भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 70

70.1

एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते- अर्चिरादिना तत्प्रथितेः ।
वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह- आसृतीति ।
विरजा विरजसः निष्पापा इत्यर्थ ।
श्रुतिविप्रतिपत्त्या संशयः ।
पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः ।
उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च ।
किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः ।
उपासनाभेदे ऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यविरुद्धमिति सिद्धान्तयति- एवमिति ।
तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः ।
ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषययेति मार्गभेदं शङ्कते- स्यादेतदिति ।
एकस्यैव मार्गस्यानेकान्याग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः ।
प्रत्यभिज्ञानाच्चेति समाध्यर्थः ।
गन्तव्यैक्यं विवृणोति- तथाहीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः ।
एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदो ऽप्रयोजक इत्युक्तं संप्रत्येवकारत्वरावचनयोर्गतिमाह- यत्त्वित्यादिना ।
रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः ।
यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः ।
मार्गैक्ये लिङ्गमाह- अपिचेति ।
शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः ।
उत्तरमार्गैक्ये ऽप्यर्चिरादिनेति ।
विशेषणे को हेतुरित्यत आह- भूयांसीति

70.2

एन्द् ब्स्चोम्_4,3.1.1
स्तर्त् ब्स्चोम्_4,3.2.2
2 वायु अधिकरणम् । सू. 2
वायुम् अब्दाद् अविशेषविशेषाभ्याम् । ब्ब्स्_4,3.2 ।
केन पुनः संनिवेशविशेषेण गतिविशेषाणानाम् इतरेतर विशेषणविशेष्यभाव इति तत् एतत् सुहृत् भूत्वा आचार्यो ग्रथयति ।
ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्ऽ(कौ. 1.3) इति कौषीतकीनां देवयानः पन्थाः पठ्यते ।
तत्र अर्चिः अग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वात् इति न अत्र संनिवेशक्रमः क्वचित् अन्वेष्यः ।
वायुः तु अर्चिरादौ वर्त्मनि न श्रुतः कतम् अस्मिन् स्थाने निवेशयितव्य इति ।
उच्यते - ऽते ऽर्चिषमेवाभिसंभवन्त्यर्चिषो ऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मांसास्तान् मासेभ्यःसंवत्सरं संवत्सरादित्यम्ऽ (छा. 5.10.1,2) इति अत्र संवत्सरात् पराञ्चम् आदित्यात् अर्वाञ्चं वायुम् अभिसंभवन्ति ।
कस्मात् ।
अविशेषविशेषाभ्याम् ।
तथा हि - ऽस वायुलोकम् ऽ(कौ. 1.3) इति अत्राविशेष उपदिष्टस्य वायोः श्रुत्यन्तरे विशेष उपदोशो दृश्यते ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतिऽ (बृ. 5.101) इति ।
एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्द आदित्ययोः अन्तराले वायुः निवेशयितव्यः ।
कस्मात् पुनः अग्नेः परत्वदर्शनात् विशेषात् अर्चिषः अनन्तरं वायुः न निवेश्यते ।
न एषः अस्ति विशेष इति वदामः ।
ननु उदाहृता श्रुतिः - ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्ऽ (कौषी. 1.3) इति ।
उच्यते - केवल- अत्र पाठः पौर्वापर्येणावस्थितो न अत्र क्रमवचनः ।
कश्चित् शब्दः अस्ति ।
पदार्थ उपदर्शनमात्रं हि अत्र क्रियते एतम् एतं च आगच्छति इति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वम् आक्रम्य आदित्यम् आगच्छति इति अवगम्यते क्रमः ।
तस्मात् सूक्तम् अविशेषविशेषाभ्याम् इति ।
वाजसनेयिनः तु ऽमासेभ्यो देवलोकं देवलोकादादित्यम्ऽ (बृ. 6.2.15) इति समामनन्ति ।
तत्र आदित्यान् अन्तर्याय देवलोकात् वायुम् अभिसंभवेयुः ।
वायुम् अब्दात् इति तु छन्दोगश्रुति अपेक्षया उक्तम् ।
छान्दोग्य वाजसनेयकयोः तु एकत्र देवलोको न विद्यते परत्र संवत्सरः ।
तत्र श्रुतिद्वयप्रत्ययात् उभौ अपि उभयत्र ग्रथयितव्यौ ।
तत्र अपि माससंबन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc