भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 · अध्याय 3.3

3.3.1

दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा ।
नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः ।
नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः ।
तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत ।
तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेध्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे ।
लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्ति भिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् ।
तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् ।
यथा विनष्टं
कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति ।
तथा देवपूजात्मको यागो देवतां नप्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् ।
नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते ।
तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते ।
तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण ।
एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् ।
ततः स्थायिनो ऽनिष्टफलप्रसवः ।
नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते ।
नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिको ऽपीश्वरः ।
यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः ।
एवं प्रधानाराधने ऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः ।
स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् ।
तस्माद्दृष्टाविरोधेन देवताराधनात् फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः ।
ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयांबभूवुस्तेभ्यो व्यावहारिख्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥41॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥2॥
॥ इति तृतीयाध्यायस्य तत्त्वम्पदार्थपरिशोधनाख्यो द्वितीयः पादः ॥
तृतीयाध्याये तृतीयः पादः ।
स्तर्त् ब्स्व्भ्_3,3.1.1
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्

3.3.2

पूर्वेण संगतिमाह-
व्याख्यातं विज्ञेयस्य ब्रह्मण इति ।
निरूपाधिब्रह्मतत्त्वगोचरं विज्ञानं मन्वान आक्षिपति-
ननु विज्ञेयं ब्रह्मेति ।
सावयवस्य ह्यवयवानां भेदात्तदवयवविशिष्टब्रह्मगोचराणि विज्ञानानि गोचरभेदाद्भिद्येरन्नित्यवयवा ब्रह्मणो निराकृताः पूर्वापरादीत्यनेन ।
नच नानास्वभावं ब्रह्म यतः स्वभावभेदाद्भिन्नानि ज्ञानानीत्युक्तम्-
एकरसमिति ।
धनङ् कठिनम् ।
नन्वेकमप्यनेकरूपं लोके दृष्टं, यथा सोमशर्मैको ऽप्याचार्यो मायुलपिता पुत्रो भ्राता भर्ता जामाता द्विजोत्तम इत्यनेकरूप इत्यत उक्तम्-
एकरूपत्वाच्च ।
एकस्मिन् गोचरे संभवन्ति बहूनि विज्ञानानि न त्वनेकाकारणीत्युक्तम्-
अनेकरूपाणि ।
रूपमाकारः ।
समाधत्ते-
उच्यते-सगुणेति ।
तत्तद्गुणोपाधानब्रह्मविषया उपासनाः प्राणादिविषयाश्च दृष्टादृष्टक्रमुक्तिफला विषयभेदाद्भिद्यन्त इत्यर्थः ।
तत उपपन्नो विमर्श इत्याह-
तेष्वेषा चिन्ता ।
पूर्वपक्षं गृह्णाति-
तत्रेति ।
नाम्नस्तावदिति ।
अस्ति ऽअथैष ज्योतिः-एतेन सहस्रदक्षिणेन यजेतऽइति ।
तत्र संशयः-किं यजेतेति संनिहितज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानम्, उतैतद्गुणविशिष्टकर्मान्तरविधानमिति ।
किं तावत् प्राप्तम्, ज्योतिष्टोमस्य प्रक्रान्तत्वाद्यजेतेति तदनुवादाज्ज्योतिरिति प्रातिपदिकमात्रं पठित्वा एतेनेत्यनुकृष्य कर्मसामानाधिकरण्येन
कर्मनामव्यवस्थापनात्, कर्मणश्चानुवाद्यत्वेन तत्तन्त्रस्य नाम्नो ऽपि तथैव व्यवस्थापनात्, ज्योतिःशब्दस्य ऽवसन्ते वसन्ते ज्योतिषाऽइति च ज्योतिष्टोमे योगदर्शनात् नामैकदेशेन च नामोपलक्षणस्य लोकसिद्धत्वाद्भीमसेनोपलक्षणभीमपदवत्, अथशब्दस्य चानन्तर्यार्थस्यासंबन्धित्वे ऽनुपपत्तेः, गुणविशिष्टकर्मान्तरविधेश्च गुणमात्रविधानस्य लाघवात्, द्वादशशतदक्षिणायाश्चोत्पत्त्यशिष्टतया समशिष्टतया सहस्रदक्षिणया सह विकल्पोपपत्तेः, प्रकृतस्यैव ज्योतिष्टोमस्य सहस्रदक्षिणालक्षणगुणविधानार्थमयमनुवादो न तु कर्मान्तरमिति प्राप्तम् ।
एवं प्राप्त उच्यते-भवेत्पूर्वस्मिन् गुणविधिर्यदि तदेव प्रकरणं स्यात् ।
विच्छिन्नं तु तत् ।
तथाहि संनिधावपि पूर्वासंबद्धार्थं संज्ञान्तरं प्रतीयमानम् ऽअन्यायश्चानेकार्थत्वम्ऽइति न्यायादुत्सर्गतोर्ऽथान्तरार्थत्वात्पूर्वबुद्धिं व्यवच्छिनत्त्यपूर्वबुद्धिं च प्रसूत इति लोकसिद्धम् ।
न जातु देहि देवदत्ताय गामथ देवाय वाजिनमिति देवशब्दाद्देवदत्तं वाजिभाजमवस्यन्ति लौकिकाः ।
तथा चोपरिष्टात् ऽयजेतऽइति श्रूयमाणमसंबद्धार्थपदव्यवायात्तत्कर्मबुद्धिमनादधत् तत्र गुणविधानमात्रासमर्थं कर्मान्तरमेव विधत्ते ।
न चैकत्रानुपपत्त्या लक्षणया ज्योतिःशब्दो ज्योतिष्टोमे प्रवृत्त इत्यसत्यामनुपपत्तौ लाक्षणिको युक्तः ।
नहि गाङ्गायां घोष इत्यत्र गाङ्गापदं लाक्षणिकमिति मीनो गाङ्गायामित्यत्रापि लाक्षणिकं भवति ।
भेदे ऽपि च प्रथमं संज्ञान्तरेणोल्लिखिते यजिशब्दसामानाधिकरण्यं कर्मनामधेयतामात्रतामावहति नतु संज्ञान्तरोपजनितां भेदधियमपनेतुमुत्सहते ।
तथा चाथशब्दो ऽधिकारार्थः प्रकरणान्तरतामवद्योतयति ।
एषशब्दश्चाधिक्रियमाणपरामर्शक इति सो ऽयं संज्ञान्तराद्भेद इति ।
भवतु संज्ञान्तरात्कर्मभेदः प्रस्तुते तु किमायातमित्यत आह-
अस्ति चात्र वेदान्तान्तरविहितेष्विति ।
यथैव काठकादिसमाख्या ग्रन्थे प्रयुज्यन्त एवं ज्ञाने ऽपि लौकिकाः ।
न चास्ति विशेषो यतो ग्रन्थे मुख्याविज्ञाने गौणी भवेत् ।
प्रणयनं च ग्रन्थज्ञानयोरभिन्नं प्रवृत्तिनिमित्तम् ।
तस्माज्ज्ञानस्यापि वाचिका समाख्या ।
तथाच यदा ज्योतिष्टोमसंनिधौ श्रूयमाणं समाख्यान्तरं तत्प्रतीकमपि कर्मणो भेदकं तदा कैव कथा शाखान्तरीये विप्रकृष्टतमे ऽतत्प्रतीकभूतसमाख्यान्तराभिधेये ज्ञात इति ।
तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो यथा ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्येवमादिषु ।
इदमाम्नयते-ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षाऽइति ।
अत्र हि द्रव्यदेवतासंबन्धानुमितो यागो विधीयते ।
तदनन्तरं चेदमाम्नायते-ऽवाजिभ्यो वाजिनम्ऽइति ।
अत्रेदं संदिह्यते-किं पूर्वस्मिन्नेव कर्मणि वाजिनं गुणो विधीयते उत कर्मान्तरं द्रव्यदेवतान्तरविशिष्टमपूर्वं विधीयत इति ।
किं तावत् प्राप्तम्, द्रव्यदेवतान्तरविशिष्टकर्मान्तरविधौ विधिगौरवप्रसङ्गात् कर्मान्तरापूर्वान्तरकल्पनागौरवप्रसङ्गाच्च न कर्मान्तरविधानमपि तु पूर्वस्मिन्नेव कर्मणि वाजिनद्रव्यविधिः ।
न चोत्पत्तिशिष्टमिक्षागुणावरोधात्तत्र वाजिनमलब्धावकाशं कर्मान्तरं गोचरयतीति युक्तम् ।
उभयोरपि वाक्ययोः समसमयप्रवृत्तेरामिक्षावाजिनयोरुत्पत्तौ समं शिष्यमाणत्वेन नामिक्षायाः शिष्टत्वम् ।
तत्कथमनयावरुद्धं कर्म न वाजिनं निविशेत् ।
न च वैश्वदेवीत्यत्र श्रौत आमिक्षासंबन्धो विश्वेषां देवानां येन वाजिनसंबन्धाद्वाक्यगम्याद्बलवान्भवेदुभयोरपि पदान्तरापेक्षप्रतीतितया वाक्यगम्यत्वाविशेषात् ।
नो खलु वैश्वदेवीत्युक्ते आमिक्षापदानपेक्षामामिक्षामध्यवस्यामः ।
अस्तु वा श्रौतत्वं तथापि वाजिभ्य इति पदं वाजमन्नमामिक्षा तदेषामस्तीति व्युत्पत्त्या तत्संबन्धिनो विश्वान्देवानुपलक्षयति ।
यद्यपि विश्वदेवशब्दाद्वाजिपदं भिन्नं, येन च शब्देन चोदना तेनैवोद्देशे
देवतात्वं न शब्दान्तरेणान्यथार्थैकत्वेन सूर्यादित्यपदयोः सूर्यादित्यचर्वोरेकदैवत्यप्रसङ्गात्, तथापि वाजिन्नितीनेः सर्वनामार्थे स्मरणात् संनिहितस्य च सर्वनामार्थत्वात्, विश्वेषां देवानां च विश्वदेवपदेन संनिधापनात्तत्पदपुरःसरा एवैते वाजिपदेनोपस्थाप्या न तु सूर्यादित्यपदवत्स्वतन्त्राः ।
तथाच तदुपलक्षणार्थं वाजिपदं विश्वदेवोपहितामेव देवतामुपलक्षयतीति न शब्दान्तरोद्देवताभेदः ।
ततश्चामिक्षासंबन्धोपजीवनेन विश्वेभ्यो वाजिनं विधीयमानं नामिक्षया बाध्यते किन्तु तया सह समुच्चीयत इति न कर्मान्तरमपि तु वाक्याभ्यां द्रव्ययुक्तमेकं कर्म विधीयत इति प्राप्त उच्यते-स्यादेतदेवं यदि वैश्वदेवीति तद्धितश्रुत्यामिक्षा नोच्येत ।
तद्धितस्य त्वस्येति सर्वनामार्थे स्मरणात् संनिहितस्य च विशेष्यस्य सर्वनामार्थत्वात्तत्रैव तद्धितस्यापि वृत्तिर्नतु विश्वेषु देवेषषु ।
न तत्संबन्धे, नापि तत्संबन्धिमात्रे ।
नन्वेवं सति कस्माद्वैश्वदेवीशब्दमात्रादेव नामिक्षां प्रतीमः किमिति चामिक्षापदमपेक्षामहे ।
तद्धितान्तस्य पदस्याभिधानापर्यवसानान्न प्रतीमस्तत्पर्यवसानाय चापेक्षामहे ।
अवसिताभिधानं हि पदं समर्थमर्थधियमाधातुम् ।
इदं तु संनिहितविशेषाभिधायि तत्संनिधिमपेक्षमाणं संनिधापकमामिक्षापदमपेक्षत इति कुत आमिक्षापदानपेक्ष आमिक्षाप्रत्ययप्रसङ्गः ।
कुतो वा तत्रानपेक्षा ।

अतश्च सत्यामपि पदान्तरापेक्षायां यत्पदं पदान्तरापेक्षमभिधत्ते तत्प्रमाणभूतप्रथमभाविपदावगम्यत्वाच्छ्रौतं बलीयश्च ।
यत्तु पर्यवसिताभिधानपदाभिहितपदार्थवगमगम्यं तत्तच्चरमप्रतीतिवाक्यगम्यं दुर्बलं चेति तद्धितश्रुत्यवगतामिक्षालक्षणगुणावरोधात्पूर्वकर्मासंयोगि वाजिनद्रव्यं ससंबन्धि पूर्वस्माद्भिनत्ति ।
एवञ्च सति नित्यवदवगधानपेक्षसाधनभावामिक्षा न वाचिनद्रव्येण सह विकल्पसमुच्चयौ प्राप्स्यति ।
नचाश्वत्वे निरीढत्वादनपेक्षवृत्ति वाजिपदं कथञ्चिद्यौगिकं सापेक्षावृत्ति विश्वदेवशब्दां देवतां वैश्वदेवीपदादामिक्षाद्रव्यं प्रत्युपसर्जनीभूतामवगतामुपलक्षयिष्यति ।
प्रकृतं हि सर्वनामपदगोचरः ।
प्रधानं च प्रकृतमुच्यते नोपसर्जनम् ।
प्रामाणिके च विधिकल्पनागौरवे अभ्युपेतव्ये एव प्रमाणस्य तत्त्वविषयत्वात् ।
तस्माद्यथेह पूर्वकर्मासंभविनो गुणात्कर्मभेद एवमिहापि पञ्चाग्निविद्यायाः षडग्निविद्या भिन्ना, एवं प्राणसंवादेषूनाधिकभावेन विद्याभेद इति ।
तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक इति ।
तथाहि-कारीरिवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति नाचरन्त्यन्ये ।
तथाग्निमधीयानाः केचिदुपाध्यायस्योदकुम्भमाहरन्ति नाहरन्त्यन्ये ।
तथाश्वमेधमधीयानाः केचिदश्वस्य घासमानयन्ति नानयन्त्यन्ये ।
केचित्त्वाचरन्त्यन्यमेव धर्मम् ।
नच तान्येव कर्माणि भूमिभोजनादिजनितमुपकारमाकाङ्क्षन्ति नाकाङ्क्षन्ति चेति युज्यते ।
अतो ऽवगम्यते भिन्नानि तासु शाखासु कर्माणीति ।
अस्तु प्रस्तुते किमायातमित्यत आह-
अस्ति चात्रेति ।
अन्येषां शाखिनां नास्तीति शेषः ।
एवं पुनरुक्त्यादयो ऽपीति ।
ऽसमिधो यजतिऽइत्यादिषु पञ्चकृत्वो ऽभ्यस्तो यजतिशब्दः ।
तत्र किमेका कर्मभावना किंवा पञ्चैवेति ।
किं तावत्प्राप्तं, धात्वर्थानुबन्धभेदेन शब्दान्तराधिकरणे भावनाभेदाभिधानाद्धात्वर्थस्य च धातुभेदमन्तरेण भेदानुपपत्तेः ऽसमिधो यजतिऽइति प्रथमभाविना वाक्येन विहिता कर्मभावना विपरीवर्तमानोपरितनैर्वाक्यैरनूद्यते ।
नच प्रयोजनाभावादननुवादः प्रमाणसिद्धस्याप्रयोजनस्याननुयोज्यत्वात् ।
कर्मभावनाभेदे चानेकापूर्वकल्पनाप्रसङ्गादेकापूर्ववान्तरव्यापारमेकं कर्मेति प्राप्तम् ।
एवं प्राप्त उच्यते-परस्परानपेक्षाणि हि समिदादिवाक्यानीति ।
सर्वाण्येव प्राथम्यार्हण्यपि युगपदध्ययनानुपपत्तेः क्रमेणाधीतानीति ।
न त्वयमेषां प्रयोजकः क्रमः ।
परस्परापेक्षाणामेकवाक्यत्वे हि प्रयोजकः स्यात् ।
तेन प्राथम्याभावात् प्राप्तमित्येव नास्तीति कस्य को ऽनुवादः ।
कथञ्चिद्विपरिवृत्तिमात्रस्यौत्सर्गिकाप्रवृत्तप्रवर्तनालक्षणविधित्वापवादसामर्थ्याभावात् ।
गुणश्रवणे हि गुणविशिष्टकर्मविधाने विधिगौरवभिया गुणमात्रविधानलाघवाय कर्मानुवादापेक्षायां विपरिवृत्तेरुपकारः ।
यथा ऽदध्ना जुहोतिऽइति दधिविधिपरे वाक्ये विपरिवृत्त्यपेक्षायाम् ऽअग्निहोत्रं जुहेतिऽइति विहितस्य होमस्य
विपरीवर्तमानस्यानुवादः ।
न चात्र गुणाद्भेदः, समिदादिपदानां कर्मनामधेयानां गुणवचनत्वाभावात् ।
अगृह्यमाणविशेषतया च किंवचनविहितकिङ्कर्मानुवादेन कस्य गुणविधित्वमिति न विनिगम्यते ।
न चापूर्वा नाम ज्योतिरादिवद्विधानसंबन्धं प्रथममवगतं, यतः पूर्वबुद्धिविच्छेदेन विधीयमानं कर्म पूर्वस्मात्संज्ञातो व्यवच्छिन्द्यात् ।
किन्तु प्रथमत एव कर्मसामानाधिकरण्येनावगताः समिदादयस्तद्वशात्कर्मनामधेयतां प्रतिपद्यमाना आख्यातस्यानुवादत्वे ऽनुवादा विधित्वे विधयो न तु स्वातन्त्र्येण कस्यचिदीशते ।
तस्मात् स्वरससिद्धाप्राप्तकर्मविधिपरत्वात्कर्मण्ययमभ्यासो भावनानुबन्धभूतानि भिन्दानो भावनां भिनत्ति यथा तथा शाखान्तरविहिता अपि विद्याः शाखान्तरविहिताभ्यो विद्याभ्यो ऽभ्यासो भेत्स्यतीति ।
अशक्तेश्च ।
नह्येकः पुरुषः सर्ववेदान्तप्रत्ययात्मिकामुपासनामुपसंहर्तुं शक्नोति सर्ववेदान्ताध्ययनासामर्थ्यादनधीतार्थोपसंहारे ऽध्ययनविधानवैयथ्र्यप्रसङ्गात् ।
प्रतिशाखं भेदे तूपासनानां नायं दोषः ।
समाप्तिभेदाच्च ।
केषाञ्चित् शाखिनामोङ्कारसार्वात्म्यकथने समाप्तिः ।
केषाञ्चिदन्यत्र ।
तस्मादप्युपासनाभेदः ।
अन्यार्थदर्शनादपि भेदः ।
तथाहि-ऽनैतदचीर्णव्रतो ऽधीतेऽइति अचीर्णव्रतस्याध्ययनाभावदर्शनादुपासनाभावः ।
क्वचिदचीर्णव्रतस्याध्ययनदर्शनादुपासनावगम्यते ।
तस्मादुपासनाभेद इति ।
अत्र सिद्धान्तमाह-
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।
तद्व्याचष्टे-
सर्ववेदान्तप्रत्ययानि सर्ववेदान्तप्रमाणानि विज्ञानानि तस्मिंस्तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
यान्येकस्मिन् वेदान्ते तान्येव वेदान्तान्तरेष्वपीत्यर्थः ।
चोदनाद्यविशेषात् ।
आदिशब्देन संयोगरूपाख्याः संगृह्यन्ते ।
अत्र च चोद्यत इति चोदना पुरुषप्रयत्नः ।
स हि पुरुषस्य व्यापारः ।
तत्र खल्वयं होमादिधात्वर्थावच्छिन्ने प्रवर्तते ।
तस्य देवतोद्देशेन त्यागस्यासेचनादिकस्यावच्छेद्यः पुरुषप्रयत्नः स एव शाखान्तरे यथैवमिहापि प्राणज्येष्ठत्वश्रेष्ठत्ववेदनविषयः पुरुषप्रयत्नः स एव शाखान्तरेष्वपीति ।
एवं फलसंयोगो ऽपि ज्येष्ठश्रेष्ठभवनलक्षणः स एव ।
रूपमपि तदेव ।
यथा यागस्य यदेकस्यां शाखायां द्रव्यदेवतारूपं तदेव शाखान्तरेष्वपीति ।
एवं वेदनस्यापि यदेकत्र प्राणज्येष्ठत्वश्रेष्ठत्वरूपं विषयस्तच्छाखान्तरेष्वपीति ॥1॥
स्तर्त् ब्स्व्भ्_3,3.1.2
कञ्चिद्विशेषमिति ।
युक्तं यदग्नीषोमीयस्योत्पन्नस्य पश्चादेकादशकपालत्वादिसंबन्धे ऽप्यभेद इति ।
यथोत्पन्नस्य तस्य सर्वत्र प्रत्यभिज्ञायमानत्वादिह त्वग्निषूत्वपत्तिगत एव गुणभेद इति कथं वैश्वदेवीवन्न भेदक इति विशेषः ।
तमिमं विशेषमभिप्रेत्याशङ्कते सूत्रकारः-
भेदान्नेति चेदिति
परिहारः सूत्रावयवः-
न एकस्यामपीति

3.3.3

पञ्चैव सांपादिका अग्नयो वाजसनेयिनामपि छान्दोग्यानामिव विधीयन्ते ।
षष्ठस्त्वग्निः संपद्व्यतिरेकायानूद्यते न तु विधीयते ।
वैश्वदेव्यां तूत्पत्तौ गुणो विधीयत इति भवतु भेदः ।
अथवा छान्दोग्यानामपि षष्ठो ऽग्निः पठ्यत एव ।
अथवा भवतु
वाजसनेयिनां षष्ठाग्निविधानं मा च भूच्छान्दोग्यानां तथापि पञ्चत्वसंख्याया अविधानान्नोत्पत्तिशिष्टत्वं संख्यायाः किन्तूत्पन्नेष्वग्निषु प्रचयशिष्टा संख्यानूद्यते सांपादिकानग्नीनवच्छेतुं, तेन येषामुत्पत्तिस्तेषां प्रत्यभिज्ञानात् ।
अप्रत्यभिज्ञायमानायाश्च संख्याया अनुवाद्यत्वेनानुत्पत्तेर्विधीयमानस्य चाधिकस्य षोडशिग्रहणवद्विकल्पसंभवान्न शाखान्तरे ज्ञानभेदः ।
उत्पत्तिशिष्टत्वे ऽसिद्धे प्राणसंवादादयो ऽपि भवन्ति प्रत्यभिज्ञानादभिन्नास्तासु तासु शाखास्विति ॥2॥
स्तर्त् ब्स्व्भ्_3,3.1.3
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः

3.3.4

यैराथर्वणिकग्रन्थोपाया विद्या वेदितव्यां तेषामेव शिरोव्रतपूर्वाध्ययनप्राप्तग्रन्थबोधिता फलं प्रयच्छति नान्यथा ।
अन्येषां तु छान्दोग्यादीनां सैव विद्या चीर्णशिरोव्रतानां फलदेत्याथर्वणग्रन्थाध्ययनसंबन्धादवगम्यते ।
तत्संबन्धश्च वेदव्रतेनेति ऽनैतदचीर्णव्रतो ऽधीतेऽइति समाम्नानादवगम्यते ।
ऽतेषामेवैतां ब्रह्मविद्यां वदेतऽइति विद्यासंयोगे ऽप्येतामिति प्रकृतपरामर्शिना सर्वनाम्नाध्ययनसंबन्धाविरोधादाथर्वविहितैव विद्योच्यत इति ।
सवा होमाः सप्त सौर्यादयः शतौदनान्ता अथर्वणिकानां त एकस्मिन्नेवार्थर्वणिके ऽग्नौ क्रियन्ते न त्रेतायाम् ॥3॥
स्तर्त् ब्स्व्भ्_3,3.1.4
विद्यैकत्वं
दर्शयति च

3.3.5

भूयोभूयो विद्यैकत्वस्य वेददर्शनाद्यत्रापि सगुणब्रह्मविद्यानां न साक्षाद्वेद
एकत्वमाह तासामपि तत्प्रायपठितानां तद्विधानां प्रायदर्शनादेकत्वमेव ।
तथाह्यग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति बुद्धिरिति ।
यच्च काठकादिसमाख्ययोपासनाभेद इति तदयुक्तम् ।
एता हि पौरुषेय्यः समाख्याः काठकादिप्रवचनयोगात्तासां शाखानां न तूपासनानाम् ।
नह्येताः कठादिभिः प्रोक्ता नच कठाद्यनुष्ठानमासामितरानुष्ठानेभ्यो विशेष्यते ।
नच कठप्रोक्तानिमित्तमात्रेण ग्रन्थे प्रवृत्तौ तद्योगाच्च कथञ्चिल्लक्षणयोपासनासु प्रवृत्तौ संभवन्त्यामुपासनाभिधानामप्यासां शक्यं कल्पयितुम् ।
नच तद्भेदाभेदौ ज्ञानभेदाभेदप्रयोजकौ, मा भूद्यथास्वमासामभेदाज्ज्ञानानामेकशाखागतानामैक्यम् ।
कठादिपुरुषप्रवचननिमित्ताश्चैताः समाख्याः कठादिभ्यः प्राक् नासन्निति तन्निबन्धनो ज्ञानभेदो नासीदिदानीं चास्तीति दुर्घटमापद्येत ।
तस्मान्न समाख्यातो भेदः ।
अभ्यासो ऽपि नात्र भेदकः ।
युक्तं यदेकशाखागतो यजत्यभ्यासः समिदादीनां भेदक इति ।
तत्र हि विधित्वमौत्सर्गिकमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं च कुप्येयाताम् ऽशाखान्तरे त्वध्येतृपुरुषभेदादेकत्वे ऽपि नौत्सर्गिकविधित्वव्याकोप इति ।
अशक्तिरपि न भेदहेतुः स्वाध्यायो ऽध्येतव्य इति स्वशाखायामध्ययननियमः ।
ततश्च शाखान्तरपरीयानर्थानन्येभ्यस्तद्विद्येभ्यो ऽधिगम्योपसंहरिष्यति ।
समाप्तिश्चैकस्मिन्नपि तत्संबन्धिनि समाप्ते तस्य व्यपदिश्यते ।
यथाध्वर्यवे कर्मणि ज्योतिष्टोमस्य समाप्ति व्यपदिशन्ति-ऽज्योतिष्टोमः समाप्तःऽइति तस्मात्समाप्तिभेदो ऽपि न साधनमुपासनाभेदस्य ।
तदेवमसति बाधके चोदनाद्यविशेषात्सर्ववेदान्तप्रत्ययानि कर्माणि तानि तान्येवेति सिद्धम् ॥4॥
स्तर्त् ब्स्व्भ्_3,3.2.5
कञ्चिद्विशेषमाशङ्क्य पूर्वतन्त्रप्रसाधितम् ।
वक्ष्यमाणार्थसिद्ध्यर्थमर्थमाह स्म सूत्रकृत् ॥
चिन्ताप्रयोजनप्रदर्शनार्थं सूत्रम्-
उपसंहारो ऽर्थाभेदाद् विधिशेषवत्समाने च

3.3.6

अत्रैदमाशङ्कते-भवतु
सर्वशाखाप्रत्ययमेकं विज्ञानं तथापि शाखान्तरोक्तानां तदङ्गान्तराणां न शाखान्तरोक्ते तस्मिन्नुपसंहारो भवितुमर्हति ।
तस्यैकस्य कर्मणो यावन्मात्रमङ्गजातमेकस्यां शाखायां विहितं तावान्मात्रेणैवोपकारसिद्धेरधिकानपेक्षणात् ।
अपेक्षणे चाधिकमपि तत्र विधीयते ।
नच विहितम् ।
तस्माद्यथा नैमित्तिकं कर्म सकलाङ्गवद्विहितमपि अशक्तौ यावच्छक्यमङ्गमनुष्ठातुं तावन्मात्रजन्येनोपकारेणौपकृतं भवत्येवमिहाप्यङ्गान्तराविधानादेव भविष्यतीति ।
एवं प्राप्त उच्यते-सर्वत्रैकत्वे कर्मणः स्थिते गृहमेधीयन्यायेन नोपकारावच्छेदो युज्यते ।
नहि तदेव कर्म सत्तदङ्गमपेक्षते नापेक्षते चेति युज्यते ।
नैमित्तिके तु निमित्तानुरोधादवश्यकर्तव्ये सर्वाङ्गोपसंहारस्य सदातनत्वासंभवादुपकारावच्छेदः कल्प्यते ।
प्राकृतोपकारपिण्डे चोदकप्राप्ते आज्यभागविधानाद्गृहमेधीये ऽप्युपकारावच्छेदः स्यात् ।
इह तु शाखान्तरे कतिपयाङ्गविधानं तानि विधत्ते नेतराणि परिसंचष्टे ।
नच तदुपकारपिण्डे चोदकप्राप्ते आज्यभागवत्तन्मात्रविधानम् ।
तस्मात्तत्त्वेन कर्मणां सर्वाङ्गसङ्गम औत्सर्गिको ऽसति बलवति बाधके नापवदितुं युक्त इति ॥5॥
स्तर्त् ब्स्व्भ्_3,3.3.6
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्

3.3.7

द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च ।
ततः कानीयसा एव देवा ज्यायसा असुराः ।
शास्त्रजन्यया सात्त्विक्या बुद्ध्या संपन्ना देवाः ।
ते हि दीव्यन्त इति देवाः ।
शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः ।
यतो ऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः ।
अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य ।
प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् ।
कदाचित्तामसवृत्त्युद्भवो ऽभिभवश्च सात्त्विक्या वृत्तैः ।
सेयं स्पर्धा ।
ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान्
जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति ।
ते ह वाचमूचुरित्यादिना संदर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति ।
तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत् ते ऽसुरा विदुरनेन प्राणेनोद्गात्रा नो ऽस्मान् देवा अत्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चो ऽसुरा विनेशुः ।
तदेतत् संक्षिप्याह-
वाजसनेयक इति ।
तथा छान्दोग्ये ऽप्येतदुक्तमित्याह-
तथा छान्दोग्ये ऽपीति ।
विषयं दर्शयित्वा विमृशति-
तत्र संशय इति ।
पूर्वपक्षं
गृह्णाति-
विद्यैकत्वमिति ।
पूर्वपक्षमाक्षिपति-
ननु न युक्तमिति ।
एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः ।
समाधत्ते-
नैष दोष इति ।
बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् ।
न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह-
वाजसनेत्यके ऽपि चेति ।
बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥6॥
स्तर्त् ब्स्व्भ्_3,3.3.7
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्

3.3.8

बहुतरप्रत्यभिज्ञाने ऽपि उपक्रमभेदात्तनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः संकीर्तनाल्लक्षणायां च छान्दोग्ये
वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः ।
ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य ।
तथाहि-भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् ।
तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये ।
नच विवक्षितार्थभेद इति ।
एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति ।
तथा ह्यभ्युदयवाक्ये इति ।
एवं हि श्रूयते-ऽविवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्ऽइति ।
तत्र संदेहः-किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति ।
एष तावदत्र विषयः-अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः ।
दध्यर्थश्च दोहः ।
प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः ।
यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते-ऽयस्य हविर्निरुप्तम्ऽइति ।
तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः ।
तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति ।
तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् ।
यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् ।
अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् ।
अपिच प्राप्ते
पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता संबन्धश्च विधातव्यः ।
चरुत्वं चात्र विहितं नास्तीति तदपिव विधातव्यम् ।
तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत ।
कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते ।
दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते-न कर्मान्तरम् ।
पूर्वदवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् ।
चर्वर्थस्य चार्थप्राप्तेः ।
भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्वावत् ।
तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत् देवतासंबन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसंबन्धं विधातुं शक्नुवन्ति ।
तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानात् देवतान्तरसंबन्धे ऽपि न कर्मान्तरकल्पनाभवितुमर्हति ।
ततश्च समाप्ते ऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि ।
नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् ।
प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसंबन्धः कृतः ।
नच प्रभूतधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया संभवति ।
इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाको ऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते ।
भवतु वा अनेकवाक्यकल्पनम् ।
प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति ।
तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् ।
पशुकामवाक्ये
त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्ये ऽपि ।
ऽयः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमते ऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तनिन्द्राय प्रदात्रे दधंश्चरुम्ऽइति ।
अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणो ऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् ।
परोवरीयस्त्वादिवत् ।
यथोद्गीथोपासनासाम्ये ऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति ।
परस्मात् परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः संपन्नः ।
अत एव अनन्तः ।
परमात्मदृष्टिमुद्गीथे भवयितुम् ऽआकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्ऽइत्याकाशशब्देन परमात्मानं निर्दिशति ॥7॥
स्तर्त् ब्स्व्भ्_3,3.3.8
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि

3.3.9

स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् ।
अपिच श्रुत्यक्षरालोचनयां भेदप्रत्ययो ऽन्तरङ्गश्चानपेक्षश्च ।
संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च ।
तस्मादुर्बलं नामेदसाधनायालमिति ॥8॥
स्तर्त् ब्स्व्भ्_3,3.4.9
व्याप्तेश् च समञ्जसम्

3.3.10

अध्यासो नामेति ।
गौणी बुद्धिरध्यासः ।
यथा माणवके ऽनिवृत्तायामेव माणवकबुद्धिव्यपदेशवृत्तौ सिंहबुद्धिव्यपदेशवृत्तिः सिंहो माणवक इति, एवं प्रतिमायां वासुदेवबुद्धिर्नाम्नि च ब्रह्मबुद्धिस्तथोङ्कार उद्गीथबुद्धिव्यपदेशाविति ।
अपवादैकत्वविशेषणानि
चोक्तानि ।
एकार्थे ऽपि च शब्दद्वयप्रयोगो दृश्यते ।
यथा वैश्वदेव्यामिक्षा विज्ञानमानन्दम् ।
व्याख्यायां च पर्यायाणमपि सहप्रयोगो यथा सिन्धुरः करी पिकः कोकिल इति ।
विमृश्यानध्यवसायलक्षणं पक्षं गृह्णाति-
तत्रान्यतम इति ।
सिद्धान्तमाह-इदमुच्यते-
व्याप्तेश्च ।
प्रत्यनुवाकं प्रत्यृचमुपक्रमे च समाप्तौ चोकारः सर्दवेदव्यापीति किङ्गतो ऽयमोङ्कारस्तत्तदाप्यादिगुणविशिष्टस्तस्मै तस्मै कामावाप्त्यादिफलायोपास्यत्वेनाधिक्रियत इत्यपेक्षायामुद्गीथपदेनेति विशिष्यते ।
उद्गीथपदेनोकाराद्यवयवघटितसामभक्तिभेदाभिधायिना समुदायस्यावयवभावानुपपत्तेस्तत्संबन्धवयव ओङ्कारो लक्ष्यते, न पुनरोङ्कारेणावयविन उद्गीथस्य लक्षणा ।
ओङ्कारस्यैवोपरिष्टात्तु तत्तद्गुणविशिष्टस्य तत्तत्फलविशिष्टस्य चोपव्याख्यास्यमानत्वात् ।
दृष्टश्च समुदायशब्दो ऽवयवे लक्षणया यथा ग्रामो दग्धः पटो दग्ध इति तदेकदेशदाहे ।
अध्यासे तु लक्षणा फलकल्पना च ।
तथाहि आप्त्यादिगुणकप्रणवोपासनादिदमुद्गीथतोपासनं प्रणवस्यान्यत् ।
नचात्राप्यादि उपासनेष्विव फलं श्रूयते ।
तस्मात् कल्पनीयम् ।
उद्गीथसंबन्धिप्रणवोपासनाधिकारपरे वाक्ये नायं दोषः ।
अपिच गौण्या वृत्तेर्लक्षणावृत्तिर्बलीयसी लाघवात् ।
लक्षणाया हि लक्षणीयपरत्वं पदस्य तस्यैव वाक्यार्थान्तर्भावात् ।
यथा गाङ्गायां घोष इति लक्ष्यमाणस्य तीरस्य वाक्यार्थे ऽन्तर्भावो ऽधिकरणतया ।
गौर्वाहीक इत्यत्र तु गोसंबन्धितीष्ठन्मूत्रपुरीषादिलक्षणया न तत्परत्वं गोशब्दस्य ।
अपितु तत्कक्षाध्यवसिततद्गुणयुक्तवाहीकपरत्वमिति गौण्या वृत्तेर्दुर्बलत्वं तदिदमुक्तं-लक्षणायामपि त्विति ।
गौण्यपि वृत्तिर्लक्षणावयवत्वाल्लक्षणोक्ता ।
यद्यपि
वैश्वदेवीपदमामिक्षायां प्रवर्तते तथाप्यर्थमेदः स्फुटतरः ।
आमिक्षापदं हि रूपेणामिक्षायां प्रवर्तते ।
वैश्वदेवीपदं तु तस्यामेव विश्वदेवविशिष्टायाम् ।
एवं हि विज्ञानान्दयोरपि स्फुटतरः प्रवृत्तिनिमित्तभेदः सत्यपि ब्रह्मण्यैकार्थ्ये ।
नच व्याख्यानमुभयोरपि प्रसिद्धार्थत्वाद्भिन्नार्थत्वाच्च ।
शेषमतिरोहितार्थम् ॥9॥
स्तर्त् ब्स्व्भ्_3,3.5.10
सर्वाभेदादन्यत्रेमे

3.3.11

सर्वाभेदादन्यत्रेति ।
एवंशब्दस्य सन्निहितप्रकारभेदपरामर्शार्थत्वात्साक्षाच्छब्दोपस्थापितस्य च संनिधानाच्छाखान्तरगतस्य चानुक्रमतया(?) संनिधानाभावान्न कौषीतकिप्राणसंवादवाक्ये प्राणस्य वसिष्ठत्वादिभिर्गुणैरुपास्यत्वमपि तु ज्येष्ठत्रेष्ठत्वमात्रेणेति पूर्वः पक्षः ।
सिद्धान्तस्तु-सत्यं संनिहितं परामृशति एवङ्कारो न तु शब्दोपात्तमात्रं संनिहितम् ।
किन्तु यच्छब्दाभिहितार्थनान्तरीयकतया प्राप्तं तदपि हि बुद्धौ संनिहितं संनिहितमेव ।
यथा ऽयस्य पर्णमयी जुहूर्भवतिऽइत्यव्यभिचारितक्रतुसमन्वयया जुह्वोपस्थापितः क्रतुः ।
तस्मादुपास्यफलप्रत्यभिज्ञानात्तदव्यभिचारिणः प्रकारभेदस्येहानुक्तस्यापि बुद्धौ संनिधानात्प्रकृतपरामर्शिनैवङ्कारेण
परामर्शो युक्त इति सिद्धं कौषीतकिब्राह्मणगतेन तावदेवङ्कारेण शक्यते पराम्रष्टुम् ।
तथाप्यभ्युपेत्यापि ब्रूम इत्याशयवता भाष्यकृतोक्तम्-
तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनेति ।
श्रुतहानिरिति ।
केवलस्य श्रुतस्य हानिरितरसहितस्य चाक्षुतस्य कल्पना न चेत्यर्थः ।
अतिरोहितमन्यत् ॥10॥
स्तर्त् ब्स्व्भ्_3,3.6.11
आनन्दादयः प्रधानस्य

3.3.12

गुणवदुपासनाविधानस्य
वास्तवगुणव्याख्यानाद्विवेकार्थमिदमधिकरणम् ।
यथैकस्य ब्रह्मणः ।
संयद्वामत्वादयः सत्यकामादयश्च गुणा न संकीर्येरन् ।
एवामानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न संकीर्येरन् ।
तत्संकरे वा संयद्वामत्वादयो ऽपि सत्यकामादिभिः संकीर्येरन् ।
नहि ब्रह्मणो धर्मिणः सत्त्वे कश्चिद्विशेष इति पूर्वः पक्षः ।
राद्धान्तस्तु वास्तवविधेययोर्वस्तुधर्मतया चानुष्ठेयतया चाव्यवस्थाव्यवस्थे व्यवतिष्ठेते ।
वस्तुधर्मो हि यावद्वस्तु व्यवतिष्ठते ।
नासावेकत्रोक्तो ऽन्यत्रानुक्तो नास्तीति शक्यं वक्तुम् ।
विधेयस्तु पुरुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र यावद्गुणविशिष्टे ब्रह्मणि चोदितः स तावत्येवावतिष्ठते नाविहितमपि गुणं चोतरीकर्तुमर्हति ।
तस्य विधितन्त्रत्वाद्विधेश्च व्यवस्थानात् ।
तस्मादानन्दविज्ञानादयो ब्रह्मतत्त्वात्मतयोक्ता यत्र यत्र ब्रह्म श्रूयते तत्र तत्रानुक्ता अपि लभ्यन्ते ।
संयद्वामादयश्चोपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्त्विति सिद्धम् ।
प्रियशिरस्त्वादीनां तूपास्यत्वमारोप्य न्यायो दर्शितः ।
तस्य (?)तु संयद्वामादिरुक्तः ।
मोदनमात्रं मोदः ।
प्रमोदः प्रकृष्टो मोदस्ताविमौ परस्परापेक्षावुपचयापचयौ ॥11॥
स्तर्त् ब्स्व्भ्_3,3.6.12
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे

3.3.13

॥ 12 ॥
स्तर्त् ब्स्व्भ्_3,3.6.13
इतरे त्वर्थसामान्यात्

3.3.14

॥ 13 ॥
स्तर्त् ब्स्व्भ्_3,3.7.14
आध्यानाय प्रयोजनाभावात्

3.3.15

इन्द्रियेभ्यः परा ह्यर्था इति ।
किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम्, आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् ।
तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च संभवति न तत्तदतिकर्मे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् ।
न च प्रयोजनाभावादसंभवः ।
सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् ।
तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः ।
तथाहि स्मृतिः- ऽदश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥
बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ।
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते ।
ऽइति ।
प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात् प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्तय उच्यते-इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्संदर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः ।
तदश्रुतेः ।
तदत्र यत्प्रत्यस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् ।
दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः ।
तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् ।
अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् ।
नच दृष्टे संभवति अदृष्टकल्पना न्याय्या ।
नच परमपुरुषार्थहेतुपरत्वे संभवति अवान्तरपुरुषार्थतोचिता ।
तस्माद्दृष्टप्रयोजनवत्त्वात्, पुरुषपरत्वप्रतिपादनार्थो ऽयं संदर्भ इति गम्यते ।
किञ्चादरादप्ययमेवास्यार्थ इत्याह-
अपिच परप्रतिषेधेनेति ।
नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह-
आध्यानायेति ॥14॥
स्तर्त् ब्स्व्भ्_3,3.7.15
आत्मशब्दाच् च

3.3.16

अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च
सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः ।
श्रुतेराशयातिशय इवाशयातिशयः ।
तत्तात्पर्यतेति यावत् ।
किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव ।
अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह-
अपिच सो ऽध्वनः पारमाप्नोतीति ॥15॥
स्तर्त् ब्स्व्भ्_3,3.8.16
आत्मगृहीतिर् इतरवद् उत्तरात्

3.3.17

श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसंबन्धितया गमयति ।
पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् ।
अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् ।
अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता ।
तदनुसारादप्येतदेव विज्ञायते ।
अपिच ताभ्यो गामानयदित्यादयश्च व्यवहारः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः ।
ततो ऽप्यवान्तरेश्वर एव विज्ञायते ।
आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापो ऽयमिति प्राप्त उच्यति-परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु ऽएतस्मादात्मन आकाशः संभूतःऽइत्यादिषु ।
तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च ।
एतदभिसंहितम्-मुख्यं तावत् सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः ।
तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् ।
नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् ।
आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते ऽएतस्मादात्मन आकाशः संभूतःऽइति दर्शनात् ।
आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवहापि महाभूतानि सृष्ट्वेति कल्पनीयम् ।
सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् ।
अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् ।
यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे ।
तदिदमुक्तम्-
यो ऽप्ययं व्यापारविशेषानुगम इति ।
नच लोकसर्गो ऽपि हिरण्यगर्भव्यापारो ऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् ।
तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुकम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते ।
यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् ।
अपरः कल्पः ।
सदुपक्रमस्य संदर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः ।
तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् ।
स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन संपत्त्यर्थतया व्याख्येयः ।
तद्धि सत्सामान्यं परमात्मतया संपादनीयम् ।
तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते-आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् ।
अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति ।
अभ्युपेत्याह ।
सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि
चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते ।
नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः संदिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः ।
अपिच संपत्तौ फलं कल्पनीयम् ।
नच सामान्यमात्रे ज्ञाते विशेषज्ञानसंभवः ।
न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति ।
तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् ।
अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति ॥16॥
स्तर्त् ब्स्व्भ्_3,3.8.17
अन्वयाद् इति चेत् स्याद् अवधारणात्

3.3.18

॥ 17 ॥
स्तर्त् ब्स्व्भ्_3,3.9.18
कार्याख्यानादपूर्वम्

3.3.19

विषयमाह-
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनं अनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।
अनग्नताचिन्तनमिति ।
मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् ।
संशयमाह-
तत्किमिति ।
खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी-
अथवाचमनमेवेति ।
यद्येवमनग्नतासंकीर्तनस्य किं प्रयोजनमित्यत आह-
तस्यैव तु स्तुत्यर्थमिति ।
अयमभिसन्धिः-यद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणे ऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति ।
राद्धान्तमाह-
एवं प्राप्त इति ।
चोदयति-
नन्वियं श्रुतिरिति ।
परिहरति-
नेति ।
तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः ।
अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति-
न चेयं श्रुतिरिति ।
क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् ।
इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् ।
नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति ।
मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति-
अत एव च नोभयविधानम् ।
युक्त्यन्तरमाह-
उभयविधाने चेति ।
उपसंहरति-
तस्मात्प्राप्तमेवेति ।
न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः ।
अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत ।
न चानग्नतासंकल्पो ऽन्यतः प्राप्तो यतः स्तावको भवेत् ।
न चाचमनमन्यतो ऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह-
स्वयं चानग्नतासंकल्पस्येति ।
अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते ।
संकल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह-
न चैवं सत्येकस्याचमनस्येति ।
अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह-
अपिच यदिदं किञ्चेति ।
यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासंभवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते ।
अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते ।
अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः ।
किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् ।
मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो
यजतीत्यादिवद्विधिरेवेत्याह-अपिचाचामन्तीति ।
शेषमतिरोहितार्थम् ॥18॥
स्तर्त् ब्स्व्भ्_3,3.10.19
समान एवं चाभेदात्

3.3.20

इहाभ्यासाधिकरणन्यायेन पूर्वः पक्षः ।
द्वयोर्विद्याविध्योरेकशाखागतयोरगृह्ममाणविशेषतया कस्य को ऽनुवाद इति विनिश्चयाभावादज्ञातज्ञापनाप्रवृत्तप्रवर्तनारूपस्य च विधित्वस्य स्वरससिद्धेरुभयत्रोपासनाभेदः ।
नच गुणान्तरविधानायैकत्रानुवाद उभयत्रापि गुणान्तरविधानोपलब्धेर्विनिगमनाहेत्वभावात्समानगुणानभिधानप्रसङ्गाच्च ।
तस्मात्समिधो यजतीत्यादिवदभ्यासादुपासनाभेद इति प्राप्त उच्यते-ऐककर्म्यमेकत्वेन प्रत्यभिज्ञानात् ।
न चागृह्यमाणविशेषता ।
यत्र भूयांसो गुणा यस्य कर्मणो विधीयन्ते तत्र तस्य प्रधानस्य विधिरितरत्र तु तदनुवादेन कतिपयगुणविधिः ।
यथा यत्र छत्रचामरपताकाहास्तिकाश्चीयशक्तिकयाष्टीकधानुष्ककार्पाणिकप्रासिकपदातिप्रचयस्तत्रास्ति राजेति गम्यते न तु कतिपयगजवाजिपदातिभाजि तदमात्ये, तथेहापि ।
न चैकत्र विहितानां गुणानामितरत्रोक्तिरनर्थिका प्रत्यभिज्ञानदार्ढ्यार्थत्वात् ।
अस्तु वास्मिन्नित्यानुवादो नह्यनुवादानामवश्यं सर्वत्र प्रयोजनवत्त्वम् ।
अनुवादमात्रस्यापि तत्र तत्रोपलब्धेः ।
तस्मात्तदेव बृहदारण्यके ऽप्युपासनं तद्गुणेनोपसंहारादिति सिद्धम् ॥19॥
स्तर्त् ब्स्व्भ्_3,3.11.20
संबन्धाद् एवम् अन्यत्रापि

3.3.21

यद्येकस्यामपि शाखायां तत्त्वेन प्रत्यभिज्ञानादुपासनस्य तत्र विहितानां धर्माणां संकरः ।
तथा सति सत्यस्यैकसस्याभेदान्मण्डलद्वयवर्तिन उपनिषदोरपि संकरप्रसङ्गात् ।
तस्येति च प्रकृतपरामर्शित्वाद्भेदः ।
सत्यस्य च प्रधानस्य प्रकृतत्वादधिदैवमित्यस्य विशेषणतयोपसर्जनत्वेनाप्रस्तुत्वात्प्रस्तुतस्य च सत्यस्याभेदात्पूर्ववद्गुणसंकरः ॥20॥
स्तर्त् ब्स्व्भ्_3,3.11.21
इति प्राप्त उच्यते-
न वा विशेषात्

3.3.22

सत्यं यत्र स्वरूपमात्रसंबन्धो धर्माणां श्रूयते तत्रैवं स्वरूपस्य सर्वत्र प्रत्यभिज्ञायमानत्वात्तन्मात्रसंबन्धित्वाच्च धर्माणाम् ।
यत्र तु सविशेषणं प्रधानमवगम्यते तत्र सविशेषणस्यैव तस्य धर्माभिसंबन्धो न निर्विशेषणस्य नाप्यन्यविशेषणसहितस्य ।
नहि दण्डिनं पुरुषमानयेत्युक्ते दण्डरहितः
कमण्डलुमानानीयते ।
तस्मादधिदैवं सत्यस्योपनिषदुक्ता न तस्यैवाध्यात्मं भवितुमर्हति ।
यथा चाचार्यस्य गच्छतो ऽनुगमनं विहितं न तिष्ठतो भवति, तस्मान्नोपनिषदोः संकरः किन्तु व्यवस्थितिः ।
तदिदमुक्तं-स्वरूपानपायादिति ॥21॥
स्तर्त् ब्स्व्भ्_3,3.11.22
दर्शयति च

3.3.23

अतिदेशादप्येवमेव तत्त्वे हि नातिदेशः स्यादिति ॥22॥
स्तर्त् ब्स्व्भ्_3,3.12.23
संभृतिद्युव्याप्त्यपि चातः

3.3.24

ऽब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ।
ब्रह्म भूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ।
ऽब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठा जज्ञे आस ।
यद्यपि तासु तासु शाण्डिल्यादिविद्यास्वायतनभेदपरिग्रहेणाध्यात्मिकायतनत्वं संभृत्यादीनां गुणानामाधिदैकत्वमित्यायतनभेदः प्रतिभाति, तथापि ज्यायान् दिव इत्यादिना संदर्भेणाधिदैविकविभूतिप्रत्यभिज्ञानात्षोडशकलाद्यासु च विद्यास्वायतनाश्रवणादन्ततो ब्रह्माश्रयतया साम्येन प्रत्यभिज्ञासंभवात् संबृत्यादीनां गुणानां शाण्डिल्यादिविद्यासु षोडशकलादिविद्यासु चोपसंहार इति पूर्वः पक्षः ।
राद्धान्तस्तु-मिथः समानगुणश्रवणं प्रत्यभिज्ञाय यद्विद्या अपूर्वानपि तत्राश्रुतान्गुणानुपसंहारयति न त्विह संभृत्यादिगुणकब्रह्मविद्यायां शाण्डिल्यादिविद्यागतगुणश्रवणमस्ति ।
या तु काचिदाधिदैविकी विभूतिः शाण्डिल्यादिविद्यायां श्रूयते तस्यास्तत्प्रकरणाधीनत्वात्तावन्मात्रं ग्रहीष्यते नैतावन्मात्रेण संभृत्यादीननुक्रष्टुमर्हति ।
तत्रैतत्प्रत्यभिज्ञानाभावादित्युक्तम् ।
ब्रह्मा श्रयत्वेन तु प्रत्यभिज्ञानसमर्थनमतिप्रसक्तम् ।
भूयसीनामैक्यप्रसङ्गात् ।
तदिदमुक्तं-
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्चेति ।
तस्मात्संभृतिश्च द्युव्याप्तिश्च तदिदं संभृतिद्युव्याप्त्यपि चातः प्रत्यभिज्ञानाभावान्न शाण्डिल्यादिविद्यासूपसंह्रियत इति सिद्धम् ॥23॥
स्तर्त् ब्स्व्भ्_3,3.13.24
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात्

3.3.25

पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् ।
नच विदुषो यज्ञस्येति न सामानाधिकरण्यसंभवः ।
यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् ।
यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसंभवः ।
तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् ।
एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसंपादनं तदायुषश्च त्रेधा
व्यवस्थितस्य सवनत्रयसंपादनम् ।
अशिशिषादीनां च दीक्षादिभावसंपादनं नैवं तैत्तिरीयाणाम् ।
तेषां न तावत् पुरुषे यज्ञसंपत्तिः ।
नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः ।
नहि यज्ञस्वरूपं यजमानो भवति ।
कर्तृकर्मणोरभेदाभावात् ।
चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् ।
यजमानस्य चेतनत्वात् ।
आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते ।
तथा चायमर्थः-एवं विदुषः पुरुषस्य यः संबन्धी यज्ञः तस्य संबन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्संबन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् ।
नच सत्यां गतौ तद्युक्तम् ।
तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् ।
नच पत्नीयजमानवेदविद्यादिसंपादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसंपत्तिरप्येषां विलक्षणैव ।
तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् ।
अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः ।
अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते ।
तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् ।
नच स्वतन्त्रपरन्त्रयोरैक्यमुचितमित्याह-अपिच ससंन्यासामात्मविद्यामिति ।
उपसंहरति-तस्मादिति ॥24॥
स्तर्त् ब्स्व्भ्_3,3.14.25
वेधाद्यर्थभेदात्

3.3.26

विचारविषयं दर्शयति-
आथर्वणिकानामिति ।
आथर्वणिकाद्युपनिषदारम्भे ते ते मन्त्रास्तानि तानि च प्रवर्ग्यादीनि कर्माणि समम्नातीनि ।
संशयमाह-
किमिम इति ।
पूर्वपक्षं गृह्णाति-
उपसंहार एवैषां विद्यास्विति ।
सफला हि सर्वा विद्या आम्नातास्तत्सन्निधौ मन्त्राः ।
कर्माणि च समाम्नातानि ऽफलवत्सन्निधाफलं तदङ्गम्ऽइति न्यायाद्विद्याङ्गाभावेन विज्ञायन्ते ।
चोदयति-
नन्वेषामिति ।
नह्यत्र श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानानि सन्ति विनियोजकानि प्रमाणानि, नहि यथा दर्शपूर्णमासावारभ्य समिदादयः समाम्नातास्तथा काञ्चिद्विद्यामारभ्य मन्त्रा वा कर्माणि वा समाम्नातानि ।
न चासति सामान्यसंबन्धे संबन्धिसंनिधानमात्रात्तादर्थ्यसंभवः ।
नच श्रुतस्वाङ्गपरिपूर्णा विद्या एतानाकाङ्क्षितुमर्हति येन प्रकरणापदितसामान्यसंबन्धानां संनिधिर्विशेषसंबन्धाया भवेदित्यर्थः ।
समाधत्ते-
बाढमनुपलभमाना अपीति ।
मा नाम भूत्फलवतीनां विद्यानां परिपूर्णाङ्गानामाकाङ्क्षा ॥
मन्त्राणां तु स्वाध्यायविध्यापादितपुरुषार्थभावानां कर्मणां च प्रवर्ग्यादीनां स्वविध्यापादितपुरुषार्थभावानां पुरुषाभिलषितमाकाङ्क्षतां संनिधानादन्यताराकाङ्क्षानिबन्धो रक्तपटन्यायेन संबन्धः ।
तत्रापि च विद्यानां फलवत्त्वात्तादर्थ्यमफलानां मन्त्राणां कर्मणां च ।
नच प्रवर्ग्यादीनां पिण्डपितृयज्ञवत्स्वर्गः कल्पनास्पदं, फलवत्संनिधानेन तदवरोहात् ।
अनुमानस्यामहे संनिधिसामार्थ्यादिति ।
इदं खलु निवृत्ताकाङ्क्षाया विद्यायाः संनिधाने श्रुतमनाकाङ्क्षाया साकाङ्क्षस्यापि संबद्धुमसामर्थ्यात्तस्या अप्याकाङ्क्षामुत्थापयति ।
उत्थाप्य चैकवाक्यतामुपैति ।
असमर्थस्य चोपकारकत्वानुपपत्तेः प्रकरणिनं प्रति उपकारसामर्थ्यमात्मनः कल्पयति ।
नच सत्यपि सामर्थ्ये तत्र श्रुत्या अविनियुक्तं सदङ्गतामुपगन्तुमर्हतीत्यनया परम्परया संनिधिः श्रुतिमर्थापत्त्या कल्पयति ।
आक्षिपति-
ननु नैषां मन्त्राणामिति ।
प्रयोगसमवेतार्थप्रकाशनेन हि मन्त्राणामुपयोगो वर्णितः ऽअविशिष्टस्तु वाक्यार्थःऽ
इत्यत्र ।
नच विद्यासंबद्धं कञ्चनार्थं मन्त्रेषु प्रतीमः ।
यद्यपि च प्रवर्ग्यो न किञ्चिदारभ्य श्रूयते तथापि वाक्यसंयोगेन क्रतुसंयोगेन क्रतुसंबन्धं प्रतिपद्यते ।
ऽपुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तिऽइति ।
उपसदां जुहूवदव्यभिचारितक्रतुसंबन्धत्वात् ।
यद्यपि ज्योतिष्टोमविकृतावपि सन्त्युपसदस्तथापि तत्रानुमानिक्यो ज्योतिष्टोमे तु प्रत्यक्षविहितास्तेन शीघ्रप्रवृत्तितया ज्योतिष्टोमाङ्गतैव वाक्येनावगम्यते ।
अपिच प्रकृतौ विहितस्य प्रवर्ग्यस्य चोदकेनोपसद्वत्तद्विकृतावपि प्राप्तिः ।
प्रकृतौ वा अद्विरुक्तत्वादिति न्यायाज्ज्योतिष्टोमे
एव विधानमुपसदा सह युक्तं, तदेतदाह-
कथं च प्रवर्ग्यादीनीति ।
संनिधानादर्थविप्रकर्षेण वाक्यं बलीय इति भावः ।
समाधत्ते-
नैष दोषः ।
सामर्थ्यं तावदिति ।
यथा ऽअग्नये त्वा जुष्टं निर्वपामिऽइति मन्त्रे अग्नये निर्वपामिति पदे कर्मसमवेतार्थप्रकाशके ।
शिष्टानां तु पदानां तदेकवाक्यतया यथाकथञ्चिद्व्याख्यानमेवमिहापि हृदयपदस्योपासनायां समवेतार्थत्वात्तदनुसारेण तदेकवाक्यतापन्नानि पदान्तराणि गौण्या लक्षणया च वृत्त्या कथञ्चिन्नेयानीति नासमवेतार्थता मन्त्राणाम् ।
नच मन्त्रविनियोगो नोपासनेषु दृष्टो येनात्यन्तादृष्टं कल्प्यत इत्याह-
दृष्टश्चोपासनेष्विति ।
यद्यपि वाक्येन बलीयसा संनिधिर्दुर्बलो बाध्यते तथापि विरोधे सति ।
न चोहास्ति विरोधः ।
वाक्येन विनियुक्तस्यापि ज्योतिष्टोमे प्रवर्ग्यस्य संनिधिना विद्यायामपि विनियोगसंभवात् ।
यथा ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति ब्रह्मवर्चसफलो ऽपि बृहस्पतिसवो वाजपेयाङ्गत्वेन चोद्यते-वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति ।
अत्र हि क्त्वः समानकर्तृकत्वमवगम्यते धातुसंबन्धे प्रत्ययविधानात् ।
धात्वर्थान्तरसंबन्धश्च कथं च समानः कर्ता स्यात् ।
यद्यकः प्रयोगो भवेत् ।
प्रयोगाविष्टं हि कर्तृत्वम् ।
तच्च प्रयोगभेदे कथमेकम् ।
तस्मात्समानकर्तृकत्वादेकप्रयोगत्वं वाजपेयबृहस्पतिसवयोर्धात्वर्थान्तरसंबन्धाच्च ।
नच
गुणप्रधानभावमन्तरेणैकप्रयोगता संबन्धश्च तत्रापि वाजपेयस्य प्रकरणे समाम्नानाद्वाजपेयः प्रधानम् ।
अङ्गं बृहस्पतिसवः ।
नच ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइत्यत्राङ्गप्रधानभावप्रसङ्गः ।
नह्येतद्वचनं कस्यचिद्दर्शपूर्णमासस्य सोमस्य वा प्रकरणे समाम्नातम् ।
तथाच द्वयोः साधिकारतया अगृह्यमाणविशेषतया गुणप्रधानभावं प्रति विनिगमनाभावेनाधिष्ठानमात्रविवक्षया लाक्षणिकं समानकर्तृकत्वमित्यदोषः ।
यदि तु कस्याञ्चिच्छाखायामारभ्याधीतं दर्शपूर्णमासाभ्यामिष्ट्वेति ।
तथाप्यनारभ्याधीतस्यैवारभ्याधीते प्रत्यभिज्ञानमिति युक्तम् ।
तथा सति द्वयोरपि पृथगधिकारतया प्रतीतं समप्रधानत्वमत्यक्तं भवेदितरथा तु गुणप्रधानभावेन तत्त्यागो भवेत् ।
तस्मात्कालार्थो ऽयं संयोग इति सिद्धम् ।
सिद्धान्तमुपक्रमते-
एवं प्राप्त इति ।
हृदयं प्रविध्येत्ययं मन्त्रः स्वरसतस्तावदाभिचारिककर्मसमवेतं सकलैरेव पदैरर्थमभिदधदुपलभ्यते तदस्याभिधानसामर्थ्यलक्षणं लिङ्गं वाक्यप्रकरणाभ्यां क्रमाद्बलीयोभ्यामपि बलवत्किमङ्ग पुनः क्रमात्, तस्माल्लिङ्गेन संनिधिमपोद्याभिचारिककर्मशेषत्वमेवापाद्यते ।
यद्यपि चोपासनासु हृदयपदमात्रस्य समवेतार्थत्वम् ।
तथापि तदितरेषां सर्वेषामेव पदानामसमवेतार्थत्वम् ।
आभिचारिके तु कर्मणि
सर्वेषामर्थसमवाय इति किमेकपदसमवेतार्थता करिष्यति ।
नच संनिध्युपगृहीयासूपासनासु मन्त्रमवस्थापयतीति युक्तम् ।
हृदयपदस्याभिचारे ऽपि समवेतार्थस्येतरपदैकवाक्यतापन्नस्य वाक्यप्रमाणसहितस्याभिचारिकात्कर्मणः संनिधिनाचालयितुमशक्यत्वादेवं ऽदेव सवितः प्रसुव यज्ञम्ऽइत्यादेरपि यज्ञप्रसवलिङ्गस्य यज्ञङ्गत्वे सिद्धे जघन्यो विद्यासंनिधिः किं करिष्यति ।
एवमन्येषामपि श्वेताश्व इत्येवमादीनां केषाञ्चिल्लिङ्गेन केषाञ्चिच्छुत्या केषाञ्चित्प्रमाणान्तरेण प्रकरणेनेति ।
कस्मात्पुनः संनिधिर्लिङ्गादिभिर्बाध्यते इत्यत आह-
दुर्बलो हि संनिधिरिति ।
प्रथमतन्त्रगतोर्ऽथः स्मार्यते ।
तत्र तु श्रुतिलिङ्गयोः समवाये समानविषयत्वलक्षणे विरोधे किं बलीय इति चिन्ता ।
अत्रोदाहरणम्-अस्त्यैन्द्री ऋक् ऽकदाचनस्तरीरसि नेन्द्रऽइत्यादिका श्रुतिर्विनियोकी ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽइति ।
अत्र हि सामर्थ्यलक्षणाल्लिङ्गादिन्द्रे विनियोगः प्रतिभाति ।
श्रुतेश्च गार्हपत्यमिति द्वितीयातो गार्हपत्यस्य शेषित्वं ऐन्द्र्येति चतृतीयाश्रुतेरैन्द्र्या ऋचः शेषत्वमवगम्यते ।
यद्यपि गार्हपत्यमिति द्वितीयाश्रुतेराग्नेयीमृचं प्रति गार्हपत्यस्य शेषित्वेनोपपत्तेः ।

यद्यपि चैन्द्र्येति च तृतीयाश्रुतेरैन्द्र्या इन्द्रं प्रति शेषत्वनोपपत्तेरविरोधः ।
पदान्तरसंबन्धे तु वाक्यस्यैव लिङ्गेन विरोधो न तु श्रुतेः ।
तत्र च विपरीतं बलाबलम् ।
तथापि श्रुतिवाक्ययो रूपतो व्यापारभेदाददोषः ।
द्वितीयातृतीयाश्रुती हि कारकविभक्तितया क्रियां प्रति प्रकृत्यर्थस्य कर्मकरणभावमवगमयत इति विनियोजिके ।
क्रियां प्रति हि कर्मणः शेषित्वं करणस्य च शेषत्वमिति हि विनियोगः ।
पदान्तरानपेक्षे च क्रियां प्रति शेषशेषित्वे श्रुतिमात्रात्प्रतियेते इति श्रौते ।
सो ऽयं श्रुतितः सामान्यावगतो विनियोगः पदान्तरवशाद्विशेषे ऽवस्थाप्यते ।
सो ऽयं विशेषणविशेष्यभावलक्षणः संबन्धो वाक्यगोचरः, शेषशेषिभावस्तु श्रौतः, तस्माद्वाक्यलभ्यं विशेषमपेक्ष्य श्रौतः शेषशेषिभावो लिङ्गेन विरुध्यत इति श्रुतिलिङ्गविरोधे किं लिङ्गानुगुणेन गार्हपत्यमिति द्वितीयाश्रुतिः सप्तम्यर्थे व्याख्यायतां गार्हपत्यसमीपे ऐन्द्र्येन्द्र उपस्थेय इति ।
आहो श्रुत्यनुगुणतया लिङ्गं व्याख्यायताम् ।
प्रभवति हि स्वोचितायां क्रियायां गार्हपत्य इतीन्द्र इन्द्रतेरैश्वर्यवचनत्वादिति ।
किं तावत्प्राप्तं श्रुतेर्लिङ्गं बलीय इति ।
नो खलु यत्रासमर्थं तच्छ्रुतिसहस्रेणापि तत्र विनियोक्तुं शक्यते ।
यथा अग्निना सिञ्चेत् पाथसा दहेदिति ।
तस्मात्सामर्थ्यं पुरोधाय श्रुत्या विनियोक्तव्यम् ।
तच्चास्या ऋचः
प्रमाणान्तरतः शब्दतश्च इन्द्रे प्रतीयते ।
तथाहि-विदितपदतदर्थः कदाचनेत्यृचः स्पष्टमिन्द्रमवगच्छति, शब्दाच्चैन्द्र्येत्यतः ।
तस्माद्दारुदहनस्येव दहनस्य सलिलदहने विनियोगो गार्हपत्ये विनियोग ऐन्द्र्याः ।
नच श्रुत्यनुरोधाज्जघन्यामास्थाया वृत्तिं सामर्थ्यकल्पनेति साम्प्रतम् ।
सामर्थ्यस्य पूर्वभावितया तदनुरोधेनैव श्रुतिव्यवस्थापनात् ।
तस्मादैन्द्र्येन्द्र एव गार्हपत्यसमीप उपस्थातव्य इति प्राप्ते ऽभिधीयते-ऽलिङ्गज्ञानं पुरोधाय न श्रुतेर्विनयोक्तृता ।
श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्ऽ ।
यदि हि सामर्थ्यमवगम्य श्रुतेर्विनियोगमवधारयेत्प्रमाता ततः श्रुतेर्विनियोगं प्रति लिङ्गज्ञानापेक्षत्वाद्दुर्बलत्वं भवेत् ।
न त्वेतदस्ति ।
श्रुतिर्विनियोगाय सामर्थ्यमपेक्षते नापेक्षते सामर्थ्यविज्ञानम् ।
अवगते तु ततो विनियोगे नासमर्थस्य स इति तन्निर्वाहाय सामर्थ्यं कल्प्यते ।
तच्छ्रुतिविनियोगात्पूर्वमस्ति सामर्थ्यम् ।
न तु पूर्वमगम्यते ।
विनियोगे तु सिद्धे तदन्यथानुपपत्त्या पश्चात्प्रतीयत इति श्रुतिविनियोगात्पराचीना सामर्थ्यप्रतीतिस्तदनुरोधेनावस्थापनीया ।
लिङ्गं तु न स्वतो विनियोजकमपि तु विनियोकीं कल्पयित्वा श्रुतिम् ।
तथाहि-न स्वरसतो लिङ्गादनेनेन्द्र उपस्थातव्य इति प्रतीयते, किन्त्वीदृगिन्द्र इति तस्य तु प्रकरणाम्नानसामर्थ्यात् सामान्यतः प्रकरणापतितैदमर्थ्यस्य तदन्यथानुपपत्त्या विनियोगकल्पनायामपि श्रौताद्विनियोगात्कल्पनीयस्य विनियोगस्यार्थविप्रकर्षाच्छ्रुतिरेव कल्पयितुमुचिता न तु तदर्थो विनियोगः ।
नहि श्रुतमनुपपन्नं शाक्यमर्थेनोपपादयितुम् ।
नहि त्रयो ऽत्र ब्रह्मणाः कठकौण्डिन्याविति वाक्यं प्रमाणान्तरोपस्थापितेन माठरेणोपपादयन्ति, उपपादयतो वा नोपहसन्ति ।
शाब्दाः ।
माठरश्चेति तु श्रावयन्तमनुमन्यन्ते ।
तस्माच्छ्रुतार्थसमुत्थानानुपपत्तिः श्रुतेनैवार्थान्तरेणोपपादनीया, नार्थान्तरमात्रेण प्रमाणान्तरोपनीतेनेति लोकसिद्धम् ।
नच लोकसिद्धस्य नियोगानुयोगौ युज्येते शब्दार्थज्ञानोपायभूतलोकविरोधात् ।
तस्माद्विनियोजिका श्रुतिः कल्पनीया ।
तथाच यावल्लिङ्गाद्विनियोजिकां श्रुतिं कल्पयितुं प्रक्रान्तव्यापारस्तावत्प्रत्यक्षया श्रुत्या गार्हपत्ये विनियोगः सिद्ध इति निवृत्ताकाङ्क्षं प्रकरणमिति कस्यानुपपत्त्या लिङ्गं विनियोकीं श्रुतिमुपकल्पयेत् ।
मन्त्रसमाम्नानस्य प्रत्यक्षयैव विनियोगश्रुत्योपपादितत्वात् ।
यथाहुः-ऽयावदज्ञातसंदिग्धं ज्ञेयं तावत्प्रमित्स्यते ।
प्रमिते तु प्रमातृणां प्रमौत्सुक्यं विहन्यतेऽइति ।
तस्मात्प्रतीतश्रौतविनियोगोपपत्त्यै मन्त्रस्य सामर्थ्यं तदनुगुणत्वेन नीयमानं प्रथमां वृत्तिमजहज्जघन्ययापि नेयमिति सिद्धम् ।
लिङ्गवाक्ययोरिह विरोधो यथा-ऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि ।
तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति ।
किमयं कृत्स्न एव मन्त्रः सदनकरणे पुरोडाशासादने च प्रयोक्तव्य उत कल्पयाम्यन्त उपस्तरणे तस्मिन्त्सीदेत्येवमादिस्तु पुरोडाशासादन इति ।
यदि वाक्यं बलीयः कृत्स्नो मन्त्र उभयत्र, सुशेवं कल्पयामीत्येतदपेक्षो हि तस्मिन्सीदेत्यादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि तस्मिन्त्सीदेति ।
अथ लिङ्गं बलीयस्ततः कल्प्याम्यन्तः सदनकरणे तत्प्रकाशने हि तत्समर्थम् ।
तस्मिन्त्सीदेति पुरोडाशासादने तत्र हि तत्समर्थमिति ।
किं तावत्प्राप्तम् ।
लिङ्गाद्वाक्यं बलीय इत्युभयत्र कृत्स्नस्य विनियोग इति ।
इह हि यत्तत्पदसमभिव्याहारेण विभज्यमानसाकाङ्क्षत्वादेकवाक्यतायां सिद्धायां तदनुरोधेन पश्चात्तदभिधानसामार्थ्यं कल्पनीयम् ।
यथा देवस्यत्वेतिमन्त्रे ऽग्न्ये निर्वपामीति पदयोः समवेतार्थत्वेन तदेकवाक्यतया पदान्तराणां तत्परत्वेन तत्र सामर्थ्यकल्पना ।
तदेवं प्रतीतैकवाक्यतानिर्वाहाय तदनुगुणतया सामर्थ्यं कॢप्तं सन्न तद्व्यापादयितुमर्हति, अपि तु
विनियोजिकां श्रुतिं कल्पयत्तदनुगुणमेव कल्पयेत् ।
तथा च वाक्यस्य लिङ्गतो बलीयस्त्वात्सदनकरणे च पुरोडाशासाधने च कृत्स्न एव मन्त्रः प्रयोक्तव्य इति प्राप्तम् ।
एवं प्राप्ते उच्यते-भवेदेतदेवं यद्येकवाक्यतावगमपूर्वं सामर्थ्यावधारणमपि तु अवधृतसामर्थ्यानां पदानां प्रश्लिष्टपठितानां सामर्थ्यवशेन प्रयोजनैकत्वेनेकवाक्यत्वावधारणम् ।
यावन्ति पदानि प्रधानमेकमर्थमवगमयितुं समर्थानि विभागे साकाङ्क्षाणि तान्येकं वाक्यम् ।
अनुष्ठेयश्चार्थो मन्त्रेषु प्रकाश्यमानः प्रधानम् ।
सदनकरणपुरोडाशासादने चानुष्ठेयतया प्रधाने ।
तयोश्च सदनकरणं कल्पयाम्यन्तो मन्त्रः समर्थः प्रकाशयितुं पुरोडाशासादनं च तस्मिन्सीदेत्यादिः ।
ततश्च यावदेकवाक्यतावशेन सामर्थ्यमनुमीयते तावत्प्रतीतं सामर्थ्यमेकैकस्य भागस्यैकैकस्मिन्नर्थे विनियोजिकां श्रुतिं कल्पयति ।
तथाच श्रुत्यैवैकैकस्य भागस्यैकत्र विनियोगे सति प्रकरणपाठोपपत्तौ न वाक्यकल्पितं लिङ्गं विनियोजिकां श्रुतिमपरां कल्पयितुमर्हतीत्येकवाक्यताबुद्धिरुत्पन्नाप्याभासीभवति लिङ्गेन बाधनात् ।
यत्र तु विरोधकं लिङ्गं नास्ति तत्र समवेतार्थैकद्वित्रिपदैकवाक्यता पदान्तराणामपि सामर्थ्यं कल्पयतीति भवति वाक्यस्य विनियोजकत्वम् ।
यथात्रैव स्योनं त इत्यादीनाम् ।
तस्माद्वाक्याल्लिङ्गं बलीय इति सिद्धम् ॥
वाक्यप्रकरणयोर्विरोधोदाहरणम् ।

अत्र च पदानां परस्परापेक्षावशात्कस्मिंश्चिद्विशिष्ट एकस्मिन्नर्थे पर्यवसितानां वाक्यत्वं, लब्धवाक्यभावनां च पुनः कार्यान्तरापेक्षावशेन वाक्यान्तरेण संबन्धः प्रकरणम् ।
कर्तव्यायाः खलु फलभावनाया लब्धधात्वर्थकरणाया इतिकर्तव्यताकाङ्क्षाया वचनं
प्रकरणमाचक्षते वृद्धाः ।
यथा ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽइति ।
एतद्धि वचनं प्रकरणम् ।
तदेतस्मिन् स्वपदगणेन कियत्यप्यर्थे पर्यवसिते करणोपकारलक्षणकार्यान्तरापेक्षायां ऽसमिधो यजतिऽइत्यादिवाक्यान्तरसंबन्धः ।
समिदादिभावना हि स्वविध्युपहिताः पुरुषे हितं भाव्यमपेक्षमाणा विश्वजित्र्यायेन वानुषङ्गतो वार्थवादतो वा फलान्तराप्रतिलम्भेन दर्शपूर्णमासभावनां निर्वारयितुमीशते ।
तस्मात्तदाकाङ्क्षायामुपनिपतितान्येतानि वाक्यानि स्वकार्यापेक्षाणि तदपेक्षितकरणोपकारलक्षणं कार्यमासाद्य निर्वण्वन्ति च निर्वारयन्ति च प्रधानम् ।
सो ऽयमनयोर्नष्टाश्वदग्धरथवत्संयोगः ।
तदेवं लक्षणयोर्वाक्यप्रकरणयोर्विरोधोदाहरणं सूक्तवाकनिगदः ।
तत्र हि पौर्णमासीदेवता अमावस्यादेवताः समाम्नाताः ।
ताश्च न मिथ एकवाक्यतां गन्तुमर्हन्तीति लिङ्गेन पौर्णमासीयागादिन्द्राग्नीशब्द उत्क्रष्टव्यः अमावास्यायां च समवेतार्थत्वात्प्रयोक्तव्यः ।
अथेदानीं संदिह्यते-किं यदिन्द्राग्निपदैकवाक्यतया प्रतीयते ऽअविवृधेथां महो ज्यायो ऽकाताम्ऽइति तन्नोत्क्रष्टव्यमुतेन्द्राग्निशब्दाभ्यां सहोत्क्रष्टव्यमिति ।
तत्र यदि प्रकरणं बलीयस्ततो ऽपनीतदेवताको ऽपि शेषः प्रयोक्तव्यो ऽथ वाक्यं ततो यत्र देवताशब्दस्तत्रैव प्रयोक्तव्यः ।
किं तावत्प्राप्तमपनीतदेवताको ऽपि शेषः प्रयोक्तव्यः प्रकरणस्यैवाङ्गसंबन्धप्रतिपादकत्वात् ।
फलवती हि भावना प्रधानेतिकर्तव्यतात्वमापादयति ।
तदुपजीवनेन श्रुत्यादीनां विशेषसंबन्धापादकत्वात् ।
अतः प्रधानभावनावचनलक्षणप्रकरणविरोधे तदुपजीविवाक्यं बाध्यत इति प्राप्तम् ।
एवं प्राप्त उच्यते-भवेदेतदेवं यदि विनियोज्यस्वरूपसामर्थ्यमनपेक्ष्य प्रकरणं विनियोजयेत् ।
अपि तु विनियोगाय तदपेक्षते ऽन्यथा पूषाद्यनुमन्त्रणमन्त्रस्य द्वादशोपसत्तायाश्च नोत्कर्षः स्यात् ।
तद्रूपालोचनायां च यद्यदेव शीघ्रं प्रतीयते
तत्तद्बलवद्विप्रकृष्टं तु दुर्बलम् ।
तत्र यदि तद्रूपं श्रुत्या लिङ्गेन वाक्येन वान्यत्र विनियुक्तं ततः
प्रकरणं भङ्क्त्वोत्कृष्यते, परिशिष्टैस्तु प्रकरणस्येतिकर्तव्यतापेक्षा पूर्यते ।
अथ स्वस्य शीघ्रप्रवृत्तं श्रुत्यादि नास्ति ततः प्रकरणं विनियोजकम् ।
यथा समिदादेः ।
तदिह प्रकरणाद्वाक्यस्य शीघ्रप्रवृत्तत्वमुच्यते ।
प्रकरणे हि स्वार्थपूर्णानां वाक्यानामुपकार्योपकारकाकाङ्क्षामात्रं दृश्यते ।
वाक्ये तु पदानां प्रत्यक्षसंबन्धः ।
ततश्च सह प्रस्थितयोर्वाक्यप्रकरणयोर्यावत्प्रकरणेनैकवाक्यता कल्प्यते तावद्वाक्येनाभिधानसामर्थ्यं, यावदितरत्र वाक्येन सामर्थ्यं तावदितरत्र सामर्थ्येन श्रुतिर्यावदितरत्र सामर्थ्येन श्रुतिस्तावदिह श्रुत्या विनियोगस्तावता च विच्छिन्नायामाकाङ्क्षायां श्रुत्यनुमाने विहते प्रकरणेनान्तरा कल्पितं विलीयन्त इति वाक्यबलीयस्त्वात्तद्देवताशेषणामपकर्ष एवेति सिद्धम् ॥
क्रमप्रकरणविरोधोदाहरणम् ।
राजसूयप्रकरणे प्रधानस्यैवाभिषेचनीयस्य संनिधौ शौनःशेपोपाख्यानाद्याम्नातं, तत्किं समस्तस्य राजसूयस्याङ्गमुतभिषेचनीयस्य ।
यदि प्रकरणं बलीयस्ततः समस्तस्य राजसूयस्य, अथ क्रमस्ततो ऽभिषेचनीयस्यैवेति, किं तावत्प्राप्तम् ।
नाकाङ्क्षामात्रं हि संबन्धहेतुः ।
गामानय प्रासादं पश्येति गामित्यस्य क्रियामात्रापेक्षिणः पश्येत्यनेनापि संबन्धसंभवाद्विनिगमनाभावप्रसङ्गात् ।
तस्मात्संनिधानं संबन्धकारणम् ।
तथा चानयेत्यननैव गामित्यस्य संबन्धो विनिगम्यते ।
नच संनिधानमपि संबन्धकारणम् ।
अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यतामित्यत्र राज्ञ इत्यस्य पुत्रपुरुषपदसंनिधानाविशेषान्मा भूदविनिगमना ।
तस्मादाकाङ्क्षा निश्चयहेतुर्वक्तव्या ।
अत्र पुत्रशब्दस्य संबन्धिवचनतया समुत्थिताकाङ्क्षस्यान्तिके यदुपनिपतितं संबन्ध्यन्तराकाङ्क्षं पदं तस्य तेनैवाकाङ्क्षापरिपूर्तेः पुरुषपदेन
पुरुषरूपमात्राभिधायिना स्वतन्त्रेणैव न संबन्धः किन्तु परेणापसार्यतामित्यनेनापसरणीयापेक्षेणेति ।
सत्यपि संनिधाने आकाङ्क्षाभावादसंबन्धः ।
तथा चाभाणकः-ऽतप्तं तप्तेन संबध्यतेऽइति ।
तथा चाकाङ्क्षितमपि न यावत्संनिधाप्यते तावन्न संबध्यते ।
तथा संनिहितमपि यावन्नाकाङ्क्ष्यते न तावत्संबध्यत इति द्वयोः संबन्धं प्रति समानबलत्वात्क्रमप्रकरणयोः समुच्चयासंभवाच्च विकल्पेन राजसूयाभिषेचनीययोर्विनियोगः शौनःशेपोपाख्यानादीनामिति प्राप्तम् ।
एवं प्राप्त उच्यते-राजसूयके कथंभावापेक्षा हि पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुवर्तते ।
यथाच-ऽअविच्छिन्ने कथंभावे यत्प्रधानस्य पठ्यते ।
अनिर्ज्ञातफलं कर्म तस्य प्रकरणाङ्गता ऽइति न्यायाद्राजसूयाङ्गता शौनःशेपोपाख्यानादीनाम् ।
अभिषेचनीयस्य तु स्ववाक्योपात्तपदार्थनिराकाङ्क्षस्य संनिधिपाठेनाकाङ्क्षोत्थापनीया यावत्तावत्सिद्धाकाङ्क्षेण राजसूयेनैकवाक्यता कल्प्यते ।
यावच्चाभिषेचनीयाकाङ्क्ष्या तदेकवाक्यता कल्प्यते तावत्कॢप्तया राजसूयैकवाक्यता तदुपकारतया सामर्थ्यलक्षणं लिङ्गं यावच्चाभिषेचनीयैकवाक्यतया लिङ्गं कल्प्यते तावत्कॢप्तलिङ्गं विनियोक्रीं श्रुतिं कल्प्यति यावद्वाक्यकल्पितेन लिङ्गेन श्रुतिरितरत्र कल्प्यते तावत्कॢप्तया श्रुत्या विनियोगे सति प्रकरणपाठोपपत्तौ संनिधानपरिकल्पितमन्तरा विलीयते ।
प्रमाणाभावे ऽप्रतिपत्वात् ।
प्रकरणिनश्च राजसूयस्य सर्वदा बुद्धिसांनिध्येन तत्संनिधेरकल्पनीयत्वात् ।
तस्मात्प्रकरणविरोधे क्रमस्य बाध एव नच विकल्पो दुर्बलत्वादिति सिद्धम् ॥
क्रमसमाख्ययोर्विरोधोदाहरणम्-पौरोडाशिक इति समाख्याते काण्डे सान्नाय्यक्रमे च शुन्धध्वं दैव्याय कर्मण इति शुन्धनार्थो मन्त्रः समाम्नातः, तत्र संदिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाशपात्राणां शुन्धने विनियोक्तव्यः, आहो सान्नाय्यपात्राणां शुन्धने क्रमो बलीयानिति ।
किन्तावत्प्राप्तम् ।
समाख्यानां बलीय इति पौरोडाशिकशब्देन हि पुरोडाशसंबन्धीनीत्युच्यन्ते तान्यधिकृत्य प्रवृत्तं काण्डं पौरोडाशिकम् ।
ततश्च
यावत्क्रमेण प्रकरणाद्यनुमानपरम्परया संबन्धः प्रतिपादनीयः यावत्समाख्यया श्रुत्यैव साक्षादेव स प्रतिपादित इति अर्थविप्रकर्षेण क्रमात्समाख्यैव बलीयसीति पुरोडाशपात्रशुन्धने मन्त्रः प्रयोक्तव्यः न सान्नाय्यपात्रशुन्धन इति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते-समाख्यानात्क्रमो बलवानर्थविप्रकर्षादिति ।
तथाहि-समाख्या न तावत्संबन्धस्य वाचिका किन्तु पौरोडाशविशिष्टं काण्डमाह ।

तद्विशिष्टत्वान्यथानुपपत्त्या तु संबन्धः काण्डस्यानुमीयते न तु साक्षान्मन्त्रबेदस्य ।
तद्धारेण च तन्मध्यपातिनो मन्त्रभेदस्यापि तदनुमानम् ।
न चासौ संबन्धो ऽपि श्रुत्यैव शेषशेषिभावः प्रतीयते ।
अपि तु संबन्धमात्रम् ।
तस्माच्छ्रुतिसादृश्यमस्य दूरापेतमिति क्रमेण नास्य स्पर्धोचिता ।
तत्रापि च सामान्यतो दर्शपूर्णमासप्रकरणापादितैदमर्थ्यस्य शौनःशेपोपाख्यानादिवच्चारादुपकारकतया प्रकृतमात्रसंबन्धानुपपत्तिः ।
मन्त्रस्य प्रयोगसमवेतार्थस्मारणेन सामवायिकाङ्गत्वात् ।
तथाच यं
कञ्चित्प्रकृतप्रयोगगतमर्थं प्रकाशयतो ऽस्य प्रकरणाङ्गत्वमविरुद्धमिति विशेषापेक्षायां सान्नाय्यक्रमः सान्नाय्यं प्रति प्रकरणाद्यनुमानद्वारेण विनियोगं कल्पयितुमुत्सहते न तु समाख्यानम् ।
तस्य दुर्बलत्वात् ।
तथाहि-समाख्या संबन्धनिबन्धना सति तत्सिध्यर्थं संनिधिमुपकल्पयति यावत्ताद्वैदिकेन प्रत्यक्षदृष्टेन संनिधानेनाकाङ्क्षा कल्प्यते ।
यावच्च कॢप्तेन संनिधानेनाकाङ्क्षा कल्प्यते तावदितरत्र कॢप्तयाकाङ्क्षयैकवाक्यता यावच्च कॢप्तयाकाङ्क्षैकवाक्यता तावदितरत्रैकवाक्यतया कॢप्तयोपकारसामर्थ्यम् ।
यावच्चात्रैकवाक्यतयोपकारसामर्थ्यं तावदितरत्र लिङ्गेन विनियोजिका श्रुतिः ।
यावदत्र लिङ्गेन विनियोजिका श्रुतिस्तावदितरत्र कॢप्तया श्रुत्या विनियोग इति तावतैव
प्रकरणपाठोपपत्तेः सर्वं समाख्यानकल्पितं विच्छिन्नमूलत्वाल्लूयमानशस्यमिव निर्बीजं भवति ।
पुरोडाशाभिधायकमन्त्राबाहुल्यात्काण्डस्य पौरोडाशिकसमाख्येति मन्तव्यम् ।
ऽएकद्वित्रिचतुष्पञ्चवस्त्वन्तरयकारितम् ।
श्रुत्यर्थं प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥
ऽइत्यर्थविप्रकर्ष उक्तः ।
तत्रापि च ऽबाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा ।
मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥
ऽइति विशेष उक्तो वृद्धैः ।
तद्वयं विस्तराद्बिभ्यतो ऽपि प्रथमतन्त्रानभिज्ञानुकम्पया निघ्ना विस्तरे पतिताः स्म इत्युपरम्यते ।
तस्माद्यथानुज्ञापनानुज्ञयोः प्रज्ञातक्रमयोरुपहूत उपहूयस्वेत्येवं मन्त्रावाम्नातौ देशसामान्यात्तथैवाङ्गतया प्राप्नुतः ।
उपहूत इति लिङ्गतो ऽनुज्ञामन्त्रो नानुज्ञापने उपहूयस्वेति च लिङ्गतो ऽनुज्ञापनो च मन्त्रो नानुज्ञायाम् ।
तदिह लिङ्गेन क्रमं बाधित्वा विपरीतं शेषत्वमापाद्यते ।
यावद्धि स्थानेन प्रकरणमुत्पाद्यैकवाक्यत्वं कल्प्यते तावल्लिङ्गेन श्रुतिं कल्पयित्वा साधितो विनियोग इति अकल्पितलिङ्गश्रुतेः क्रमस्य बाधः ।
तद्वदिहापि विनियोगे प्रत्येकान्तरितेन लिङ्गेन चतुरन्तरितस्य विद्याक्रमस्य बाध इति ।
यद्यपि प्रथमतन्त्र एवायमर्थ उपपादितस्तथापि विरोधे तदुपपादनमिह त्वविरोधः ।
नहि लिङ्गेनाभिचारिककर्मसंबन्धः विद्यासंबन्धेन क्रमकृतेन विरुध्यते ।
नच विनियुक्तविनियोगलक्षणो ऽत्र विरोधो बृहस्पतिसवे ऽपि तत्प्रसङ्गात् ।
अथैव प्रतीतिविरोधो नच वस्तुविरोधः स विद्यायां विनियोगे ऽपि तुल्यः ।
तस्मादविरोधाद्वेधादिमन्त्रस्योपासनाङ्गत्वमित्यस्त्यभ्यधिका शङ्का ।
तत्रोच्यते-ऽनहि लिङ्गविरोधेन क्रमबाधो ऽभिधीयते ।
किन्तु लिङ्गपरिच्छिन्ने न क्रमः कल्पनाक्षमःऽ ।
प्रकरणपाठोपपत्त्या हि श्रुतिलिङ्गत्वाक्यप्रकरणैरविनियुक्तः क्रमेण प्रकरणवाक्यलिङ्गश्रुतिकल्पनाप्राणालिकया विनियुज्यते ।
तदा विनियुक्तस्य प्रकरणपाठानर्थक्यप्रसङ्गात् ।
उपपादिते तु श्रुत्यादिभि प्रकरणपाठे क्षीणत्वादर्थापत्तेः क्रमो न
स्वोचितां प्रमामुत्पादयितुमर्हति प्रमित्साभावादिति ।
बृहस्पतिसवस्य तु क्त्वाश्रुतिरेव धातुसंबन्धाधिकारकात्समानकर्तृकतायां विहिता संयोगपृथक्त्वेन विनियुक्तमपि विनियोजयन्ती न शक्या श्रुत्यन्तरेण निरोद्धुं स्वप्रमामिति वैषम्यम् ।
तदिदमुक्तम्-
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरमिति ।
अपि चैको ऽयं प्रवर्ग्य इति ।
तुल्यबलतया बृहस्पतिसवस्य तुल्यताशङ्कापाकरणद्वारेण समुच्चयो न तु पृथगुक्तितया परस्परापेक्षत्वादिति ।
संनिधिपाठमुपपादयति-
अरण्यादिवचनवादिति ॥25॥
स्तर्त् ब्स्व्भ्_3,3.15.26
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम्

3.3.27

यत्र हानोपायने श्रूयेते तत्राविवादः संनिपाते यत्राप्युपायनमात्रश्रवणं तत्रापि नान्तरीयकतया हानमाक्षिप्तमित्यस्ति संनिपातः ।
यत्र तु हानमात्रं सकृतदुष्कृतयोः श्रुतं न श्रूयते उपायनं, तत्र किमुपायनमुपादानं संनिपतेन्न वेति संशयः ।
अत्र पूर्वपक्षं गृह्णाति-
असंनिपात इति ।
स्यादेतत् ।
यथा श्रूयमाणमेकत्र शाखायामुपासनाङ्गं तस्मिन्नेवोपासने शाखान्तरे ऽश्रूयमाणमुपसंह्रियते ।
एवं शाखान्तरश्रुतमुपायनमुपसंहरिष्यत इत्यत आह-
विद्यान्तरगोचरत्वाच्चेति ।
एकत्वे ह्युपासनकर्मणामन्यत्र श्रुतानामप्यन्यत्र समवायो घटते ।
न त्विहोपासनानामेकत्वं, सगुणनिर्गुणत्वेन भेदादित्यर्थः ।
ननु यथोपायनं श्रुतं हानमुपस्थापयत्येवं हानमपि उपायनमित्यत आह-
अपि चात्मकर्तृकमिति ।
ग्रहणं हि न स्वामिनो ऽपगममन्तरेण भवतीति ग्रहणादपगमसिद्धिरवश्यंभाविनी ।
अपगमस्त्वसत्यप्यन्येन ग्रहणे दृष्टो यथा प्रायश्चित्तेनापगतिरेनस इति ।
कर्तृभेदकथनं त्वेतदुपोद्बलानार्थं न पुनरवश्यंभावस्य प्रयोजकमुपायनेनानैकान्त्यादिति ।
सिद्धान्तमुपक्रमते-
अस्यां प्राप्ताविति ।
अयमस्यार्थः-कर्मान्तरे विहितं हि न कर्मान्तर उपसंह्रियते प्रमाणाभावात् ।
यत्पुनर्न विधीयते किन्तु स्तुत्यर्थं सिद्धतया संकीर्त्यते तदसति बाधके देवताधिकरणन्यायेन शब्दतः प्रतीयमानं परित्यक्तुमशक्यम् ।
तथाच विधूतयोः सकृतदुष्कृतयोर्निर्गुणायां
विद्यायामश्वरोमादिवत्किं भवत्वित्याकाङ्क्षायां न तावत्प्रायश्चित्तेनेव तद्विलयसंभवस्तथा सत्यश्वरोमराहुदृष्टान्तानुपपत्तेः ।
न जात्वश्वरोमराहुमुखयोर्विलयनमस्ति ।
अपि त्वश्वचन्द्राभ्यां विभागः ।
नच नष्टे
विधूननप्रमोचनार्थसंभवः ।
तस्मादर्थवादस्यापेक्षायां शब्दसंनिधिकृतो ऽपि विशेष उपायनं बुद्धौ संनिधापयितुं शक्नोत्यपेक्षां पूरयितुमिति ।
निर्गुणापि विद्या हानोपायनाभ्यां स्तोतव्या ।
स्तुतिप्रकर्षस्तु प्रयोजनं न प्रमाणम् ।
अप्रकर्षे ऽपि स्तुत्युपपत्तेः ।
न चार्थवादान्तरापेक्षार्थवादान्तराणां न दृष्टा ।
नच तैर्न पूरणमित्याह-
प्रसिद्धा चेति ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्येति ।
यद्यप्यन्यदीये अपि सुकृतदुष्कृते अन्यस्य फलं प्रयच्छतः, यथा पुत्रस्य श्राद्धकर्म पितुस्तृप्तिं यथा च पितुर्वैश्वानरीयेष्टिः पुत्रस्य ।
नार्याश्च सुरापानं भर्तुर्नरकम् ।
तथाप्यन्यदीये अपि सुकृतदुष्कृते साक्षादन्यस्मिन्न संभवत इत्याशयेन शङ्का ।
फलतः प्राप्त्या स्तुतिरिति परिहारः ।
गुणोपसंहारविवक्षायाम् इत्यपि न स्वरूपतः सुकृतदुष्कृतसंचाराभिप्रायम् ।
ननु विद्यागुणोपसंहाराधिकारे को ऽयमकाण्डे स्तुत्यर्थविचार इतिशङ्कामुपसंहारन्नपाकरोति-
तस्माद्गुणोपसंहारविचारप्रसङ्गेनेत् इ ।
विद्यागुणोपसंहारप्रसङ्गतः स्तुतिगुणोपसंहारो विचारितः ।
प्रयोजनं चोपासके सौहार्दमाचरितव्यं न त्वसौहार्दमिति छन्द एवाच्छन्द आच्छादनादाच्छन्दो भवति ।
यथैव चाविशेषेणोपगानमिति ।
ऋत्विज
उपगायन्तीत्यविशेषेणोपगानमृत्विजाम् ।
भाल्लविनस्तु विशेषेण नाध्वर्युपगायतीति ।
तदेतस्माद्भाल्लविनां वाक्यमृत्विज उपगायन्तीत्येतच्छेषं विज्ञायते ।
एतदुक्तं भवति-अध्वर्युवर्जिता ऋत्विज उपगायन्तीति ।
कस्मात्पुनरेवं व्याख्यायते ।
ननु स्वतन्त्राण्येव सन्तु वाक्यानीत्यत आह-
श्रुत्यन्तरकृतमिति ।
अष्टदोषदुष्टविकल्पप्रसङ्गभयेन वाक्यान्तरस्य वाक्यान्तरशेषत्वमत्रभवतो जैमिनेरपि संमतमित्याह-
तदुक्तं द्वादशलक्षण्याम् ।
ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइत्येतदेव सूत्रमर्थद्वारेण पठति-
अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्स चान्याय्य इति शेषः ।
एवं किल श्रूयते-ऽएष वै सप्तदशः प्रजापतिर्यज्ञे यज्ञे ऽन्वायत्तऽइति ।
ततो नानुयाजेषु येयजामहं करोतीति ।
तदत्रानारभ्य कञ्चिद्यज्ञं यज्ञेषु येयजामहकरणमुपदिष्टम् ।
तदुपदिश्य चाम्नातं नानुयाजेष्विति ।
तत्र संशयः-किं विधिप्रतिषेधयोर्विकल्प उत पर्युदासो ऽनुयाजवर्जितेषु येयजामहः कर्तव्य इति ।
मा भूदर्थप्राप्तस्य शास्त्रीयेण निषेधे विकल्पः ।
दृष्टं हि तादात्विकीमस्य सुन्दरतां गमयति नायतौ दोषवत्तां निषेधति ।
तस्य तत्रौदासीन्यात् ।
निषेधशास्त्रं तु तादात्विकं सौन्दर्यमबाधमानमेव प्रवृत्त्युन्मुखं नरं निवारयदायत्यामस्य दुःखफलत्वमवगमयति ।
यथाह-ऽअकर्तव्यो दुःखफलःऽइति ।
ततो रागतः प्रवृत्तमप्यायत्यां दुःखतो बिभ्यतं पुरुषं शक्नोति निवारयितुमिति बलीयान् शास्त्रीयः प्रतिषेधो गारतः प्रवृत्तेरिति न तया विकल्पमर्हति ।
शास्त्रीयौ तु विधिनिषेधौ तुल्यबलतया षोडशिग्रहणवद्विकल्प्येते ।
तत्र हि विधिदर्शनात्प्रधानस्योपकारभूयस्त्वं कल्प्यते ।
निषेधदर्शनाच्च वैगुण्ये ऽपि
फलसिद्धिरवगम्यते ।
तथाह-ऽअर्थप्राप्तवदिति चेन्न तुल्यत्वादुभयं शब्दलक्षणंऽइति ।
नच वाच्यं यावद्यजतिषु येयजामहकरणं यावद्यजतिसामान्यद्वारेणानुयाजं यजतिविशेषमुपसर्पति तावदनुयाजगतेन निषेधेन तन्निषिद्धमिति शीघ्रप्रवृत्तेः सामान्यशास्त्राद्विशेषनिषेधो बलवानिति ।
यतो भवत्वेवंविधिषु ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ।
तत्र तक्रविधिर्न दधिविधिमपेक्षते प्रवर्तितुमिह तु प्राप्तिपूर्वकत्वाप्रतिषेधस्य येयजामहस्य चान्यतो ऽप्राप्तेस्तन्निषेधेन निषेधप्राप्त्यै तद्विधिरपेक्षणीयः ।
नच सापेक्षतया निषेधाद्विधिरेव बलीयानित्यतुल्यशिष्टतया न विकल्पः किन्तु निषेधस्यैव बाधनमिति सांप्रतं, तथा सति निषेधशास्त्रं प्रमत्तगीतं स्यात् ।
नच तद्युक्तं तुल्यं हि सांप्रदायिकम् ।
नच न तौ पशौ करोतीतिवदर्थवादता ।
असमवेतार्थत्वात् ।
पशौ हि नाज्यभागौ स्त इत्युपपद्यते ।
न चात्र तथा येयजामहाभावः, यजतिषु येयजामहविधानात् ।
अनुयाजानां च तद्भावात् ।
नच पर्युदासस्तदाननुयाजेष्विति, कात्यायनमतेन नियमप्रसक्तेः ।
तस्माद्विहितप्रतिषिद्धतया विकल्प इति प्राप्तम् ।
एवं प्राप्त उच्यते-उक्तं षोडशिग्रहणयोर्विकल्प इति ।
नहि तत्रान्या गतिरस्ति ।
तेनाष्टादोषदुष्टो ऽपि विकल्प आस्थीयते पक्षे ऽपि प्रामाण्यान्मा भूत्प्रमतगीततेति ।
इह तु पर्युदासेनाप्युपपत्तौ संभवन्त्यामन्याय्यं विकल्पाश्रयणमयुक्तम् ।
एवं हि तदा नञः संबन्धो ऽननुयाजेषु यजतिष्वनुयाजवर्तितेषु येयजामहः कर्तव्य इति ।
किमतो यद्यवम् ।
एतदतो भवति-नानुयाजेष्वित्येतद्वाक्यमपरिपूर्णं साकाङ्क्षं पूर्ववाक्यैकदेशेन संभन्त्स्यते यदेतद्येयजामहङ्करोतीत्येतन्नानुयाजेषु यावदुक्तं स्यादनुयाजवर्जितेष्विति तावदुक्तं
भवति नानुयाजेष्विति ।
तथाच यजितिविशेषणार्थत्वादननुयाजविधिरेवायमिति प्रतिषेधाभावान्न विकल्पः ।

न चाभियुक्ततरपाणिनिविरोधे कात्यायनस्यासद्वादित्वं नित्यसमासवादिनः संभवति ।
स हि विभाषाधिकारे समासं शास्ति ।
तस्मादनुयाजवर्जितेषु येयजामहविधानमिति सिद्धम् ।
वर्णकान्तरमाह-
अथवैतास्विति ।
यथा हि सुकृतदुष्कृतयोरमूर्तयोः कल्पनं नाञ्जसं मूर्त्यनुविधायित्वात्कम्पस्य ।
तथान्यदीययोरन्यत्र संचारो ऽप्यनुपपन्नो ऽमूर्तत्वादेव ।
तस्माद्यत्र विधूननमात्रं श्रुतं तत्र कम्पनेन वरं स्वकार्यारम्भाच्चालनमात्रमेव लक्ष्यतां न तु ततो ऽपगत्यान्यत्र संचारः कल्पनागौरवप्रसङ्गात् ।
तस्मात्स्वकार्यारम्भाच्चालनं विधूननमिति प्राप्ते ऽभिधीयते-यत्र तावदुपायनश्रुतिस्तत्रावश्यं त्यागो विधूननं वक्तव्यम् ।
क्वचिदपि चेद्विधूननं त्यागे वर्तते तथा सत्यन्यत्रापि तत्रैव वर्तितुमर्हति ।
एवं हि न वर्तेत यदि विधूननमिह मुख्यं लभ्येत ।
न चैतदस्ति ।
तत्रापि स्वकार्याच्चालनस्य लक्ष्यमाणत्वात् ।
नच प्रामाणिकं कल्पनागौरवं लोहगन्धितामाचरति ।
अपिचानेकार्थत्वाद्धातूनां त्यागे ऽपि विधूयते मुख्यमेव भविष्यति ।
प्राचुर्येण त्यागे ऽपि लोके प्रयोगदर्शनात् ।
विनिगमनहेतोरभावात् ।
गणकारस्य चोपलक्षणत्वेनाप्यर्थनिर्देशस्य तत्र दर्शनात् ।
तस्माद्धानार्थ एवात्रेति युक्तम् ॥26॥
स्तर्त् ब्स्व्भ्_3,3.16.27
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये

3.3.28

ननु पाठक्रमादर्धपथे सुकृतदुष्कृततरणे प्रतीयेते ।
विद्यासामर्थ्याच्च प्रागेवावगम्येते ।
तथा शाठ्यायनिनां ताण्डिनां च श्रुतेः ।
श्रुत्यर्थौ च पाठक्रमाद्बलीयांसौ, ऽअग्निहोत्रं जुहोति यवागूं पचतिऽइत्यत्र यथा ।
तस्मात्पूर्वपक्षाभावादनारभ्यमेतत् ।
अत्रोच्यते ।
नैतत्पाठक्रममात्रमपि तु श्रुतिस्तत्सुकृतदुष्कृते विधूनुत इति ।
तदिति हि सर्वनाम तस्मादर्थे सन्निहितपरामर्शकं तस्य हेतुभावमाह ।
सन्निहितं च यदनन्तरं
श्रुतम् ।
तच्चार्धपथवर्ति विरजानदीमनो ऽभिगमनमित्यर्धपथ एव सुकृतदुष्कृतत्यागः ।
नच श्रुत्यन्तरविरोधः ।
अर्धपथे ऽपि पापविधूनने ब्रह्मलोकसंभवात्प्राक्कालतोपपत्तेः ।
एवं शाठ्यायनिनामप्यविरोधः ।
नहि तत्र जीवन्निति वा जीवत इति वा श्रुतम् ।
तथा चार्धपथ एव सुकृतदुष्कृतविमोकः ।
एवञ्च न पर्यङ्कविद्यातस्तत्प्रक्षय इति पूर्वः पक्षः ।
राद्धान्तस्तु विद्यासामर्थ्यविधूतकल्मषस्य ज्ञानवत उत्तरेण पथा गच्छतो ब्रह्मप्राप्तिर्न चाप्रक्षीणकल्मषस्योत्तरमार्गगमनं संभवति ।
यथा यवागूपाकात्प्राग्नाग्निहोत्रम् ।
यमनियमाद्यनुष्ठानसहिताया विद्याया उत्तरेण मार्गेण पर्यङ्कस्थब्रह्मप्राप्त्युपायत्वश्रवणात् ।
अप्रक्षीणपाप्मनश्च तदनुपपत्तेः ।
विद्यैव तादृशी कल्मषं क्षपयति क्षपितकल्मषं चोत्तरमार्गं प्रापयतीति कथमर्धपथे कल्मषयः ।
तस्मात्पाठक्रमबाधेनार्थक्रमो ऽनुसर्तव्यः ।
ननु न पाठक्रममात्रमत्र, तदिति सर्वनामश्रुत्या संनिहितपरामर्शादित्युक्तम् ।
तदयुक्तं, बुद्धिसंनिधानमात्रमत्रोपयुज्यते नान्यत्, तच्चानन्तरस्येव विद्याप्रकरणाद्विद्याया अपीति समाना श्रुतिरुभयत्रापीति ।
अर्थपाठौ परिशिष्येते तत्र चार्थो बलीयानिति ।
नच ताण्ड्यादिश्रुत्यविरोधः पूर्वपक्षे ।
अश्व इव रोमाणि विधूयेति हि स्वतन्त्रस्य पुरुषस्य व्यापारं ब्रूते, नच परेतस्यास्ति स्वातन्त्र्यम्, तस्मात्तद्विरोधः ॥27॥
स्तर्त् ब्स्व्भ्_3,3.16.28
छन्दत उभयाविरोधात्

3.3.29

केभ्यश्चित्पदेभ्य इदं सूत्रम् ।
ननु यथा परेतस्योत्तरेण पथा ब्रह्मप्राप्तिर्भवतीति विद्याफलमेवं तस्यैवार्धपथे सुकृतदुष्कृतहानिरपि भविष्यतीति शङ्कापदानि तेभ्य उत्तरमिदं सूत्रम् ।
तद्व्याचष्टे-
यदि च देहादपसृप्तस्येति ।
विद्याफलमपि ब्रह्मप्राप्तिर्नापरेतस्य भवितुमर्हति शङ्कापदेभ्यः ।
यथाहुः-नाजनित्वा तत्र गच्छन्तीति ।
सुकृतदुष्कृतप्रक्षयस्तु सत्यपि नरशरीरे संभवतीति समर्थस्य हेतोर्यमनियमादिसहिताया विद्यायाः कर्यक्षयायोगाद्युक्तो जीवत एव सुकृतदुष्कृतक्षय इति सिद्धम् ।
छन्दतः स्वच्छन्दतः स्वेच्छयेति यावत् ।
स्वेच्छयानुष्ठानं यमनियमादिसहिताया विद्यायाः ।
तस्य जीवतः पुरुषस्य स्यान्न मृतस्य ।
तत्पूर्वकं चसुकृतदुष्कृतहानं स्याज्जीवत एव ।
समर्थस्य क्षेपायोगात् ।
एवं कारणानन्तरं कार्योत्पादे सति निमित्तनैमित्तकयोस्तद्भावस्योपपत्तिस्ताण्डिशाठ्यायनिश्रुत्योश्च संगतिरितरथा स्वातन्त्र्याभावेनासंगतिरुक्ता स्यात् ।
तदनेनोभयाविरोधो व्याख्यातः ।
ये तु परस्य विदुषः सुकृतदुष्कृते कथं परत्र संक्रामत इति शङ्कोत्तरतया सूत्रं व्याचख्युः ।
छन्दतः संकल्पत इति श्रुतिस्मृत्योरविरोधादेव ।
न त्वत्रागमगम्येर्ऽथे स्वातन्त्र्येण युक्तिर्निवेशनीयेते ।
तेषामधिकरणशरीरानुप्रवेशे संभवत्यर्थान्तरोपवर्णनमसङ्गतमेवेति ॥28॥
स्तर्त् ब्स्व्भ्_3,3.17.29.-30
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः

3.3.31

यथा हानिसंनिधावुपायनमन्यत्र श्रुतमिति, यत्रापि केवला हानिः श्रूयते तत्रापि उपायनमुपस्थापयत्येवं तत्सन्निधावेव देवयानः पन्थाः श्रुत इति यत्रापि सुकृतदुष्कृतहानिः केवला श्रुता तत्रापि देवयानं पन्थानमुपस्थापयितुमर्हति ।
नच निरञ्जनः परमं साम्यमुपैतीत्यनेन विरोधः ।
देवयानेन पथा ब्रह्मलोकप्राप्तौ निरञ्जनस्य परमसाम्योपपत्तेः ।
तस्माद्धानिमात्रे देवयानः पन्थाः संबध्यत इति प्राप्तम् ।
एवं प्राप्त उच्यते-विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैतीति हि विदुषो विधूतपुण्यपापस्य विद्यया क्षेमप्राप्तिमाह ।
भ्रमनिबन्धनो ऽक्षेमो याथात्म्यज्ञानलक्षणया विद्यया विनिवर्तनीयः ।
नासौ देशविशेषमपेक्षते ।
नहि जातु रज्जौ सर्पभ्रमनिवृत्तये समुत्पन्नं रज्जुतत्त्वज्ञानं देशविशेषमपेक्षते ।
विद्योत्पादस्यैव स्वविरोध्यविद्यानिवृत्तिरूपत्वात् ।
नच विद्योत्पादाया ब्रह्मलोकप्राप्तिरपेक्षणीया ।
यमनियमादिविशुद्धसत्त्वस्येहैव श्रवणादिभिर्विद्योत्पादात् ।
यदि परमारब्धकार्यकर्मक्षपणाय शरीरपातावध्यपेक्षेति न देवयानेनास्तीहार्थ इति श्रुतिदृष्टविरोधान्नापेक्षितव्य इति ।
अस्ति तु पर्यङ्कविद्यायां तस्यार्थ इत्युक्तं द्वितीयेन सूत्रेणेति ।
ये तु यदि पुण्यमपि निवर्तते किमर्था तर्हि गतरित्याशङ्क्य सूत्रमवतारयन्ति ।
गतेरर्थवत्त्वमुभयथा दुष्कृतनिवृत्त्या सुकृतनिवृत्त्या च ।
यदि पुनः पुण्यमनुवर्तेत ब्रह्मलोकगतस्यापीह पुण्यफलोपभोगायवृत्तिः स्यात् ।
तथा चैतेन प्रतिपाद्यमानागत्यनावृत्तिश्रुतिविरोधः ।
तस्माद्दुष्कृतस्येव सुकृतस्यापि प्रक्षय इति तैः पुनरनाशङ्कनीयमेवाशङ्कितम् ।
विद्याक्षिप्तायां हि गतौ केयमाशङ्का यदि क्षीणसुकृतः किमर्थमयं यातीति ।
नह्येषा सुकृतनिबन्धना गतिरपि तु विद्यानिबन्धना ।
तस्माद्वृद्धोक्तमेवोपवर्णनं साध्विति ॥29॥
स्तर्त् ब्स्व्भ्_3,3.17.31
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम्

3.3.32

प्रकरणं हि धर्माणां नियामकम् ।
यदि तु तन्नाद्रियते ततो दर्शपूर्णमासज्योतिष्टोमादिधर्माः संकीर्येरन् ।
नच तेषां विकृतिषु सौर्यादिषु द्वादशाहादिषु चोदकतः प्राप्तिः ।
सर्वत्रौपदेशिकत्वात् ।
नच दर्विहोमस्याप्रकृतिविकारस्याधर्मकत्वम् ।
नच सर्वधर्मयुक्तं कर्म किञ्चिदपि शक्यमनुष्ठातुम् ।
न चैवं सति श्रुत्यादयो ऽपि विनियोजकास्तेषामपि हि प्रकरणेन सामान्यसंबन्धे सति विनियोजकत्वात् ।
यत्रापि विनाप्रकरणं श्रुत्यादिभ्यो विनियोगो ऽवगम्यते तत्रापि तन्निर्वाहाय प्रकरणस्यावश्यं कल्पनीयत्वात् ।
तस्मात्प्रकरणं विनियोगाय
तन्नियमाय चावश्याभ्युपेतव्यमन्यथा श्रुत्यदीनामप्रामाण्यप्रसक्तेः ।
तस्माद्यास्वेवोपासनासु देवयानः पितृयाणो वा पन्था आम्नातस्तास्वेव न तूपासनान्तरेषु तदनाम्नानात् ।
नच ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति सामान्यवचनात्सर्वविद्यासु तत्पथप्राप्तिः ।
श्रद्धातपःपरायणानामेव तत्र तत्पथप्राप्तिः श्रूयते, न तु विद्यापरायणानाम् ।
अपिचैवं सत्येकस्यां विद्यायां मार्गोपदेशः सर्वासु विद्यास्वित्येकत्रैव मार्गोपदेशः कर्तव्यो न विद्यान्तरे ।
विद्यान्तरे च श्रूयते ।
तस्मान्न सर्वोपासनासु पथिप्राप्तिरिति प्राप्तम् ।
एवं प्राप्ते उच्यते-ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽइति न श्रद्धातपोमात्रस्य पथिप्राप्तिमाहापि तु विद्यया तदारोहन्तीत्यत्र नाविद्वांसस्तपस्विन इति केवलस्य तपसः श्रद्धायाश्च तत्प्राप्तिप्रतिषेधाद्विद्यासहिते श्रद्धातपसी तत्प्राप्युपायतया वदन् विद्यान्तरीलानामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां दर्शयति ।
तथान्यत्रापि पञ्चाग्निविद्याधिकारे ऽभिधीयते-ऽय एवमेताद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽइति ।
सत्यशब्दस्य ब्रह्मण्येवानपेक्षप्रवृत्तित्वात् ।
तदेव हि सत्यमन्यस्य मिथ्यात्वेन कथञ्चिदापेक्षिकसत्यत्वात् ।
पञ्चाग्निविदां चेत्थंवित्तयैवोपात्तत्वात् ।
विद्यासाहचर्याच्च विद्यान्तरपरायणानामेवेदमुपादानं न्याय्यम् ।
मार्गद्वयभ्रष्टानां चाधोगतिश्रवणात् ।
तत्रापि च योग्यतया देवयानस्यैवेहाध्वनो ऽभिसंबन्धः ।
एतदुक्तं भवति-भवेत्प्रकरणं नियामकं यद्यनियमप्रतिपादकं वाक्यं श्रौतं स्मार्तं वा न स्यादस्ति तु तत्तस्य च प्रकरणाद्बलीयस्त्वम् ।
तस्मादनियमो विद्यान्तरेष्वपि सगुणेषु देवयानः पन्था असकृन्मार्गोपदेशस्य च प्रयोजनं वर्णितं भाष्यकृतेति ॥31॥
स्तर्त् ब्स्व्भ्_3,3.19.32
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्

3.3.33

सगुणायां विद्यायां चिन्तां कृत्वा निर्गुणायां चिन्तयति ।
निर्गुणायां विद्यायां नापवर्गः पलं भवितुमर्हति ।
श्रुतिस्मृतीतिहासपुराणेषु विदुषामप्यपान्तरतमःप्रभृतीनां तत्तद्देहपरिग्रहपरित्यागौ श्रूयेते ।
तदपवर्गफलत्वे नोपपद्यते ।
अपवृक्तस्य तदनुपपत्तेः ।
उपपत्तौ वा तल्लक्षणायोगात् ।
अपुनरावृत्तिर्हि तल्लक्षणम् ।
तेन सत्यामपि विद्यायां तदनुपपत्तेर्न मोक्षः ।
फलं, विद्यायां विभूतयस्तु तास्तास्तस्याः फलम् ।
अपुनरावृत्तिश्रुतिः पुनस्तत्प्रशंसार्थेति मन्यते ।
नच ऽतावदेवास्य चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽइति श्रुतेर्विदुषो देहपातावधिप्रतीक्षावद्वसिष्ठादीनामपि प्रारब्धकर्मफलोपभोगप्रतीक्षेति सांप्रतम् ।
येन हि कर्मणा वसिष्ठादीनामारब्धं शरीरं तत्प्रतीक्षा स्यात् ।
तथाच न शरीरान्तरं ते गृह्णीयुः ।
नच तावदेव चिरमित्येतदप्यार्जवेन घटते ।
समर्थहेतुसंनिधौ क्षेपायोगात् ।
तस्मादेतदपि विद्यास्तुत्यैव गमयितव्यम् ।
तस्मान्नापवर्गो विद्याफलम् ।
तथा चापवर्गाक्षेपेण पूर्वः पक्षः ।
अत्र च पाक्षिकं मोक्षहेतुत्वमित्यापाततः, अहेतुत्वं वेति तु पूर्वपक्षतत्त्वम् ।
राद्धान्तस्तु-विद्याकर्मस्वनुष्ठानतोषितेश्वरचोदितम् ।
अधिकारं समाप्यैते प्रतिशन्ति परं पदम् ॥
निर्गुणायां विद्यायामपवर्गलक्षणं श्रूयमाणं न स्तुतिमात्रतया व्याख्यायमुचितम् ।
पौर्वापर्यपर्यालोचने भूयसीनां श्रुतीनामत्रैव तात्पर्यावधारणात् ।
नच यत्र तात्पर्यं तदन्यथयितुं युक्तम् ।
उक्तं हि ऽन विधौ परः शब्दार्थऽइति ।
नच विदुषामपान्तरतमःप्रभृतीनां तत्तद्देहसंतारात्सत्यामपि ब्रह्मविद्यायामनिर्मोक्षान्न ब्रह्मविद्या मोक्षस्य हेतुरिति साम्प्रतम् ।
हेतोरपि सति प्रतिबन्धे कार्यानुपजनो न हेतुभावमपकारोति ।
नहि वृन्तफलसंयोगप्रतिबद्धं गुरुत्वं न पतनमजीजनदिति प्रतिबन्धापगमे तत्कुर्वन्न तद्धेतुः ।
नच न सेतुप्रतिबन्धानामपां निम्नदेशानभिसर्पणमिति सेतुभेदे न निम्नमभिसर्पन्ति ।
तद्वदिहापि विद्याकर्माराधनावर्जितेश्वरविहिताधिकारपदप्रतिबद्धा ब्रह्मविद्या यद्यपि न मुक्तिं दत्तवती तथापि तत्परिसमाप्तौ प्रतिबन्धविगमे दास्यति ।
यथा हि प्रारब्धविपाकस्य कर्मणः प्रक्षयं प्रतीक्षमाणश्चरमदेहसमुत्पन्नब्रह्मसाक्षात्कारो ऽपि ध्रियते ऽथ तत्प्रक्षयान्मोक्षं प्राप्नोति ।
एवं प्रारब्धाधिकारलक्षणफलविद्याकर्मा पुरुषो वसिष्ठादिर्विद्वानपि तत्क्षयं प्रतीक्षमाणो युगुपत्क्रमेण वा तत्तद्देहपरिग्रहपरित्यागौ कुर्वन्मुक्तो ऽप्यनाभोगात्मिकया प्रख्यया सांसारिक अव विहरति ।
तदिदमुक्तम्-
सकृत्प्रवृत्तमेव हि ते कर्माशयमधिकारफलदानायेति ।
प्रारब्धविपाकानि तु कर्माणि वर्जयित्वा व्यपगतानिज्ञानेनैवातिवाहितानि ।
न चैते जातिस्मरा इति ।
यो हि परवशो देहं परित्याज्यते देहान्तरं च नीतः पूर्वजन्मानुभूतस्य स्मरति स जन्मवाञ्जातिस्मरश्च ।
गृहादिव गृहान्तरे स्वेच्छया कायान्तरं संचरमाणो न जातिस्मर आख्यायते ।
व्युद्य विवादं कृत्वा ।
व्यतिरेकमाह-
यदि ह्युपयुक्ते सकृत्प्रवृत्ते प्रारब्धविपाके कर्मणि कर्मान्तर मप्रारब्धविपाकमिति ।
स्येदेतत् ।
विद्ययाविद्यादिक्लेशनिवृत्तौ नावश्यं निःशेषस्य कर्माशयस्य निवृत्तिनरनादिभवपरम्पराहितस्यानियतविपाककालस्यासङ्ख्येयत्वात्कार्मशयस्येत्यत आह-
न चाविद्यादिक्लेशदाहे सतीते ।
नहिसमाने विनाशहेतौ कस्यचिद्विनाशो नापरस्येति शक्यं वदितुम् ।
तत्किमिदानीं प्रवृत्तफलमपि कर्म विनश्येत् ।
तथाच न विदुषो वसिष्ठादेर्देहधारणेत्यत आह-
प्रवृत्तफलस्य तु कर्मण इति ।
तस्य तावदेव चिरमिति श्रुतिप्रामाण्यादनागतफलमेव कर्म क्षीयते न प्रवृत्तफलमित्यवगम्यते ।
अपिच नाधिकारवतां सर्वेषामृषीणामात्मतत्त्वज्ञानं तेनाव्यापको ऽप्ययं पर्वपक्ष इत्याह-
ज्ञानान्तरेषु चेति ।
तत्किन्तेषामनिर्मोक्ष एव, नेत्याह-
ते पश्चादैश्वर्यक्षय इति ।
निर्विण्णा विरक्ताः ।
प्रतिसंचरः प्रलयः ।
अपिच स्वर्गादावनुभवपथमनारोहति शब्दैकसमधिगम्ये विचिकित्सा स्यादपि मन्दधियामामुष्मिकफलत्वं प्रति ।
यथा चार्थवादः-ऽको हि तद्वेद यदमुष्मिंल्लोके ऽस्ति वा न वेतिऽ ।
अद्वैतज्ञानफलत्वे मोक्षस्यानुभवसिद्धे विचिकित्सागन्धो ऽपि नास्तीत्याह-
प्रत्यक्षफलत्वाच्चेति ।
अद्वैततत्त्वसाक्षात्कारो हि अविद्यासमारोपितं प्रपञ्चं समूलघातं निघ्नन्घोरं संसाराङ्गारपरितापमुपशमयति पुरुषस्येत्यनुभवादपि स्फुटमुपपतिद्रढिम्नश्च श्रुतिर्दर्शिता ।
तच्चानुभवाद्वामदेवादीनां सिद्धम् ।
ननु तत्त्वमसि वर्तस इति वाक्यं कथमनुभवमेव द्योतयतीत्यत आह-
नहि तत्त्वमसीत्यस्येति ।
वर्तमानापदेशस्य भविष्यदर्थता मृतशब्दाध्याहारश्चाशक्य इत्यर्थः ॥32॥
स्तर्त् ब्स्व्भ्_3,3.20.33
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्

3.3.34

अक्षगविषयाणां प्रतिषेधधियां सर्ववेदवर्तिनीनामवरोध उपसंहारः प्रतिषेधसामान्यादक्षरस्य तद्भावप्रत्यभिज्ञानात् ।
आनन्दादयः प्रधानस्येत्यत्रायमर्थो यद्यपि भावरूपेषु विशेषणेषु सिद्धस्तन्त्र्यायतया च निषेधरूपेष्विति सिद्ध एव ।
तथापि तस्यैवैष प्रपञ्चो ऽवगन्तव्यः ।
निदर्शनम् ।
जामदग्न्ये ऽहीन इति ।
यद्यपि शाबरे दत्तोत्तरमत्रोदाहरणान्तरं तथापि
तुल्यन्यायतयैदपि शक्यमुदाहर्तुमित्युदाहरणान्तरं दर्शितम् ।
तत्र शाबरमुदाहरणमस्त्याधानं यजुर्वेदविहितम्-ऽय एवं विद्वानग्निमाधत्तऽइति ।
तदङ्गत्वेन यजुर्वेद एव ऽय एवं विद्वान्वारवन्तीयं गायति य एवं विद्वान्यज्ञायज्ञीयं गायति य एवं विद्वान्वामदेव्यं गायतिऽइति विहितम् ।
एतानि च
सामानि सामवेदेषूत्पन्नानि ।
तत्रेदं संदिह्यते-किमेतानि यत्रोत्पद्यन्ते तत्रत्यैनेवोच्चैष्ट्वेन स्वरेणाधाने प्रयोक्तव्यान्यथ यत्र विनियुज्यन्ते तत्रत्येनोपांशुत्वेन स्वरेण ऽउच्चैः साम्नोपांशु यजुषा इति श्रुतेः ।
किं तावत्प्राप्तम् ।
उत्पत्तिविधिनैवापेक्षितोपायत्वात्मना विहितत्वादङ्गनां तस्यैव प्राथम्यात्तन्निबन्धन एवोच्चैःस्वरे प्राप्त उच्यते-
गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ।
अयमर्थः-उत्पत्तिविधिर्गुणो विनियोगविधिस्तु प्रधानं, तदनयोर्व्यातिक्रमे विरोधे उत्पत्तिविध्यालोचनेनोच्चैष्ट्वं विनियोगविध्यालोचनेन चोपांशुत्वं सो ऽयं विरोधो व्यतिक्रमस्तस्मिन्वयतिक्रमे मुख्येन प्रधानेन नियुज्यमानत्वरूपेण तस्य वारवन्तीयादेर्वेदसंयोगो ग्राह्यो नोत्पद्यमानत्वेन गुणेन ।
कुतः, विनियुज्यमानत्वस्य मुख्यत्वेनोत्पद्यमानत्वस्य गुणत्वेन तदर्थत्वाद्विनियुज्यमानार्थत्वादुत्पद्यमानत्वस्य ।
एतदुक्तं भवति-यद्यप्युत्पत्तिविधावपि चातूरूप्यमस्ति विधित्वस्याविशेषात् ।
तन्मात्रनान्तरीयकत्वाच्च चातूरूप्यस्य ।
तथापि वाक्यानामैदंपर्यं भिद्यते ।
एकस्यैव विधेरुत्पत्तिविनियोगाधिकारप्रयोगरूपेषु चतुर्षु मध्ये किञ्चिदेव रूपं केनचिद्वाक्येनोल्लिख्यते यदन्यतो ऽप्राप्तम् ।
तत्र यद्यपि सामवेदे सामानि विहितानि तथापि तद्वाक्यानां तदुत्पत्तिमात्रपरता विनियोगस्य याजुर्वैदिकैरेव वाक्यै प्राप्तत्वात् ।
तथाचोत्पत्तिवाक्येभ्यः समीहितार्थाप्रतिलम्भाद्विनियोगवाक्येभ्यश्च तदवगतेस्तदर्थान्येवोत्पत्तिवाक्यानि भवन्तीति तत्र येन वाक्येन विनियुज्यन्ते तस्यैव स्वरस्य साधनत्वंसंस्पर्शिनो ग्रहणं न तु रूपमात्रस्पर्शिन इति ।
भाष्यकारीयमप्युदाहरणमेवमेव योजयितव्यम् ।
उद्रातृवेदोत्पन्नानां मन्त्रणामुद्गात्रा प्रयोगे प्राप्ते
अध्वर्युप्रदानके ऽपि पुरोडाशे विनियुक्तत्वात्प्रधानानुरोधेनाध्वर्युणैव तेषां प्रयोगो नोद्गात्रेति दार्ष्टान्तिके योजयति-
एवमिहापीति ॥33॥
स्तर्त् ब्स्व्भ्_3,3.20.34
इयदामननात्

3.3.35

ऽगुहां प्रविष्टावात्मानौऽइत्यत्र सिद्धो ऽप्यर्थः प्रपञ्च्यते ।
एकत्र भोक्त्रभोक्त्रोर्वेद्यता, अन्यत्र भोक्त्रोरेवेति वेद्यभेदाद्विद्याभेद इति ।
नच सृष्टिरुपदधातीतिवत्पिबदपिबल्लक्षणापरं पिबन्ताविति नेतुमुचितम् ।
सति मुख्यार्थसंभवे तदाश्रयणायोगात् ।
नच वाक्यशेषानुरोधात्तदाश्रयणम् ।
संदेहे हि वाक्यशेषान्निर्णयो नच मुख्यलाक्षणिकग्रहणविषयो विषयः संभवति, तुल्यबलत्वाभावात् ।
प्रकरणस्य च ततो बलीयसा वाक्येन बाधनात् ।
तस्माद्वेद्यभेदाद्विद्याभेद इति प्राप्त उच्यते-द्वासुपर्णेत्यत्र ऋतं पिबन्तावित्यत्र च द्वित्वसंख्योत्पत्तौ प्रतीयते तेन समानतौत्सर्गिकी ।
पिबन्ताविति द्वयोः पिबन्ता या सा बाधनीया, सा चोपक्रमोपसंहारानुरोधेन न द्वयोरपि तु छत्रिन्यायेन लाक्षाणिकी व्याख्येया ।
येन ह्युपक्रम्यते येन चोपसंस्थियते तदनुरोधेन मध्यं ज्ञेयम् ।
यथा जामित्वदोषसंकीर्तनोपक्रमे तत्प्रतिसमाधानोपसंहारे च संदर्भे मध्यपातिनो विष्णुरूपांशु यष्टव्यो ऽजामित्वायेत्यादयः पृथग्विधित्वमलभमाना विधित्वमविवक्षित्वार्थवादतया नीतास्तत्कस्य हेतोरेकवाक्यता हि साधीयसी वाक्यभेदादिति ।
तथेहापि तदनुरोधेन पिबदपिबत्समूहपरं लक्षणीयं पिबन्तावित्यनेन ।
तथाच वेद्याभेदाद्विद्याभेद इति ।
अपिच त्रिष्वप्येतेषु वेदान्तेषु प्रकरणत्रये ऽपि पौर्वापर्यपर्यालोचनया परमात्मविद्यैवावगम्यते ।
यद्येवं कथं तर्हि जीवोपादानमस्त्वित्यत आह-
तादात्म्यविवक्षयेति ।
नास्यां जीवः प्रतिपाद्यते किन्तु परमात्मनो ऽभेदं जीवस्य दर्शयितुमसावनूद्यते ।
परमात्मविद्यायाश्चाभेदविषयत्वान्न भेदाभेदविचारावतारः ।
तस्मादैकविद्यमत्र सिद्धम् ॥34॥
स्तर्त् ब्स्व्भ्_3,3.22.35
अन्तरा भूतग्रामवत्स्वात्मनः

3.3.36

कौषीतकेयकहोलचाक्रायणोषस्तप्रश्नोपक्रमयोर्विद्योर्नैरन्तर्येणाम्नातयोः किमस्ति भेदो न वेति विशये भेद एवेति भ्रूमः ।
कुतः-यद्यप्युभयत्र प्रश्नोत्तरयोरभेदः प्रतीयते, तथापि तत्स्यैवैकस्य पुनः श्रुतेरविशेषादानर्थक्यप्रसङ्गाद्यजत्यभ्यासवद्भेदः प्राप्तः ।
न चैकस्यैव ताण्डिनां नवकृत्व उपदेशे ऽपि यथा भेदो न भवति ऽस आत्मा तत्त्वमसि श्वेतकेतोऽइत्यत्र तथेहाप्यभेद इति युक्तम् ।
भूय एव मा भगवान् विज्ञापयतु, इति हि तत्र श्रूयते तेनाभेदो युज्यते ।
न चेह तथास्ति ।
तेन यद्यपीह वेद्याभेदो ऽवगम्यते
तथाप्येकत्र तस्यैवाशनायादिमात्रात्ययोपाधेरुपासनादेकत्र च कार्यकरणविरहोपाधेरुपासनाद्विद्याभेद एवेति प्राप्ते प्रत्युच्यते ।
नैतदुपासनाविधानपरमपि तु वस्तुस्वरूपप्रतिपादनपरं प्रश्नप्रतिवचनालोचनेनोपलभ्यते ।
किमतो यद्येवम् ।
एतदतो भवति-विधेरप्राप्तप्रापणार्थत्वात्प्राप्तावनुपपत्तिः ।
वस्तुस्वरूपं तु पुनःपुनरुच्यमानमपि न दोषमावहति शतकृत्वो ऽपि हि पथ्यं वदन्त्याप्ताः ।
विशेषतस्तु वेदः पितृभ्यामप्यभ्यर्हितः ।
नच सर्वथा पौनरुक्त्यम् ।
एकत्राशनायाद्यत्ययादन्यत्र च कार्यकारणप्रविलयात् ।
तस्मादेका विद्या प्रत्यभिज्ञानात् ।
उभाभ्यामपि विद्याभ्यां भिन्न आत्मा प्रतिपाद्यते इति यो मन्यते पूर्वपक्षैकदेशी तं प्रति सर्वान्तरत्वविरोधो दर्शितः ॥35॥
स्तर्त् ब्स्व्भ्_3,3.22.36
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत्

3.3.37

अस्य तु पूर्वपक्षतत्त्वाभिप्रायो दर्शितः ।
सुगममन्यत् ॥36॥
स्तर्त् ब्स्व्भ्_3,3.23.37
व्यतिहारो विशिंषन्ति हीतरवत्

3.3.38

उत्कृष्टस्य निकृष्टरूपापत्तेर्नोभयत्रोभयरूपानुचिन्तनम् ।
अपि तु निकृष्टे जीव उत्कृष्टरूपाभेदचिन्तनम् ।
एवं हि निकृष्ट उत्कृष्टो भवतीति प्राप्तम् ।
एवं प्राप्त उच्यते-इतरेतरानुवादेनेतरेतररूपविधानादुभयत्राभयचिन्तनं विधीयते ।
इतरथा तु यो ऽहं सो ऽसावित्येतावदेवोच्येत ।
जीवात्मानमनूद्येश्वरत्वमस्य विधीयेत ।
न त्वीश्वरस्य जीवात्मत्वं यो ऽसौ सो ऽहमिति ।
यथा तत्त्वमसीत्यत्र ।
तस्मादुभयरूपमुभयत्राध्यानायोपदिश्यते ।
नन्वेवमुत्कृष्टस्य निकृष्टत्वप्रसङ्ग इत्युक्तं तत्किमिदानीं सगुणे ब्रह्मण्युपास्यमाने ऽस्य वस्तुतो निर्गुणस्य निकृष्टता भवति ।
कस्मैचित्फलाय तथा ध्यानमात्रं विधीयते न त्वस्य निकृष्टतामापादयतीति चेदिहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय न तु निकृष्टता भवत्युत्कृष्टस्य ।
अन्वाचयशिष्टं तु तादात्म्यदार्ढ्यं भवन्नोपेक्षामहे ।
सत्यकामादिगुणोपदेश इव तद्गुणेश्वरसिद्धिरिति सिद्धमुभयत्रोभयात्मत्वाध्यानमिति ॥37॥
स्तर्त् ब्स्व्भ्_3,3.24.38
सैव हि सत्यादयः

3.3.39

तद्वै तदेतदेव तदास सत्यमेव स यो हैतन्महद्यक्षं प्रथमजं वेदं सत्यं ब्रह्मेति जयतीमांल्लोकाञ्जित इत्यसावसद्य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ।
पूर्वोक्तस्य हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनमनेन संदर्भेण विधीयते ।
तदिति हृदयाख्यं ब्रह्मैकेन तदा परामृशति ।
एतदेवेति वक्ष्यमाणं प्रकारान्तरमस्य परामृशति ।
तत्तादाग्रे आस बभूव ।
किं तदित्यत आह-सत्यमेव ।
सच्च मूर्तं त्यच्चामूर्तं च सत्त्यम् ।
तदुपासकस्य फलमाह-स यो हैतमिति ।
यः प्रथमजं यक्षं पूज्यं वेद ।
कथं वेदेत्यत आह-सत्यं ब्रह्मेतीति ।
स जयतीमान् लोकान् ।
किञ्च जितो वशीकृत इनुशब्द इत्थंशब्दस्यार्थे वर्तते ।
विजेतव्यत्वेन बुद्धिसंनिहितं शत्रुं परामृशति-असाविति ।
असद्भवेन्नश्येत् ।
उक्तमर्थं निगमयति-य एवमेतदिति ।
एवं विद्वान्कस्माज्जयतीत्यत आह-सत्यमेव यस्माद्ब्रह्मेति ।
अतस्तदुपासनात् फलोत्पादो ऽपि सत्य इत्यर्थः ।
तद्यत्तत्सत्यं किमसौ ।
अत्रापि तत्पदाभ्यां रूपप्रकारौ परामृष्टौ ।
कस्मिंन्नालम्बने तदुपासनीयमित्यत उत्तरम्-स आदित्यो य एष इत्यादिना तस्योपनिषदहरहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेदेत्यन्तेन ।
उपनिषत् रहस्यं नाम ।
तस्य निर्वचनं-हन्ति पाप्मानं जहाति चेति ।
हन्तेर्जहातेर्वा रूपमेतत् ।
तथाच निर्वचनं कुर्वन्फलं पापहानिमाहेति ।
तमिमं विषयमाह भाष्यकारः-
यो वै हैतमिति ।
सनामाक्षरोपासनामिति ।
तथाच श्रुतिः-ऽतदेतदक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतो ऽनृतं तदेतदनृमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्तिऽइति ।
तीतीकारानुबन्ध उच्चारणार्थः ।
निरनुबन्धस्तकारो द्रष्टव्यः ।
अत्र हि प्रथमोत्तमे अक्षरे सत्यं मृत्युरूपाभावात् ।
मध्यतो मध्ये ऽनृतमनृतं हि मृत्युः ।
मृत्य्वनृतयोस्तकारसाम्यात् ।
तदेतदनृतं मृत्युरूपमुभयतः सत्येन परिगृहीतम् ।
अन्तर्भावितं सत्यरूपाभ्याम् ।
अतो ऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति ।
शेषमतिरोहितार्थम् ।
सेयं सत्यविद्यायाः सनामाक्षरोपासनता ।
यद्यपि तद्यत्सत्यमिति
प्रकृतानुकर्षेणाभेदः प्रतीयते तथापि फलभेदेन भेदः साध्यभेदेनेव नित्यकाम्यविषयोर्दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति शास्त्रयोः
सत्यप्यनुबन्धाभेदे भेद इति प्राप्ते प्रत्युच्यते-एकैवेयं विद्या तत्सत्यमिति प्रकृतपरामर्शादभेदेन प्रत्यभिज्ञानात् ।
नच फलभेदः ।
तस्योपनिषदहरहमिति तस्यैव यदङ्गान्तरं रहस्यनाम्नोपासनं तत्प्रशंसार्थोर्ऽथवादो ऽयं न फलविधिः ।
यदि पुनर्विद्याविधावधिकारश्रवणाभावात्तत्कल्पनायामार्थवादिकं फलं कल्प्येत ततो जातेष्टाविवागृह्यमाणविशेषतया
संवलिताधिकारकल्पना ततश्च समस्तार्थवादिकफलयुक्तमेकमेवोपासनमिति सिद्धम् ।
परकीयं व्याख्यानमुपन्यस्यति-
केचित्पुनरिति ।
वाजसनेयकमप्यक्ष्यादित्यविषयं छान्दोग्यमपीत्युपास्याभेदादभेदः ।
ततश्च वाजसनेयोक्तानां सत्यादीनामुपसंहार इत्यत्रार्थे सैव हि सत्यादय इति सूत्रं व्याख्यातं तदेतद्दूषयति-
तन्न साध्विति ।
ज्योतिष्टोमकर्मसंबन्धनीयमुद्गीथव्यपाश्रयेति ।
अनुबन्धाभेदे ऽपि साध्यभेदाद्भेद इति विद्याभेदादनुपसंहार इति ॥38॥
स्तर्त् ब्स्व्भ्_3,3.25.39
कामादीतरत्र तत्र चायतनादिभ्यः

3.3.40

छान्दोग्यवाजसनेयविद्ययोर्यद्यपि सगुणनिर्गुणत्वेन भेदः ।
तथाहि छान्दोग्ये-ऽअथ य इहात्मानमनुविद्य व्रजन्ति एतांश्च सत्यान्कामान्ऽइत्यात्मवत्कामानामपि वेद्यत्वं श्रूयते ।
वाजसनेये तु निर्गुणमेव परं ब्रह्मोपदिश्यते ऽविमोक्षाय ब्रूहिऽइति तथापि तयोः परस्परगुणोपसंहारः ।
निर्गुणायां तावद्विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवी ।
सगुणायां च यद्यप्याध्यानाय न वशित्वादिगुणोपसंहारसंभवः ।
नहि निर्गुणायां
विद्यायामाध्यातव्यत्वेनैते चोदिता येनात्राध्येयत्वेन संबध्येरन्नपि तु सत्यकामादिगुणनान्तरीयकत्वेनैतेषां प्राप्तिरित्युपसंहार उच्यते ।
एवं व्यवस्थित एष संक्षेपो ऽधिकरणार्थस्य-साम्यबाहुल्ये ऽप्येकत्राकाशाधारत्वस्यापरत्र चाकाशतादात्म्यस्य श्रवणाद्भेदे विद्ययोर्न परस्परगुणोपसंहार इति पूर्वपक्षः ।
राद्धान्तस्तु सर्वसाम्यमेवोभयत्राप्यात्मोपदेशादाकाशशब्देनैकत्रात्मोक्तो ऽन्यत्र च दहराकाशाधारः स एवोक्त इति सर्वसाम्याद्ब्रह्मण्युभयत्रापि सर्वगुणोपसंहारः ।
सगुणनिर्गुणत्वेन तु विद्याभेदे ऽपि गुणोपसंहारव्यवस्था दर्शिता ।
तस्मात्सर्वमवदातम् ॥39॥
स्तर्त् ब्स्व्भ्_3,3.26.40
आदरादलोपः

3.3.41

अस्ति वैश्वानरविद्यायां तदुपासकस्यातिथिभ्यः पूर्वभोजनम् ।
तेन यद्यपीयमुपासनागोचरा न चिन्ता साक्षात्तथापि तत्संबद्धप्रथमभोजनसंबन्धादस्ति संगतिः ।
विचारगोचरं दर्शयति-
छान्दोग्ये वैश्वानरविद्यां प्रकृत्येति ।
विचारप्रयोजकं संदेहमाह--
किं भोजनलोप इति ।
अत्र पूर्वपक्षाभावेन संशयमाक्षिपति-
तद्यद्भक्तमिति भक्तागमनसंयोगश्रवणादिति ।
उक्तं खल्वेतत्प्रथम एव तन्त्रे ऽपदकर्माप्रयोजकं नयनस्य परार्थत्वात्ऽइत्यनेन ।
यथा सोमक्रयार्थानीयमानैकहायनीसप्तमपदपांशुग्रहणमप्रयोजकं न पुनरेकहायन्या नयनं प्रयोजयति ।
तत्कस्य हेतोः ।
सोमक्रयेण तन्नयनस्य प्रयुक्तत्वात्तदुपजीवित्वात्सप्तमपदपांशुग्रहणस्येति ।
तथेहापि भोजनार्थभक्तागमनसंयोगात्प्राणाहुतेर्भोजनाभावे भक्तं प्रत्यप्रयोजकत्वमिति नास्ति पूर्वपक्ष
इत्यपूर्वपक्षमिदमधिकरणमित्यर्थः ।
पूर्वपक्षमाक्षिप्य समाधत्ते-
एवं प्राप्ते, न लुप्येतेति तावदाह ।
तावच्छब्दः सिद्धान्तशङ्कानिराकरणार्थः ।
पृच्छति-
कस्मात् ।
उत्तरम्-आदरात् ।
तदेव स्फोरयति-
तथाहीति ।
जाबाला हि श्रावयन्ति-ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात्ऽइति ।
अश्नीयादिति च प्राणाग्निहोत्रप्रधानं वचः ।
ऽयथा हि श्रुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽइति वचनादग्निहोत्रस्यातिथीन्भूतानि प्रत्युपजीव्यत्वेन श्रवणात्तदेकवाक्यतयेहापि पूर्वो ऽतिथिभ्यो ऽश्नीयादिति प्राणाहुतिप्रधानं लक्ष्यते ।
तदेवं सति ऽयथाह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादित्येवं तत्ऽइत्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं स्वामिनः प्राणाग्निहोत्रं प्रथमं प्रापयन्ती प्राणाग्निहोत्रादरं करोति ।
नन्वाथ्रियतामेषा श्रुतिः प्राणहुतिं किन्तु स्वामिभोजनपक्ष एव नाभोजने ऽपीत्यत आह-
या हि न प्राथम्यलोपं सहते नतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ईदृशः खल्वयमादरः प्राणाग्निहोत्रस्य यदतिथितिभोजनोत्तरकालविहितं स्वामिभोजनं समयादपकृष्यातिथिभोजनस्य पुरस्ताद्विहितम् ।
तद्यदाग्निहोत्रस्य धर्मिणः प्राथम्यधर्मलोपमपि न सहते श्रुतिस्तदास्याः कैव कथा धर्मिलोपं सहत इत्यर्थः ।
पूर्वपक्षाक्षेपमनुभाष्य दूषयति-
ननु भोजनार्था इति ।
यथा हि कौण्डपायिनामयनगते अग्निहोत्रे प्रकरणान्तरान्नैयमिकाग्निहोत्राद्भिन्ने द्रव्यदेवतारूपधर्मान्तररहिततया तदाकाङ्क्षे साध्यसादृश्येन नैयमिकाग्निहोत्रसमाननामतया तद्धर्मातिदेशेन रूपधर्मान्तरप्राप्तिरेवं प्राणाग्निहोत्रे ऽपि
नैयमिकाग्निहोत्रगतपयःप्रभृतिप्राप्तौ भोजनागतभक्तद्रव्यता विधीयते ।
न चैतावता भोजनस्य प्रयोजकत्वम् ।
उक्तमेतद्यथा भोजनकालातिक्रमात्प्राणाग्निहोत्रस्य न भोजनप्रयुक्तत्वमिति ।
न चैकदेशद्रव्यतयोत्तरार्धात्स्विष्टकृते समवद्यतीतिवदप्रयोजकत्वमेकदेशद्रव्यसाधनस्यापि
प्रयोजकत्वात् ।
यथा जाघन्या पत्नीः संयाजयन्तीति पत्नीसंयाजानां जाघन्येकदेशद्रव्यजुषां जाघनीप्रयोजकत्वम् ।
स हि नामाप्रयोजको भवति यस्य प्रयोजकग्रहणमन्तरेणार्थो न ज्ञायते ।
यथा न प्रयोजकपुरोडाशग्रहणमन्तरेणोत्तरार्धं ज्ञातुं शक्यम् ।
शक्यं तु जाघनीवद्भक्तं ज्ञातुम् ।
तस्माद्यथा जाघन्यन्तरेणापि पशूपादानं परप्रयुक्तशूपजीवनं वा खण्डशो मांसविक्रयिणो मुण्डादिवदाकृतिरूपादीयते ।
एवं भक्तमपि शक्यमुपादातुम् ।
तस्मान्न भोजनस्य लोपे प्राणाग्निहोत्रलोप इति मन्यते पूर्वपक्षी ।
अद्भिरिति तु प्रतिनिध्युपादानमावश्यकत्वासूचनार्थं भाष्यकारस्य ॥40॥
स्तर्त् ब्स्व्भ्_3,3.26.41
उपस्थिते ऽतस्तद्वचनात्

3.3.42

तद्धोमीयमिति हि वचन किमपि संनिहितद्रव्यं होमे विनियुङ्क्ते तदः सर्वनाम्नः संनिहितावगममन्तरेणाभिधानापर्यवसानात्तदनेन स्वाभिधानपर्यवसानाय तद्यद्भक्तं प्रथममागच्छेदिति संनिहितमपेक्ष्य निर्वर्तितव्यम् ।
तच्च संनिहितं भक्तं भोजनार्थमित्युत्तरार्धात्स्विष्टकृते समवद्यतीतिवन्न भक्तं वापो वा द्रव्यान्तरं वा प्रयोक्तुमर्हति ।
जाघन्यास्त्ववयवभेदस्य नाग्नीषोमीयपश्वधीनं निरूपणं स्वतन्त्रस्यापि तस्य सूनास्थस्य दर्शनात्तस्मादस्त्येतस्य जाघनीतो विशेषः ।
यच्चोक्तं चोदकप्राप्तद्रव्यबाधया भक्तद्रव्यविधानमिति ।
तदयुक्तम् ।
विध्युद्देशगतस्याग्निहोत्रनाम्नस्तथाभावादार्थवादिकस्य तु सिद्धं किञ्चित्सादृश्यमुपादाय स्तावकत्वेनोपपत्तेर्न तद्भावं विधातुमर्हतीत्याह-
न चात्र प्राकृताग्निहोत्रधर्मप्राप्तिरिति ।
अपि
चाग्निहोत्रस्य चोदकतो धर्मप्राप्तावभ्युपगम्यमानायां बहुतरं प्राप्तं बाध्यते ।
नच संभवे बाधनिचयो न्याय्यः ।
कृष्णलचरौ खल्वगत्या प्राप्तबाधो ऽभ्युपेयत इत्याह-तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामिति ।
चोदकाभावमुपोद्बलयति-
अत एव चेहापीति ।
यत एवोक्तेन क्रमेणातिदेशाभावो ऽत एव सांपादिकत्वमग्निहोत्राङ्गानाम् ।
तत्प्राप्तौ तु सांपादिकत्वं नोपपद्येत ।
कामिन्यां किल कुचवदनाद्यसता चक्रवाकनलिनादिरूपेण संपाद्यते ।
न तु नद्यां चक्रवाकादय एव चक्रवाकादिना संपाद्यन्ते ।
अतो ऽप्यवगच्छामो न चोदकप्राप्तिरिति ।
यत्त्वादरदर्शनमिति तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
यस्मिन्पक्षे धर्मानवलोपस्तस्मिन्धर्मिणो ऽपि न त्वेतावता धर्मिनित्यता सिध्यतीति भावः ।
नन्वतिथिभोजनोत्तरकालता स्वामिभोजनस्य विहितेति कथमसौ बाध्यत इत्यत आह-
नास्ति वचनस्यातिभारः ।
सामान्यशास्त्रबाधायां विशेषशास्त्रस्यातिभारो नास्तीत्यर्थः ॥41॥
स्तर्त् ब्स्व्भ्_3,3.27.42
तन्निर्धारणानियमस् तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्

3.3.43

यथैव ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽइत्येतदनारभ्याधीतमव्यभिचारितक्रतुसंबन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति ।
एवमव्यभिचारितकर्मसंबन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् ।
परार्थत्वात् ।
तथाच पारमर्षं सूत्रम्-ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्ऽइति ।
एवञ्च सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते-युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् ।
नहि पर्णतानाश्रया यागादिवत्फलसंबन्धमनुभवितुमर्हति ।
अव्यापाररूपत्वात् ।
व्यापारस्यैव च फलवत्त्वात् ।
यथाहुः-ऽउत्पत्तिमतःफलदर्शनात्ऽइति ।
नापि खादिरतायामिव प्रकृतक्रतुसंबद्धो यूप
आश्रयस्तदाश्रयः प्रकृतो ऽस्ति अनारभ्याधीतत्वात्पर्णतायाः ।
तस्माद्वाक्येनैव जुहूसंबन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः ।
न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् ।
तथाच तत्परं सन्न पर्णतायाः फलसंबन्धमपि गमयितुमर्हति ।
वाक्यभेदप्रसङ्गात् ।
उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसंबन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् ।
फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति ।
ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति ।
तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् ।
मैवम् ।
नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् ।
न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः ।
न चानुपयोगमीप्सितम् ।
तस्मात्सक्तून्
जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति संबन्धः ।
तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् ।
शेषमुक्तं भाष्ये ।
न चेदं फलश्रवणमर्थवादमात्रमिति ।
अर्थवादमात्रत्वे ऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे ।
न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः ।
अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना ।
फलपरत्वे त्वस्य
न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति ॥42॥
स्तर्त् ब्स्व्भ्_3,3.28.43
प्रदानवद् एव तद् उक्तम्

3.3.44

तत्तच्छ्रुत्यर्थालोचनया वायुप्राणयोः स्वरूपाभेदे सिद्धे तदधीननिरूपणतया तद्विषयोपासनाप्यभिन्ना न चाध्यात्माधिदैवगुणभेदाद्भेदः ।
नहि गुणभेदे गुणवतो भेदः ।
नह्यग्निहोत्रं जुहोतीत्युत्पन्नस्याग्निहोत्रस्य तण्डुलादिगुणभेदाद्भेदो भवति ।
उत्पद्यमानकर्मसंयुक्तो हि गुणभेदः कर्मणो भेदकः ।
यथामिक्षावाजिनसंयुक्तयोः कर्मणोः ।
नोत्पन्नकर्मसंयुक्तः ।
अध्यात्माधिदैवोपदेशेषु चोत्पन्नोपासनासंयोगः ।
तथोपक्रमोपसंहारालोचनया विद्यैकत्वविनिश्चयादेकैव सकृत्प्रवृत्तिरिति पूर्वपक्षः ।
राद्धान्तस्तु-सत्यं विद्यैकत्वं तथापि गुणभेदात्प्रवृत्तिभेदः ।
सायंप्रातःकालगुणभेदाद्यथैकस्मिन्नप्यग्निहोत्रे प्रवृत्तिभेदः एवमिहाप्यध्यात्माधिदैवगुणभेदादुपासनस्यैकस्यापि प्रवृत्तिभेद इति सिद्धम् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेश इति ।
अग्निहोत्रस्येवाध्यानस्य कृते तधितण्डुलादिवदयं पृथगुपदेशः ।
एतेन व्रतोपदेश इति ।
एतेन तत्त्वाभेदेन ।
एवकारश्च वागादिव्रतनिराकरणार्थः ।
नन्वेतस्यै देवतायै इति देवतामात्रं श्रूयते न तु वायुस्तत्कथं वायुप्राप्तिमाहेत्यत आह-
देवतेत्यत्र वायुरिति ।
वायुः खल्वग्न्यादीन्संवृणुत इत्यग्न्यादीनपेक्ष्यानवच्छिन्नो ऽग्न्यादयस्तुतेनैवावच्छिन्ना इति संवर्णगुणतया वायुरनवच्छिन्ना देवता ।
सर्वेषामभिगमयन्निति ।
मिलितानां श्रवणाविशेषादिन्द्रस्य देवताया अभेदात्रयाणामपि पुरोडाशानां सहप्रदानाशङ्कायामुत्पत्तिवाक्य एव राजाधिराजस्वराजगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
सहप्रदाने हि व्यत्यासविधानमनुपपन्नम् ।
क्रमवति प्रदाने व्यत्यासविधिरर्थवान् ।
तथाविधस्यैव क्रमस्य विवक्षितत्वात् ।
सुगममन्यत् ॥43॥
स्तर्त् ब्स्व्भ्_3,3.29.44
लिङ्गभूयस्त्वात् तद् धि बलीयस् तद् अपि

3.3.45

इह सिद्धान्तेनोपक्रम्य पूर्वपक्षयित्वा सिद्धान्तयति ।
तत्र
यद्यपि भूयांसि सन्ति लिङ्गानि मनश्चिदादीनां स्वातन्त्र्यसूचकानि तथापि न तानि स्वातन्त्र्येण स्वातन्त्र्यं प्रति प्रापकाणि ।
प्रमाणप्रापितं तु स्वातन्त्र्यमुपोद्बलयन्ति ।
न चात्रास्ति स्वातन्त्र्यप्रापकं प्रमाणम् ।
न चेदं सामर्थ्यलक्षणं लिङ्गं येनास्य स्वातन्त्र्येण प्रापकं भवेत् ।
तद्धि सामर्थ्यमाभिधानस्य वार्थस्य वा स्यात् ।
तथा पूषाद्यनुमन्त्रणमन्त्रस्य पूषानुमन्त्रणे, यथा वा ऽपशुना यजेतऽइत्येकत्वसंख्याया अर्थस्य संख्येयावच्छेतसामर्थ्यम् ।
न चेदमन्यस्यार्थदर्शनलक्षणं लिङ्गं तथा ।
स्तुत्यर्थत्वेनास्य विध्युद्देशेनैकवाक्यतया विधिपरत्वात् ।
तस्मादसति सामर्थ्यलक्षणे विरोद्धरि प्रकरणप्रत्यूहं मनश्चिदादीनां क्रियाशेषतामवगमयति ।
नच ते हैते विद्याचित एवेत्यवधारणश्रुतिः क्रियानुप्रवेशं वारयति ।
येन श्रुतिविरोधे सति न प्रकरणं भवेत्, बाह्यसाधनतापाकरणार्थत्वादवधारणस्य ।
नच विद्यया हैवैत एवंविदश्चिता भवन्तीति पुरुषसंबन्धमापादयद्वाक्यं प्रकरणमपबाधितुमर्हति ।
अन्यार्थदर्शनं खल्वेतदपि ।
नच तत्स्वातन्त्र्येण प्रापकमित्युक्तम् ।
तस्मात्तदपि न प्रकरणविरोधायालमिति सांपादिका अप्येते अग्नयः प्रकरणात्क्रियानुप्रवेशिन एव मानसवत् ।
द्वादशाहे तु श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णामिऽइति ।
तत्र संशयः-किं मानसं द्वादशाहा दहरन्तरमुत तन्मध्यपातिनो दशमस्याह्नाङ्गमिति ।
तत्र वाग्वै द्वादशाहो मनो मानसमिति मानसस्य द्वादशाहाद्भेदेन व्यपदेशाद्वाङ्मनसभेदवद्भेदः ।
निर्धूतानि द्वादशाहस्य गतरसानि छन्दांसि तानि मानसेनैवाप्यायन्तीति च द्वादशाहस्य मानसेन स्तूयमानत्वाद्भेदे च सति
स्तुतिस्तुत्यभावस्योपपत्तेर्द्वादशाहादहरन्तरं न तदङ्गं, पत्नीसंयाजान्तत्वाच्चाह्नां पत्नीः संयाज्य मानसाय प्रसर्पन्तीति च मानसस्य पत्नीसंयाजस्य परस्ताच्छ्रुतेः ।
त्रयोदशाहे ऽप्यवयुज्य द्वादशसंख्यासमवायात्कथञ्चिज्जघन्ययापि वृत्त्या द्वादशाहसंज्ञाविरोधाभावादिति प्राप्ते ऽभिधीयते-प्रमाणान्तरेण हि
त्रयोदशत्वे ऽह्नां सिद्धे द्वादशाह इति जघन्यया वृत्त्योन्नीयेत ।
न त्वस्ति तादृशं प्रमाणान्तरम् ।
नच व्यपदेशभेदो ऽहरन्तरत्वं कल्पयितुमर्हति ।
अङ्गाङ्गिभेदेनापि तदुपपत्तेः ।
अत एव च स्तुत्यस्तावकभावस्याप्युपपत्तिः ।
देवदत्तस्येव दीर्घैः केशैः ।
पत्नीसंयाजान्तता तु यद्यप्यौत्सर्गिकी तथापि दशमस्याह्नो विशेषवचनान्मानसानि ग्रहणासादनहवनादीनि पत्नीसंयाजात्पराञ्चि भविष्यन्ति ।
किमिव हि न कुर्याद्वचनमिति ।
एष वै दशमस्याह्नो विसर्गो यन्मानसमिति वचनाद्दशमाहरङ्गता गम्यते ।
विसर्गे ऽन्तो ऽन्तवतो धर्मो न स्वतन्त्र इति दशमे ऽहनि मानसाय प्रमर्पन्तीति दशमस्याह्न आधारत्वनिर्देशाच्च तदङ्गं मानसं नाहरन्तरमिति सिद्धम् ।
तदिह द्वादशाहसंबन्धिनो दशमस्याह्नो ऽङ्गं मानसमितिं धर्ममीमांसासूत्रकृतोक्तम् ।
दशरात्रगस्यापि दशमस्याह्नो ऽङ्गमिति भगवन्भाष्यकारः ।
श्रुत्यन्तरबलेनाह-
यथा दशरात्रस्य दशमे ऽहन्यविवाक्य इति ।
अविवाक्य इति दशमस्याह्नो नाम ॥44॥
स्तर्त् ब्स्व्भ्_3,3.29.45
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्

3.3.46

॥ 45 ॥
स्तर्त् ब्स्व्भ्_3,3.29.46
अतिदेशाच् च

3.3.47

नहि सांपादिकानामग्नीनामिष्टकासु चितेनाग्निना किञ्चिदस्ति सादृश्यमन्यत्र क्रियानुप्रवेशात् ।
तस्मादपि न स्वतन्त्र इति प्राप्ते ऽभिधीयते ॥46॥
स्तर्त् ब्स्व्भ्_3,3.29.47
विद्यैव तु निर्धारणात्

3.3.48

मा भूदन्येषां श्रुतविध्युद्देशानामन्यार्थदर्शनानामप्राप्तप्रापकत्वमेतेषु त्वश्रुतविध्युद्देशेषु ऽवचनानि त्वपूर्वत्वात्ऽइति न्यायाद्विधिरुन्नेतव्यः ।
तथा चैतेभ्यो यादृशोर्ऽथः प्रतीयते तदनुरूप एव स भवति ।
प्रतीयते चैतेभ्यो मनश्चिदादीनां सान्तत्यं चावधारणं च फलभेदसमन्वयश्च पुरुषसंबन्धश्च ।
न चास्य गोदोहनादिवत्क्रत्वर्थाश्रितत्वं येन पुरुषार्थस्य कर्मपारतन्त्र्यं भवेत् ।
नच विद्याचित एवेत्यवधारणं बाह्यसाधनापाकरणार्थम् ।
स्वभावत एव विद्याया बाह्यानुपेक्षत्वसिद्धेः ।
तस्मात्परिशेषान्मानसग्रहवत्क्रियानुप्रवेशशङ्कापाकरणार्थमवधारणम् ।
न चैवमर्थत्वे संभवति ।
द्योतकत्वमात्रेण निपातश्रुतिः पीडनीया ।
तस्माच्छ्रुतिलिङ्गवाक्यानि प्रकरणमपोद्य स्वातन्त्र्यं मनश्चिदादीनामवगमयन्तीति सिद्धम् ।
अनुबन्धातिदेशश्रुत्यादिभ्य एवमेव विज्ञेयम् ।
ते च भाष्य एव स्फुटाः ।
यदुक्तं पूर्वपक्षिणा क्रत्वङ्गत्वे पूर्वेणेष्टकाचितेन मनश्चिदादीनां विकल्प इति ।
तदुतल्यकार्यत्वेन दूषयति-नच सत्येव क्रियासंबन्ध इति ।
अपिच पूर्वापरयोर्भागयोर्विद्याप्राधान्यदर्शनात्तन्मध्यपातिनो ऽपि तत्सामान्याद्विद्याप्रधानत्वमेव लक्ष्यते न कर्माङ्गत्वमित्याह सूत्रेण-
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ।
स्फुटमस्य भाष्यम् ।
अस्ति राजसूयः ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति ।
तं प्रकृत्यामनन्ति अवेष्टिं नामेष्टिम् ।
आग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि तां प्रकृत्याधीयते ।
यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिं हुत्वाभिधारयेद्यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रमिति ।
तत्र संदिह्यते-
किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणमुत ब्राह्मणादीनामयं यागो विधीयत इति ।
तत्र यदि प्रजापालनकण्टकोद्धरणादि कर्म राज्यं तस्य कर्ता राजेति राजशब्दस्यार्थस्ततो राजा राजसूयेन यजेतेति राज्यस्य कर्तू राजसूये ऽधिकारः ।
तस्मात्संभवन्त्यविशिषेण ब्राह्मणक्षत्रियवैश्या राज्यस्य कर्तार इति सिद्धं सर्वं एवैते राजसूये प्राप्ता इति ऽयदि ब्राह्मणो यजेतऽइत्येवमादयो निमित्तार्थाः श्रुतयः ।
अथ तु राज्ञः कर्म राज्यमिति राजकर्तृयोगात्तत्कर्म राज्यं ततः को राजेत्यपेक्षायामार्येषु तत्प्रसिद्धेरभावात्पिकनेमतामरसादिशब्दार्थावधारणाय म्लेच्छप्रसिद्धिरिवान्ध्राणां क्षत्रियजातौ राजशब्दप्रसिद्धिस्तदवधारणकारणमिति क्षत्रिय एव राजेति न ब्राह्मणवैश्ययोः प्राप्तिरिति राजसूयप्रकरणं भित्त्वा ब्राह्मणादिकर्तृकाणि पृथगेव कर्माणि प्राप्यन्त इति न नैमित्तिकानि ।
तत्र किं तावत्प्राप्तं, नैमित्तिकानीति ।
राज्यस्य कर्ता राजेत्यार्याणामान्ध्राणां चाविवादः ।
तथाहि-ब्राह्मणादिषु प्रजापालनकर्तृषु कनकदण्डातपत्रश्वेतचामरादिलाञ्छनेषु राजपदमान्ध्राश्चार्याश्चाविवादं प्रयुञ्जाना दृश्यन्ते ।
तेनाविप्रतिपत्तेर्विप्रतिपत्तावप्यार्यान्ध्रप्रयोगयोर्यववराहवदायर्प्रसिद्धेरान्ध्रप्रसिद्धितो बलीयसीत्वात् ।
बलवदार्यप्रसिद्धिविरोधे त्वतन्मूलायाः पाणिनीयप्रसिद्धेः ऽविरोधे त्वनपेक्षं स्यात्ऽइति न्यायेन बाधनात्तदनुगुणतया वा कथञ्चिन्नखनकुलादिवदन्वाख्यानामात्रपरतया नीयमानत्वाद्रज्यस्य कर्ता राजेति सिद्धे निमित्तार्थाः श्रुतयः ।
तथाच यदिशब्दो ऽप्याञ्जसः स्यादिति प्राप्तम् ।
एवं प्राप्त उच्यते-ऽरूपतो न विशेषो ऽस्ति ह्यार्यम्लेच्छप्रयोगयोः ।
वैदिकाद्वाक्यशेषात्तु विशेषस्तत्र दर्शितःऽ ॥
तदिह राजशब्दस्य कर्मयोगाद्वा कर्तरि प्रयोगः कर्तृप्रयोगाद्वा कर्मणीति विशये वैदिकवाक्यशेषवदभियुक्ततरस्यात्रभवतः पाणिनेः स्मृतेर्निर्णीयते प्रसिद्धिरान्ध्रणामनादिरादिमती चार्याणां प्रसिद्धिर्गोगाव्यादिशब्दवत् ।
नच संभावितादिमद्भावा प्रसिद्धिः पाणिनिम्सृतिमपोद्यानादिप्रसिद्धिमादिमतीं कर्तुमुत्सहते ।
गाव्यादिशब्दप्रसिद्धेरनादित्वेन गवादिपदप्रसिद्धेरप्यादिमत्त्वापत्तेः ।
तस्मात्पाणिनीयस्मृत्यनुमतान्ध्रप्रसिद्धिबलीयस्त्वेन क्षत्रियत्वजातौ राजशब्दे मुख्ये तत्कर्तर्यतज्जातौ राजशब्दो गौण इति क्षत्रियस्यैवाकाराद्राजसूये तत्प्रकरणमपोद्यावेष्टेरुत्कर्षः ।
अन्वयानुरोधी यदिशब्दो न त्वपूर्वविधौ सति तमन्यथयितुमर्हति ।
अत एवाहुः-ऽयदि शब्दपरित्यागो रुच्यध्यहारकल्पनाऽइति ।
इयं च राजसूयादधिकारान्तरमेतयान्नाद्यकामं याजयेदिति नास्तीतिकृत्वा चिन्ता ।
एतस्मिंस्त्वधिकारे ऽन्नाद्यकामस्य त्रैवर्णिक्य संभवात्प्राप्तेर्निमित्तार्थता ब्राह्मणादिश्रवणस्य दुर्वारैवेति ॥47॥
स्तर्त् ब्स्व्भ्_3,3.29.48
दर्शनाच् च

3.3.49

॥ 48 ॥
स्तर्त् ब्स्व्भ्_3,3.29.49
श्रुत्यादिबलीयस्त्वाच् च न बाधः

3.3.50

॥ 49 ॥
स्तर्त् ब्स्व्भ्_3,3.29.50
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्

3.3.51

॥ 50 ।
स्तर्त् ब्स्व्भ्_3,3.29.51
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः

3.3.52

॥ 51 ॥
स्तर्त् ब्स्व्भ्_3,3.29.52
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः

3.3.53

॥ 52 ॥
स्तर्त् ब्स्व्भ्_3,3.30.53
एक आत्मनः शरीरे भावात्

3.3.54

अधिकारणतात्पर्यमाह-
इहेति ।
समर्थनप्रयोजनमाह-
बन्धमोक्षेति ।
असमर्थने बन्धमोक्षाधिकाराभावमाह-
न ह्यसतीति ।
अधस्तनतन्त्रोक्तेन पौनरुक्त्यं चोदयति-
नन्विति ।
परिहरति-
उक्तं भाष्यकृतेति ।
नसूत्रकारेण तत्रोक्तं येन पुनरुक्तं भवेदपि तु भाष्यकृतेत्यत्रत्यस्यैवार्थस्यापकर्षः प्रमाणलक्षणोपयोगितया तत्र कृत इति ।
यत इह सूत्रकृद्वक्ष्यत्यत एव भगवतोपवर्षेणोद्धारो ऽपकर्षस्य कृतः ।
विचारस्यास्य पूर्वोत्तरतन्त्रशेषत्वमाह-
इह चेति ।
पूर्वाधिकरणसंगतिमाह-
अपिचेति ।
नन्वात्मास्तित्वोपपत्तय एवात्रोच्यन्तां किं तदाक्षेपेणेत्यत आह-आक्षेपपूर्विका हीति ।
आक्षेपमाह-
अत्रैके देहमात्रात्मदर्शिन इति ।
यद्यपि समस्तव्यस्तेषु पृथिव्यप्तेजोवायुषु न चैतन्यं दृष्टं तथापि कायाकारपरिणतेषु भविष्यति ।
नहि किण्वादयः समस्तव्यस्ता न मदना दृष्टा इति मदिराकारपरिणता न मदयन्ति ।
अहमिति चानुभवे देह एव गौराद्यकारः प्रथते ।
न तु तदतिरिक्तः तदधिष्ठानः कुण्ड एव दधीति ।
अत एवाहं स्थूलो गच्छामीत्यादिसामानाधिकरण्योपपत्तिरहमः स्थूलादिभिः ।
न जातु दधिसमानाधिकरणानि मधुरादीनि कुण्डस्यैकाधिकरण्यमनुभवन्ति सितं मधुरं कुण्डमिति ।
न चाप्रत्यक्षमात्मतत्त्वमनुमानादिभिः शक्यमुन्नेतुम् ।
न खल्वप्रत्यक्षं प्रमाणमस्ति ।
उक्तं हि-ऽदेशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु ।
भवानामनुमानेन प्रसिद्धिरतिदुर्लभाऽइति ।
यदा च उपलब्धिसाध्यनान्तरीयकभावस्य लिङ्गस्येयं गतिस्तदा कैव कथा दृष्टव्यभिचारस्य शब्दस्यार्थापत्तेश्चात्यन्तपरोक्षार्थगोचराया उपमानस्य च सर्वैकदेशसादृश्यविकल्पितस्य ।
सर्वसारूप्ये तत्त्वात् ।
एकदेशसारूप्ये चातिप्रसङ्गात्सर्वस्य सर्वेणोपमानात् ।
सौत्रस्तु हेतुर्भाष्यकृता
व्याख्यातः ।
चेष्टा हिताहितप्राप्तिपरिहारार्थो व्यापारः ।
स च शरीराधीनतया दृश्यमानः शरीरधर्म एवं प्राणः श्वासप्रश्वासादिरूपः शरीरधर्म एव ।
इच्छाप्रयत्नादयश्च यद्यप्यान्तराः तथापि शरीरातिरिक्तस्य तदाश्रयानुपलब्धेः सति शरीरे भावात् अन्तः शरीराश्रया एव, अन्यथा दृष्टहानादृष्टकल्पनाप्रसङ्गात् ।
शरीरातिरिक्त आत्मनि
प्रमाणाभावाच्छरीरे च संभवाच्छरीरमेवेच्छादिमदात्मेति प्राप्त उच्यते- ॥53॥
स्तर्त् ब्स्व्भ्_3,3.30.54
व्यतिरेकस् तद्भावभावित्वान् न तूपलब्धिवत्

3.3.55

नाप्रत्यक्षं प्रमाणमिति ब्रुवाणः प्रष्टव्यो जायते कुतो भवाननुमानादीनामप्रामाण्यमवधारितवानिति ।
प्रत्यक्षं हि लिङ्गादिरूपमात्रग्राहि नाप्रामाण्यमेषां विनिश्चेतुमर्हति ।
नहि धूमज्ञानमिवैषामिन्द्रियार्थसन्निकर्षादप्रामाण्यज्ञानमुदेतुमर्हति ।
किन्तु देशकालावस्थारूपभेदेन व्यभाचिरोत्प्रेक्षया ।
न चैतावान्प्रत्यक्षस्य व्यापारः संभवति ।
यथाहुः-नहीदमियतो व्यापारान्कर्तुं समर्थं संनिहितविषयबलेनोत्पत्तेरविचारकत्वादिति ।
तस्मादस्मिन्ननिच्छतापि प्रमाणान्तरमभ्युपेयम् ।
अपिच प्रतिपन्नं पुमांसमपहायाप्रतिपन्नसंदिग्धाः प्रेक्षावद्भिः प्रतिपाद्यन्ते ।
न चैषामित्थंभावो भवत्प्रत्यक्षगोचरः ।
न खल्वेते गौरत्वादिवत्प्रत्यक्षगोचराः किन्तु वचनचेष्टादिलिङ्गानुमेयाः ।
नच लिङ्गं प्रमाणं यत एते सिध्यन्ति ।
न पुंसामित्थंभावमविज्ञाय यं कञ्चन पुरुषं प्रतिपिपातयिषतो ऽनवधेयवचनस्य प्रेक्षावत्ता नाम ।
अपिच पशवो ऽपि हिताहितप्राप्तिपरिहारार्थिनः कोमलशष्पश्यामलायां भुवि प्रवर्तन्ते ।
परिहरन्ति चाश्यानतृणकण्टकाकीर्णाम् ।
नास्तिकस्तु पशोरपि पशुरिष्टनिष्टसाधनमविद्वान् ।
न खल्वस्मिन्नुमानगोचर-प्रवृत्तिनिवृत्तिगोचरे प्रत्यक्षं प्रभवति ।
नच परप्रत्यायनाय शब्दं प्रयुञ्जीत शाब्दस्यार्थस्याप्रत्यक्षत्वात् ।
तदेव मा नाम भून्नास्तिकस्य जन्मान्तरमस्मिन्नेव जन्मन्युपस्थितो ऽस्य मूकत्वप्रवृत्तिनिवृत्तिविरहरूपो महान्नरकः ।
पराक्रान्तं चात्र सूरिभिः ।
अत्यन्तपरोक्षगोचराप्यन्यथानुपपद्यमानार्थप्रभवार्थापत्तिः ।
भूयःसामान्ययोगेन चोपमानमुपपादितं प्रमाणलक्षणे ।
तदत्रास्तु तावत्प्रमाणान्तरं प्रत्यक्षमेवाहंप्रत्ययः शरीरातिरिक्तमालम्बत इत्यन्वयतिरेकाभ्यामवधार्यते ।
योगव्याघ्रवत्स्वप्नदशायां च शरीरान्तरपरिग्रहाभिमाने ऽप्यहङ्कारास्पदस्य प्रत्यभिज्ञायमानत्वमित्युक्तम् ।
सूत्रयोजना तु न त्वव्यतिरिक्तः किन्तु व्यतिरिक्त आत्मा देहात् ।
कुतस्तद्भावाभावित्वात् ।
चैतन्यादिर्यदि शरीरगुणः ततो ऽनेन विशेषगुणेन भवितव्यम् ।
न तु संख्यापरिमाणसंयोगादिवत्सामान्यगुणेन ।
तथाच ये भूतविशेषगुणास्ते यावद्भूतभाविनो दृष्टा यथा रूपादयः ।
नह्यस्ति संभवः भूतं च रूपादिरहितं चेति ।
तस्माद्भूतविशेषगुणरूपादिवैधर्म्यान्न चैतन्यं शरीरगुणः ।
एतेनेच्छादीनां शरीरविशेषगुणत्वं प्रत्युक्तम् ।
प्राणचेष्टादयो यद्यपि देहधर्मा एव तथापि न देहमात्रप्रभवाः ।
मृतावस्थायामपि प्रसङ्गात् ।
तस्माद्यस्यैते अधिष्ठानाद्देहधर्मा भवन्ति स देहातिरिक्त आत्मा ।
अदृष्टकारणत्वे ऽभ्युपगम्यमाने तस्यापि देहाश्रयत्वानुपपत्तेरात्मैवाभ्युपेतव्य इति ।
वैधर्म्यान्तरमाह-
देहधर्माश्चेति ।
स्वपरप्रत्यक्षा हि देहधर्मा दृष्टा यथा रूपादयः ।
इच्छादयस्तु स्वप्रत्यक्षा एवेति देहधर्मवैधर्म्यम् ।
तस्मादपि देहातिरिक्तधर्मा इति ।
तत्र यद्यपि चैतन्यमपि भूतविशेषगुणस्तथापि यावद्भूतमनुवर्तेत ।
नच मदशक्त्या व्यभिचारः ।
सामर्थ्यस्य सामान्यगुणत्वात् ।
अपिच मदशक्तिः प्रतिमदिरावयवं मात्रयावतिष्ठते तद्वद्देहे ऽपि चैतन्यं तदवयवेष्वपि मात्रया भवेत् ।
तथा चैकस्मिन्देहे बहवश्चेतयेरन् ।
नच बहूनां चेतनानामन्योन्याभिप्रायानुविधानसंभव इति एकपाशनिबद्धा इव बहवो विहङ्गमाः विरुद्धादिक्रियाभिमुखाः समर्था अपि न हस्तमात्रमपि देशमतिपतितुमुत्सहन्ते ।
एवं शरीरमपि न किञ्चित्कर्तुमुत्सहते ।
अपि च नान्वयमात्रात्तद्धर्मधर्मिभावः ।
शक्यो विनिश्चेतुं, मा भूदाकाशस्य सर्वो धर्मः सर्वेष्वन्वयात् ।
अपि त्वन्वयव्यतिरेकाभ्याम् ।
संदिग्धश्चात्र व्यतिरेकः ।
तथाच साधकत्वमन्वयमात्रस्येत्याह-
अपिच सति हि तावदिति ।
दूषणान्तरं विवक्षुराक्षिपति-
किमात्मकं चेति ।
स एवैकग्रन्थेनाः-
नहीति ।
नास्तिक आह-
यदनुभवनमिति ।
यथा हि भूतपरिणामभेदो रूपादिर्न तु भूतचतुष्टयादर्थान्तरमेवं भूतपरिणामभेद एव चैतन्यं न तु भूतेभ्योर्ऽथान्तरं, येन ऽपृथिव्यापस्तेजो वायुरिति तत्त्वानिऽइति प्रतिज्ञाव्याघातः स्यादित्यर्थः ।
एतदुक्तं भवति-चतुर्णामेव भूतानां समस्तं जगत्परिणामो न त्वस्ति तत्त्वान्तरं यस्य परिणामो रूपादयो ऽन्यद्वा परिणामान्तरमिति ।
अत्रोक्ताभिस्तावदुपपत्तिभिर्देहधर्मत्वं निरस्तं तथाप्युपपत्त्यन्तराभिधित्सयाह-
चेत्तर्हीति ।
भूतधर्मा रूपादयो जडत्वाद्विषया एव दृष्टा न तु विषयिणः ।
नच केषाञ्चिद्विषयाणामपि विषयित्वं भविष्यतीति वाच्यम् ।
स्वात्मनि वृत्तिविरोधात् ।
न चोपलब्धावेव प्रसङ्गस्तस्या अजडायाः स्वयंप्रकाशत्वाभ्युपगमात् ।
कृतोपपादनं चैतत्पुरस्तात् ।
उपलब्धिवदिति सूत्रावयवं योजयति-
यथैवास्या इति ।
उपलब्धिग्राहिण एव प्रमाणाच्छरीव्यतिरेको ऽप्यवगम्यते ।
तस्यास्ततः स्वयंप्रकाशप्रत्ययेन भूतधर्मेभ्यो जडेभ्यो वैलक्षण्येन व्यतिरेकनिश्चयात् ।
अस्तु तर्हि व्यतिरेकादुपलब्धिर्भूतेभ्यः स्वतन्त्रा तथाप्यात्मनि प्रमाणाभाव इत्यत आह-
उपलब्धिस्वरूप एव च न आत्मेति ।
आजानतस्तावदुपलब्धिभेदो नानुभूयत इति विषयभेदादभ्युपेयः ।
न चोपलब्धिव्यतिरेकिणां विषयाणां प्रथा संभवतीत्युपपादतम् ।
नच विषयभेदग्राहि प्रमाणमस्तीति चोपपादितं ब्रह्मतत्त्वसमीक्षायामस्माभिः ।
एवं च सति विषयरूपतद्भेदादेव सुदुर्लभाविति दूरनिरस्ता विषयभेदादुपलब्धिभेदसंकथा ।
तेनोपलब्धेरुपलब्धृत्वमपि न तात्त्विकम् ।
किन्त्वविद्याकल्पितम् ।
तत्राविद्यादशायामप्युपलब्धेरभेद इत्याह-
अहमिदमद्राक्षमिति चेति ।
न केवलं तात्त्विकाभेदान्नित्यत्वमतात्त्विकादपि नित्यत्वमेवेति तस्यार्थः ।
स्मृत्याद्युपपत्तेश्च ।
नानात्वे हि नान्येनोपलब्धे ऽन्यस्य पुरुषस्य स्मृतिरुपपद्यत इत्यर्थः ।
निराकृतमप्यर्थं निराकरणान्तरायानुभाषते-
यत्तूक्तमिति ।
यो हि देहव्यापारादुपलब्धिरुत्पद्यते तेन देहधर्म इति मन्यते तं प्रतीदं दूषणम्-
न चात्यन्तं देहस्येति ।
प्रकृतमुपसंहरति-
तस्मादनवद्यमिति ॥54॥
स्तर्त् ब्स्व्भ्_3,3.31.55
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्

3.3.56

स्वरादिभेदात्प्रतिवेदमुद्गीथादयो भिद्यन्ते ।
तदनुबद्धास्तु प्रत्ययाः प्रतिशाखं विहिता भेदेन ।
तत्र संशयः-किं यस्मिन्वेदे यदुद्गीथादयो विहितास्तेषामेव तद्वेदविहिताः प्रत्यया उतान्यवेदविहितानामप्युद्गीथादीनां ते प्रत्यया इति ।
किं तावत्प्राप्तम् ।
ऽओमित्यक्षरमुद्गीथमुपास्तिऽइत्युद्गीथश्रवणेनोद्गीथसामान्यमवगम्यते ।
निर्विशेषस्य च तस्यानुपपत्तेर्विशेषकाङ्क्षायां स्वशाखाविहितस्य विशेषस्य संनिधानात्तेनैवाकाङ्क्षाविनिवृत्तेर्न शाखान्तरीयमुद्गीथान्तरमपेक्षते ।
न चैवं संनिधानेन श्रुतिपीडा, यदि हि श्रुतिसमर्पितमर्थमपबाधेन ततः श्रुतिं पीडयेन्न चैतदस्ति ।
नह्युद्गीथश्रुत्यभिहितलक्षितौ सामान्यविशेषौ बाधितौ स्वशाखागतयोः स्वीकरणाच्छाखान्तरीयास्वीकारे ऽपि ।
यथाहुः-ऽजातिव्यक्ती गृहीत्वेह वयं तु श्रुतलक्षिते ।
कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यतेऽ ॥
एवं प्राप्तम् ।
एवं प्राप्त उच्यते-उद्गीथाङ्गवबद्धास्तु प्रत्यया नानाशाखासु प्रतिवेदमनुवर्तेरन्न प्रतिशाखं व्यवतिष्ठेरन् ।
उद्गीथमित्यादिसामान्यश्रुतेरविशेषात् एतदुक्तं भवति-युक्तं शुक्लं पटमानयेत्यादौ पटश्रुतिमविशेषप्रवृत्तामपि संनिधानाच्छुक्लश्रुतिर्बाधत इति ।
विशिष्टार्थप्रत्यायनप्रत्युक्तत्वात्पदानां समभिव्याहारस्य ।
अन्यथा तदनुपपत्तेः ।
नच स्वार्थमस्मारयित्वा विशिष्टार्थप्रत्यायनं पदानामिति विशिष्टार्थप्रयुक्तं स्वार्थस्मारणं न स्वप्रयोजकमपवाधितुमुत्सहते ।
मा च वाधिप्रयोजकाभावेन स्वार्थस्मारणमपीति युक्तमविशेषप्रवृत्ताया अपि श्रुतेरेकस्मिन्नेव विशेषे अवस्थापनम् ।
इह तूद्गीथश्रुतेरविशेषेण विशिष्टार्थप्रत्यायकत्वात् ।
संकोचे प्रमाणं किञ्चिन्नास्ति ।
नच संनिधिमात्रमपबाधितुमर्हति ।
श्रुतिसामान्यद्वारेण च सर्वविशेषगामिन्याः श्रुतेरेकस्मिन्नवस्थानं पीडैव ।
तस्मात्सर्वोद्गीथविषयाः प्रत्यया इति ॥55॥
स्तर्त् ब्स्व्भ्_3,3.31.56
मन्त्रादिवद्वाविरोधः

3.3.57

विरुद्धमिति नः संप्रत्ययो यत्प्रमाणेन नोपलभ्यते ।
उपलब्धं च मन्त्रादिषु शाखान्तरीयेषि शाखान्तरीयकर्मसंबन्धित्वम् ।
तद्वदिहापीति दर्शनादविरोधः ।
एतच्च दर्शितं भाष्येण सुगमेनेति ॥56॥
स्तर्त् ब्स्व्भ्_3,3.32.57
भूम्नः क्रतुवज्ज्यायस् त्वं तथा हि दर्शयति

3.3.58

वैश्वानरविद्यायां छान्दोग्ये किं व्यस्तोपासनं समस्तोपासनं च उता समस्तोपासनमेवेति ।
तत्र दिवमेव भगवो राजन्निति होवाचेति प्रत्यकमुपासनश्रुतेः प्रत्येकं च फलवत्त्वाम्नानात्समस्तोपासने च फलवत्त्वश्रुतेरुभयथाप्युपासनम् ।
नच यथा वैश्वानरीयेष्टौ यदष्टाकपालो भवतीत्यादीनामवयुज्यवादानां प्रत्येकं फलश्रवणे ऽप्यर्थवादमात्रत्वं वैश्वानरं द्वादशकपालं निर्वपेदित्यस्यैव तु फलवत्त्वमेवमत्रापि भवितुमर्हति ।
तत्र हि द्वादशकपालं निर्वपेदिति ।
विधिभक्तिश्रुतिर्यदष्टाकपालो भवतीत्यादिषु वर्तमानापदेशः ।
नच वचनानि त्वपूर्वत्वादिति विधिकल्पना ।
अवयुज्यवादेन स्तुत्याप्युपपत्तेः ।
इह तु समस्ते व्यस्ते च वर्तमानापदेशस्याविशेषादगृह्यमाणविशेषतया उभयत्रापि विधिकल्पनायाः फलकल्पनायाश्च भेदात् ।
निन्दायाश्च समस्तोपासनारम्भे व्यस्तोपासने ऽप्युपपत्तेः ।
श्यामो वाश्वाहुतिमभ्यवहरतीतिवदुभयविधमुपासनमिति
प्राप्त उच्यते-समस्तोपासनस्यैव ज्यायस्त्वं न व्यस्तोपासनस्य ।
यद्यपि वर्तमानापदेशत्वमुभयत्राप्यविशिष्टं तथापि पौर्वापर्यालोचनया समस्तोपासनपरत्वस्यावगमः ।
यत्परं हि वाक्यं तदस्यार्थः ।
तथाहि-प्राचीनशालप्रभृतयो वैश्वानरविद्यानिर्णयायाश्वपतिं कैकेयमाजग्मुः ।
ते च तत्तदेकदेशोपासनमुपन्यस्तवन्तः ।
तत्र कैकेयस्तत्तदुपासननिन्दापूर्वं तन्निवारणेन समस्तोपासनमुपसंजहार ।
तथा चैकवाक्यतालाभाय वाक्यभेदपरिहाराय च समस्तोपासनपरतैव संदर्भस्य लक्ष्यते ।
तस्माद्बहुफलसंकीर्तनं ।
प्रधानस्तवनाय ।
समस्तोपासनस्यैव तु फलवत्त्वमिति सिद्धम् ।
एकदेशिव्याख्यानमुपन्यस्य दूषयति-
केचित्त्वत्रेति ।
संभवत्येकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात् नेदृशं सूत्रव्याख्यानं समञ्जसमित्यर्थः ॥57॥
स्तर्त् ब्स्व्भ्_3,3.33.58
नानाशब्दादिभेदात्

3.3.59

सिद्धं कृत्वा विद्याभेदमधस्तनं विचारजातमभिनिर्वर्तितम् ।
संप्रति तु सर्वासामीश्वरगोचराणां विद्यानां किमभेदो भेदो वा, एवं प्राणादिगोचरास्विति विचारयितव्यम् ।
ननु यथा प्रत्ययाभिधेयाया अपूर्वभावनाया आजानतो भेदभावे ऽपि धात्वर्थेन निरूप्यमाणत्वात्तस्य च यागादेर्भेदात्प्रकृत्यर्थयागादिधात्वर्थानुबन्धभेदाद्भेदः ।
तदनुरक्ताया एव तस्याः प्रतीयमानत्वात् ।
एवं विद्यानामपि रूपतो वेद्यस्येश्वरस्याभेदे ऽपि तत्तत्सत्यसंकल्पत्वादिगुणोपधानभेदाद्विद्याभेद इति नास्त्यभेदाशङ्का ।
उच्यते-युक्तमनुबन्धभेदात्कार्यरूपाणामपूर्वभावनानां भेद इति ।
इह ब्रह्मणः सिद्धरूपत्वाद्गुणानामपि सत्यसंकल्पत्वादीनां तदाश्रयाणां सिद्धतया सर्वत्राभेदो विद्यासु ।
नहि विशालवक्षाश्चकोरेक्षणः क्षत्रिययुवा दुश्चयवनधर्मेति एकत्रोपदिष्टो ऽन्यत्र सिंहास्यो वृषस्कन्धः स एवोपदिश्यमानश्चकोरेक्षणत्वाद्यपजहाति न खलु प्रत्युपदेशं वस्तु भिद्यते ।
तस्य सर्वत्र तादवस्थ्यात् ।
अतादवस्थ्ये वा तदेव न भवेत् ।
नहि वस्तु विकल्प्यत इति ।
तस्माद्वेद्याभेदाद्विद्यानां भेद इति प्राप्तम् ।
एवं प्राप्त उच्यते-भवेदेतदेवं यदि वस्तुनिष्ठान्युपासनवाक्यानि किन्तु तद्विषयामुपासनाभावनां विदधति ।
सा च कार्यरूपा ।
यद्यपि चोपासनाभावना उपासनाधीननिरूपणोपासनं चोपास्याधीननिरूपणमुपास्यं चेश्वरादि व्यवस्थितरूपम्, तथाप्युपासनविषयीभावो ऽस्य कदाचित्कस्यचित्केनचिद्रूपेणेत्यपरिनिष्ठित एव ।
यथैकः स्त्रीकायः केनचिद्भक्ष्यतया केनचिदुपगन्तव्यतया केनचिदपत्यतया केनचिन्मातृतया केनचिदुपेक्षणीयतया विषयीक्रियमाणः पुरुषेच्छातन्त्रः ।
एवमिहापि उपासनानि पुरुषेच्छातन्त्रतया विधेयतां नातिक्रामन्ति ।
नच तत्तद्गुणतयोपासनानि गुणभेदान्न भिद्यन्ते ।
न चाग्निहोत्रमिवोपसनां विधाय दधितण्डुलादिगुणवदिह सत्यसंकल्पत्वादिगुणविधिर्येनैकशास्त्रत्वं स्यात् ।
अपि तूत्पत्तावेवोपासनानां तत्तद्गुणविशिष्टानामवगमात् ।
तत्रागृह्यमाणविशेषतया सर्वासां भेदस्तुल्यः ।
नच समस्तशाखाविहितसर्वगुणोपसंहारः शक्यानुष्ठानस्तस्माद्भेदः ।
न चास्मिन्पक्षे सामाना सन्तः सत्यकामादयैति ।
केचित्खलु गुणाः कासुचिद्विद्यासु समानास्तेनैकविद्यात्वे आवर्तयितव्याः ।
एकत्रोक्तत्वात् ।
विद्याभेदे तु न पौनरुक्त्यमेकस्यां विद्यायामुक्ता विद्यान्तरे नोक्ता इति विद्यान्तरस्यापि तद्गुणत्वाय वक्तव्या अनुक्तानामप्राप्तेरिति ॥58॥
स्तर्त् ब्स्व्भ्_3,3.34.59
विकल्पो ऽविशिष्टफलत्वात्

3.3.60

अग्निहोत्रदर्शपूर्णमासादिषु पृथगधिकाराणामपि समुच्चयो दृष्टो नियमवांस्तेषां नित्यत्वादुपासनास्तु काम्यतया न नित्यास्तस्मान्नासां समुच्चयनियमः ।
तेन समानफलानां दर्शपूर्णमासज्योतिष्टोमादीनामिव न नियमवान्विकल्पः फलभूमार्थिनः समुच्चयस्यापि संभवादिति पूर्वः पक्षः ।
उपासनानाममूषामुपास्यसाक्षात्करणसाध्यत्वात्फलभेदस्यैकेनोपासनेनोपास्यसाक्षात्करणे तत एव फलप्रतिलाभे तु कृतमुपासनान्तरेण ।
नच साक्षात्करणस्यातिशयसंभवस्योपायसहस्रैरपि तादवस्थ्यात्तन्मात्रसाध्यत्वाच्च फलावाप्तेः ।
उपासनान्तराभ्यासे च चित्तैकाग्रताव्याघातेन कस्य चिदुपासनानिष्पत्तेरिह विकल्प एव नियमवानिति राद्धान्तः ॥59॥
स्तर्त् ब्स्व्भ्_3,3.35.60
काम्यास् तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात्

3.3.61

यासूपासनासु विनोपास्यसाक्षात्कारणमदृष्टेनैव काम्यसाधनं तासां काम्यदर्शपौर्णमासादिवत्पुरुषेच्छावशेन
विकल्पसमुच्चयाविति साम्प्रतम् ॥60॥
स्तर्त् ब्स्व्भ्_3,3.36.61
अङ्गेषु यथाश्रयभावः

3.3.62

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः ।
इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते ।
यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति ।
तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते ।
नच प्रयुज्यन्ते तत्कस्य होतोः ।
क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति ।
एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः ।
स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यंभावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः ।
राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थनुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति ।
किन्तु तदविरोधेनावतिष्ठते ।
तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च संभवान्नियमेनैतान्त्समुच्चिनोतु ।
कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति ।
नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते ।
मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती ।
तथा सत्युद्देशानुपपत्तेः ।
तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् ।
नित्यानित्यसंयोगविरोधात् सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति ।
न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तम्-आश्रयतन्त्राण्यपि हीति ॥61॥
स्तर्त् ब्स्व्भ्_3,3.36.62
शिष्टेश् च

3.3.63

॥ 62 ॥
स्तर्त् ब्स्व्भ्_3,3.36.63
समाहारात्

3.3.64

होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति ।
अपिर्भिन्नकमो दिरुद्गीथमपीति ।
वेदान्तरोहितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् ।
एवं ब्रुवन्वेदान्तरोदितस्य प्रत्यस्येत्यादि योजनीयम् ॥63॥
स्तर्त् ब्स्व्भ्_3,3.36.64
गुणसाधारण्यश्रुतेश् च

3.3.65

अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या ।
शेषमतिरोहितार्थम् ॥64॥
स्तर्त् ब्स्व्भ्_3,3.36.65
न वा तत्सहभावाश्रुतेः

3.3.66

॥65॥
स्तर्त् ब्स्व्भ्_3,3.36.66
दर्शनाच् च

मूल पाठ: Brahmasūtra2 with Vācaspati's Bhāmatī (a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc