भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 75

75.1

समाप्तमिदं ब्रह्मसूत्रशाङ् करभाष्यम् ॥
नानाविधग्रन्थजातं वीक्ष्य सम्यग्यथामति ।
शारीकस्य भाष्यस्य कृता व्याख्या सतां मुदे

75.2

अन्तर्यामी जगत्साक्षी सर्वकर्ता रघूद्वहः ।
अतो ऽत्र दोषो ऽशङ्क्यः स्यादेष ह्येवेतिशासनात्

75.3

वक्षस्यक्ष्णोश्च पार्श्वे करतलयुगले कौस्तुभाभां दयां च सीतां कोदण्डदीक्षामभयवरयुतां वीक्ष्य रामाङ्गसङ्गः ।
स्वस्याः क्व स्यादितीयं हृदि कृतमनना भाष्यरत्नप्रभाख्या, स्वात्मानन्दैकलुब्धा रघुवरचरणाम्भोजयुग्मं प्रपन्ना

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc