ब्रह्मसूत्र2 (टीका सहित) · अध्याय 69
॥ इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः ॥
चतुर्थे ऽध्याये तृतीयः पादः ।
स्तर्त् ब्स्चोम्_4,3.1.1
चतुर्थे ऽध्याये तृतीयः पादः ।
अत्र पादे सगुणविद्यावतो मृतस्य उत्तरमार्ग अभिधानम्
1 अर्चिरादि अधिकरणम् । सू. 1
अर्चिरादिना तत्प्रथितेः । ब्ब्स्_4,3.1 ।
आसृति उपक्रमात् समान उत्क्रान्तिः इति उक्तम् ।
सृतिस्तु श्रुत्यन्तरेषु अनेकधा श्रूयते ।
नाडीरश्मिसंबन्धेन एकधा ऽअथैतैरेव रश्मिभिरूर्ध्व आक्रमतेऽ (छा. 8.6.5) इति ।
अर्चिरादिक एका ऽते ऽर्चिषमभिसंभवन्त्यर्चिषो ऽहःऽ (बृ. 6.2.15) इति ।
ऽस एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छतिऽ (कौ. 1.3) इति अन्या ।
ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छतिऽ (बृ. 5.10.1) इति अपरा ।
ऽसूर्यद्वारेण ते विरजाः प्रयान्तिऽ (मुण्ड, 1.2.11) इति च अपरा ।
तत्र संशयः - किं परस्परं भिन्ना एताः सृतय किं व एक एव अनेकविशेषण इति ।
तत्र प्राप्तं तावत् भिन्नाः एताः सृतय इति ।
भिन्नप्रकरणत्वात् ।
भिन्न उपासनाशेषत्वात् च ।
अपि च ऽअथैतैरेव रश्मिभिःऽ(छा. 8.6.5) इति अवधारणम् अर्चिरादि अपेक्षायाम् उपरुध्येत ।
त्वरावचनं च पीड्येत ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. 8.6.5) इति ।
तस्मात् अन्योन्यभिन्ना एव एते पन्थान इति ।
एवं प्राप्ते अभिदध्महे - अर्चिरादिन इति - सर्वो ब्रह्मप्रेप्सुः अर्चिरादिन एव अध्वना रंहति इति प्रतिजानीमहे ।
कुतः - तत् प्रथितेः ।
प्रथितो हि एष मार्गः सर्वेषां विदुषाम् ।
तथा हि पञ्चाग्निविद्याप्रकरणे ऽये ऽचामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. 6.2.15) इति विद्यान्तरशीलिनाम् अपि अर्चिरादिका सृतिः श्राव्यते ।
स्यात् एतत् ।
यासु विद्यासु न काचित् गतिः उच्यते तासु इयम् अर्चिरादिक उपतिष्ठतां यासु तु अन्या श्राव्यते तासु किम् इति अर्चिरादि आश्रयणम् इति ।
अत्र उच्यते - भवेत् एतदेवं यदि अत्यन्तभिन्ना एव एताः सृतयः स्युः ।
एक एव तु एषा सृतिःअनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेन उपलक्षित इति वदामः ।
सर्वत्र एकदेशप्रत्यभिज्ञानात् इतरेतर विशेषणविशेष्यभाव उपपत्तेः ।
प्रकरणभेदे अपि हि विद्या एकत्वे भवति इतरेतर विशेषण उपसंहारवत् गतिविशेषणानाम् अपि उपसंहारः ।
विद्याभेदे अपि तु गति एकदेशप्रत्यभिज्ञानात् गन्तव्य अभेदात् च गति अभेद एव ।
तथा हि ऽते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ. 6.2.15) ऽतस्मिन्वसन्ति शाश्वतीः समाःऽ (बृ. 5.101) ऽसा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुतेऽ (कौषी. 1.4) ऽतद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दतिऽ (छा. 8.4.3) इति च तत्र तत्र तत् एव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते ।
यत् तु एतैः एव इति अवधारणम् अर्चिरादि आश्रयणे न स्यात् इति ।
न एष दोषः ।
रश्मिप्राप्तिपरत्वात् अस्य ।
न हि एक एव शब्दो रश्मीन् च प्रापयितुम् अर्हति अर्चिरादीन् च व्यावर्तयितुम् ।
तस्मात् रश्मिसंबन्ध एव अयमवधार्यत इति द्रष्टव्यम् ।
त्वरावचनं तु अर्चिरादि अपेक्षायाम् अपि गन्तव्यान्तरापेक्षा शैघ्र्यार्थत्वात् न उपरुध्यते ।
यथा निमिषमात्रेण अत्र आगम्यत इति ।
अपि च ऽअथैतयोः पथोर्नकतरेणाचनऽ (छा. 5.108) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानम् आचक्षाणा पितृयाणव्यतिरिक्तम् एकमेव देवयानम् अर्चिरादिपर्वाणं पन्थानं प्रथयति ।
भूयांसि अर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि तु अन्यत्र ।
भूयसां च अनुगुण्येन अल्पीयसां नयनं न्याय्यम् इति अतः अपि अर्चिरादिना तत् प्रथितेः इति उक्तम्
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0