ब्रह्मसूत्र2 (टीका सहित) · अध्याय 73
पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, संप्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह- संपद्याविर्भावः स्वेनशब्दात् ।
निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह- एवमिति ।
पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलं, तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह- किमित्यादिना ।
स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्वेवेति मत्वा सिद्धान्तयति- एवमिति ।
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वे ऽत्वनर्थकानुवादः स्यादित्यर्थः
एन्द् ब्स्चोम्_4,4.1.1
स्तर्त् ब्स्चोम्_4,4.1.2
कः पुनः विशेषः पूर्वासु अवस्थासु इह च स्वरूप अनपायसाम्ये सति इत्यत आह -
मुक्तः प्रतिज्ञानात् । ब्ब्स्_4,4.2 ।
यः अत्र अभिनिष्पद्यत इति उक्तः स सर्वबन्ध विनिर्मुक्तः शुद्धेन एव आत्मना अवतिष्ठते ।
पूर्वत्र तु अन्धो भवति अपि रोदिति इव विनाशमेव अपीतो भवति इति च अवस्थात्रय कलुषितेन आत्मन इति अयं विशेषः ।
कथं पुनः अवगम्यते मुक्तः अयम् इदानीं भवति इति - प्रतिज्ञानात् इत्याह ।
तथा हि ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. 8.9.3, 8.10.4, 8.11.3) इति अवस्थात्रय दोषविहीनम् आत्मानं व्याख्येयत्वेन प्रतिज्ञाय ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छा. 8.12.1) इति च उपन्यस्य ऽस्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. 8.12.3) इति च उपसंहरति ।
तथा आख्यायिक उपक्रमे अपि ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्यादि मुक्त आत्मविषयम् एव प्रतिज्ञानम् ।
फलत्वप्रसिद्धिः अपि मोक्षस्य बन्धनिवृत्तिमात्र अपेक्षा न अपूर्व उपजनन अपेक्षा ।
यत् अपि अभिनिष्पद्यत इति उत्पत्तिपर्यायत्वं तत् अपि पूर्व अवस्थापेक्षं यथा रोगनिवृत्तौ अरोगःअभिनिष्पद्यत इति तद्वत् ।
तस्मात् अदोषः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0