपःप्रधानतया भिक्षुवानप्रस्थावुपस्थापितौ ।
भिक्षुरपि हि समाधिकशौचाष्टग्रासीभोजननियमाद्भवति वानप्रस्थवत्तपःप्रधानः ।
नच गृहस्थादेः कर्मिणो ब्रह्मनिष्ठत्वासंभवः ।
यदि तावत्कर्मयोगः कर्मिता सा भिक्षोरपि कायवाङ्मनोभिरस्ति ।
अथ ये न ब्रह्मार्पणेन कर्म कुर्वन्ति किन्तु कामार्थितया ते कर्मिणः ।
तथा सति गृहस्थादयो ऽपि ब्रह्मार्पणेन कर्म कुर्वाणा न कर्मिणः ।
तस्माद्ब्रह्मणि तात्पर्यं ब्रह्मनिष्ठता न तु कर्मत्यागः ।
प्रमाणविरोधात् ।
तपसा च द्वयोराश्रमयोरेकीकरणेन त्रय इति त्रित्वमुपपद्यते ।
एवञ्च त्रयो ऽप्याश्रमा अब्रह्मसंस्थाः सन्तः पुण्यलोकभाजो भवन्ति यः पुनरेतेषु ब्रह्मसंस्थः सो ऽमृतत्वभागिति ।
नच येषां पुण्यलोकभाक्त्वं तेषामेवामृतत्वमिति विरोधः ।
यथा देवदत्तयज्ञदत्तौ मन्दप्रज्ञावभूतां संप्रति तयोर्यज्ञादत्तस्तु शास्त्राभ्यासात्पटुप्रज्ञो वर्तते इति तथेहापि य एवाब्रह्मसंस्थाः ।
पुण्यलोकभाजस्त एव ब्रह्मसंस्था अमृतत्वभाज इत्यवस्थाभेदादविरोधः ।
तथाच ब्रह्मसंस्थ इति यौगिकं पदं प्रकृतविषयं भविष्यति ।
यथा आग्नेय्याग्नीध्रमुपतिष्ठत इत्यत्र विनियुक्तापि प्रकृतैवाग्नेयी गृह्यते ।
नच विनियुक्तविनियोगविरोधः ।
यदि ह्यत्राग्नोत्युपदिश्येत ततो यथा प्रतीता तथोद्दिश्येत ।
विनियुक्ता च प्रतीतिर्भवेदिति विनियुक्तविनियोगविरोधः ।
इह तु आग्नीध्रोपस्थाने सा विधेयत्वेन विनियुज्यते ।
न तूद्दिश्यते ।
विधेयत्वेन च विनियोगे आग्नेयीपदार्थापेक्षणात्प्रकृतातिक्रमे प्रमाणाभावात् ।
तावता च शास्त्रोपपत्तेर्नाप्रकृतानामपि ग्रहणसंभवः ।
नच यातयामतया न विनियोगः ।
वाचस्तोमे सर्वेषामेव मन्त्राणां विनियोगादन्यत्राप्यविनियोगप्रसङ्गात् ।
तथेहापि प्रकृता एवाश्रमा बुद्धिविपरिवर्तिनः परामृश्यन्ते नानुक्तः परिव्राडेवेति पूर्वः पक्षः ।
राद्धान्तमुपक्रमते- तदयुक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषणेनेति ।
यथोपक्रान्तं तथैव परिसमापनमुचितम् ।
यत्संख्याकाश्च ये प्रसिद्धास्ते तत्संख्याका एव कीर्त्यन्ते इति चोचितम् ।
न तु सत्यां गतावुत्सर्गस्यापवादो युज्यते ।
अशाधारणेनैकैकेन लक्षणेनैकेक आश्रमो वक्तुमुपक्रान्त इति तथैव समापनमुचितम् ।
न तु साधारणासाधारणाभ्यामुपक्रमसमाप्ती श्लिष्येते ।
नच तपो नाम नासाधारणं वानप्रस्थानामित्यत आह- तपश्चासाधारण इति ।
न खलु पराकादिभिः कायक्लेशप्रधानो यथा वानप्रस्थस्तथा भिक्षुः सत्यप्यष्टग्रासादिनियमे ।
नच शौचसन्तोषशमदमादयस्तपः पक्षे वर्तन्ते तत्र वृद्धानां तपःप्रसिद्धेरसिद्धेः ।
अत एव वृद्धास्तपसो भेदेन शौचादीनाचक्षते-ऽशौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःऽइति ।
सिद्धसंख्याभेदेषु च संख्यान्तराभिधानमाश्लिष्टमित्याह- चतुष्ट्वेन चेति ।
अपिच भेदव्यपदेशो ऽत्रेति ।
त्रय एत इति किं भिक्षुरपि परामृश्यते किन्त्वा भिक्षुवर्जं त्रय एव ।
न तावन्त्रय इति भिक्षुसंग्रहे तद्वर्जनमेते त्रय इत्यत्र वर्तुं शक्यम् ।
एत इति प्रकृतानां साकल्येन परामर्शाद्भिक्षुसंग्रहे च न तस्य पुण्यलोकत्वमब्रह्मसंस्थात्वाभावाद्भिक्षोः ।
तेन तस्य ब्रह्मसंस्थस्य सदा पुण्यलोकत्वममृतत्वं चेति विरोधः ।
त्रिषु च ब्रह्मसंस्थपदे यदेति संबन्धनीयम् ।
भिक्षौ च सदेति वैषम्यम् ।
तदिदमुक्तम्- पृथक्त्वे चेति ।
पूर्वपक्षाभासं स्मारयति- कथं पुनर्ब्रह्मसंस्थशब्दो योगादिति ।
तन्निराकरोति- अत्रोच्यत इति ।
अयमभिसंधिः ।
सत्यं यौगिकः शब्दः सति प्रकृतसंभवे न तदतिपत्त्याप्रकृते वर्तितुमर्हति ।
असति तु संभवे मा भूत्प्रमादपाठ इत्यप्रकृते वर्तयितव्यः, दर्शितश्चात्रासंभवे ऽधस्तादिति ।
एष हि ब्रह्मसंस्थतालक्षणो धर्मो भिक्षोरसाधारण आश्रमान्तराणि तत्संस्थान्यतत्संस्थानि च भिक्षुस्तत्संस्थ इत्येव ।
तत्संस्थता हि स्वाभावं व्यवच्छिन्दन्ती विरोधाद्यस्तत्संस्थ एव तत्राञ्जसी नान्यत्र ।
शमदमादिस्तु तदीय इति ।
स्वाङ्गमव्यवधायकमित्यर्थः ।
ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मं श्रुतिरादर्शयतीत्याह- तथाच न्यास इति ब्रह्मेति ।
सर्वसङ्गपरित्यागो हि न्यासः स ब्रह्मा कुत इत्यत आह- ब्रह्मा हि परः ।
अतः परो न्यासो ब्रह्मेति ।
किमपेक्ष्य परः संन्यास इत्यत आह- तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति ।
एतदुक्तं भवति-ब्रह्मपरतया सर्वेषणापरित्यागलक्षणो न्यासो ब्रह्मेति ।
तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवासाधारणं नेतरेषामाश्रमिणाम् ।
ब्रह्मज्ञानस्य शब्दजनितस्य यः परिपाकः साक्षात्कारो ऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम् ।
न त्वनधिकृतं प्रतीत्यर्थः ॥20॥
स्तर्त् ब्स्व्भ्_3,4.3.21
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्

3.4.22

यद्यत्र संनिधान उपासनाविधिर्नास्ति ततः प्रदेशान्तरस्थितो ऽपि विधिव्यभिचारिततद्विधिसंबन्धेनोद्गीथेनोपस्थापितः स एष रसानां रसतम इत्यादिना पदसंदर्भेणैकवाक्यभावमुपगतः स्तूयते ।
नहि समभिव्याहृतैरेवैकवाक्यता भवतीति कश्चिन्नियमहेतुरस्ति ।
अनुषङ्गातिदेशलब्धैरपि विध्यसमभिव्याहृतैरर्थवादैरेकवाक्यताभ्युपगमात् ।
यदि तूद्गीथमुपासीत सामोपासीतेत्यादिविधिसमभिव्याहारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपासनाविषयसमर्पणपर ओमित्येतदक्षरमुद्गीथमित्यनेनैवोपासनाविषयसमर्पणादिति प्राप्ते ऽभिधीयते-न तावद्दूरस्थेन कर्मविधिवाक्येनैकवाक्यतासंभवः ।
प्रतीतसमभिव्याहृतानां विधिनैकवाक्यतया स्तुत्यर्थत्वमर्थवादानां रक्तपटन्यायेन भवति ।
न तु स्तुत्या विना काचिदनुपपत्तिर्विधेः ।
यथाहुः-ऽअस्ति तु तदित्यतिरेके परिहारःऽइति ।
अत एव विधेरपेक्षाभावात्प्रवर्तनात्मकस्यानुषङ्गतिदेशादिभिरर्थवादप्राप्त्यभ् इधानमसमञ्जसम् ।
नहि कर्त्रपेक्षितोपायामवगतायां प्राशस्त्यप्रत्ययस्यास्ति कश्चिदुपयोगः ।
तस्माद्दूरस्थस्य कर्मविधेः स्तुतावानर्थक्यम् ।
तेनैकवाक्यतानुपपत्तेः संनिहितस्य तूपासनाविधेः किं विषयसमर्पणेनोपयुज्यतामुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् ।
अगत्या हि सा ।
तस्मादुपासनार्था इति सिद्धम् ।
ऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ॥
ऽभावनायाः खलु कर्तृसमीहितानुकूलत्वं विधिर्निषेधश्च कर्तुरहितानुकूलत्वम् ।
यथाहुः-ऽकर्तव्यश्च सुखफलो ऽकर्तव्यो दुःखफलःऽइति ।
एतच्चास्माभिरुपपादितं न्यायकणिकायाम् ।
क्रिया च भावना तद्वचनाश्च करोत्यादयः ।
यथाहुः-कृभ्वस्तयः क्रियासामान्यवचना इति ।
अत एव कृभ्वस्तीनुदाहृतवान् ।
सामान्योक्तौ तद्विशेषाः पचेदित्यादयो ऽपि गम्यन्त इति तत्र कुर्यादित्याक्षिप्तकर्तृका भावना ।
क्रियेतेति आक्षिप्तकर्मिका भावना ।
कर्तव्यमिति तु कर्मभूतद्रव्योपसर्जनभावना ।
एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूयेतेत्येकधात्वर्थविषया विध्युपहिता भावना उदाहार्याः ।
भवतिश्चैष जन्मनि ।
यथा कुलालव्यापाराद्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते ।
नच बीजादङ्कुरो ऽस्तीति प्रयुञ्जते ।
तस्मादस्ति सत्तायां न जन्मनीति ॥21॥
स्तर्त् ब्स्व्भ्_3,4.3.22
भावशब्दाच् च

3.4.23

॥ 22 ॥
स्तर्त् ब्स्व्भ्_3,4.4.23
पारिप्लवार्था इति चेन् न विशेषितत्वात्

3.4.24

यद्यपि उपनिषदाख्यानानि विद्यासंनिधौ श्रुतानि तथापि ऽसर्वाण्याख्यानानि पारिप्लवेऽइति सर्वश्रुत्या निःशेषार्थतया दुर्बलस्य संनिधेर्बाधितत्वात्पारिप्लवार्थान्येवाख्यानानि ।
नच सर्वा दाशतयीरनुब्रूयादिति विनियोगे ऽपि दाशतयीनां प्रातिस्विकविनियोगात्तत्र तत्र कर्मणि यथा विनियोगो न विरुध्यते तथेहापि सत्यपि पारिप्लवे विनियेगे संनिधानाद्विद्याङ्गत्वमपि भविष्यतीति वाच्यम् ।
दाशतयीषु प्रातिस्विकानां विनियोगानां समुदायविनियोगस्य च तुल्यबलत्वादिह तु संनिधानात् श्रुतेर्बलीयस्त्वात् ।
तस्मात्पारिप्लवार्थान्येवाख्यानानीति प्राप्त उच्यते-नैषामाख्यानानां पारिप्लवे विनियोगः ।
किन्तु पारिप्लवमाचक्षीतेत्युपक्रम्य यान्याम्नातानि मनुर्वैवस्वतो राजेत्यादीनि तेषामेव तत्र विनियोगः, तान्येव हि पारिप्लवेन विशेषितानि ।
इतरथा पारिप्लवे सर्वाण्याख्यानानित्येतावतैव गतत्वात्पारिप्लवमाचक्षीतेत्यनर्थकं स्यात् ।
आख्यानविशेषणत्वे त्वर्थवत् ।
तस्माद्विशेषाणानुरोधात्सर्वशब्दस्तदपेक्षो न त्वशेषवचनः ।
यथा सर्वे ब्राह्मणा भोजयितव्या इत्यत्र निमन्त्रितापेक्षः सर्वशब्दः ।
तथा चोपनिषदाख्यानानां विद्यासंनिधिरप्रतिद्वन्दीं विद्यैकवाक्यतां सो ऽरोदीदित्यादीनामिव विद्येकवाक्यत्वं गमयतीति सिद्धम् ।
प्रतिपत्तिसौकर्याच्चेत्युपाख्यानेन हि बाला अप्यवधीयन्ते यथा तन्त्रोपाख्यायिकयेति ॥23॥
स्तर्त् ब्स्व्भ्_3,4.4.24
तथा चैकवाक्यतोपबन्धात्

3.4.25

॥ 24 ॥
स्तर्त् ब्स्व्भ्_3,4.5.25
अत एव चाग्नीन्धनाद्यनपेक्षा

3.4.26

विद्यायाः क्रत्वर्थत्वे सति तथा क्रतूपकरणाय स्वकार्याय क्रतुरपेक्षितः ।
तदभावे कस्योपकारो विद्ययेति ।
यदा तु पुरुषार्था तदा नानया क्रतुरपेक्षितः स्वकार्ये निरपेक्षाया एव तस्याः सामर्थ्यात् ।
अग्नीन्धानादिना चाश्रमकर्माण्युपलक्ष्यन्ते तदाह- अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति ।
स्वार्थसिद्धौ नापेक्षितव्यानि न तु स्वसिद्धाविति ।
एतच्चाधिकमुपरिष्टाद्वक्ष्यते ।
तद्विवक्षया चैतत्प्रयोजनं पूर्वतनस्याधिकरणस्योक्तम् ॥25॥
स्तर्त् ब्स्व्भ्_3,4.5.26
अधिकविवक्ष्येति यदुक्तं तदधिकमाह-
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्

3.4.27

यथा स्वार्थसिद्धौ नापेक्ष्यन्ते आश्रमकर्माणि एवमुत्पत्तावपि नापेक्ष्येरन्निति शङ्का स्यात् ।
नच विविदिषन्ति यज्ञेनेत्यादिविरोधः ।
नह्येष विधिरपि तु वर्तमानापदेशः ।
स च स्तुत्याप्युपपद्यते ।
अपिच चतस्रः प्रतिपत्तयो ब्रह्मणि ।
प्रथमा तावदुपनिषद्वाक्यश्रवणमात्राद्भवति यां किलाचक्षते श्रवणमिति ।
द्वितीया मीमांसासहिता तस्मादेवोपनिषद्वाक्याद्यामाचक्षते ।
मननमिति ।
तृतीया चिन्ता ।
सन्ततिमयी यामाचक्षते निदिध्यासनमिति ।
चतुर्थी साक्षात्कारवती वृत्तिरूपा नान्तरीयकं हि तस्याः कैवल्यमिति ।
तत्राद्ये तावत्प्रतिपत्ति विदितपदतदर्थस्य विदितवाक्यगतिगोचरन्यायस्य च पुंस उपपद्येते एवेति न तत्र कर्मापेक्षा ।
ते एव च चिन्तामयीं तृतीयां प्रतिपत्तिं प्रसुवाते इति न तत्रापि कर्मापेक्षा ।
सा चादरनैरन्तर्यदीर्घकालसेविता साक्षात्कारवतीमाधत्त एव प्रतिपत्तिं चतुर्थीमिति न तत्राप्यस्ति कर्मापेक्षा ।
तन्नान्तरीयकं च कैवल्यमिति न तस्यापि कर्मापेक्षा ।
तदेवं प्रमाणतश्च प्रमेयत उत्पत्तौ च कार्ये च न ज्ञानस्य कर्मापेक्षेति बीजं शङ्कायाम् ।
एवं प्राप्त उच्यते-उत्पत्तौ ज्ञानस्य कर्मापेक्षा विद्यते विविदिषोत्पादद्वारा ऽविविदिषन्ति यज्ञेनऽइति श्रुतेः ।
न चेदं वर्तमानापदेशत्वात्स्तुतिमात्रमपूर्वत्वादर्थस्य ।
यथा यस्य पर्णमयी जुहूर्भवतीति पर्णमयताविधिरपूर्वत्वान्न त्वयं वर्तमानापदेशः, अनुवादानुपपत्तेः ।
तस्मादुत्पत्तौ विद्यया शमादिवत् कर्माण्यपेक्ष्यन्ते ।
तत्राप्येवंविदिति विद्यास्वरूपसंयोगादन्तरङ्गाणि विद्योत्पादे शमादीनि, बहिरङ्गाणि कर्माणि विविदिषासंयोगात् ।
तथाहि-आश्रमविहितनित्यकर्मानुष्ठानाद्धर्मसमुत्पादस्ततः पाप्मा विलीयते ।
स हि तत्त्वतो ऽनित्याशुचिदुःखानात्मनि संसारे सति नित्यशुचिमुखात्मलक्षणेन विभ्रमेण मलिनयति चित्तसत्त्वमधर्मनिबन्धनत्वाद्विभ्रमाणाम् ।
अतः पाप्मनः प्रक्षये प्रत्यक्षोपपत्तिद्वारापावरणे सति प्रत्यक्षोपपत्तिभ्यां संसारस्य तात्त्विकीमनित्याशुचिदुःखरूपतामप्रत्यूहं विनिश्चिनेति ।
ततो ऽस्मिन्ननभिरतिसंज्ञं वैराग्यमुपजायते ।
ततस्तज्जिहासास्योपावर्तते ।
ततो हानोपायं पर्येषते पर्येषमाणश्चात्मतत्त्वज्ञानमस्योपाय इति शास्त्रादाचार्यवचनाच्चोपश्रुत्य तज्जिज्ञासत इति विविदिषोपहारमुखेनात्मज्ञानोत्पत्तावस्ति कर्माणामुपयोगः ।
विविदिषुः खलु युक्त एकाग्रतया श्रवणमनने कर्तुमुत्सहते ।
ततो ऽस्य ऽतत्त्वमसिऽइतिवाक्यन्निर्विचिकित्सं ज्ञानमुत्पद्यते ।
नच निर्विचिकित्सं तत्त्वमसीति वाक्यार्थमवधारयतः कर्मण्यधिकारो ऽस्ति ।
येन भावनायां वा भावनाकार्ये वा साक्षात्कारे कर्मणामुपयोगः ।
एतेन वृत्तिरूरपसाक्षात्कारकार्ये ऽपवर्गे कर्मणामुपयोगो दूरनिरस्तो वेदितव्यः ।
तस्माद्यथैव शमदमादयो यावज्जीवमनुवर्तन्ते एवमाश्रमकर्मापीत्यसमीक्षिताभिधानम् ।
विदुषस्तत्रानधिकारादित्युक्तम् ।
दृष्टार्थेषु तु कर्मसु प्रतिषिद्धवर्जनमनधिकारे ऽप्यसक्तस्य स्वारसिकी प्रवृत्तिरुपपद्यत एव ।
नहि तत्रान्वयव्यतिरेकसमधिगमनीयफले ऽस्ति विध्यपेक्षा ।
अतश्च ऽभ्रान्त्या चेल्लौकिकं कर्म वैदिकं च तथास्तु तेऽइति प्रलापः ।
शमदमादीनां तु विद्योत्पादायोपात्तानामुपरिष्टादवस्थास्वाभाव्यादनपेक्षितानामप्यनुवृत्तिः ।
उपपादितं चैतदस्माभिः प्रथमसूत्र इते नेह पुनः प्रत्याप्यते ।
तस्माद्विविदिषोत्पादद्वाराश्रमकर्मणां विद्योत्पत्तावुपयोगो न विद्याकार्य इति सिद्धम् ।
शेषमतिरोहितार्थम् ॥26॥
स्तर्त् ब्स्व्भ्_3,4.6.27
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्

3.4.28

॥ 27 ॥
स्तर्त् ब्स्व्भ्_3,4.7.28
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्

3.4.29

प्राणसंवादे सर्वेन्द्रियाणां श्रूयते ।
एष किल विचारविषयः-सर्वाणि खलु वागादीन्यवजित्य प्राणो मुख्य उवाचैतानि किं मे ऽन्नं भविष्यतीति, तानि होचुः ।
यदिदं लोके ऽन्नमा च श्वभ्य आ च शकुनिभ्यः सर्वप्राणिनां यदन्नं तत्तवान्नमिति ।
तदनेन संदर्भेण प्राणस्य सर्वमन्नमित्यनुचिन्तनं विधायाह श्रुतिः-ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽइति ।
सर्वं प्राणस्यान्नमित्येवंविदि न किञ्चिनानन्नं भवतीति ।
तत्र संशयः-किमेतत्सर्वान्नाभ्यनुज्ञानं शमादिवदेतद्विद्याङ्गतया विधीयत उत स्तुत्यर्थं संकीर्त्यत इति ।
तत्र यद्यपि भवतीति वर्तमानापदेशान्न विधिः प्रतीयते ।
तथापि यथा यस्य पर्णमयी जुहूर्भवतीति वर्तमानापदेशादपि पलाशमयीत्वविधिप्रतिपत्तिः पञ्चमलकारापत्त्या तथेहापि प्रवृत्तिविशेषकरतालाभे विधिप्रतिपत्तिः ।
स्तुतौ हि अर्थवादमात्रं न तथार्थवद्यथा विधौ ।
भक्ष्याभक्ष्यशास्त्रं च सामान्यतः प्रवृत्तमनेन विशेषशास्त्रेण बाध्यते ।
गम्यागम्यविवेकशास्त्रमिव सामान्यतः प्रवृत्तं वामदेवविद्याङ्गभूतसमस्तस्त्र्यपरिहारशास्त्रेण विशेषविषयेणेति प्राप्त उच्यते-अशक्तेः कल्पनीयत्वाच्छास्त्रान्तरविरोधतः ।
प्राणस्यान्नमिदं सर्वमिति चिन्तनसंस्तवः ॥
न तावत्कौलेयकमर्यादमन्नं मनुष्यजातिना युगपत्पर्यायेण वा शक्यमत्तुम् ।
इभकरभकादीनामन्नस्य शमीकरीरकण्टकवटकाष्ठादेरेकस्यापि अशक्यादनत्वात् ।
न चात्र लिङ्ग इव स्फुटतरा विधिप्रतिपत्तिरस्ति ।
नच कल्पनीयो विधिरपूर्वत्वाभावात् ।
स्तुत्यापि च तदुपपत्तेः ।
नच सत्यां गतौ सामान्यतः प्रवृत्तस्य शास्त्रस्य विषयसंकोचो युक्तः ।
तस्मात्सर्वं प्राणस्यान्नमित्यनुचिन्तनविधानस्तुतिरिति साम्प्रतम् ।
शक्यत्वे च प्रवृत्तिविशेषकरतोपयुज्यते नाशक्यविधानत्वे ।
प्राणात्यय इति चावधारणपरं प्राणात्यय एव सर्वान्नत्वम् ।
तत्रोपाख्यानाच्च स्फुटतरविधिस्मृतेश्च सुरावर्जं विद्वांसमविद्वांसं प्रति विधानात् ।
न त्वन्यत्रेति ।
इभ्येन हस्तिपकेन सामिस्वादिता नर्धभक्षितान् ।
स हि चाक्रायणो हस्तिपकोच्छिष्टान्कुल्माषान्भुञ्जानो हस्तिपकेनोक्तः ।
कुल्माषानिव मदुच्छिष्टमुदकं कस्मान्नानुपिबसीति ।
एवमुक्तस्तदुदकमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ।
न वाजीविष्यं न जीविष्यामीतीमान्कुल्माषानखादम् ।
कामो म उदकपानमिति स्वातन्त्र्यं मे उदकपाने नदीकूपतडागप्रापादिषु यथाकामं प्राप्नोमीति नोच्छिष्टोदकाभावे प्राणात्यय इति तत्रोच्छिष्टभक्षणदोष इति मटचीहतेषु कुरुषु ग्लायन्नशनायया मुनिर्निरपत्रप इभ्येन सामिजग्धान्खादयामास ॥28॥
स्तर्त् ब्स्व्भ्_3,4.7.29
अबाधाच् च

3.4.30

॥ 29 ॥
स्तर्त् ब्स्व्भ्_3,4.7.30
अपि च स्मर्यते

3.4.31

॥ 30 ॥
स्तर्त् ब्स्व्भ्_3,4.7.31
शब्दश् चातो ऽकामकारे

3.4.32

॥ 31 ॥
स्तर्त् ब्स्व्भ्_3,4.8.32
विहितत्वाच् चाश्रमकर्मापि

3.4.33

नित्यानि ह्याश्रमकर्माणि यावज्जीवश्रुतेर्नित्येहितोपायतयावश्यं कर्तव्यानि ।
विविदिषन्तीति च विद्यासंयोगाद्विद्यायाश्चावश्यंभावनियमाभावादनित्यता प्राप्नोति ।
नित्यानित्यसंयोगश्चैकस्य न संभवति, अवश्यानवश्यंभावयोरेकत्र विरोधात् ।
नच वाक्यभेदाद्वास्तवो विरोधः शक्यो ऽपनेतुम् ।
तस्मादनध्यवसाय एवात्रेति प्राप्तम् ।
एतेन ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइत्याक्षिप्तम् ।
एवं प्राप्ते ऽभिधीयते-सिद्धे हि स्याद्विरोधो ऽयं न तु साध्ये कथञ्चन ।
विध्यधीनात्मलाभे ऽस्मिन् यथाविधि मता स्थितिः ॥
सिद्धं हि वस्तु विरुद्धधर्मयोगेन बाध्यते ।
न तु साध्यरूपं यथा षोडशिन एकस्य ग्रहणाग्रहणे ।
ते हि विध्यधीनत्वाद्विकल्पेते एव ।
न पुनः सिद्धे विकल्पसंभवः ।
तदिहैकमेवाग्निहोत्राख्यं कर्म यावज्जीवश्रुतेर्निमित्तेन युज्यमानं नित्येहितोपात्तदुरितप्रक्षयप्रयोजनमवश्यकर्तव्यं, विद्याङ्गतया च विद्यायाः कादाचित्कतयानवश्यं भावे ऽपि ऽकाम्यो वा नैमित्तिको वा नित्यमर्थं विकृत्य निविशतेऽइति न्यायादनित्याधिकारेण निविशमानमपि न नित्यमनित्ययति, तेनापि तत्सिद्धेरिति संयोगपृथक्त्वान्न नित्यानित्यसंयोगविरोध एकस्य कार्यस्येति सिद्धम् ।
सहकारित्वं च कर्मणां न कार्ये विद्यायाः किं तूत्पत्तौ ।
कोर्ऽथो विद्यासहकारीणि कर्माणीति ।
अयमर्थः-सत्सु कर्मसु विद्यैव स्वकार्ये व्याप्रियते ।
यथा ऽसहैव दशभिः पूत्रैर्भारं वहति गर्दभीऽइति सात्स्वेव दशपुत्रेषु सैव भारस्य वाहिकेति ।
अविधिलक्षणत्वादिति ।
विहितं हि दर्शपौर्णमासाद्यङ्गैर्युज्यते न त्वविहितम् ।
ग्राहकग्रहणपूर्वकत्वादङ्गभावस्य विधैश्च ग्राहकत्वात् ।
अविहिते च तदनुपपत्तेः ।
चतसृणामपि च प्रतिपत्तीनां ब्रह्मणि विधानानुपपत्तेरित्युक्तं प्रथमसूत्रे ।
द्रष्टव्यो निदिध्यासितव्य इति च विधिसरूपं न विधिरित्यप्युक्तम् ।
उत्पत्तिं प्रति हेतुभावस्तु सत्त्वशुद्ध्या विविदिषोपजनद्वारेत्यधस्तादुपपादितम् ।
असाध्यत्वाच्च विद्याफलस्यापवर्गस्य स्वरूपावस्थानलक्षणो हि सः ।
नच स्वं रूपं ब्रह्मणः साध्यं नित्यत्वात् ।
शेषमतिरोहितार्थम् ॥32॥
स्तर्त् ब्स्व्भ्_3,4.8.33
सहकारित्वेन च

3.4.34

॥ 33 ॥
स्तर्त् ब्स्व्भ्_3,4.8.34
सर्वथापि त एवोभयलिङ्गात्

3.4.35

यथा मासमग्निहोत्रं जुह्वतीति प्रकरणान्तरात्कर्मभेद एवमिहापि ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेनऽइतिक्रतुप्रकरणमतिक्रम्यश्रवणात्प्रकरणान्तरात्तद्बुद्ध् इव्यवच्छेदे सति कर्मान्तरमिति प्राप्त उच्यते-सत्यपि प्रकरणान्तरे तदेव कर्म, श्रुतेः स्मृतेश्च संयोगभेदः परं यथा ऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति तदेवाग्निहोत्रमुभयसंयुक्तम् ।
नहि प्रकरणान्तरं साक्षाद्भेदकम् ।
किन्तु अज्ञातज्ञापनस्वरसो विधिः प्रकरणैक्ये स्फुटतरप्रत्यभिज्ञाबलेन स्वरसं जह्यात् ।
प्रकरणान्तरेण तु विघटुतप्रत्यभिज्ञानः स्वरसमजहत्कर्म भिनत्ति ।
इह तु सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुञ्जानो न जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयितुमर्हति ।
नच तत्रापि नैयमिकाग्निहोत्रे मासविधिर्नापूर्वाग्निहोत्रोत्पत्तिरिति सांप्रतम् ।
होम एव साक्षाद्विधिश्रुतेः ।
कालस्य चानुपादेयस्याविधेयत्वात् ।
काले हि कर्म विधीयते न कर्मणि काल इत्युत्सर्गः ।
इह तु विविदिषायां विधिश्रुतिः न यज्ञादौ ।
तानि तु सिद्धान्येवानूद्यन्त इत्यैककर्म्यात्संयोगपृथक्त्वं सिद्धम् ।
स्मृतिमुक्त्वा लिङ्गदर्शनमुक्तम् ॥34॥
स्तर्त् ब्स्व्भ्_3,4.8.35
अनभिभवं च दर्शयति

3.4.36

॥ 35 ॥
स्तर्त् ब्स्व्भ्_3,4.9.36
अन्तरा चापि तु तद्दृष्टेः

3.4.37

यदि विद्यासहकारीण्याश्रमकर्माणि हन्त भो विधुरादीनामनाश्रमिणामनधिकारो विद्यायाम्, अभावात्सहकारिणामाश्रमकर्मणामिति प्राप्त उच्यते-नात्यन्तमकर्माणो रैक्वविधुरवाचक्रवीप्रभृतयः ।
सन्ति हि तेषामनाश्रमित्वे ऽपि जपोपवासदेवताराधनादीनि कर्माणि ।
कर्मणां च सहकारित्वमुक्तमाश्रमकर्मणामुपलक्षणत्वादिति न तेषामनधिकारो विद्यासु ।
जन्मान्तरानुष्ठितेरपि चेति ।
न खलु विद्याकार्ये कर्मणामपेक्षा ।
अपितु उत्पादे ।
उत्पादयन्ति च विविदिषोपहारेण कर्माणि विद्याम् ।
उत्पन्नविविदिषाणां पुरुषधौरेयाणां विधुरसंवर्तप्रभृतीनां कृतं कर्मभिः ।
यद्यपि चेह जन्मनि कर्माण्यननुष्ठितानि तथापि विविदिषातिशयदर्शनात्प्राचि भवे ऽनुष्ठितानि तैरिति गम्यत इति ।
ननु यथाधीतवेद एव धर्मजिज्ञासायामधिक्रियते नानधीतवेद इह जन्मनि ।
तथेह जन्मन्याश्रमकर्मोत्पादितविविदिष एव विद्यायामधिकृतो नेतर इत्यनाश्रमिणामनधिकारो विधुरप्रभृतीनामित्यत आह- दृष्टार्था चेति ।
अविद्यानिवृत्तिर्विद्याया दृष्टोर्ऽथः ।
स चान्वव्यतिरेकसिद्धो न नियममपेक्षत इत्यर्थः ।
प्रतिषेधो विधातस्तस्याभाव इत्यर्थः ॥36॥
स्तर्त् ब्स्व्भ्_3,4.9.37
अपि च स्मर्यते

3.4.38

॥ 37 ॥
स्तर्त् ब्स्व्भ्_3,4.9.38
विशेषानुग्रहश् च

3.4.39

॥ 38 ॥
स्तर्त् ब्स्व्भ्_3,4.10.39
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च

3.4.40

यद्यनाश्रमिणामप्यधिकारो विद्यायां कृतं तर्ह्याश्रमैरतिबहुलायासैरित्याशङ्क्याह-अतस्त्वितरज्ज्यायो लिङ्गाच्च ।
स्वस्थेनाश्रमित्वमास्थेयम् ।
दैवात्पुनः पत्न्यादिवियोगातः सत्यनाश्रमित्वे भवेदधिकारो विद्यायामिति श्रुतिस्मृतिसंदर्भेण विविदिषन्ति यज्ञेनेत्यादिना ज्यायस्त्वावगतेः श्रुतिलिङ्गात्स्मृतिलिङ्गाच्चावगम्यते ।
तेनैति पुण्यकृदिति श्रुतिलिङ्गम्, अनाश्रमी न तिष्ठेतेत्यादि च स्मृतिलिङ्गम् ॥39॥
स्तर्त् ब्स्व्भ्_3,4.10.40
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः

3.4.41

आरोहवत्प्रत्यवरोहो ऽपि कदाचिदूर्ध्वरेतसां स्यादिति मन्दाशङ्कानिवारणार्थमिदमधिकरणम् ।
पूर्वधर्मेषु यागहोमादिषु ।
रागतो वा गृहस्थो ऽहं पत्न्यादिपरिवृतः स्यामिति ।
नियमं व्याचष्टे-तथाहि- अत्यन्तमात्मानमिति ।
अतद्रूपतामारोहतुल्यताभावं व्याचष्टे-य थाच ब्रह्मचर्यं समाप्येति ।
अभावं शिष्टाचाराभावं विभजते- न चैवमाचाराः शिष्टा इति ।
अतिरोहितार्थमन्यत् ॥40॥
स्तर्त् ब्स्व्भ्_3,4.11.41
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्

3.4.42

प्रायश्चित्तं न पश्यामीति नैष्ठिकं प्रति प्रायश्चित्ताभावस्मरणान्नैरृतगर्दभालम्भः प्रायश्चित्तमुपकुर्वाणकं प्रति ।
तस्माच्छिन्नशिरस इव पुंसः प्रतिक्रियाभाव इति पूर्वः पक्षः ।
सूत्रयोजना तु-न चाधिकारिकमधिकारलक्षणे प्रथमकाण्डे निर्णीतम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽइत्यनेन यत्प्रायश्चित्तं तन्न नैष्ठिके भवितुमर्हति ।
कुतः-आरूढो नैष्ठिकमिति स्मृत्या पतनश्रुत्यनुमानात्तत्प्रायश्चित्तायोगात् ॥41॥
स्तर्त् ब्स्व्भ्_3,4.11.42
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम्

3.4.43

श्रुतिस्तावत्सरसतो ऽसङ्कुचद्वृत्तिर्ब्रह्मचारिमात्रस्य नैष्ठिकस्योपकुर्वाणस्य चाविशेषेण प्रायश्चित्तमुपदिशति साक्षात् ।
प्रायश्चित्तं न पश्यामीति तु स्मृतिः ।
तस्यामपि च साक्षात्प्रायश्चित्तं न कर्तव्यमिति प्रायश्चित्तनिषेधो न गम्यते, न पश्यामीति तु दर्शनाभावेन सो ऽनुमातव्यः ।
तथा च स्मृतिर्निषेधार्थेति अनुमाय तदर्था श्रुतिरनुमातव्या ।
श्रुतिस्तु सामान्यविषया विशेषमुपसर्पन्ती शीघ्रप्रवृत्तिरिति ।
स्मार्तं प्रायश्चित्तादर्शनं तु यत्नगौरवार्थम् ।
एतदुक्तं भवति-कृतनिर्णेजनैरपि एतैर्न संख्यानं कर्तव्यमिति ।
सूत्रार्थस्तु-उपपूर्वमपि पातकं नैष्ठिकस्यावकीर्णित्वं न महापातकमपिरेवकारार्थे अत एके प्रायश्चित्तभावमिच्छन्तीति ।
आचार्याणां विप्रतिपत्तौ विशेषाभावात्साम्यं भवेत् ।
शास्त्रस्था या वा प्रसिद्धिः सा ग्राह्या शास्त्रमूलत्वात् ।
उपपादितं च प्रायश्चित्तभावप्रसिद्धेः शास्त्रमूलत्वमिति ।
सुगममितरम् ॥42॥
स्तर्त् ब्स्व्भ्_3,4.12.43
बहिस् तूभयथापि स्मृतेर् आचाराच् च

3.4.44

यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति ।
तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणो वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते- बहिस्तूभयथापि स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वये ऽप्यशुद्धिमापादयति द्वैधम् कस्यचिदेनसो लोकद्वये ऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः ।
कस्याचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् ।
यथा स्त्रीबालादिघातिनाम् ।
यथाहुः-ऽविशुद्धानपि धर्मतो न संपिबेत्ऽइति ।
तथा च ऽप्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्ऽकामतः कृतमपि ।
बालघ्नादिस्तु कृतनिर्णेजनो ऽपि वचनादव्यवहार्य इह लोके जायत इति ।
वचनं च बालघ्नांश्चेत्यादि ।
तस्मात्सर्वमवदातम् ॥43॥
स्तर्त् ब्स्व्भ्_3,4.13.44
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः

3.4.45

प्रथमे काण्डे शेषलक्षणे तथाकाम इत्यत्रर्त्विक्संबन्धे कर्मणः सिद्धे किं कामो याजमान उतार्त्विज्य इति संशय्यार्त्विज्ये ऽपि कर्मणि याजमान एव कामो गुणफलेष्विति निर्णीतमिह त्वेवञ्जातीयकानि चाङ्गसंबद्धानि उपासनानि किं याजमानन्येवोतार्त्विज्यानीति विचार्यत इति न पुनरुक्तम् ।
तत्रोपासकानां फलश्रवणादनधिकारिणस्तदनुपपत्तेर्यजमानस्य च कर्मजनितफलोपभोगभाजो ऽधिकारादृत्विजां च तदनुपपत्तेर्वचनाच्च राजाज्ञास्थानीयात्क्वचिदृत्विजां फलश्रुतेरसति वचने यजमानस्य फलवदुपासनं तस्य फलश्रुतेः तं ह बको दाल्भ्यो विदाञ्चकारेत्यादेरुपासनस्य च सिद्धविषयतयान्यायापवादसामर्थ्यभावाद्याजमानमेवोपासनाकर्मेति प्राप्त उच्यते- ॥44॥
स्तर्त् ब्स्व्भ्_3,4.13.45
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते

3.4.46

उपाख्यानात्तावदुपासनमौद्गात्रमवगम्यते ।
तद्बलवति सति बाधके ऽन्यथोपपादनीयम् ।
न चर्त्विक्कर्तृक उपासने यजमानगामिता फलस्यासंभविनी तेन हि स परिक्रीतस्तद्गामिनो फलाय घटते ।
तस्मान्न व्यसनितामात्रेणोपाख्यानमन्यथयितुं युक्तमिति राद्धान्तः ॥45॥
स्तर्त् ब्स्व्भ्_3,4.13.46
श्रुतेश्च

3.4.47

॥ 46 ॥
स्तर्त् ब्स्व्भ्_3,4.14.47
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्

3.4.48

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन ।
लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति ।
यत्र हि विधिविभक्तिः श्रूयते स विधेयः ।
बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने ।
तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि ।
न चापूर्वत्वाद्विधेयं, तस्माद्ब्राह्णः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति ।
अथवा भिक्षुवचनो ऽयं मुनिशब्दस्तत्र दर्शनात् ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽइत्यत्र ।
तस्यान्यतो विहितस्यायमनुवादः ।
तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् ।
भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् ।
अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसंपत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः ।
आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् ।
तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह- निर्वेदनीयत्वनिर्देशादिति ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह- तद्वतो विद्यावतः संन्यासिनो भिक्षोः ।
पृच्छति- कथमिति ।
विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः ।
उत्तरन् तदधिकारात् भिक्षोस्तदधिकारात् ।
तद्दर्शयति- आत्मानं विदित्वेति ।
सूत्रावयवं योजयितुं शङ्कते- नन्विति ।
परिहरति- अत आह-पक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः ।
अपि तु विद्योदयायाभ्यासो प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः ।
तथाचास्य पक्षे कदाचिद्भेददर्शनात्संभव इत्यर्थः ।
विध्यादिर्विधिमुख्यः प्रधानमिति यावत् ।
अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति ।
तत्राश्रूयमाणविधित्वे ऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥47॥
स्तर्त् ब्स्व्भ्_3,4.14.48
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति- एवं बाल्यादिविशिष्टेति ।
उत्तरं पठति-
कृत्स्नभावात् तु गृहिणोपसंहारः

3.4.49

छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः ॥48॥
स्तर्त् ब्स्व्भ्_3,4.14.49
एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम्-
मौनवद् इतरेषाम् अप्य् उपदेशात्

3.4.50

वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्माचारिणो ऽपीति वृत्तिभेदो ऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वे ऽपि बहुवचनमविरुद्धम् ॥49॥
स्तर्त् ब्स्व्भ्_3,4.15.50
अनाविष्कुर्वन्न् अन्वयात्

3.4.51

बाल्येनेति यावद्बालचरितश्रुतेः कामचारवादभक्षतायाशचात्यन्तबाल्येन प्रसिद्धेः शौचादिनियमविधायिनश्च सामान्यशास्त्रस्यानेन विशेषशास्त्रेण बाधनात्सकलबालचरितविधानमिति प्राप्ते ऽभिधीयते-विद्याङ्गत्वेन बाल्यविधानात्समस्तबालचर्यायां च प्रधानविरोधप्रसङ्गाद्यत्तदनुगुणमप्रौढेन्द्रियत्वादि भावशुद्धिरूपं तदेव विधीयते ।
एवं च शास्त्रान्तराबाधेनाप्युपपत्तौ न शास्त्रान्तरबाधनमन्याय्यं भविष्यतीति ॥50॥
स्तर्त् ब्स्व्भ्_3,4.16.51
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्

3.4.52

संगतिमाह- सर्वापेक्षा चेति ।
किं श्रवणादिभिरिहैव वा जन्मनि विद्या साध्यते उतानियम इह वामुत्र वेति ।
यद्यपि कर्माणि यज्ञादीन्यनियतफलानि तेषां च विद्योत्पादसाधनत्वेन विद्योत्पादस्यानियमः प्रतिभाति ।
तथाच गर्भस्थस्य वामदेवस्यात्मप्रतिबोधश्रवणात् ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽइति च स्मरणादामुष्मिकत्वमप्यवगम्यते ।
तथापि यज्ञादीनां प्रमेयाणामप्रमाणत्वाच्छ्रवणादेश्च प्रमाणत्वात्तेषामेव साक्षाद्विद्यासाधनत्वम् ।
यज्ञादीनां सत्त्वशुद्ध्याधानेन वा विद्योत्पादकश्रवणादिलक्षणप्रमाणप्रवृत्तिविघ्नोपशमेन वा विद्यासाधनत्वाम् ।
श्रवणादीनां त्वनपेक्षाणामेव विद्योत्पादकत्वम् ।
नच प्रमाणेषु प्रवर्तमानाः प्रमातार ऐहिकमपि चिरभाविनं प्रमोत्पादं कामयन्ते किन्तु तादात्विकमेव प्रागेव तु पारलौकिकम् ।
नहि कुम्भलादिदृक्षुश्चक्षुषी समुन्मीलयति कालान्तरीयाय कुम्भदर्शनाय किन्तु तादात्विकाय ।
तस्मादैहिक एव विद्योत्पादो नानियतकालः ।
श्रुतिस्मृती च पारलौकिकं विद्योत्पादं स्तुत्या ब्रूतः ।
इत्थंभूतानि नाम श्रवणादीन्यावश्यकफलानि यत्कालान्तरे ऽपि विद्यामुत्पादयन्तीति ।
एवं प्राप्त उच्यते-यत एवात्र विद्योत्पादे श्रवणादिभिः कर्तव्ये यज्ञादीनां सत्त्वशुद्धिद्वारेण वा विघ्नोपशमद्वारा वोपयोगो ऽत एव तेषां यज्ञादीनां कर्मान्तरप्रतिबन्धाप्रतिबन्धाभ्यामनियतफलत्वेन तदपेक्षाणां श्रवणादीनामप्यनियतफलत्वं न्याय्यमनपहतविघ्नानां श्रवणादीनामनुत्पादकत्वादविशुद्धसत्त्वाद्वा पुंसः प्रत्यनुत्पादकत्वात् ।
तथाच तेषां यज्ञाद्यपेक्षाणां तेषां चानियतफलत्वेन श्रवणादीनामप्यनियतफलत्वं युक्तमेवं श्रुतिस्मृतिप्रतिबन्धो न स्तुतिमात्रत्वेन व्याख्येयो भविष्यति ।
पुरुषाश्च विद्यार्थिनः साधनसामर्थ्यानुसारेण तदनुरूपमेव कामयिष्यन्ते तदिदमुक्तम्-अभिसंधेर्निरङ्कुशत्वादिति ॥51॥
स्तर्त् ब्स्व्भ्_3,4.17.52
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः

मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc