ब्रह्मसूत्र2 (टीका सहित) · अध्याय 71
उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह- वायुमब्दात् ।
अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह- स एतमिति ।
अत्राग्न्यनन्तरं पठितो वायुर्विषयः ।
स किं अर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते- उच्यत इति ।
पुरुषः उपासको ऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः ।
इदानीं पूर्वपक्षमाह- कस्मात्पुनरिति ।
पाठबलादर्चिषो ऽनन्तरो वायुरित्यर्थः ।
कौषीतकिनां पाठमात्रं, न क्रमविशेषवाची कश्चिच्छब्दो ऽस्ति ।
काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः ।
अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वं, वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह- वाजेति ।
तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह- वायुमब्दादिति त्विति ।
संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः ।
तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम्
एन्द् ब्स्चोम्_4,3.2.2
स्तर्त् ब्स्चोम्_4,3.3.3
3 तडिदधिकरणम् । सू. 3
तटितो ऽधि वरुणः संबन्धात् । ब्ब्स्_4,3.3 ।
ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्ऽ (छा. 4.15.5) इति अस्या विद्युत उपरिष्टात् स वरुणलोकम् इति अयं वरुणः संबध्यते ।
अस्ति हि संबन्धो विद्युत् वरुणयोः ।
यदा हि विशाल अविद्युतः तीव्रः तनितनिः घोषा जीमूत उदरेषु प्रनृत्यन्ति आथापः प्रपतन्ति ।
विद्योतते स्तनयति ऽवर्षिष्यति वाऽ (छा. 7.11.1) इति च ब्राह्मणम् ।
अपां च अधिपतिः वरुण इति श्रुतिस्मृतिप्रसिद्धिः ।
वरुणात् अधीन्द्रप्रजापती स्थानान्तर अभावात् पाठसामर्थ्यात् च ।
आनन्तुकत्वात् अपि वरुणादीनाम् अन्त एव निवेशो वैशेषिकस्थानाभावात् विद्युत् च अन्त्य अर्चिरादौ वर्त्मनि
एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह- तडितो ऽधि वरुणः संबन्धात् ।
पठितो वरुणादिर्मार्गपर्वत्वेन संबध्यते न वेति संदेहे ऽर्चिषो ऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न संबध्यत इति प्राप्ते सिद्धान्तमाह- आदित्यादिति ।
अपां विद्युत्कार्यत्वेन संबन्धे मानमाह- विद्योतत इति ।
वरुणस्याब्द्वारा विद्युसंबन्धात् ऽआगन्तुकानामन्ते निवेशःऽइति न्यायाय्च्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः
एन्द् ब्स्चोम्_4,3.3.3
स्तर्त् ब्स्चोम्_4,3.4.4
4 आतिवाहिक अधिकरणम् । सू. 4-6
आतिवाहिकास् तल्लिङ्गात् । ब्ब्स्_4,3.4 ।
तेषु एव अर्चिरादिषु संशयः - किम् एतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृणाम् इति ।
तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तम् ।
तत्स्वरूपत्वात् उपदेशस्य ।
यथा हि लोके कश्चित् ग्रामं नगरं वा प्रतिष्ठासमानः अनुशिष्यते गच्छेतः त्वम् अमुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसि इति एवम् इह अपि अर्चिषो अहरह्न आपूर्यमाणपक्षिम् इत्यादि आह ।
अथवा भोगभूमय इति प्राप्तम् ।
तथा हि - ऽलोकशब्देनाग्न्यादीननुबध्नाति अग्निलोकमागच्छतिऽ (कौषी. 1.3) इत्यादि ।
लोकशब्दः च प्राणिनां भोगायतनेषु भाष्यते - ऽमनुष्यलोकः पितृलोको देवलोकःऽ (बृ. 1.5.16) इति च ।
तथा च ब्राह्मणम् - ऽअहोरात्रेषु ते लोकेषु सज्जन्तेऽ इत्यादि ।
तस्मात् न अतिवाहिका अर्चिरादयः ।
अचेतनत्वात् अपि एतेषाम् अतिवाहिकत्व अनुपपत्तिः ।
चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेषु अतिवाह्यान् अतिवाहयन्ति इति ।
एवं प्राप्ते ब्रूमः - आतिवाहिका एव एते भवितुम् अर्हन्ति ।
कुतः - तल्लिङ्गात् ।
तथा हि ऽचन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एतान्ब्रह्म गमयतिऽ (छा. 4.15.5) इति सिद्धत् गमयितृत्वं दर्शयति ।
तत् वचनं तत् विषयम् एव उपक्षीणम् इति चेत् ।
न ।
प्राप्तमानवत्व निवृत्तिपरत्वात् विशेषणस्य ।
यदि अर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तत् निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति
एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति- आतिवाहिकास्तल्लिङ्गात् ।
चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः ।
आद्यपक्षद्वयं पूर्वपक्षः ।
अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति- एवमित्यादिना ।
यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते- तद्वचनमिति ।
पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतो ऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह- नेति ।
नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः ।
नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति- नन्विति
एन्द् ब्स्चोम्_4,3.4.4
स्तर्त् ब्स्चोम्_4,3.4.5
ननु तल्लिङ्गमात्रम् अगमकं न्याय अभावात् ।
न एष दोषः ।
उभयव्यामोहात् तत् सिद्धेः । ब्ब्स्_4,3.5 ।
ये तावत् अर्चिरादिमार्गाः ते देहवियोगात् संपिण्डितकरणग्रामा इति अस्वतन्त्रा अर्चिरादीनाम् अपि अचेतनत्वात् अस्वातन्त्र्यम् इति अतः अर्चिरादि अभिमानिनः चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ।
लोके अपि हि मत्त मूर्च्छितादयः संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति ।
अनवस्थितत्वात् अपि अर्चिरादीनां न मार्गलक्षणत्व उपपत्तिः ।
न हि रात्रौ प्रेतस्य अहःस्वरूप अभिसंभव उपपद्यते ।
न च प्रतिपालनमस्ति इति उक्तं पुरस्तात् ।
ध्रुवत्वात् तु देवता आत्मानां न अयं दोषो भवति ।
अर्चिरादि शब्दता च एषाम् अर्चिरादि अभिमानात् उपपद्यते ऽअर्चिषो ऽहःऽ(छा. 4.15.5, 5,10.1) इत्यादिनिर्देशः तु अतिवाहिकत्वे अपि न विरुध्यते अर्चिषा हेतुना अहः अभिसंभवति ।
अह्ना हेतुना आपूर्यमाणपक्षम् इति ।
तथा च लोके प्रसिद्धेषु अपि अतिवाहिकेषु एवञ्जातीयक उपदेशो दृश्यते ।
गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तम् इति ।
अपि च उपक्रमे ऽते ऽर्चिरभिसंभवन्तिऽ (बृ. 6.2.15) इति संबन्धमात्रमुक्तं न संबन्धविशेषः कश्चित् ।
उपसंहारे तु ऽस एतान्ब्रह्म गमयति (छा. 4.15.6) इति संबन्धविशेषः अतिवाहि अतिवाहकत्व लक्षण उक्तः तेन स एव उपक्रमे अपि इति निर्धार्यते ।
संपिण्डितकरणत्वात् एव च गन्तृषु न तत्र उपभोगसंभवः ।
लोकशब्दः तु अनुपभुञ्जानेषु अपि गन्तृषु गमयितुं शक्यते ।
अन्येषां तत् लोकवासिनां भोगभूमित्वात् ।
अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते वायुस्वामिकं प्राप्तो वायुना इति योजयितव्यम्
यद्यनेतारो ऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेदमिति सूत्रार्थः ।
पूर्वपक्षद्वयं दूषयति- अनवस्थितत्वादित्यादिना ।
अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।
यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह- अर्चिषो ऽहरिति ।
चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह- अपिचेति ।
यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह- संपिण्डितेति ।
सूत्रान्तरं गृह्णाति- कथं पुनरिति
एन्द् ब्स्चोम्_4,3.4.5
स्तर्त् ब्स्चोम्_4,3.4.6
कथं पुनः अतिवाहिकत्वपक्षे वरुणादिषु तत्संभवः ।
विद्युतो हि अधि वरुणादय उपक्षिप्ता विद्युतः तु अनन्तरमा ब्रह्मप्राप्तेः अमानवस्य एव पुरुषस्य गमयितृत्वं श्रुतम् इति ।
अत उत्तरं पठति -
वैद्युतेनैव ततस् तच्छ्रुतेः । ब्ब्स्_4,3.6 ।
ततो विद्युत् अभिसंभवनात् ऊर्ध्वं विद्युत् अनन्तरवर्तिन एव अमानवेन पुरुषेण वरुणलोकादिषु अतिवाह्यमाना ब्रह्मलोकं गच्छन्ति इति अवगन्तव्यम् ।
ऽतान्वैद्युतात्पुरुषो ऽमानवः स एत्य ब्रह्मलोकं गमयतिऽ इति तस्य एव गमयितृत्वश्रुतेः ।
वरुणादयः तु तस्य एव अप्रतिबन्धकरणेन साहाय्य अनुष्ठानेन वा केनचित् अनुग्राहका इति अवगन्तव्यम् ।
तस्मात् साधु उक्तम् अतिवाहिका देवतात्मानः अर्चिरादय इति
आमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः ।
श्रुतौ वैद्युताल्लोकादित्यर्थः ।
श्रुत्या वरुणादीनां नेतृत्वाभावे ऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः
एन्द् ब्स्चोम्_4,3.4.6
स्तर्त् ब्स्चोम्_4,3.5.7
5 कार्य अधिकरणम् । सू. 7-14
कार्यं बादरिरस्य गत्युपपत्तेः । ब्ब्स्_4,3.7 ।
ऽस एनान्ब्रह्म गमयति (छा. 4.15.5) इति अत्र विचिकित्स्यते - किं कार्यम् अपरं ब्रह्म गमयति आहोस्वित् परम् एव अविकृतं मुख्यं ब्रह्म इति ।
कुतः संशयः ।
ब्रह्मशब्दप्रयोगात् गतिश्रुतेः च ।
तत्र कार्यमेव सगुणम् अपरं ब्रह्म एनान् गमयति अमानवः पुरुष इति बादरिः आचार्यो मन्यते ।
कुतः - अस्य गति उपपत्तेः ।
अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपत्तेः ।
अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपद्यते प्रदेशवत्त्वात् ।
न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिः वा अवकल्पते ।
सर्वगतत्वात् प्रत्यगात्मत्वात् च गन्तृणाम्
एवं मार्गं निरूप्य गन्तव्यं चिन्तयति- कार्यं बादरिरस्य गत्युपपत्तेः ।
परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह- तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं, दृष्टं, ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः
एन्द् ब्स्चोम्_4,3.5.7
स्तर्त् ब्स्चोम्_4,3.5.8
विशेषितत्वाच् च । ब्ब्स्_4,3.8 ।
ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. 6.2.15) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषय एव गतिः इति गम्यते ।
नहि बहुवचनेन विशेषणं परस्मिन् ब्रह्मणि अवकल्पते ।
कार्ये तु अवस्थाभेद उपपत्तेः संभवति बहुवचनम् ।
लोकश्रुतिः अपि विकारगोचरायाम एव संनिवेशविशिष्टायां भोगभूमावौ आञ्जसी ।
गौणी तु अन्यत्र ऽब्रह्मैव लोक एष सम्राट्ऽ इत्यादिषु ।
अधिकरण अधिकर्तव्यनिर्देशः अपि परस्मिन् ब्रह्मणि अनाञ्जसः स्यात् ।
तस्मात् कार्यविषयमेव इदं नयनम्
ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह- विशेषितत्वाच्चेति ।
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः ।
नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहायः ।
न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः
एन्द् ब्स्चोम्_4,3.5.8
स्तर्त् ब्स्चोम्_4,3.5.9-12
ननु कार्यविषये अपि ब्रह्मशब्दो न उपपद्यते समन्वये हि समस्तस्य जगतो जन्मादिकारणं स्थापितम् इति ।
अत्र उच्यते -
सामीप्यात् तु तद्व्यपदेशः । ब्ब्स्_4,3.9 ।
तु शब्द आशङ्का व्यावृत्त्यर्थः ।
परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः तस्मिन् अपि ब्रह्मशब्दप्रयोगो न विरुध्यते ।
परम् एव हि ब्रह्म विशुद्ध उपाधिसंबन्धं क्वचित् कैश्चित् विकारधर्मैः मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरम् इति स्थितिः
ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते ।
न हि परस्मात् ब्रह्मणः अन्यत्र क्वचित् नित्यतां संभावयन्ति ।
दर्शयति च देवयानेन पथा प्रस्थितानाम् अनावृत्तिम् ।
ऽएतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्तेऽ (छा. 4.15.6) इति तेषाम् इह न पुनरावृत्तिः अस्ति ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. 8.6.6), क. 6.16) इति चेत् ।
अत्र ब्रूमः -
कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् । ब्ब्स्_4,3.10 ।
कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्र एव उत्पन्नसम्यग्दर्शनाः सन्तः तत् अध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्त इति ।
क्रममुक्तिः अनावृत्त्यादि श्रुति अभिधानेभ्यो अभ्युपगन्तव्या ।
न हि आञ्जस एव गतिपूर्विका परप्राप्तिः संभवति इति उपपदितम्
स्मृतेश् च । ब्ब्स्_4,3.11 ।
स्मृतिः अपि एतम् अर्थम् अनुजानाति - ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽइति ।
तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः
कं पुन- पूर्वपक्षम् आशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ऽकार्यं बादरिःऽ (ब्र.सू. 4.3.7) इत्यादिन इति ।
स इदानीं सूत्रैः एव उपदर्श्यते -
परं जैमिनिर् मुख्यत्वात् । ब्ब्स्_4,3.12 ।
जैमिनिः तु आचार्यः ऽस एनान्ब्रह्म गमयतिऽ(छा. 4.15.6) इति अत्र परमेव ब्रह्म प्रापयति इति मन्यते ।
कुतः - मुख्यत्वात् ।
परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यम् आलम्बनं, गौणम् अपरं, मुख्यगौणयोगः च मुख्ये संप्रत्ययो भवति
प्रतिसंचरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कुतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।
एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह- कं पुनरित्यादिना
एन्द् ब्स्चोम्_4,3.5.9-12
स्तर्त् ब्स्चोम्_4,3.5.13
दर्शनाच् च । ब्ब्स्_4,3.13 ।
ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. 8.6.6, क. 6.16) इति च गतिपूर्वकम् अमृतत्वं दर्शयति ।
अमृतत्वं च परस्मिन् ब्रह्मणि उपपद्यते न कार्ये, विनाशित्वात् कार्यस्य ।
ऽअथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्ऽ (छा. 7.24.1) इति प्रवचनात् ।
परविषय एव च एषा गतिः कठवल्लीषु पठ्यते ।
न हि तत्र विद्यान्तरप्रक्रमः अस्ति ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. 2.14) इति परस्य एव ब्रह्मणः प्रक्रान्तत्वात्
दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता
एन्द् ब्स्चोम्_4,3.5.13
स्तर्त् ब्स्चोम्_4,3.5.14
न च कार्ये प्रतिपत्त्यभिसंधिः । ब्ब्स्_4,3.14 ।
अपि च ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. 8.14.1) इति न अयं कार्यविषयः प्रतिपत्ति अभिसंधिः ऽनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. 8.14.1) इति कार्यविलक्षणस्य परस्य एव ब्रह्मणः प्रकृतत्वात् ।
ऽयशो ऽहं भवामि ब्राह्मणानाम्ऽ (छा. 8.14.1) इति च सर्वात्मत्वेन उपक्रमणात् ।
ऽन तस्य प्रतिमा अस्ति, यस्य नाममहद्यशःऽ (श्वेता. 4.19) इति च परस्य एव ब्रह्मणो यशोनामत्व प्रसिद्धेः ।
ऽसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्ऽ (छा. 8.5.3) इति अत्र ।
पदेरपि च गत्यर्थत्वात् मार्ग अपेक्षा अवसीयते ।
तस्मात् परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् ।
तौ एतौ द्वौ पक्षौ आचार्येण सूत्रितौ गति उपपत्त्यादिभिः
एको मुख्यत्वादिभिः अपरः ।
तत्र गति उपपत्त्यादयः प्रभवन्ति मुख्यत्वादीन आभासयितुं न तु मुख्यत्वादयो गति उपपत्त्यादीन् इत्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयः पूर्वपक्षः ।
न हि असति अपि संभवे मुख्यस्य एव अर्थस्य ग्रहणम् इति कश्चित् आज्ञापयिता विद्यते ।
परविद्याप्रकरणे अपि च तत् स्तुत्यर्थं विद्यान्तर आश्रयगति अनुकीर्तनम् उपपद्यते ऽविष्वङ्ङन्या उत्क्रमणे भवन्तिऽ (छा. 8.6.6) इतिवत् ।
ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा. 8.14.1) इति तु पूर्ववाक्यविच्छेदेन कार्ये अपि प्रतिपत्ति अभिसंधिः न विरुध्यते ।
सगुणे अपि च ब्रह्मणि सर्वात्मत्व संकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवत् अवकल्पते ।
तस्मात् अपरविषया एव गतिश्रुतयः ।
केचित् पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इति एतां व्यवस्थानम् अनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नं गन्तव्यत्व अनुपपत्तेः ब्रह्मणः ।
यत् सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. 3.4.1) ऽय आत्मा सर्वान्तरःऽ (बृ. 3.4.1) ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2) ऽब्रह्मैवेदं विश्वमिदं वरिष्ठम्ऽ (मु. 2.2.11) इत्यादि श्रुतिनिर्धारित विशेषं तस्य गन्तव्यता न कदाचित् अपि उपपद्यते ।
न हि गतमेव गम्यते ।
अन्यो हि अन्यत् गच्छति इति प्रसिद्धं लोके ।
ननु लोके गतस्य अपि गन्तव्यता देशान्तरविशिष्टा दृष्टा ।
यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति इति ।
तथा अनन्यत्वे अपि सर्वशक्ति उपेतत्वात् कथञ्चित् गन्तव्यता स्यात् इति ।
न ।
प्रतिषिद्धसर्वविशेषत्वात् ब्रह्मणः ।
ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ(श्वेता. 6.19) ऽअस्थूलमनण्वह्रस्वमदीर्घम्ऽ(बृ. 3.8.8) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु. 2.1.2) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ(बृ. 4.4.25) ऽस एष नेति नेत्यात्माऽ(बृ. 3.9.23) इत्यादि श्रुति स्मृति न्यायेभ्यो न देशकालादि विशेषयोगः परमात्मनि कल्पयितुं शक्यते ।
येन भूप्रदेश वयोवस्था न्यायेन अस्य गन्तव्यता स्यात् ।
भूवयसोः तु प्रदेश अवस्थादि विशेषयोगात् उपपद्यते देश काल विशिष्टा गन्तव्यता ।
जगत् उत्पत्ति स्थिति प्रलयहेतुत्व श्रुतेः अनेकशक्तित्वं ब्रह्मण इति चेत् ।
न ।
विशेषनिराकरणश्रुतीनाम् अनन्यार्थत्वात् ।
उत्पत्त्यादिश्रुतीनाम् अपि समानम् अनन्यार्थत्वम् इति चेत् ।
न ।
तासाम् एकत्वप्रतिपादनपरत्वात् ।
मृदादि दृष्टान्तैः हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च आवृतत्वं प्रतिपादयत् शास्त्रं न उत्पत्त्यादिपरं भवितुम् अर्हति ।
कस्मात् पुनः उत्पत्त्यादि श्रुतीनां विशेषत्वं न पुनः इतर शेषत्वम् इतरासाम् इति ।
उच्यते - विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् ।
न हि आत्मन एकत्व नित्यत्व शुद्धत्वादि अवगतौ सत्यां भूयः काचित् आकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्धि उपपत्तेः ।
ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा. 7) ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. 4.2.4) ऽविद्वान्न बिभेति कुतश्चन ।
एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्ऽ (तैत्ति. 2.9.1) इत्यादिश्रुतिभ्यः ।
तथा एव च विदुषां तुष्टि अनुभवादि दर्शनात् ।
विकार अनृत अभिसंधि अपवादात् च ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इति ।
अतो न विशेषनिराकरण श्रुतीनाम् अन्यशेषत्वम् अवगन्तुं शक्यते ।
न एवम् उत्पत्त्यादि श्रुतीनां निराकाङ्क्षार्थ प्रतिपादनसामर्थ्यम् अस्ति ।
प्रत्यक्षं तु तासाम् अन्यार्थत्वं समनुगम्यते ।
तथा हि ऽतत्रैतच्छ्रुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतिऽ (छा. 6.8.3) इति उपन्यस्य उदर्के सत एव एकस्य जगत् मूलस्य विज्ञेयत्वं दर्शयति ।
ऽयतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति ।
तद्विजिज्ञासस्व ।
तद्ब्रह्मेतिऽ (तै. 3.1.1) इति च ।
एवम् उत्पत्त्यादिश्रुतीनाम् ऐकात्म्य अवगमपरत्वात् न अनेकशक्तियोगो ब्रह्मणः ।
अतः च गन्तव्यत्व अनुपपत्तिः ।
ऽन तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इति च परस्मिन् ब्रह्मणि गतिं निवारयति ।
तत् व्याख्यातं ऽस्पष्टो ह्येकेषाम्ऽ (ब्र. सू. 4.2.13) इत्यत्र ।
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवो विकारो वा ततः स्यात् ।
अत्यन्त तादात्म्ये गमन अनुपपत्तेः ।
यदि एवं ततः किं स्यात् ।
उच्यते ।
यदि एकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनः ब्रह्मगमनम् उपपद्यते ।
एकदेशित्व कल्पना च ब्रह्मणि अनुपपन्ना निरवयवत्व प्रसिद्धेः ।
विकारपक्षे अपि एतत् अतुल्यं विकारेण अपि विकारिणो नित्यप्राप्तत्वात् ।
न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः ।
विकार अवयवपक्षयोः च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनम् अपि अनवकॢप्तम् ।
अथ अन्य एव जीवो ब्रह्मणः ।
सः अणुः व्यापी मद्यम परिमाणो वा भवितुम् अर्हति ।
व्यापित्वे गमन अनुपपत्तिः ।
मध्यम परिमाणत्वे च अनित्यत्वप्रसङ्गः ।
अणुत्वे कृत्स्नशरीरवेदना अनुपपत्तिः ।
प्रतिषिद्धे च अणुत्व मध्यम परिमाणत्वे विस्तरेण पुरस्तात् ।
परस्मात् च अन्यत्वे जीवस्य ऽतत्त्वमसिऽ (छा. 6.8.7) इत्यादि शास्त्र बाध प्रसङ्गः ।
विकार अवयवपक्षयोः अपि समानः अयं दोषः ।
विकार अवयवयोः तद्वतोः अनन्यत्वात् अदोष इति चेत् ।
न ।
मुख्य एकत्व अनुपपत्तेः ।
सर्वेषु एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः ।
संसारि आत्मत्व अनिवृत्तेः ।
निवृत्तौ वा स्वरूपनाशप्रसङ्गः ।
ब्रह्मात्मत्व अनभ्युपगमात् च ।
यत् तु कैश्चित् जल्प्यते नित्यानि नैमित्तिकानि कर्माणि अनुष्ठीयन्ते प्रत्यवाय अनुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकान् अवाप्तये सांप्रतदेह उपभोग्यानि च कर्माणि उपभोगेन एव क्षप्यन्त इत्यतो वर्तमानदेहपातात् ऊर्ध्वं देहान्तर प्रतिसंधान कारण अभावात् स्वरूप अवस्थानलक्षणं कैवल्यं विना अपि ब्रह्मात्मतय एवंवृत्तस्य सेत्स्यति इति ।
तत् असत् ।
प्रमाण अभावात् ।
न हि एतत् शास्त्रेण केनचित् प्रतिपादितं मोक्षार्थि इत्थं समाचरेत् इति ।
स्वमनीषया तु एतत् तर्कितं यस्मात् कर्मनिमित्तः संसारः तस्मात् निमित्त अभावात् न भविष्यति इति ।
न च एतत् तर्कयितुम् अपि शक्यते निमित्त अभावस्य दुर्ज्ञानत्वात् ।
बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्ट अनिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते ।
तेषां विरुद्ध फलानां युगपत् उपभोग असंभवात् कानिचित् लब्ध अवसराणि इदं जन्म निर्मिमते कानिचित् तु देशकालनिमित्तप्रतीक्षाणि असत इति अतः तेषाम् अवशिष्टानां सांप्रतेन उपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्य अपि वर्तमानदेहपाते देहान्तरनिमित्त अभावः शक्यते निश्चेतुम् ।
कर्मशेषसद्बावसिद्धः च ऽतद्य इह रमणीयचरणास्ततः शेषेणऽ इत्यादि श्रुति स्मृतिभ्यः ।
स्यात् एतत् ।
नित्य नैमित्तिकानि तेषां क्षेपकाणि भविष्यन्ति इति ।
तत् न ।
विरोध अभावात् ।
सति हि विरोधे क्षेप्यक्षेपकभावो भवति ।
न च जन्मान्तर संचितानां सुकृतानां नित्य नैमित्तिकैः अस्ति विरोधः ।
शुद्धरूपत्व अविशेषात् ।
दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणं न तु तावता देहान्तर निमित्त अभावसिद्धिः ।
सुकृतनिमित्तत्व उपपत्तेः ।
दुश्चरितस्य अपि अशेषक्षपण अनवगमात् ।
न च नित्य नैमित्तिकानुष्ठानात् प्रत्यवाय अनुत्पत्तिमात्रं न पुनः फलान्तर उत्पत्तिः इति प्रमाणम् अस्ति फलान्तरस्य अपि अनुनिष्पादिनः संभवात् ।
स्मरति हि आपस्तम्बः - ऽतद्यथाम्रे फलार्ते निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणार्था अनूत्पद्यन्तेऽ इति ।
न च असति सम्यक् दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तरालं केनचित् प्रतिज्ञातुं शक्यम् ।
सुनिपुणानम् अपि सूक्ष्म अपराधदर्शनात् ।
संशयितव्यं तु भवति तथा अपि निमित्त अभावस्य दुर्ज्ञानत्वमेव ।
न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्व भोक्तृत्व स्वभावस्य आत्मनः कैवल्यम् आकाङ्क्षितुं शक्यम् ।
अग्नि औष्ण्यवत् स्वभावस्य अपरिहार्यत्वात् ।
स्यात् एतत् ।
कर्तृत्व भोक्तृत्व कार्यम् अनर्थो न तत् शक्तिः तेन शक्ति अवस्थाने ऽपि कार्यपरिहारत् उपपन्नो मोक्ष इति ।
तत्च न ।
शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।
अथ अपि स्यात् न केवला शक्तिः कार्यम् आरभते अनपेक्ष्य अन्यानि निमित्तानि ।
अत एकाकिनी सा स्थितापि न अपराध्यति इति ।
तत् च न ।
निमित्तानाम् अपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् ।
तस्मात् कर्तृत्व भोक्तृत्व स्वभावे सत्याम् अन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथञ्चन मोक्षं प्रत्याशा अस्ति ।
श्रुतिः च - ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वेता. 3.8) इति ज्ञानात् अन्यं मोक्षमार्गं वारयति ।
परस्मात् अनन्यत्वे अपि जीवस्य सर्वव्यवहार लोपप्रसङ्गः ।
प्रत्यक्षादि प्रमाण अप्रवृत्तेः इति चेत् ।
न ।
प्राक् प्रबोधात् स्वप्नव्यवहारवत् तत् उपपत्तेः ।
शास्त्रं च ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ. 2.4.14, 4.5.15) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादि व्यवहारम् उक्त्वा पुनः प्रबुद्धविषये ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 2.4.14, 4.5.15) इत्यादिना तत् अभावं दर्शयति ।
तत् एवं परब्रह्मविदो गन्तव्यादि विज्ञानस्य बाधितत्वात् न कथञ्चन गतिः उपपादयितुं शक्या ।
किंविषयाः पुनः गतिश्रुतय इति ।
उच्यते - सगुणविद्याविषया भविष्यन्ति ।
तथा हि क्वचित् पञ्चाग्निविद्यां प्रकृत्य गतिः उच्यते यथा ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ (छा. 4.10.5) इति ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. 8.1.1) इति च तत्र अपि वामनीत्वादिभिः सत्यकामादिभिः च गुणैः सगुणस्य एव उपास्यत्वात् संभवति गतिः ।
न क्वचित् परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. 4.4.6) इति ।
ऽब्रह्मविदाप्नोति परम्ऽ(तै. 2.1.1) इत्यादिषु तु सत्यपि आप्नोतेः गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्ति असंभवात् स्वरूपप्रतिपत्तिः एव इयम् अविद्या अध्यारोपित नाम रूप प्रविलय अपेक्षया अभिधीयते ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.7) इत्यादिवत् इति द्रष्टव्यम् ।
अपि च परविषया गतिः व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा ।
तत्र प्ररोचनं तावत्
ब्रह्मविदो न गति उक्त्या क्रियते ।
स्वसंवेद्येन एव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत् सिद्धेः ।
न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गति अनुचिन्तने काचित् अपेक्षा उपपद्यते ।
तस्मात् अपरब्रह्मणि वर्तमाना गतिः ।
तत्र पर अपरब्रह्मविवेक अनवधारणेन अपरस्मिन् ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन् अध्यारोप्यन्ते ।
किं द्वे ब्रह्मणी परम् अपरं च इति ।
बाढं द्वे ऽएतद्वै सत्यकाम परं चापरं ब्रह्मयदोङ्कारःऽ (प्र. 5.2) इत्यादि दर्शनात् ।
किं पुनः परं ब्रह्म किम् अपरम् इति ।
उच्यते ।
यत्र अविद्याकृत नाम रूपादि विशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्म उपदिश्यते तत् परम् ।
तत् एव यत्र नामरूपादिविशेषेण केनचित् विशिष्टम् उपासनाय उपदिश्यते ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. 3.14.2) इत्यादिशब्दैस्तदपरम् ।
ननु एवम् अद्वितीयश्रुतिः उपरुध्येत ।
न ।
अविद्याकृत नाम रूप उपाधिकतया परिहृतत्वात् ।
तस्य च अपरब्रह्म उपासनस्य तत् संनिधौ श्रूयमाणम् ऽस यदि पितृलोककामो भवतिऽ (छा. 8.2.1) इत्यादि जगत् ऐश्वर्यलक्षणं संसारगोचरम् एव फलं भवति ।
अनिवर्तितत्वात् अविद्यायाः ।
तस्य च देशविशेष अवबद्धत्वात् तत्प्राप्त्यर्थं गमनम् अविरुद्धम् ।
सर्वगतत्वे अपि च आत्मन आकाशस्य इव घटादिगमने बुध्यादि उपाधिगमने गमनप्रसिद्धिः इति अवादिष्म ऽतद्गुणसारत्वात्ऽ (ब्र.सू. 2.3.29) इत्यत्र ।
तस्मात् ऽकार्यं बादरिः (ब्र. सू. 4.3.7) इत्येष एव स्थितः पक्षः ।
ऽपरं जैमिनिःऽ (ब्र.सू. 4.3.12) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनाय इति द्रष्टव्यम्
एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तं, संप्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसंकल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति- नच कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः ।
यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसंकल्प एवायमित्यर्थः ।
अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह- सा चेति ।
तत्तत्र ब्रह्मलोके विद्याविधीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता ।
तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।
किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह- पदेरपीति ।
पूर्वपक्षमुपसंहरति- तस्मादिति ।
आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसंक्रमते- ताविति ।
ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्व्ःअं स्फुटयति- नहीति ।
गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः संकल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसंभवान्मुख्यार्थत्याग इत्यर्थः ।
यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्यःएव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।
यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह- परेति ।
यथा विद्यासंबद्धसुषुम्नास्तुत्यर्थं तदसंबद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणे ऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः ।
यदप्युक्तं प्राप्तिसंकल्पो ऽपि प्रकृतपरविषय इति तन्नेत्याह- प्रजापतेरिति ।
प्रजापतिसभावेश्मश्रुतिभिस्तत्संघातात्मकवाक्येन च प्रकरणं, बाध्यं, यशो ऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थ ।
स्वपक्षमुक्त्वा परमतं दूषयति- केचिदित्यादिना ।
सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते- नन्विति ।
यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् ।
ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह- सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसो ऽपि कालान्तरे ऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः ।
अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह- नेत्यादिना ।
ऽअनादिमत्परं ब्रह्मऽइत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः ।
सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यं, निर्विशेषं तु नास्त्येवेति शङ्कते- जगदुत्पत्तीति ।
किं निर्विशेषस्यासत्त्वं मानभावात्सविशेषश्रुतिविरोधाद्वा ।
नाद्य इत्याह- नेति ।
द्वितीयं शङ्कते- उत्पत्त्यादीति ।
सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह- नेति ।
निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह- कस्मादिति ।
तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्संनिधावफलं तदङ्गमिति न्यायादित्याह-उ च्यत इत्यादिना ।
न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह- प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये ।
तथा तैत्तिरीयके ऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः ।
एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह- एवमिति ।
स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह- न तस्येति ।
एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति- गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः ।
नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह- अत्यन्तेति ।
कल्पत्रये किं दूषणमिति पृच्छति- यद्येवमिति ।
कल्पद्वये ऽपि दोषान्तरमाह- विकारावयवपक्षयोश्चेति ।
विकारावयवरूपजीवविशिष्टस्यः ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् ।
नह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यथ्रः ।
अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः ।
तृतीयकल्पमनूद्य विकल्प्य दूषयति- अथेत्यादिना ।
अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह- विकारावयवयोरिति ।
भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति- नेति ।
किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् ।
नचास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशे ऽपि न नश्येदित्याह- सर्वेष्विति ।
ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति- यत्त्वित्यादिना ।
तदिति ।
एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः ।
तर्क एव मानमित्यत आह- न चैतत्तर्कयितुमिति ।
ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह- कर्मशेषसद्भावसिद्धिश्चेति ।
सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते- स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् ।
पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति संचितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह- तन्नेत्यादिना ।
क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह- नच नित्येति ।
प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।
तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।
तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह- संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः ।
ब्रह्मभिन्नस्य जीवस्यं कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह- नचेति ।
कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते- स्यादेतदिति ।
कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसंबद्धत्वान्मोक्षो न स्यादिति परिहरति- तच्चेत्यादिना ।
मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति- परस्मादित्यादिना ।
प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति- तदेवमिति ।
ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह- ब्रह्मविदाप्नोतीति ।
वैफल्याच्च गतेर्न परविषयत्वमित्याह- अपिचेति ।
अनुचिन्तनपक्षं प्रत्याह- नच नित्यसिद्धति ।
कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्तेत्याह- तत्र परापरेति ।
प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह- किं द्वे इत्यादिना ।
व्यापिनो जीवस्य कथं गतिस्तत्राह- सर्वगतत्वे ऽपीति
एन्द् ब्स्चोम्_4,3.5.14
स्तर्त् ब्स्चोम्_4,3.6.15
6 अप्रतीक आलम्बन अधिकरणम् । सू. 15-16
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च । ब्ब्स्_4,3.15 ।
स्थितम् एतत् कार्यविषया गतिः न परविषया इति ।
इदम् इदानीं संदिह्यते किं सर्वान् विकार आलम्बनान् अविशेषेण एव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चित् एव इति ।
किं तावत् प्राप्तं सर्वेषाम् एव एषां विदुषाम् अन्यत्र परस्मात् ब्रह्णणो गतिः स्यात् ।
तथा हि - ऽअनियमः सर्वासाम्ऽ - (ब्र. सू. 3.3.31) इति अत्राविशेषेण एव एषां विद्यान्तरेषु अवतारित इति ।
एवं प्राप्ते प्रत्याह - अप्रतीक आलम्बनान् इति ।
प्रतीक आलम्बनान् वर्जयित्वा सर्वान् अन्यान् विकार आलम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते ।
न हि एवम् उभयथा
अभाव अभ्युपगमे कश्चित् दोषः अस्ति ।
अनियम न्यायस्य प्रतीकव्यतिरिक्तेषु अपि उपासनेषु उपपत्तेः ।
तत्क्रतुः च अस्य उभयथाभावस्य समर्थको हेतुः द्रष्टव्यः ।
यो हि ब्रह्मक्रतुः स ब्राह्मम् ऐश्वर्यम् आसीदेदिति श्लिष्यते ऽतं यथा यतोपासते तदेव भवतिऽ इति श्रुतेः ।
न तु प्रतीकेषु ब्रह्म अक्रतुत्वम् अस्ति प्रतीकप्रधानत्वात् उपासनस्य ।
ननु अब्रह्मक्रतुः अपि ब्रह्मगच्छति इति श्रूयते यथा पञ्चाग्नि विद्यायाम् ऽस एनान्ब्रह्म गमयतिऽ (छा. 4.15.5) इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तत् अभावे तु औत्सर्गिकेण तत् क्रतुन्यायेन ब्रह्मक्रतूनाम् एव तत्प्राप्तिः न इतरेषाम् इति गम्यते
एवं गन्तव्यं निरूप्य गन्तृन्निर्धारयति- अप्रतीकेति ।
ऽस एवैनान् ब्रह्म गमयतिऽइत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च ।
संशयमाह- इदमिति ।
अनियमाधिकरणे तत्त्वविदो ऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमपतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलं, सिद्धान्ते तूभयथाभावसिद्धिः ।
अदोषादिति सूत्रे परच्छेदः, अविरोधादित्यर्थः ।
अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः ।
यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् ।
यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः ।
प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति ।
अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः
एन्द् ब्स्चोम्_4,3.6.15
स्तर्त् ब्स्चोम्_4,3.6.16
विशेषं च दर्शयति । ब्ब्स्_4,3.16 ।
नामादिषु प्रतीक उपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषम् उत्तरस्मिन् उत्तरस्मिन् उपासने दर्शयति - ऽयावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतिऽ (छा. 7.1.5) ऽवाग्वाव नाम्नो भूयसीऽ (छा. 7.2.1) ऽयावद्वाचो गतं तत्रास्य यथाकामचारो भवतिऽ(छा. 7.2.2) ऽमनो वाव वाचो भूयःऽ (छा. 7.3.1)
इत्यादिना ।
स च अयं फलविशेषः प्रतीक तन्त्रत्वात् उपासनानाम् उपपद्यते ।
ब्रह्म तन्त्रत्वे तु ब्रह्मणः अविशिष्टत्वात् कथं फलविशेषः स्यात् ।
तस्मात् न प्रतीक आलम्बनानाम् इतरैः तुल्यफलत्वम् इति
किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह- विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम्
एन्द् ब्स्चोम्_4,3.6.16
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीशङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीयः पादः
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0