ब्रह्मसूत्र2 (टीका सहित) · अध्याय 74
सूत्रान्तरं गृह्णाति- कः पुनरिति ।
जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् ।
अपिच पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः
एन्द् ब्स्चोम्_4,4.1.2
स्तर्त् ब्स्चोम्_4,4.1.3
आत्मा प्रकरणात् । ब्ब्स्_4,4.3 ।
कथं पुनः मुक्त इति उच्यते - यावता ऽपरं ज्योतिरुपसंपद्यऽ (छा. 8.12.3) इति कार्यगोचरम् एव एनं श्रावयति ।
ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ।
न च अनतिवृत्तो विकारविषयात् कश्चित् मुक्तो भवितुम् अर्हति ।
विकारस्य आर्तत्वप्रसिद्धेः इति ।
न एष दोषः ।
यत ज्योतिः शब्देन आवेद्यते प्रकरणात् ऽय आत्मापहतपाप्मा विजरो विमृत्युःऽ (छा. 8.7.1) इति हि प्रकृते परस्मिन् आत्मनि न अकस्मात् भौतिकं ज्योतिः शक्यं ग्रहीतुम् ।
प्रकृतहान अप्रकृतप्रक्रिया प्रसङ्गात् ।
ज्योतिःशब्दः तु आत्मनि अपि दृश्यते ऽतद्देवा ज्योतिषं ज्योतिः (बृ. 4.4.16) इति ।
प्रपञ्चितं चैतत्ऽ(ब्र. सू. 1.3.40) इत्यत्र
कार्यगोचरमिति ।
कार्यं ज्योतिःप्राप्तमित्यर्थः ।
कार्यं प्राप्तो ऽपि मुक्तः किं न स्यादित्यत आह- न चानतिवृत्त इति
एन्द् ब्स्चोम्_4,4.1.3
स्तर्त् ब्स्चोम्_4,4.2.4
2 अविभागेन दृष्टत्व अधिकरणम् । सू. 4
अविभागेन दृष्टत्वात् । ब्ब्स्_4,4.4 ।
परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यते यः स किं परस्मात् आत्मनः पृथगेव भवति उत अविभागेन एव अवतिष्ठत वीक्षायाम् स ऽतत्र पर्येतिऽ ( 8.12.3) इति अधिकरण अधिकर्तव्य निर्देशात् ज्योतिः उपसंपद्य (छा. 8.12.3) इति च कर्तृकर्मनिर्देशात् भेदेन एव अवस्थानम् इति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तः अवतिष्ठते ।
कुतः - दृष्टत्वात् ।
तथा हि ऽतत्त्वमसिऽ (छा. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.10) ऽयत्र नान्यत्पश्यतिऽ (छा. 7.24.1) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. 4.3.23) इति एवमादीनि वाक्यानि अविभागेन एव परमात्मानं दर्शयन्ति ।
यथादर्शनम् एव च फलं युक्तं तत्क्रतु न्यायात् ।
ऽयथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेः विजानत आत्मा भवति गौतमऽ (क. 4.15) इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यानि अविभागमेव दर्शयन्ति ।
नदी समुद्रादि निदर्शनानि च ।
भेदनिर्देशः तु अभेदे अपि उपचर्यते ।
ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. 7.24.1) इति ऽआत्मरतिरात्मक्रीडःऽ (छा. 7.25.2) इति च एवमादिदर्शनात्
अविभागेन दृष्टत्वात् ।
स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह- यस्येति
एन्द् ब्स्चोम्_4,4.2.4
स्तर्त् ब्स्चोम्_4,4.3.5
3 ब्राह्म अधिकरणम् । सू. 5-7
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः । ब्ब्स्_4,4.5 ।
स्थितम् एतत् ऽस्वेन रूपेणऽ(छा. 8.3.4) इति अत्र आत्ममात्ररूपेण अभिनिष्पद्यत न आगन्तुकेन अपररूपेण इति ।
अधुना तु तत् विशेषबुभुत्सायाम् अभिधीयते स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादि सत्यसंकल्पत्व अवसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च तेन स्वरूपेण अभिनिष्पद्यत इति जैमिनिः आचार्यो मन्यते ।
कुतः - उपन्यासादिभ्यः तथात्व अवगमात् ।
तथा हि - ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्यादिना ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.7.1) इति एवम् अन्तेन उपन्यासेन एवम् आत्मकताम् आत्मनो बोधयति ।
तथा ऽस तत्र पर्येति जक्षन्क्रीडन्रममाणःऽ (छा. 8.12.3) इति ऐश्वर्यरूपम् आवेदयति ।
ऽतस्य सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 7.25.2) इति च ।
ऽसर्वज्ञः सर्वेश्वरःऽ इत्यादि व्यपदेशाः च एवम् उपपन्ना भविष्यन्ति इति
ब्राह्मेण जैमिनिः उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रो ऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह- अधुनेत्यादिना ।
तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् ।
सो ऽन्वेष्टव्य इतिविध्यर्थ उद्देशो य आत्मेत्यादिरूपन्यासशब्दार्थः ।
आदिपदाद्विधिव्यपदेशग्रहः ।
तत्राज्ञातज्ञापको विधिस्तमाह- तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशो ऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः
एन्द् ब्स्चोम्_4,4.3.5
स्तर्त् ब्स्चोम्_4,4.3.6
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः । ब्ब्स्_4,4.6 ।
यद्यपि अपहपाप्मत्वादयोभेदेन एव धर्मा निर्दिश्यन्ते तथा अपि शब्दविकल्पजा एव एते ।
पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते ।
चैतन्यमेव तु अस्य आत्मनः स्वरूपम् इति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिः युक्ता ।
तथा च श्रुतिः - ऽएवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. 4.5.13) इति एवञ्जातीयका अनुगृहीता भविष्यति ।
सत्यकामत्वादयः तु यदि अपि वस्तुस्वरूपेण एव धर्मा उच्यन्ते सत्याः कामा अस्य इति ।
तथा अपि उपाधिसंबन्ध अधीनत्वात् तेषां न चैतन्यवत् स्वरूपसंभवः ।
अनेक आकारत्वप्रतिषेदात् ।
प्रतिषिद्धं हि ब्रह्मणः अनेक आकारत्वम् ऽन स्थानतो ऽपि परस्योभयलिङ्गम्ऽ (ब्र.सू, 3.2.11) इत्यत्र ।
अत एव च जक्षणादि संकीर्तनम् अपि दुःख अभावमात्र अभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत् ।
न हि मुख्यानि एव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुं द्वितीय विषयत्वात् तेषाम् ।
तस्मात् निरस्त अशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इति औडुलोमिः आचार्यो मन्यते
सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह- चितितन्मात्रेणेति ।
चितिश्चैतन्यं, शब्दज्ञानाद्यो विकल्पो ऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् ।
अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह- सत्यकामेति ।
चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह- अत एव चेति ।
सर्वधर्मनिषेधादेवेत्यर्थः
एन्द् ब्स्चोम्_4,4.3.6
स्तर्त् ब्स्चोम्_4,4.3.7
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः । ब्ब्स्_4,4.7 ।
एवम् अपि पारमार्थिक चैतन्यमात्रस्वरूप अभ्युपगमे अपि व्यवहार अपेक्षया पूर्वस्य अपि उपन्यासादिभ्यः अवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्ययाख्यानात् अविरोधं बादरायण आचार्यो मन्यते
धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् ।
अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति- एवमपीति ।
अत्र केचिन्मुह्यन्ति-अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः ।
ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति ।
नच मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यं, न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः ।
तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् ।
न ।
प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसंमत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति संक्षेपः
एन्द् ब्स्चोम्_4,4.3.7
स्तर्त् ब्स्चोम्_4,4.4.8
4 संकल्प अधिकरणम् । सू. 8-9
संकल्पाद् एव तु तच्छ्रुतेः । ब्ब्स्_4,4.8 ।
हार्दविद्यायां श्रूयते - ऽस यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादि ।
तत्र संशयः किं संकल्प एव केवलः पित्रादिसमुत्थाने हेतुः उत निमित्तान्तर सहित इति ।
तत्र सति अपि संकल्पादेव इति श्रवणे लोकवत् निमित्तान्तर अपेक्षता युक्ता ।
यथा लोके अस्मदादीनां संकल्पात् गमनादिभ्यः च हेतुभ्यः पित्रादि संपत्तिः भवति एवं मुक्तस्य अपि स्यात् ।
एवं दृष्टविपरीतं न कल्पितं भविष्यति ।
संकल्पादेव इति तु राज्ञ इव संकल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभाम् अपेक्ष्य उच्यते ।
न च संकल्पमात्रसम् उत्थानाः पित्रादयो मनोरथाविजृम्भितवत् चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युः इति ।
एवं प्राप्ते ब्रूमः संकल्पादेव तु केवलात् पित्रादिसमुत्थानम् इति ।
कुतः - तत् श्रुतेः ।
ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादिका हि श्रुतिः निमित्तान्तर अपेक्षायां पीड्येत ।
निमित्तान्तरम् अपि तु यदि संकल्प अनुविधायि एव स्यात् भवतु न तु प्रयत्नान्तरसंपाद्यं निमित्तान्तरम् इति इष्यते ।
प्राक् तत् संपत्तेः वन्ध्यसंकल्पत्व प्रसङ्गात् ।
न च श्रुति अवगम्ये अर्थे लोकवत् इति सामान्यतो दृष्टं क्रमते ।
संकल्पबलात् एव च एषां यावत् प्रयोजनं स्थैर्य उपपत्तिः. प्राकृतसंकल्पविलक्षणत्वात् मुक्तसंकल्पस्य
एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति- संकल्पादेव तु तच्छ्रुतेः ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य संकल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसंकल्पत्वादस्मदादिसंकल्पवत् ।
न चैवकारविरोधः संकल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः ।
अत्र लोकवृत्तानुसरणं फलं, सिद्धान्ते तु विद्याबलेन संकल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति बेदः ।
किञ्च यदि भोगसंकल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसंकल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसंकल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह- निमित्तान्तरमपि त्विति
एन्द् ब्स्चोम्_4,4.4.8
स्तर्त् ब्स्चोम्_4,4.4.9
अत एव चानन्याधिपतिः । ब्ब्स्_4,4.9 ।
अत एव च अवन्ध्यसंकल्पत्वात् अनन्य अधिपतिः विद्वान् भवति न अस्य अन्यः अधिपतिः भवति इत्यर्थः ।
न हि प्राकृतो अपि संकल्पयन् अन्यस्वामिकत्वम् आत्मनः सत्यां गतौ संकल्पयति ।
श्रुतिः च एतत् दर्शयति - ऽअथ य इहात्मानमनुविद्य व्रजन्त्येश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 8.1.6) इति
नन्वीश्वराधीनस्य विदुषः कथं संकल्पमात्राद्भोगसिद्धिस्तत्राह- अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न संकल्पभङ्ग इति भावः
एन्द् ब्स्चोम्_4,4.4.9
स्तर्त् ब्स्चोम्_4,4.5.10-11
अभाव अधिकरणम् । सू. 10-14
अभावं बादरिर् आह ह्य् एवम् । ब्ब्स्_4,4.10 ।
ऽसंकल्पादेवास्य पितरः समुत्तिष्ठन्तिऽ (छा. 8.2.1) इत्यादि श्रुतेः मनः तावत् संकल्पसाधनं सिद्धम् ।
शरीर इन्द्रियाणि पुनः प्राप्त ऐश्वर्यस्य विदुषः सन्ति न वा सन्ति इति समीक्ष्यते ।
तत्र बादरिः तावत् आचार्यः शरीरस्य इन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते ।
कस्मात् ।
एवं हि आह आम्नायः ऽमनसैतान्कामान्पश्यन्रमतेऽ (छा. 8.12.5) ऽय एते ब्रह्मलोकेऽ (छा. 8.13.1) इति ।
यदि मनसा शरीर इन्द्रियाणां मोक्षे
भावं जैमिनिर् विकल्पामननात् । ब्ब्स्_4,4.11 ।
जैमिनिः तु आचार्यो मनोवत् शरीरस्य अपि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते ।
यतः ऽस एकधा भवति त्रिधा भवतिऽ(छा. 7.23.2) इत्यादिना अनेकधा अभावविकल्पम् आमनन्ति ।
न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् ।
यदि अपि निर्गुणायां भूमविद्यायाम् अयम् अनेकधा अभावविकल्पः पठ्यते तथा अपि विद्यमानमेव इदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्या स्तुतये संकीर्त्यत इति अतः सगुणविद्याफलभावेन उपतिष्ठत इति
एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति- अभावं बादरिराह ह्येवम् ।
अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः ।
कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः ।
फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः
एन्द् ब्स्चोम्_4,4.5.10
एन्द् ब्स्चोम्_4,4.5.11
स्तर्त् ब्स्चोम्_4,4.5.12-14
उच्यते -
द्वादशाहवद् उभयविधं बादरायणो ऽतः । ब्ब्स्_4,4.12 ।
बादरायणः पुनः आचार्यः अत एव उभयलिङ्गश्रुतिदर्शनात् उभयविधत्वं साधु मन्यते यदा सशरीरतां संकल्पयति तदा सशरीरो भवति यदा तु अशरीरतां तदा अशरीर इति ।
सत्यसंकल्पत्वात् ।
संकल्प वैचित्र्यात् च ।
द्वादश अहवत् ।
यथा द्वादश अहःसत्रम् अहीनः च भवति ।
उभयलिङ्ग श्रुतिदर्शनात् एवम् इदम् अपि इति
तन्वभावे सन्ध्यवद् उपपत्तेः । ब्ब्स्_4,4.13 ।
यदा तनोः सेन्द्रियस्य शरीरस्य अभावः तदा यथा संध्ये स्थाने शरीर इन्द्रियविषयेषु अविद्यमानेषु अपि उपलब्धिमात्रा एव पित्रादिकामा भवति एवं मोक्षे अपि स्युः एवं हि एतत् उपपद्यते
भावे जाग्रद्वत् । ब्ब्स्_4,4.14 ।
भावे पुनः तनोः यथा जागरिते विद्यमाना एव पित्रादिकामा भवन्ति एवं मुक्तस्य अपि उपपद्यते
द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वं, आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः ।
तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः
एन्द् ब्स्चोम्_4,4.5.12-14
स्तर्त् ब्स्चोम्_4,4.5.15
6 प्रदीप अधिकरणम् । सू. 15-16
प्रदीपवदावेशस् तथा हि दर्शयति । ब्ब्स्_4,4.15 ।
भावं ऽजैमिनिर्विकल्पामननात्ऽ ( ब्र.सू. 4.4.11) इति अत्र सशरीरत्वं मुक्तस्य उक्तम् ।
तत्र त्रिधाभावादिषु अनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्राणि इव सृज्यन्ते किं वा सात्मकानि अस्मदादि शरीरवत् इति भवति वीक्षा ।
तत्र च आत्म मनसोः भेद अनुपपत्तेः एकेन शरीरेण योगात् इतराणि शरीराणि निरात्मकानि इति ।
एवं प्राप्ते प्रतिपद्यते - प्रदीपवत् आवेश इति ।
यथा प्रदीप एकः अनेकप्रदीपभावम् आपद्यते विकारशक्तियोगात् ।
एवम् एकः अपि सन् विद्वान ऐश्वर्ययोगात् अनेकभावम् आपद्य सर्वाणि शरीराणि आविशति ।
कुतः, तथा हि दर्शयति शास्त्रम् एकस्य अनेकभावम् - ऽस एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधाऽ (छा. 7.26.2) इत्यादि ।
न एतत् दारुयन्त्र उपमा अभ्युपगमे अवकल्पते न अपि जीवान्तरावेशे ।
न च निरात्मकानां शरीराणां प्रवृत्तिः संभवति ।
यत् तु आत्म मनसोः भेद अनुपपत्तेः अनेकशरीरयोग असंभव इति ।
न एष दोषः ।
एकमनोनुवर्तिनि समनस्कानि एव अपराणि शरीराणि सत्यसंकल्पत्वात् स्रक्ष्यति ।
सृष्टेषु च तेषु उपाधिभेदात् आत्मनः अपि भेदेन अधिष्ठातृत्वं योक्ष्यते ।
एष एव च योगशास्त्रेषु योगिनाम् अनेकशरीरप्रयोगक्रिया
प्रदीपवदावेशः ।
संकल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह- भावमिति ।
अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे- यथेत्यादिना ।
स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः ।
विद्वांस्तु न देहो नापि चिन्मात्रः ।
किन्तु लिङ्गोपहितात्मा ।
नच तस्य लिङ्गभेदं विनानेकत्वं संभवति ।
अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः ।
यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदो ऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसंधानानुपपत्तेः ।
आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च ।
तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात् दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् ।
तथाच यथा प्रदीपो ऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वलिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः ।
विदुषो ऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह- नैतदिति ।
इतश्च सात्मकत्वमित्याह- नच निरात्मकानामिति ।
यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थापि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसंभवादिति ।
अत्र योगशास्त्रसंमतिमाह- एषैवेति ।
निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् ।
योगिनो ऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः
एन्द् ब्स्चोम्_4,4.5.15
स्तर्त् ब्स्चोम्_4,4.6.16
कथं पुनः मुक्तस्य अनेकशरीर आवेशादिलक्षणम् ऐश्वर्यम् अभ्युपगम्यते यावता ऽतत्केन कं विजानीयात्ऽ (बृ. 4.5.15) ऽन तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यद्विजानीयात्ऽ (बृ. 4.3.30) ऽसलिल एको द्रष्टाद्वैतो भवतिऽ (बृ. 4.3.32) इति च एवञ्जातीयका श्रुतिः विशेषविज्ञानं वारयति इत्यत उत्तरं पठति -
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि । ब्ब्स्_4,4.16 ।
स्वाप्ययः सुषुप्तम् ऽस्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षतेऽ (छा. 6.8.1) इति श्रुतेः ।
संपत्तिः कैवल्यम्, ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इति श्रुतेः ।
तयोः अन्यतराम् अवस्थाम् अपेक्ष्य एतत् विशेषसंज्ञाभाव वचनम् ।
क्वचित् सुषुप्त अवस्थाम् अपेक्ष्य उच्यते क्वचित् कैवल्य अवस्थाम् ।
कथम् अवगम्यते यतः तत्र एव एतत् अधिकारवशात् आविष्कृतम् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तीतिऽ (बृ. 2.4.14) ऽयत्र त्वस्य सर्वमात्मैवाभूत्ऽ (बृ. 2.4.14) ऽयत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतिऽ (बृ. 4.3.19, माण्डू. 5) इत्यादि श्रुतिभ्यः ।
सगुणविद्याविपाक अवस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरं यत्र एतत् ऐश्वर्यम् उपवर्ण्यते ।
तस्मात् अदोषः
उत्तरसूत्रव्यावर्त्यशङ्कामाह- कथं पुनरिति ।
सलिलवत्सलिलः, स्वच्छ इत्यर्थः ।
न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं ऽतत्केन कम्ऽइत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् ।
एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह- स्वाप्ययेति ।
तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततो ऽवगम्यत इत्यर्थः ।
अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्ता इति सुप्तिविषयमिति विभागः
एन्द् ब्स्चोम्_4,4.6.16
स्तर्त् ब्स्चोम्_4,4.7.17
7 जगत् व्यापार अधिकरणम् । सू. 17-22
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च । ब्ब्स्_4,4.17 ।
ये सगुणब्रह्म उपासनात् सह एव मनसा ईश्वरसायुज्यं व्रजन्ति किं तेषां निरवग्रहम् ऐश्वर्यं भवति आहोस्वित् सावग्रहम् इति संशयः ।
किं तावत् प्राप्तम् ।
निरङ् कुशमेव एषाम् ऐश्वर्यं भवितुम् अर्हति ऽआप्नोति स्वाराज्यम्ऽ (तै. 1.6.2) ऽसर्वे ऽस्मै देवा बलिमावहन्तिऽ (तै. 1.5.3) ऽतेषां सर्वेषु लोकेषु कामचारो भवतिऽ (छा. 7.25.2, 8.1.6) इत्यादि श्रुतिभ्य इति ।
एवं प्राप्ते पठति - जगत् व्यापारवर्जम् इति ।
जगत् उत्पत्त्यादि व्यापारं वर्जयित्वा अन्यत् अणिमादि आत्मकम् ऐश्वर्यं मुक्तानां भवितुम् अर्हति जगत् व्यापारः तु नित्यसिद्धस्य एव ईश्वरस्य ।
कुतः - तस्य तत्र प्रकृतत्वात् असंनिहितत्वात् च इतरेषाम् ।
पर एव हि ईश्वरो जगत् व्यापारे अधिकृतः ।
तम् एव प्रकृत्य उत्पत्त्यादि उपदेशात् ।
नित्यशब्दनिबन्धनत्वात् च ।
तत् अन्वेषणविजिज्ञासनपूर्वकं तु इतरेषाम् अणिमादि ऐश्वर्यं श्रूयते ।
तेन असंनिहिताः ते जगत् व्यापारे ।
समनस्कत्वात् एव च एतेषाम् अनैकमत्ये कस्यचित् स्थिति अभिप्रायः कस्यचित् संहार अभिप्राय इति एवं विरोधः अपि कदाचित् स्यात् ।
अथ कस्यचित् संकल्पम् अन्वयस्य संकल्प इति अविरोधः समर्थ्येत ततः परमेश्वर आकूततन्त्रत्वम् एव इतरेषाम् इति व्यवतिष्ठते
जगद्व्यापारवर्जम् ।
संकल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्संगतिः ।
उभयथा दर्शनात्संशयः ।
ईश्वरनानात्वं पूर्वपक्षफलं, सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः ।
प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः ।
नद्ध्युपासकानां देहं विनेक्षणं संभवति ।
किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तं, न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह- नित्यशब्दनिबन्धनत्वाच्चेति ।
किञ्च विदुषां समप्राधान्ये मिथो विरोधः ।
एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह- समनस्कत्वादिति
एन्द् ब्स्चोम्_4,4.7.17
स्तर्त् ब्स्चोम्_4,4.7.18
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः । ब्ब्स्_4,4.18 ।
अथ यत् उक्तम् ऽआप्नोति स्वाराज्यम्ऽ (तै. 1.6.2) इत्यादि प्रत्यक्ष उपदेशात् निरवग्रहम् ऐश्वर्यं विदुषां न्याय्यम् इति तत्परिहर्तव्यम् ।
अत्र उच्यते ।
न अयं दोषः ।
आधिकारिकमण्डलस्थ उक्तेः ।
आधिकारिको यः सवितृमण्डलादिषु विशेष आयतनेषु अवस्थितः पर ईश्वरः तदायत्त एव इयं स्वाराज्यप्राप्तिः उच्यते ।
यत्कारणम् अनन्तरम् ऽआप्नोति मनसस्पतिम्ऽ (तै. 1.6.2) इत्याह ।
यो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोति इति एतत् उक्तं भवति ।
तत् अनुसारेण एव च अनन्तरम् ऽवाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतिऽ (तै. 1.6.2) इत्याह ।
एवम् अन्यत्र अपि यथासंभवं नित्यसिद्ध ईश्वर आयत्तम् एव इतरेषाम् ऐश्वर्यं योजयितव्यम्
अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः ।
मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा ऽतत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात्ऽइति श्रुतेः ।
तथाच यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् ।
अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः ।
वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह- तदनुसारेणेति ।
उक्तन्यायं कामचारादिवाक्येष्वतिदिशति- एवमिति
एन्द् ब्स्चोम्_4,4.7.18
स्तर्त् ब्स्चोम्_4,4.7.19
विकारावर्ति च तथा हि स्थितिम् आह । ब्ब्स्_4,4.19 ।
विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपं न केवलं विकारमात्रगोचरं सवितृमण्डलादि अधिष्ठानम् ।
तथा हि अस्य द्विरूपां स्थितिम् आह आम्नायः ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादो ऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इति एवमादिः ।
न च तत् निर्विकारं रूपम् इतर आलम्बनाः प्राप्नुवन्ति इति शक्यं वक्तुम् अतत्क्रतुत्वात् तेषाम् ।
अतः च यथा एव द्विरूपे परमेश्वरे निर्गुणं रूपम् अनवाप्य सगुण एव अवतिष्ठन्त एवं सगुणः अपि निरवग्रहम् ऐश्वर्यम् अनवाप्य सावग्रह एव अवतिष्ठन्त इति द्रष्टव्यम्
जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्संकल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह- विकारावर्ति चेति
एन्द् ब्स्चोम्_4,4.7.19
स्तर्त् ब्स्चोम्_4,4.7.20
दर्शयतश् चैवं प्रत्यक्षानुमाने । ब्ब्स्_4,4.20 ।
दर्शयतः च विकार आवर्तित्वं परस्य ज्योतिषः श्रुति स्मृती ।
ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमग्निःऽ (कठ. 5.15, श्वेता. 6.14, मुण्ड. 2.2.10) इति ।
ऽन तद्भासयते सूर्यो न शशाङ् को न पावकःऽ (गी. 15.6) इति च ।
तत् एवं विकार आवर्तित्वं परस्य ज्योतिषः प्रसिद्धम् इति अभिप्रायः
निर्गुणस्वरूपे प्रमाणमाह- दर्शयतश्चेति ।
यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते ।
ध्यानाभावश्च विध्यभावादिति भावः
एन्द् ब्स्चोम्_4,4.7.20
स्तर्त् ब्स्चोम्_4,4.7.21
भोगमात्रसाम्यलिङ्गाच् च । ब्ब्स्_4,4.21 ।
इतः च न निरङ् कुशं विकार आलम्बनानाम् ऐश्वर्यं यस्मात् भोगमात्रम् एव एषाम् अनादिसिद्धेन ईश्वरेण समानम् इति श्रूयते - ऽतमाहापो वै खलु मीयन्ते लोको ऽसौऽ इति ऽस यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतिऽ(बृ. 1.5.23) इत्यादिभेदव्यपदेशलिङ्गेभ्यः
तमुपासकं ब्रह्मलोकगतमाह-हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोको ऽमृतोदकलक्षण इत्यर्थः ।
श्रुत्यन्तरमाह- स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः ।
तेनो इत्युशब्दो ऽप्यर्थः ।
सलोकतामपीत्यन्वयः ।
सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा
एन्द् ब्स्चोम्_4,4.7.21
स्तर्त् ब्स्चोम्_4,4.7.22
ननु एवं सति सातिशयत्वात् अन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततः च एषाम् आवृत्तिः प्रसज्येत इत्यत उत्तरं भगवान् बादरायण आचार्यः पठति -
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात् । ब्ब्स्_4,4.22 ।
नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नश्वत्थः सोमसवनो यस्मिन्नपराजिता पूर्ब्रह्मणो यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिवभुक्तभोगा आवर्तन्ते ।
कुतः ।
ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. 8.6.6, कठ. 6.16) ऽतेषां न पुनरावृत्तिःऽ (बृ. 6.2.15) ऽब्रह्मलोकमभिसंपद्यतेऽ (छा. 8.15.1) ऽन च पुनरावर्ततेऽ (छा. 8.15.1) इत्यादि शब्देभ्यः ।
अन्तवत्त्वे अपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् ऽकार्यात्यये तदध्यक्षेण सहातःपरम्ऽ (ब्र.सू. 4.3.10) इत्यत्र ।
सम्यक् दर्शनविध्वस्त तमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्ध एव अनावृत्तिः तदाश्रयणेन एव हि नित्यसिद्धनिर्वाणपरायणानां सिद्धा एव अनावृत्तिः तदाश्रयणेन एव हि सगुणशरणानाम् अपि अनावृत्तिसिद्धिः इति ।
अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् इति सूत्र अभ्यासः शास्त्रपरिसमाप्तिं द्योतयति
शास्त्रसमाप्तिं सूचयन्त्सूत्रकारं पूजयति- भगवानिति ।
भगवत्त्वं सर्वज्ञत्वम् ।
सूत्रद्वारा शिष्याणामाचारे स्थापनादाचार्यत्वम् ।
बादरायणपदेन बदरिकाश्रमवासोक्त्या नित्यसर्वज्ञस्य परमगुरोर्नारायणस्य प्रसादद्योतनात्तप्रणीतशास्त्रे निरवद्यतां द्योतयति ।
सगुणविद्यायाः सातिशयफलत्वे ऽपि ततो निर्गुणविद्यानावृत्तिरित्याह- अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य नावर्तन्ते इति संबन्धः ।
लोकं विशिनष्टि- यस्मिन्निति ।
इतो ऽस्मात्पृथिवीलोकात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नर इति ण्य इति चार्णकतुल्यौ सुधाहृदावित्यर्थः ।
ऐरमन्नमयं, मदीयं मदकरं सरः, सोमसवनः अमृतवर्षी ।
यद्यपि तेषामिह न पुनरावृत्तिरिमं मानवमिति च श्रुतिष्विहेममिति विशेषणादस्मिन्कल्पे ब्रह्मलोकं गतानां कल्पान्तरे आवृत्तिर्भाति, तथापीश्वरोपास्तिं विना पञ्चागनिविद्याश्वमेधदृढब्रह्मचर्यादिसाधनैर्ये गतास्तेषां तत्त्वज्ञाननियमाभावादावृत्तिः स्यात्, ये तु दहरादीश्वरोपास्त्या गतास्तेषां सगुणविद्याफलक्षये ऽपि निरवग्रहेश्वरानुग्रहलब्धात्मज्ञानान्मुक्तिरिति नियम इत्यभिप्रेत्याह- अन्तवत्त्वे ऽपि त्विति ।
नन्वत्र सूत्रकृता सगुणविदामेवानावृत्तिक्रम उक्तो न निर्गुणविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह- सम्यगिति ।
तदाश्रयणेनेति ।
सगुणविदामावृत्तिप्राप्तौ सम्यग्दर्शनाश्रयणेनैवानावृत्तिः साधिता, अतः स्वत एव सम्यग्दर्शिनामावृत्तिशङ्का नेति किमु वाच्यमित्यर्थः ।
यत्राध्यायसमाप्तिस्तत्र पदमात्रस्याभ्यासो दर्शितः, इह सूत्रस्यैवाभ्यासाच्छास्त्रसमाप्तिर्द्येत्यत इत्याह- अनावृत्तिः शब्दादिति ।
एवं समन्वयोक्त्या ब्रह्मात्मैक्यस्य वेदान्तप्रमाणकत्वमवधारयितुं वाक्यार्थज्ञाने स्मृतितर्कादिसर्वप्रकारविरोधः परिहृतः, साधनसंपत्तिश्च दर्शिता, तस्माद्विवेकादिसाधनसंपन्नस्य श्रवणाद्यावृत्तिनिरस्तसमस्तप्रतिबन्धस्याखण्डात्मसंबोधात्समूलबन्धध्वंसे सत्याविर्भूतनिष्कलङ्कानन्तरस्वप्रकाशचिदानन्दात्मनावस्थानमिति सिद्धम्
एन्द् ब्स्चोम्_4,4.7.22
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ चतुर्थाध्यायस्य चतुर्थः पादः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0