ब्रह्मसूत्र2 (टीका सहित) · अध्याय 72
॥ इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः ॥
चतुर्थे ऽध्याये चतुर्थः पादः ।
स्तर्त् ब्स्चोम्_4,4.1.1
चतुर्थो ऽध्याये चतुर्थः पादः ।
[अत्र पादे ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणम्]
1 संपद्याविर्भाव अधिकरणम् । सू. 1-3
संपद्याविर्भावः स्वेन शब्दात् । ब्ब्स्_4,4.1 ।
एवम् एव एष संप्रसादः अस्मात् शरीरात् समुत्थाय परं ज्योतिः उपसंपद्य स्वेन रूपेण अभिनिष्पद्यत इति श्रूयते ।
तत्र संशयः - किं देवलोकादि उपभोगस्थानेषु इव आगन्तुकेन केनचित् विशेषेण अभिनिष्पद्यत आहोत् आत्ममात्रेण इति ।
किं तावत् प्राप्तम् ।
स्थानान्तरेषु इव आगन्तुकेन केनचित् रूपेण अभिनिष्पत्तिः स्यात् ।
मोक्षस्य अपि फलत्वप्रसिद्धेः ।
अभिनिष्पद्यत इति च उत्पत्तिपर्यायत्वात् ।
स्वरूपमात्रेण चेत् अभिनिष्पत्तिः पूर्वासु अपि अवस्थासु स्वरूप अनापायात् विभाव्येत ।
तस्मात् विशेषेण केनचित् अभिनिष्पद्यत इति ।
एवं प्राप्ते ब्रूमः - केवलेन एव आत्मन आविर्भवति न धर्मान्तरेण इति ।
कुतः - स्वेन रूपेण अभिनिष्पद्यत इति स्वशब्दात् ।
अन्यथा हि स्वशब्देन इति विशेषणम् अनवकॢप्तं स्यात् ।
ननु आत्मीय अभिप्रायः स्वशब्दो भविष्यति ।
न ।
तस्य अवचनीयत्वात् ।
येन एव हि केनचित् रूपेण अभिनिष्पद्यते तस्य एव आत्मीयत्व उपपत्तेः स्वेन इति विशेषणम्न अर्थकं स्यात् ।
आत्मवचनतायां तु अर्थवत् केवलेन एव आत्मरूपेण अभिनिष्पद्यते न आगन्तुकेन अपररूपेणापि इति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0