भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 33

33.2

fन्: उभयोः प्रवृत्तितदाश्रययोः ।
स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यं, तस्य सृष्ट्यर्थं- प्रवृत्तेः अनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् ।
रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह- साम्येति ।
गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित् कार्यं भवति प्रलयाभावप्रसङ्गात् ।
किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।
गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदित्याह- सापीति ।
विपक्षे स्वतन्त्रे प्रवृत्यनुपपत्तिरित्यर्थः ।
केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते ।
अस्यापि गुणेषु व्यभिचारः ।
कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति ऽप्रवृत्तेश्चऽइति सूत्रेण ज्ञापितम् ।
ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शने ऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह- दृष्टाच्चेति ।
अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।
ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति सांख्यः शङ्कते- नन्विति ।
शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति- सत्यमिति ।
तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् ।
, तत्राह- तथापीति ।
केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः संबन्धात्सृष्टिप्रवृत्तिरिति भावः ।
इमं वेदान्तसिद्धान्तं सांख्यो दूषयति- न त्विति ।
सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा ।
न त्वचेतनसंबन्धेनापिचेतनस्य क्वचित्प्रवृत्तिर्दृष्टा ।
तस्मान्न चेतनात्सृष्टिरित्यर्थः ।
मतद्वयं श्रुत्वा मध्यस्थः पृच्छति- किं पुनरिति ।
यस्मिन्नचेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं सांख्यमतं साधु उत येन चेतनेनाश्वादिना प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।
सांख्य आह- नन्विति ।
उभयोः ।
प्रवृत्तितदाश्रययोरित्यर्थः ।
दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।
आत्मनो ऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह- प्रवृत्तीति ।
जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः ।
जीवद्देहः सात्मकः प्राणादिमत्वात्, व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः ।
देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात्,
रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम्,
सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः ।
अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।
आत्मनो ऽप्रत्यक्षत्वे चार्वाकाणां भ्रमो ऽपि लिङ्गमित्याह- अत एवेति ।
अप्रत्यक्षत्वादेवेत्यर्थः ।
देहान्यात्मनः प्रत्यक्षत्वे भ्रमासंभवादिति भावः ।
दर्शनात् ।
प्रवृत्तिचैतन्ययोरिति शेषः ।
प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति- तदभिधीयत इति ।
रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेको स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि संमतमित्याह- लौकायतिकानामपीति ।
यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते- नन्विति ।
मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति- नेति ।
वस्तुत एकत्वे ऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह- न ।
अविद्येति ।
अविद्यकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः संबन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः

33.3

एन्द् ब्स्चोम्_2,2.1.2
स्तर्त् ब्स्चोम्_2,2.1.3
पयो ऽम्बुवच् चेत् तत्रापि । ब्ब्स्_2,2.3 ।
स्यादेतत् ।
यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथाच जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति ।
नैतत्साधूच्यते ।
यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे ।
उभयवादिप्रसिद्धे रथादवचेतने केवले प्रवृत्त्यदर्शनात् ।
शास्त्रं च ऽयो ऽप्सु तिष्ठन् यो ऽपो ऽन्तरो यमयतिऽ (बृ. 3.7.4), ऽएतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नद्यः स्यन्दन्तेऽ (बृ. 3.8.9) इत्येवञ्जातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति ।
तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः ।
चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः ।
वत्सचोषणेन च पयस आकृष्यमाणत्वात् ।
नचाम्बुनो ऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य ।
चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् ।
ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र.सू. 2.1.24) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् ।
शास्त्रदृष्ट्या तु पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते

33.3

fन्: साध्यवत्ता पक्षेण तुल्यत्वात् ।
अनुपन्यासः न विचारभूमिः ।
अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदिति स्थितम् ।
तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे- स्यादेतदित्यादिना ।
साध्यपक्षेति ।
साध्यवता पक्षेणतुल्यत्वादित्यर्थः ।
अनुपन्यासः ।
न व्यभिचारभूमिरिति यावत् ।
क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह- चेतनायाश्चेति ।
उपदर्शितम् ।
अनुमानागमाभ्यामिति शेषः ।
सूत्रकारस्य ऽक्षीरवद्धिऽ ऽतत्रापिऽइति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह- उपसंहारेति

33.4

एन्द् ब्स्चोम्_2,2.1.3
स्तर्त् ब्स्चोम्_2,2.1.4
व्यतिरेकानवस्थितेश् चानपेक्षत्वात् । ब्ब्स्_2,2.4 ।
सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् ।
नतु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्तितमस्ति ।
पुरुषस्तूदासीनो न प्रवर्तको न निवर्तक इत्यतो ऽनपेक्षं प्रधानं, अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम् ।
ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते

33.4

अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तं, तद्व्याचष्टे- सांख्यानामित्यादिना ।
प्रधानव्यतिरेकेण कर्मणो ऽनवस्थितेः पुरुषस्योदासीनत्वात् कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः ।
कर्मणो ऽपि प्रधानात्मकस्याचेतनत्वात् सदासत्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः

33.5

एन्द् ब्स्चोम्_2,2.1.4
स्तर्त् ब्स्चोम्_2,2.1.5
अन्यत्राभावाच् च न तृणादिवत् । ब्ब्स्_2,2.5 ।
स्यादेतत् ।
यथा तृणपल्लवोदादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमत एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति ।
कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ।
निमित्तान्तरानुपलम्भात् ।
यदि हि किञ्चिन्निमित्तमुपलभेमहि ततो यथाकामं तेन तृणाद्युपादाय क्षीरं संपादयेमहि, नतु संपादयामहे ।
तस्मात्स्वाभाविकस्तृणादेः परिणामस्तथा प्रधानस्यापि स्यादिति ।
अत्रोच्यते- भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परणामो यदि तृणादेरपि स्वाभाविकः परिणामो ऽभ्युपगम्येत ।
नत्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः ।
कथं निमित्तान्तरोपलब्धिः, अन्यत्राभावात् ।
धेन्वैव ह्युपयुक्तं तृणादि क्षीरो भवति न प्रहीणमनडुदाद्युपयुक्तं वा ।
यदि हि निर्निमित्तमेतत्स्याद्धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत् ।
नच यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति ।
भवति हि किञ्चित्कार्यं मानुषसंपाद्यं किञ्चिद्दैवसंपाद्यम् ।
मनुष्या अपि शक्नुवत्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् ।
प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति ।
ततश्च प्रभूतं क्षीरं लभन्ते ।
तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः

33.5

fन्: प्रहीणं नष्टम् ।
पुनरपि दृष्टान्तबलात् प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः- अन्यत्रेत्यादिना ।
पृच्छति- कथमिति ।
उत्तरम्- निमित्तान्तरेति ।
धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति- अत्रोच्यत इति ।
प्रहीणं नष्टम् ।
यदुक्तं क्षीरस्य स्वेच्छया संपादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह- नच यथाकाममिति

33.6

एन्द् ब्स्चोम्_2,2.1.5
स्तर्त् ब्स्चोम्_2,2.1.6
अभ्युपगमे ऽप्य् अर्थाभावात् । ब्ब्स्_2,2.6 ।
स्वाभाविकी प्रधानप्रवृत्तिर्न भवतीति स्थापितम् ।
अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषो ऽनुषज्येतैव ।
कुतः ।
अर्थाभावात् ।
यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किञ्चिन्नापेक्षत एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत ।
स यदि ब्रूयात्सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति ।
तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यं भोगो वा स्यादपवर्गो वोभयं वेति ।
भोगश्चेत्कीदृशो ऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ।
अनिर्मोक्षप्रसङ्गश्च अपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
उभयार्थताभ्युपगमे ऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव ।
नचौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः ।
नहि प्रधानस्याचेतनस्यौत्सुक्यं संभवति ।
नच पुरषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् ।
दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव ।
तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्

33.6

fन्: अर्थाभावात् पुरुषार्थाभावप्रसङ्गात् ।
सुखदुःख प्राप्तिपरिहाररूपातिशयशून्यस्य ।
मीयन्ते भुज्यन्ते इति मात्रा भोगाः ।
प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रभृत्यभ्युपगमे पुरुषार्थस्यापेक्षाभावप्रसङ्गादित्येकोर्ऽथः ।
तत्रेष्टापत्तिं निरस्यति- इत्यतः प्रधानमिति ।
उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।
अर्थासंभवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह- स यदीत्यादिना ।
प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह- तथापीति ।
कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः ।
किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात् प्रवृत्तिवैयर्थ्यं, भोगाभावप्रसङ्गश्चेत्यर्थः ।
तृतीयं दूषयति- उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति- नचेति ।
औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात्, अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात्, तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात् प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् ।
न ।
शक्त्योर्नित्यत्वात् सृष्टिनित्यत्वापत्तिरित्याह- दृक्शक्तीति

33.7

एन्द् ब्स्चोम्_2,2.1.6
स्तर्त् ब्स्चोम्_2,2.1.7
पुरुषाश्मवद् इति चेत् तथापि । ब्ब्स्_2,2.7 ।
स्यादेतत् ।
यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिहीनः पङ्गुरपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिहीनमन्धमधिष्ठाय प्रवर्तयति ।
यथा वायस्कान्तो ऽश्मा स्वयमप्रवर्तमानो ऽप्ययः प्रवर्तयति ।
एवं पुरुषः प्रधानं प्रवर्तयिष्यतीति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् ।
अत्रोच्यते- तथापि नैव दोषान्निर्मोक्षो ऽस्ति ।
अभ्युपेतहानं तावद्दोष आपतति ।
प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात्, पुरुषस्य न प्रवर्तकत्वानभ्युपगमात् ।
कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ।
पङ्गुरपि ह्यन्धं वागादिभिः पुरुषं प्रवर्तयति ।
नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारो ऽस्ति, निष्क्रियत्वाच्च ।
नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् ।
संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् ।
अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यस्तीत्यनुपन्यासः पुरुषाश्मवदिति ।
तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः ।
योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः ।
पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः ।
परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयं च प्रवर्तकत्वमित्यस्त्यतिशयः

33.7

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति- पुरुषाश्मवदिति चेत्तथापि ।
प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं सांख्यंप्रत्याह- कथं चेति ।
पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् ।
प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः संनिधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसंनिधिश्चेति व्यापारो ऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः ।
ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः संबन्ध इत्यत आह- योग्यतेति ।
चिज्जडत्वरूपाया योग्यताया नित्यत्वात्संबन्धनित्यत्वापत्तिरित्यर्थः ।
यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगो ऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षो ऽपि फलाभावेन दूषणीय इत्याह- पूर्ववच्चेति ।
सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह- परमात्मेति ।
सांख्यमते उभयं विरुद्धं सत्यत्वात् ।
अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः

33.8

एन्द् ब्स्चोम्_2,2.1.7
स्तर्त् ब्स्चोम्_2,2.1.8
अङ्गित्वानुपपत्तेश् च । ब्ब्स्_2,2.8 ।
इतश्च न प्रधानस्य प्रवृत्तिरवल्पते ।
यद्धि सत्त्वरजस्तमसामान्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानं सा प्रधानावस्था ।
तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गिभावानुपपत्तेः ।
बाह्यस्य च कस्यचित्क्षोभयितुरभावाद्गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात्

33.8

किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी ।
आद्ये दोषमाह- तस्यामिति ।
अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात्, ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः ।
द्वितीयं दूषयति- बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः

33.9

एन्द् ब्स्चोम्_2,2.1.8
स्तर्त् ब्स्चोम्_2,2.1.9
अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्ब्स्_2,2.9 ।
अथापि स्यादन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत ।
नह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् ।
कार्यवशेन तु गुणानां स्वभावो ऽभ्युपगम्यते ।
यथा यथा कार्योत्पाद उपपद्यते तथा तथैषां स्वभावो ऽभ्युपगम्यते ।
चलं गुणवृत्तमिति चास्त्यभ्युपगमः ।
तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति ।
एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव ।
ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत ।
चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् ।
वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् ।
भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन्निति प्रसज्यत एवायमनन्तरो ऽपि दोषः

33.9

गुणानां मिथो ऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम्, तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति- अन्यथेति ।
अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते ।
न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह- चलं गुणवृत्तमिति ।
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति- एवमपीति ।
कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः ।
अङ्गीकारं त्यजति- वैषम्येति

33.10

एन्द् ब्स्चोम्_2,2.1.9
स्तर्त् ब्स्चोम्_2,2.1.10
विप्रतिषेधाच् चासमञ्जसम् । ब्ब्स्_2,2.10 ।
परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः ।
क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश ।
तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहङ्कीरात् ।
तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति क्वचिदेकमिति ।
प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या ।
तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति ।
अत्राह- नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् ।
एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यं स्यात् ।
यदि चेतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् ।
नह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते ।
यो ऽपिजलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादन्यो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः ।
प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके ।
तथाहि- अर्थी चार्थश्चान्योन्यभिन्नौ लभ्येते ।
यद्यर्थिनः स्वतो ऽन्योर्ऽथो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात्, यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति ।
अप्राप्ते ह्यर्थे ऽर्थिनो ऽर्थित्वं स्यादिति ।
तथार्थास्याप्यर्थत्वं न स्यात् ।
यदि स्यात्स्वार्थत्वमेव स्यात् ।
नचैतदस्ति ।
संबन्धिशब्दो ह्येतावर्थी चार्थश्चेति ।
द्वयोश्च संबन्धिनोः संबन्धः स्यान्नैकस्यैव ।
तस्माद्भिन्नावेतावर्थार्थिनौ ।
तथानर्थानर्थिनावपि ।
अर्थिनो ऽनुकूलोर्ऽथः प्रतिकूलो ऽनर्थस्ताभ्यामेकपर्यायेणोभाभ्यां संबध्यते ।
तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थं एवेति तापकः स उच्यते ।
तप्यस्तु पुरुषो य एकः पर्यायेणोभाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः ।
जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते- न ।
एकत्वादेव तप्यतापकभावानुपपत्तेः ।
भवेदेष दोषो यद्येकात्मतायां तप्यतापकावान्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् ।
नत्वेतदस्त्येकत्वादेव ।
नह्यग्निरेकः सन्स्वमात्मानं दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च ।
किं कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः संभवेत् ।
क्व पुनरयं तप्यतापकभावः स्यादिति ।
उच्यते- किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापकः सवितेति ।
ननु तप्तिर्नाम दुःखं सा चेतयितुर्नाचेतनस्य देहस्य ।
यदि हि देहस्यैव तप्तिः स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति ।
उच्यते- देहाभावे ऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा ।
नच त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते ।
नापि देहचेतनयोः संहतत्वमशुद्ध्यादिदोषप्रसङ्गात् ।
नच तप्तेरेव तप्तिमभ्युपगच्छति ।
कथं तवापि तप्यतापकभावः सत्त्वं तप्यं तापकं रज इति चेत् ।
न ।
ताभ्यां चेतनस्य संहतत्वानुपपत्तेः ।
सत्त्वानुरोधित्वाच्चेतनो ऽपि तप्यत इवेति चेत्, परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् ।
न चेत्तप्यते नेवशब्दो दोषाय ।
नहि डुण्डुभः सर्पं इवेत्येतावता सविषो भवति ।
सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति ।
अतश्चाविद्याकृतो ऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति ।
नैवं सति ममापि किञ्चिद्दुष्यति ।
अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत , नित्यत्वाभ्युपगमाच्च तापकस्य ।
तप्यतापकशक्त्योर्नित्यत्वे ऽपि सनिमित्तसंयोगापेक्षत्वापत्तेः संयोगनिमित्तादर्शननिवृत्तावात्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् ।
न ।
अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् ।
गुणानां चोद्भावाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षो ऽपरिहार्यः स्यात् ।
औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तेर्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादनिर्मोक्षशङ्का स्वप्ने ऽपि नोपजायते ।
व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्यः परिहर्तव्यो वा भवति

33.10

fन्: त्वड्यात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, सर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश ।
बुद्धिरहङ्कारो मन इति त्राणि ।
एकमिति बुद्धिरेव ।
सूत्रं व्याचष्टे- परस्परेति ।
त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणं, पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्टमनश्चेत्येकादश ।
बुद्धिरहङ्कारो मन इति त्रीणि ।
एकमिति बुद्धिरेव ।
एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह- प्रसिद्ध इति ।
तस्माद्भ्रान्तिमूलत्वात्सांख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् ।
स्वमतासामञ्जस्यमसहमानः सांख्यः प्रत्यवतिष्ठते- अत्राहेति ।
तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः ।
विवृणोति- एकं हीति ।
तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः ।
ननु तयोरुपादानैक्ये ऽपि मिथो भेदो ऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह- यदि चेत्यादिना ।
ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह- यो ऽपीति ।
किञ्च भेदाङ्गीकारे ऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह- प्रसिद्धश्चेति ।
अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह- यदीति ।
अर्थिनो ऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनो ऽसत्त्वादर्थत्वाभावःप्रसज्येतेत्याह- तथार्थस्यापीति ।
प्रसङ्गस्येष्टत्वं निराकरोति- न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वं, तच्च काम्यादन्यस्य कामयितुरसत्वान्न स्यात् ।
न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् ।
तस्माद्भेदो ऽङ्गीकार्य इत्यर्थः ।
इतश्च भेद इत्याह- संबन्धीति ।
तथानर्थानर्थिनावपि भिन्नावित्यन्वयः ।
अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति- अर्थिनो ऽनुकूल इति ।
अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह- जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः ।
यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते ।
तदुक्तम्-ऽसैव च बध्यते मुच्यते चऽइति ।
सिद्धान्तयति- अत्रेति ।
किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा ।
नाद्य इत्याद्याह- न ।
एकत्वादेवेति ।
दोषत्वमिति शेषः ।
तस्या अदोषत्वं विवृणोति- भवेदित्यादिना ।
एतत्त्वात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।
यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते-किं न पश्यसीति ।
देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते- नन्विति ।
अचेतनस्यैव देहस्य तप्तिर्नेति वदता सांख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किंवा देहसंहतस्य, उत तप्तेः, आहोस्वित् सत्त्वस्य ।
नाद्य इत्याह- उच्यत इति ।
न द्वितीयतृतीयवित्याह- नापीत्यादिना ।
चतुर्थं शङ्कते- सत्त्वमिति ।
सत्तवरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति- न ।
ताभ्यामिति ।
असङ्गत्वे ऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते- सत्त्वेति ।
तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह- परमार्थत इति ।
इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते-इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत् कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति- न चेदिति ।
पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः ।
मिथ्यासादृश्यमेव दोष इति चेत्, नेत्याह- नहीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः ।
सांख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव संपन्नमित्यर्थः ।
यदि मिथ्यातप्यत्वाङ्गीकारे ऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् ।
अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्तयोगादित्याह- अथेत्यादिना ।
किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह- नित्यत्वेति ।
अत्र सांख्यः शङ्कते- तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः ।
मोक्षस्तप्त्यभावः ।
निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति- नेति ।
तमसो निवृत्त्यभावे ऽपिविवेकेनोपरमान्मोक्ष इत्यत आह- गुणानां चेति ।
ऽचलं गुणवृत्तम्ऽइत्यङ्गीकारादिति भावः ।
परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति- औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः ।
व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः

33.11

एन्द् ब्स्चोम्_2,2.1.10
स्तर्त् ब्स्चोम्_2,2.2.11
2 महद्दीर्घाधिकरणम् । सू. 11
प्रधानकारणवादो निराकृतः ।
परमाणुकारणवाद इदानीं निराकर्तव्यः ।
तत्रादौ तावद्यो ऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते ।
तत्रायं वैशेषिकाणामभ्युपगमः - कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्ययादर्शनाच्च ।
तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वे ऽभ्युपगम्यमाने कार्ये ऽपि जगति चेतन्यं समवेयात् ।
तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति ।
इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति-
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ब्ब्स्_2,2.11 ।
एषा तेषां प्रक्रिया- परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमण्डल्यपरिमाणश्च तिष्ठन्ति ।
ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते ।
कारणगुणाश्च कार्ये गुणान्तरम् ।
यदा द्वौ परमाणू द्व्यणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शक्लादीनपरानारभन्ते ।
परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् ।
अणुत्वह्रस्वत्वे हि द्व्यमुकवर्तिनी परिमाणे वर्णयन्ति ।
यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।
अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वादीर्घत्वपरिमाणयोगाभ्युपगमात् ।
यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभते तदापि समानैषा योजना ।
तदेवं यथा परमाणोः परिमण्डलात्सतो ऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलम्, यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो ह्रस्वम्, एवं चेतनाद्ब्रह्मणो ऽचेतनं जगज्जनिष्यत इत्यब्युपगमे किं तव च्छिन्नम् ।
अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमण्डल्यादीनीत्यभ्युपगच्छामि, नतु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत ।
नह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणो ऽस्ति, चेतनाप्रतिषेधमात्रत्वात् ।
तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति ।
नैवं मंस्थाः ।
यथा कारणे विद्यमानानामपि पारिमाण्डल्यादिनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् ।
नच परिमाणान्तरक्रान्तत्वं पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः ।
आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् ।
नच परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् ।
ऽकारणबहुत्वात्कारणमहत्वात्प्रचयविशेषाच्च महत्ऽ (वै. सू. 7.1.9) ऽतद्विपरीतमणुऽ (7.1.10 ) ऽएतेन दीर्घत्वह्रस्वत्वे व्याख्यातेऽ (7.1.17) इति हि काणभुजानि सूत्राणि ।
नच संनिधानविशेषात्कुतश्च्त्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत, द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायविशेषात् ।
तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं, तथा चेतनाया अपीति द्रष्टव्यम् ।
संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः ।
द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत् ।
न ।
दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् ।
नच द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति ।
सूत्रकारो ऽपि भवतां द्रव्यस्य गुणमुदाजहार- ऽप्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यतेऽ (वै. सू. 4.2.2) इति ।
यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगो ऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् ।
प्रत्यक्षं हि शरीरम् ।
तस्मान्न पाञ्चभौतिकमिति ।
एतदुक्तं भवति- गुणश्च संयोगो द्रव्यं शरीरम् ।
ऽदृश्यते तुऽ (ब्र. सू. 2.1.6) इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता ।
नन्वेवं सति तेनैवैतद्गतम् ।
नेति ब्रूमः ।
तत्सांख्यं प्रत्युक्तम्, एतत्तु वैशेषिकं प्रति ।
नन्वतिदेशो ऽपि समानन्यायतया कृतः ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽ (ब्र.सू. 2.1.12) इति ।
सत्यमेतत् ।
तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः

33.11

fन्: परमाणुः परिमण्डलः तद्गतं परिमाणं पारिमाण्डल्यम् ।
द्वे द्वे इति पठितव्यम् ।
वृत्तानुवादेन ऽमहद्दीर्घवत्ऽइति स्वमतस्थापनात्मकाधिकरणस्य संगतिमाह- प्रधानेति ।
यद्यपि सांख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे संगतत्वात् तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तं, तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणो ऽपि नोपादानत्वमिति दोषो दृष्टान्तसंगतिलाभादत्र समाधीयत इत्यर्थः ।
चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः ।
स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति संदेहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे- एषेत्यादिना ।
यद्यपि ऽन विलक्षणत्वात्ऽइत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता ।
प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह- यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः ।
व्यभिचारस्थलान्तरमाह- यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम्, एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् ।
प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः ।
सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः ।
यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते- यदापि बहव इति ।
कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसंख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः ।
एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह- तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् ।
नियतप्रक्रियामाश्रित्य व्यभिचारमाह- यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणुकेभ्यो ऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः ।
सूत्रे वाशब्दश्चार्थो ऽनुक्ताणुसमुच्चयार्थः ।
तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना ।
तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।
दृष्चान्तवैषम्यं शङ्कते- अथ मन्यस इति ।
अचेतनैव विरोधिगुण इत्यत आह- न ह्यचेतनेति ।
कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह- मैवमिति ।
अङ्गीकारं त्यजति- नचेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः ।
ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह- आरब्धमपीति ।
सहोत्पत्तावपसिद्धान्तः ।
अतो विरोध्यभावः सिद्ध इति भावः ।
अणुत्वाद्यारम्भे व्यग्रत्वात् पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति- नचेति ।
व्यग्रत्वमन्यथासिद्धम् ।
तत्र हेतुः- परिमाणन्तरस्येति ।
अन्यहेतुकत्वे सूत्राण्युदाहरति- कारणेति ।
कारणानां द्व्यणुकानां बहुत्वात् त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वं, द्वितूलपिण्डारब्धे ऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः ।
महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसंख्यया द्व्यणुके भवतीत्याह- तदिति ।
यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायि कारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति- एतेनेति ।
अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वसिद्धमिति भावः ।
तेषां संनिधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह- नचेति ।
पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः ।
तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसंनिधिर्वा न हेतुरित्युक्तिफलमाह- तस्मादिति ।
यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारे ऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दं, चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषुविजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् ।
तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् ।
तत्रोदाहणान्तरमाह- संयोगाच्चेति ।
ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यं, तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम्, न संयोगस्य गुणस्योदाहरणमिति शङ्कते- द्रव्य इति ।
गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशे ऽयं दृष्टान्त इति परिहरति- नेति ।
अनियमः कणादसंमत इत्याह- सूत्रकारो ऽपीति ।
एतावता कथमनियमः, तत्राह- एतदुक्तमिति ।
नविलक्षणत्वन्यायेन पुनरुक्त्यभावे ऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते- नन्वतिदेश इति ।
समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह- सत्यमिति ।
तस्यैवातिदेशस्येत्यर्थः

33.12

एन्द् ब्स्चोम्_2,2.2.11
स्तर्त् ब्स्चोम्_2,2.3.12
3 परमाणुजगदकारणत्वाधिकरणम् । सू. 12-17
उभयथापि न कर्मातस्तदभावः । ब्ब्स्_2,2.12 ।
इदानीं परमाणुकारणवादं निराकरोति ।
स च वाद इत्थं समुत्तिष्ठत- पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतेरैव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि ।
तत्सामान्येन यावत्किञ्चित्सावयवं तत्सर्वं स्वानुगतेरैव संयोगसचिवैस्तैर्द्रव्यैरारब्धमिति गम्यते ।
स चायमवयवावयविविभागो यतो निवर्तते सो ऽपकर्षपर्यन्तगतः परमाणुः ।
सर्वं चेदं जगद्गिरिसमुद्रादिकं सावयवं, सावयवत्वाच्चाद्यन्तवत् ।
नचाकारणेन कार्येण भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः ।
तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्वनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः ।
ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संनियुक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते ।
एवमग्निरेवमाप एवं पृथिवी ।
एवमेव शरीरं सेन्द्रियमिति ।
एवं सर्वमिदं जगदणुभ्यः संभवति ।
अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति तन्तुपटन्यायेनेति काणादा मन्यन्ते ।
तत्रेदमभिधीयते- विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षो ऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् ।
कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् ।
अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्मस्यात् ।
अभ्युपगमे ऽपि यदि प्रयत्नो ऽभिघातादिर्वा (अथा)यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् ।
नहि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति शरीराभावात् ।
शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सत्यात्मगुणः प्रयत्नो जायते ।
एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यतव्यम् ।
सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति ।
अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा ।
उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् ।
नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यप्रक्रियायामभिहितम् ।
आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् ।
आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् ।
अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्, संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् ।
तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् ।
कर्माभावात्तनिबन्धनः संयोगो न स्यात् ।
संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् ।
संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा ।
सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च ।
प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् ।
एकदेशेन चेत्सावयवत्वप्रसङ्गः ।
परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् ।
कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात् ।
असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत ।
यथाचादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलये ऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् ।
नहि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति ।
अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म ।
अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत ।
तस्मादनुपपन्नो ऽयं परमाणुकारणवादः

33.12

fन्: स्वानुगतैः स्वसंबद्धैः ।
संबन्धश्चाधार्याधारभूतः प्रत्ययहेतुः समुदायः ।
वैशेषिकमतपरीक्षामारभते- उभयथापि न कर्मातस्तदभावः ।
नास्य प्रासङ्गिकेन पूर्वाधिकरणेन संगतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वे ऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसंगत्या सांख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह- इतानीमिति ।
द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तो ऽत्र विषयः ।
स किं मानमूलो भ्रान्तिमूलो वेति संदेहे पूर्वपक्षयति- स चेति ।
तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः ।
विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धं, कार्यद्रव्यत्वात्, पटादिवदिति प्रयोगः ।
स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि ।
नन्वेतावता कथं परमाणुसिद्धिः, तत्राह- स चायमिति ।
विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः ।
यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्र्यं निरवयवं सिद्ध्यतीति भावः ।
जगन्नित्यत्ववादात् कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह- सर्वं चेति ।
विमतमाद्यन्तवत्, सावयवत्वात्, पटवदित्यर्थः ।
हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति- नचेति ।
ते कतिविधा इत्याकाङ्क्षायांमाह- तानीति ।
प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह- तेषां चेति ।
अवयवानां विभागान्नाशान्नावयविनो नाशः ।
परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसंभवान्न नाश इत्यर्थः ।
तेषां नित्यत्वे फलितं सृष्टिक्रममाह- तत इति ।
एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् ।
तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति- तत्रेदमिति ।
प्रलये विभक्तानां परमाणूनामन्यतरकर्मणो ऽभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टं, यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनं, हस्तनोदनादिष्वादिगमनं, तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा ।
द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म संभवति ।
अतः कर्मासंभवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः ।
स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषो ऽभिघातः स एव चलस्य नोदनमिति भेदः ।
दृष्टनिमित्ताभावे ऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते- अथादृष्टमिति ।
विकल्पपुरःसरं दूषयति- तत्पुनरिति ।
जडात्मवदणोराश्रयत्वं कि न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।
अत्रापि सूत्रं योजयति- उभयथेति ।
जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह- आत्मनश्चेति ।
अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः ।
भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते ।
अचेतनत्वमदृष्टस्यकर्मनिमित्तत्वाभावे हेतुरुक्तः ।
हेत्वन्तरमाह- आत्मसमवायित्वेति ।
गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते- अदृष्टवदेति ।
विभुसंयोगस्याणुषु सदा सत्त्वात् क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति- संबन्धेति ।
कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगे ऽपीश्वरान्नियम इत्यत आह- नियामकान्तरेति ।
यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वे ऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।
सूत्रार्थं निगमयति- तदेवमिति ।
संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति- संयोगश्चाणोरिति ।
संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात् सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।
किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह- दृष्टेति ।
परमाणोः संयोग एकदेशेन चेदिति संबन्धः ।
दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः ।
काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासे ऽपि सूत्रं योजयति- था चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःकशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः संभवति ।
तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना

33.13

एन्द् ब्स्चोम्_2,2.3.12
स्तर्त् ब्स्चोम्_2,2.3.13
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ब्ब्स्_2,2.13 ।
समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन संबध्यते ।
द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता ।
नचैवमभ्युपगच्छता शक्यते ऽणुकारणता समर्थयितुम् ।
कुतः ।
साम्यादनवस्थितेः ।
यथैव ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यत एवं समवायो ऽपि समवायिभ्यो ऽत्यन्तभिन्नः सन्समवायलक्षणेनान्येनैव संवन्धेन समवायिभिः संबध्येतात्यन्तभेदसाम्यात् ।
ततश्च तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत ।
नन्विह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते नासंबद्धः संबन्धान्तरापेक्षो वा ।
ततश्च न तस्यान्यः संबन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति ।
नेत्युच्यते ।
संयोगो ऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत ।
अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवोयो ऽपि तर्ह्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत ।
नच गुणत्वात्संयोगः संबन्धान्तरमपेक्षते न समवायो ऽगुणत्वादिति युज्यते वक्तुम् ।
अपेक्षाकारणस्य तुल्यत्वात् ।
गुणपरिभाषायाश्चातन्त्रत्वात् ।
तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था ।
प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुक नैवोत्पद्येत ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः

33.13

समवायाभ्युपगमाच्च तदभावः ।
अणुवादासंभव इति योग्यतया संबध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः ।
नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न संबन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसंबद्धत्वादिति शङ्कते- नन्विहेति ।
संयोगस्यापि स्वरूपसंबन्धोपपत्तेः समवायो न स्यादिति दूषयति- नेति ।
संबन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या ।
गुणपरिभाषायाश्चेति ।
गुणत्वाभावे ऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् ।
नापि व्याप्यं, गुणस्यापि समवायवत्स्वरूपसंबन्धसंभवेन व्याप्त्यनुकूलतर्काभावात् ।
तस्मात् संबन्धिभिन्नत्वमेव संबन्धान्तरापेक्षायां कारणं, तस्य समवाये ऽपि तुल्यत्वादनवस्था दुर्वारा ।
सा च मूलक्षयकारी ।
तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः

33.14

एन्द् ब्स्चोम्_2,2.3.13
स्तर्त् ब्स्चोम्_2,2.3.14
नित्यम् एव च भावात् । ब्ब्स्_2,2.14 ।
अपिचाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वानुभयस्वभावा वाभ्युपगम्यन्ते गत्यन्तराभावात् ।
चतुर्धापि नोपपद्यते ।
प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः ।
निवृत्तिस्वभावत्वे ऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः ।
उभयस्वभावत्वं च विरोधादसमञ्जसम् ।
अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गात् ।
अतन्त्रत्वे ऽप्यदृष्टादेरनित्याप्रवृत्तिप्रसङ्गात् ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः

33.14

सूत्रं व्याचष्टे- अपिचेति ।
अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसंनिहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः

33.15

एन्द् ब्स्चोम्_2,2.3.14
स्तर्त् ब्स्चोम्_2,2.3.15
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ब्ब्स्_2,2.15 ।
सावयवानां द्रव्याणामवयववशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव ।
यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत ।
परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः ।
कुतः ।
एवं लोके दृष्टत्वात् ।
यदि लोके रूपादिमद्वस्तु तत्स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम् ।
तद्यथा पटस्तन्तूनपेक्ष्य स्थूले ऽनित्यश्च भवति तन्तवश्चंशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति, तथाचामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते, तस्मात्ते ऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति ।
यच्च नित्यत्वे कारणं तैरुक्तम्- ऽसदकारणवन्नित्यम्ऽ (वै. सू. 4.1.1) इति ।
तदप्येवं सत्यणुषु न संभवति ।
उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः ।
यदपि नित्यत्वे द्वितीयं कारणमुक्तम्- ऽअनित्यमिति च विशेषतः प्रतिषेधाभावःऽ (वै. सू. 4.1.4) इति ।
तदपि नावश्यं परमाणूनां नित्यत्वं साधयति ।
असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते ।
न पुनः परमाणुनित्यत्वमेवापेक्ष्यते ।
तच्चास्त्येव नित्यं परमकारणं ब्रह्म ।
नच शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् ।
यदपि नित्यत्वे तृतीयं कारणमुक्तम्- ऽअविद्या चऽ (वै. सू. 4.1.5) इति, तद्यद्येवं विव्रीयते सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत ।
अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमाद्येत ।
तस्य च प्रागेवोक्तत्वात् ऽअविद्या चऽ इति पुनरुक्तं स्यात् ।
अथापि कारणविभागात्कारणविनाशाच्चन्यस्य तृतीयस्य विनाशहेतोरसंभवो ऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत ।
नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतिति नियमो ऽस्ति ।
संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भके ऽभ्युपगम्यमान एतदेवं स्यात् ।
यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते ।
तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम् ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः

33.15

किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात् स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह- सावयवानामित्यादिना ।
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् ।
न ।
वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् ।
न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् ।
नच तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावे ऽपि सिद्धसाधनता स्यादिति वाच्यं, यत्र स्पर्शस्तत्कारणं, यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः ।
परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् ।
आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति- यच्च नित्यत्व इति ।
सत्त्वं भावत्वं प्रागभावनिरासार्थम् ।
नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात्, घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात् कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति- यदपीति ।
कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता ।
वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारयोगादित्याह- नच शब्देति ।
यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः ।
एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति- यदपीति ।
सतामणूनां दृश्यमानसथूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् ।
तन्न द्व्यणुके व्यभिचारादित्यर्थः ।
यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह- अथेत्यादिना ।
परमाणवो नित्याः, नाशकानुपलम्भात्, आत्मवदिति सूत्रार्थमाशङ्कते- अथापीति ।
तन्त्वाद्यवयवानां विभागान्नाशाद्वा पठादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः ।
परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्संभवतीति परिहरति- नेति ।
अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारंभ इति यदि मतं स्यात्, तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् ।
नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् ।
अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् ।
तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते ।
यथाग्निसंपर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् ।
नच काठिन्यस्य संयोगविशेषणत्वेन गुणत्वाद्रव्यनाशे ऽनुदाहरणत्वमिति शङ्क्यं, गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात्, गुणपरिभाषायाश्चातन्त्रत्वात् ।
वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् ।
नच द्रव्यत्वे ऽप्यवयवविभागादेव तस्य नाश इति वाच्यं, घृतस्य परिणामिन एकत्वेन विभागासंभवात्, परमाणुकाठिन्यनाशे तदसंभवाच्चेति भावः ।
किञ्च प्रलये नासीद्रजो नान्यत् किञ्चनेत्यणूनां नाशसिद्धिः ।
तस्मान्न तेषां परमकारणत्वमित्युपसंहरति- तस्मादिति

33.16

एन्द् ब्स्चोम्_2,2.3.15
स्तर्त् ब्स्चोम्_2,2.3.16
उभयथा च दोषात् । ब्ब्स्_2,2.16 ।
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुरित्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते ।
तद्वत्परमाणवो ऽप्युपचितापचितगुणाः कल्प्येरन्न वा ।
उभयथापि च दोषानुषङ्गो ऽपरिहार्य एव स्यात् ।
कल्प्यमाने तावदुपचितापचितगुणत्व उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः ।
नचान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्वं एकैकगुणा एव कल्प्येरंस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानां,
कारणगुणपूर्वकत्वात्कार्यगुणानाम् ।
अथ सर्वे चतुर्गुणा एव कल्प्येतन्, ततो ऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् ।
नचैवं दृश्यते ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः

33.16

fन्: मूर्त्युपचयात् स्थौल्यादित्यर्थः ।
यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति- तद्वदिति ।
पार्थिवः परमाणूरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा ।
आद्ये दोषमाह- कल्प्यमान इति ।
मूर्त्युपचयात् स्थौल्यादित्यर्थः ।
पार्थिवो ऽणुराप्यात् स्थूलः, अधिकगुणत्वात्, घटवदित्येवं प्रयोक्तव्यः ।
अप्रयोजकत्वं निरस्यति- न चान्तरेणेति ।
दृष्टविरोधः स्यादिति भावः ।
नेति पक्षे सर्वेषामाणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा ।
उभयथापि दोषमाह- अकल्प्यमाने त्वित्यादिना

33.17

एन्द् ब्स्चोम्_2,2.3.16
स्तर्त् ब्स्चोम्_2,2.3.17
अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ब्ब्स्_2,2.17 ।
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः ।
अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः ।
अपिच वैशेषिकास्तन्त्रार्थभूतान्षट्पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति ।
यथा मनुष्यो ऽश्वः शश इति ।
तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणमभ्युपगच्छन्ति ।
तन्नोपपद्यते ।
कथम् ।
यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति ।
अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावे ऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति ।
यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् ।
तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् ।
नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते ।
सत्यं दृश्यते ।
भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते ।
इह तु शुक्लः कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति ।
तस्माद्द्रव्यात्मकता गुणस्य ।
एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता ।
गुणा(दी)नां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वापृथक्स्वभावत्वं वा ।
सर्वथापि नोपपद्यते ।
अपृथकग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत ।
कथम् ।
तन्त्वारब्धो हि पटष्टन्तुदेशो ऽभ्युपगम्यते न पटदेशः ।
पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः ।
तथाचाहुः - ऽद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्ऽ (वै. सू. 1.1.10) इति ।
तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते ।
तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्त इति हि ते ऽभ्युपगच्छन्ति ।
सो ऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वे ऽभ्युपगम्यमाने बाध्येत ।
अथापृथक्कालत्वमयुतसिद्दत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत ।
तथापृथक्स्वभावत्वे त्वयुतसिद्धत्वेन द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् ।
युतसिद्धयोः संबन्धः संयोगो ऽप्युतसिद्धयोस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषां, प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः ।
अथान्यतरापेक्ष एवायमभ्युपगमः स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति, एवमपि प्राग्सिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते द्वयायत्तत्वात्संबन्धस्य ।
सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
यथा चेत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यान्न समवायः ।
नापि संयोगस्य समवायस्य वा संबन्धव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति ।
संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् ।
न ।
एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयानेकशब्दप्रत्ययदर्शनात् ।
यथैको ऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति, मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्न्यत्वेन निविशमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथासंबन्धिनोरेव संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेन , इत्युपलब्दिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य ।
नापि संबन्दधिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः ।
स्वरूपाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् ।
तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् ।
कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् ।
न ।
अविद्यामानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् ।
इयानेवाविद्यमानो विरुद्धो ऽविरुद्धो वार्थः कल्पनीयो नातो ऽधिक इति नियमहेत्वभावात् ।
कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च ।
नच वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्यो ऽन्ये ऽधिकाः शतं सहस्रं वार्था न कल्पयितव्या इति निवारको हेतुरस्ति ।
तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिद्ध्येत् ।
कश्चित्कृपालुः प्राणिनां दुःखबहुलं संसार एव माभूदिति कल्पयेत् ।
अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् ।
कस्तयोर्निवारकः स्यात् ।
किञ्चान्यत् ।
द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः ।
नह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषो ऽस्ति ।
कार्यकारणद्रव्ययोराश्रिताश्रयभावो ऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् ।
न ।
इतरेतराश्रयत्वात् ।
कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः कुण्डबदरवदितरेतराश्रयता स्यात् ।
नहि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् ।
किञ्चान्यत् ।
परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत ।
यांस्त्वं दिग्भेदभेदिनो ऽवयवान्कल्पयसि त एव परमाणव इति चेत् ।
न ।
स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्तेः ।
यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकं, तथा परमाणवो ऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः ।
विनश्यन्तो ऽप्यवयवविभागेनैव विनश्यन्तीति चेत् ।
नायं दोषः ।
यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति ।

तथा कार्यरम्भो ऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् ।
तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुति प्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षास्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः

33.17

fन्: तथात्वमत्यन्तभिन्नत्वम् ।
सांख्यो ऽत्रवेदान्ती ग्राह्यः ।
यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् ।
प्रभूतत्वसंभवान्निरवधित्वसंभवात् ।
संश्लेषः संग्रह एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः ।
न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोर्ऽथतश्चाग्राह्यत्वमित्याह- अपरिग्रहाच्चेति ।
चकारार्थं प्रपञ्चयितुमुपक्रमते- अपि चेति ।
अत्यन्तभेदज्ञापकमाह- भिन्नलक्षणानिति ।
द्रव्यगुणकर्मणां द्रव्यगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम्, संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम्, नित्यद्रव्यवृत्तयो विशेषाः, नित्यः संबन्धः समवाय इति भिन्नानि लक्षणानि ।
तैर्मिथो ऽत्यन्तभेदसिद्धिरित्यर्थः ।
तथात्वमत्यन्तभिन्नत्वम् ।
तेन विरुद्धो यो धर्मधर्मिभावः ।
गुणादयो नद्रव्यधर्माः स्युः, ततो ऽत्यन्तभिन्नत्वात्, शशकुशादिवदित्यर्थः ।
भेदाबाधकत्वमुपन्यस्याभेदमाह- अथ भवतीति ।
गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धं, तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात्, यद्यस्माद्भिन्नं तन्न तदधीनं, यथा शशभिन्नः कुश इत्यर्थः ।
अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथं, तत्राह- द्रव्यमिति ।
कल्पितभेदो ऽप्यस्तीत्याशयः ।
अन्यथात्यन्तभेदवदत्यन्ताभेदे ऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् ।
अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह- तथा सतीति ।
सांख्यो ऽत्र वेदान्ती ग्राह्यः ।
यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् ।
यद्यपि तदधीनत्वं तद्धर्मत्वं, तच्च धूमे नास्ति, अग्निं विनापि भावात्, तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते- नन्विति ।
कार्यत्वमन्यत्वं चाङ्गीकरोति- सत्यमिति ।
तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः ।
अस्य हेतोरन्यथासिद्धिमाशङ्कते- गुणादीनामिति ।
गुणादीनां द्रव्येणाभेदाभावे ऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः ।
दूषयितुं विकल्पयति- तत्पुनरिति ।
शौक्ल्यस्य पटनिष्ठत्वात् पटस्य तन्तुदेशत्वात् पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति- अपृथग्देशत्व इति ।
काणादसूत्रद्वयं व्याचष्टे- तन्तवो हीति ।
स्वभावो हि स्वरूपं तस्यापृथक्त्वे ऽस्मदिष्टाभेदसिद्धिरित्याह- अपृथक्त्वभावत्व इति ।
अभेदे युक्तिमाह- तस्येति -गुणस्येत्यर्थः ।
एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तो ऽनुभवविरोधेन दूषितः ।
सिद्धान्तान्तरं दूषयति- युतेति ।
अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य ।
नाद्य इत्याह- प्रागिति ।
द्वितीयमाशङ्क्य दूषयति- अथेत्यादिना ।
कारणस्य पृथक्सिद्धत्वे ऽकार्यमपृथक्सिद्धमित्युक्तमुपेत्य संबन्धो ऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं द्वितीयं शङ्कते- सिद्धं भूत्वेति ।
सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः ।
सद्योजातपटस्य क्रियाभावात् कथं संयोगः, तत्राह- यथेति ।
किञ्च संबन्धस्यापि संबन्धे ऽनवस्थानादसंबद्धस्यानियामकत्वात् संबन्धो ऽपि दुर्निरूप इत्याह- नापीति ।
संबन्धः संबन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात्, वस्त्वन्तरवदिति शङ्कते- संबन्धीति ।
कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते- न ।
एकत्वे ऽपीति ।
स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, नच भिद्यत इति व्यभिचार इत्यर्थः ।
फलितमाह- इत्युपलब्धीति ।
विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन-लक्षणेन सिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः संबन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः ।
न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते ।
समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः ।
संबन्धस्य संबन्ध्यभेदे संबन्धिनः सदा सत्त्वात्सर्वदा संबन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति- नापीति ।
परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च संबन्धिधीः न स्वत इत्युक्तमित्यर्थः ।
पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, संप्रत्यदृष्टवदात्मनाणूनां संयोगो ऽणुषु क्रियाहेतुः आत्ममनोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते- तथाण्वात्मेति ।
निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति- कल्पिता इति ।
कल्पनमूहः ।
ऊहितार्थाः सन्तो ऽसन्तो वा ।
द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् ।
आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् ।
प्रभूतत्वं निरवधित्वं तत्संभवाच्चेत्यर्थः ।
यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह- न चेत्यादिना ।
संयोगं दूषयित्वा समवायं दूषयति- किञ्चान्यदिति ।
तन्मते दूषणान्तरमुच्यत इत्यर्थः ।
संश्लेषः संग्रहः ।
यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः ।
द्व्यणुकं निरवयवासमवेतं, सावयवत्वात्, आकाशासमवेतभूमिवदिति भावः ।
ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात्, संबन्धं विना तदयोगात् ।
नच संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते- कार्येति ।
प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति- नेति ।
भेदात्तद्भाव इति वदन्तं प्रत्याह- इतरेतराश्रयत्वादिति ।
कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह- कारणस्यैवेति ।
परमाणूनां निरवयवत्वमप्ययुक्तमित्याह- किञ्चेति ।
परमाणवः सावयवाः, अल्पत्वात्, घटवत् ।
विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः ।
ननुपरमाण्वपेक्षया यो ऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन ये ऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्ते ऽपि सावयवाश्चेत् तदवयवा एवेति एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कति- यांस्त्वमिति ।
परिहरति- न ।
स्थूलेति ।
अयमर्थः-यत्सवात्मनाविभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात्, तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् ।
यदि पृथिव्यादिजातीयो ऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वं, विनाशित्वात्, घटवत् ।
नच हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात्, घटवदिति साधनादिति ।
संप्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति- विनश्यन्त इत्यादिना ।

ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् ।
निमित्तादृष्टादिनाशाद्विनाशः प्रलये संभवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसंभव इति भावः ।
यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह- तथा कार्यारम्भो ऽपीति ।
कैवल्यं प्रधान्यम् ।
कार्यद्रव्यस्थितावपि हेत्वात्संयोगस्य क्षीरारंभकसंयोगाद्दध्यारम्भकं न संयोगान्तरं, तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः ।
किञ्च यत्कार्यद्रव्यं तद्द्रव्यारम्भमित्येव व्याप्तिरस्तु लाघवात्, न तु संयोगसचिवस्वन्यूनपरिमाणेनेकद्रव्यारम्भमिति, गौरवात्, दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च ।
नच रज्जुर्न द्रव्यान्तरमिति वाच्यम्, अवयविमात्रविप्लवापातात् ।
किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः ।
यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति ।
तन्न ।
त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः ।
नच त एव त्रुटिनामानो जगद्धतेव इति वाच्यम्, पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् ।
न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम्, मायायां ब्रह्मणि वावयवत्वविश्रान्तिसंभवात् ।
अतो न किञ्चिदणुसद्भावे प्रमाणम् ।
निरवयवानां संयोगसमवाययोरसंभवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव ।
संप्रति ऽअपरिग्रहाच्चऽइति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति- तदेवमिति ।
तस्माद्भ्रान्तिमूलेन वैशेषिकमतेनवेदान्ततात्पर्यस्याविरोध इति सिद्धम्

33.18

एन्द् ब्स्चोम्_2,2.3.17
स्तर्त् ब्स्चोम्_2,2.4.18
4 समुदायाधिकरणम् . सू. 18-27
समुदाय उभयहेतुके ऽपि तदप्राप्तिः । ब्ब्स्_2,2.18 ।
वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् ।
सोर्ऽधवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः ।
स च बहुप्रकारः प्रतिपत्तिभेदाद्विनेयभेदाद्वा ।
तत्रैते त्रयो वादिनो भवन्ति- केचित्सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति ।
तत्र ते सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः ।
तत्र भूतं पृथिवीधात्वादयः ।
भौतिकं रूपादयष्चक्षुरादयश्च ।
चतुष्टये च पृथिव्यादिपरमाणवः स्वरस्नेहोष्णस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते ।
तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः ।
ते ऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्त इति मन्यन्ते ।
तत्रेदमभिधीयते- यो ऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतो ऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुके ऽपि समुदाये ऽभिप्रेयमाणे तदप्राप्तिः स्यात्समुदायाप्राप्तिः ।
समुदायभावानुपपत्तिरित्यर्थः ।
कुतः ।
समुदायिनामचेतनत्वात् ।
चित्ताभिज्ज्वलनस्य च समुदायसिद्ध्यधीनत्वात् ।
अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् ।
आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् ।
क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः ।
तस्मात्समुदायानुपपत्तिः ।
समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत

33.18

fन्: भूते भौतिकं बाह्यम्, चित्तं चैत्तं च कामाद्यन्तरमिति विभागः ।
चतुष्टये चतुर्विधाः ।
स्वराः कठिनाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णस्तैजसाः, ईरणं चलनं स्वभावो वायव्यानामिति ।
सविशेषेन्द्रियाणि रूपस्कन्धः, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदान्तस्कन्धः, गौरश्व इत्येवंनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माः संस्कारस्कन्धः ।
आशेरते ऽस्मिन् रागादय इत्याशयः संतानः ।
वैशेषिकं निरस्य वैनाशिकं निरस्यति- समुदाय इति ।
परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसंगतिमाह- वैशेषिकेति ।
ऽनाभाव उपलब्धेःऽइति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते- स चेति ।
ननु सुगतप्रोक्तागमस्यैक्यात् कुतो बहुप्रकारता, तत्राह- प्रतिपत्तीति ।
एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन वुद्धिभेदात्, मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः ।
तानेव प्रकारानाह- तत्रेति ।
सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः ।
तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादे ऽप्यस्तित्वसंप्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह- तत्र ये सर्वास्तित्वेति ।
भूतं भौतिकं बाह्यं, चित्तं चैत्तं च कामाद्यान्तरमिति विभागः ।
तत्र संदिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति ।
तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति- तत्र भूतमिति ।
स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलं, सिद्धान्ते तदविरोध इति ज्ञेयम् ।
पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते- चतुष्टये चेति ।
चतुर्विधा इत्यर्थः ।
खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति ।
बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह- तथेति ।
सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वे ऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम्, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः ।
तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते ।
अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां संघात आध्यात्मिकः ।
सकललोकयात्रानिर्वाहक इत्यर्थः ।
अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत् तत्क्षणिकं, यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलो ऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति- यो ऽयमिति ।
सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसंघातस्तावन्न संभवति, अचेतनत्वात् ।
नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, संघाते देहाकारे जाते विज्ञानं विज्ञाने जाते संघात इत्यन्योन्याश्रयात् ।
नच क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः संघातकर्ता भवेत् ।
नच कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव संघातार्थं प्रवर्तन्त इति वाच्यम्, अनिर्मोक्षप्रसङ्गात् ।
नन्वालयविज्ञानसंतानः संहन्तास्त्वित्यत आह- आशयस्येति ।
आशेरते ऽस्मिन् रागादय इत्याशयः संतानः, स किं संतानिभ्यो ऽन्यो विज्ञानिभ्यो ऽन्यो ऽनन्यो वा ।
आद्ये ऽपि स्थिरः क्षणिको वा ।
नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् ।
द्वितीये दोषमाह- क्षणिकत्वेति ।
क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना ।
क्षणिकत्वव्याघात्दित्यर्थः ।
एतेनानन्यः संतान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः ।
तस्मात् संहन्तुरसत्त्वात् संघातानुपपत्तिरित्यर्थः

33.19

एन्द् ब्स्चोम्_2,2.4.18
स्तर्त् ब्स्चोम्_2,2.4.19
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात् । ब्ब्स्_2,2.19 ।
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा ।
तस्यां चोपपद्यमानायां वा किञ्चिदपरमपेक्षितव्यमस्ति ।
ते चाविद्यादयो ऽविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शा वेदना तृष्णा उपादानं भवो जातिर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवञ्जातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः क्वचित्प्रपञ्चिताः ।
सर्वेषामप्ययमविद्यादिकलापो ऽप्रत्याख्येयः ।
तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेर्ऽथाक्षिप्त उपपन्नः संघात इति चेत् ।
तन्न ।
कस्मात् ।
उत्पत्तिमात्रनिमित्तत्वात् ।
भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत ।
न त्ववगम्यते ।
यत इतरेतरप्रत्ययत्वे ऽप्यविद्यादीनां पूर्वपूर्वमुत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवेद्भवेन्न तु संघातोत्पत्तेः किञ्चिन्निमित्तं संभवति ।
नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् ।
अत्रोच्यते- यदि तावदयमभिप्रायो ऽविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य निमित्तं वक्तव्यम् ।
तच्च नित्येष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तेषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम् ।
किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत् ।
अथायमभिप्रायो ऽविद्यादय एव संघातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः ।
अथ मन्यसे संघाता एवानादौ संसारे संतत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति, तदपि संधातात्संघातान्तरमुत्पद्यमानं, नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत ।
नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् ।
अनियमाभ्युपगमे ऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् ।
उभयमप्यभ्युपगमविरुद्धम् ।
अपिच यद्भोगार्थः संघातः स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगमः ।
ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः ।
तथा मोक्षो मोक्षार्थं एवेति मुमुक्षुणा नान्येन भवितव्यम् ।
अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालावस्थायिना तेन भवितव्यम् ।
अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः ।
तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम नतु संघातः सिद्ध्येत् ।
भोक्त्रभावादित्यभिप्रायः

33.19

fन्: कार्यं प्रति अयते गच्छतीति प्रत्ययः कारणम् ।
विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् ।
तृष्ण्या वाक्कायचेष्टोपादानम् ।
हा पुत्र, तातेत्यादिप्रलापः परिदेवना ।
आश्रयेत्यादि भोक्तृविशेषणं अदृष्टाश्रयेष्वित्यर्थः ।
संहन्तुरभावे ऽपि संघातोपपत्तिमाशङ्क्य निषेधति- इतरेति ।
कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् ।
अविद्यादिभिरेवार्थात् संघातसिद्धौ व्यवहारोपपत्तिरित्यर्थः ।
अविद्यादीनाह- ते चेति ।
क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात् पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति ।
ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।
गर्भस्य कलकलबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः ।
विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत् षडायतनं, नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानं, तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् ।
जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखं, तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसंग्रहार्थः ।
न केवलं सुगतानामेवाविद्यादयः संमताः, किन्तु सर्ववादिनामपीत्याह- सर्वेषामिति ।
अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्संघातसिद्धिरिति शङ्कामुपसंहरति- तदेवमिति ।
सिद्धान्तभागं व्याचष्टे- तन्नेति ।
अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य संघातहेत्वभावात् संघातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति- नन्विति ।
किमविद्यादयः संघातस्य गमका उतोत्पादका इति विकल्प्याद्ये संघातस्योत्पादकं किञ्चिद्वाच्यं, तन्नास्तीत्याह- अत्रोच्यते, यदीति ।
आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् ।
अदृष्टाश्रयेष्वित्यर्थः ।
यदा स्थिरेष्वणुषु संघातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्संघातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह- किमिति ।
आश्रयाश्रयः संघातकर्ता तच्छून्येष्वित्यर्थः ।
ऽआश्रयाश्रयिशून्येषुऽइति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः ।
द्वितीयं शङ्कते- अथायमिति ।
संघातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति- कथमिति ।
स्वाभाविकः खल्वयं संघातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसंघाताश्रया अविद्यादय उत्तरसंघातप्रवर्तका इति नान्योन्याश्रयदोषो ऽपीत्याशङ्कते- अथ मन्यस इति ।
स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः ।
पूर्यते गलति चेति पुद्गलो देहः ।
किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारो ऽपि दुर्घट इत्याह- अपि चेति ।
यो यदिच्छति स तत्काले नास्ति चेदिच्छाव्यर्था, अस्ति चेत् क्षणिकत्वभङ्ग इत्यर्थः ।
प्रकृतं संघातनिरासमुपसंहरति- तस्मादिति

33.20

एन्द् ब्स्चोम्_2,2.4.19
स्तर्त् ब्स्चोम्_2,2.4.20
उत्तरोत्पादे च पूर्वनिरोधात् । ब्ब्स्_2,2.20 ।
उक्तमेतदविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति ।
तदपि तूत्पत्तिमात्रनिमित्तत्वं न संभवतीतिदमिदानीमुपपाद्यते ।
क्षणभङ्गवादिनो ऽयमभ्युपगम उत्तरस्मिन्क्षण उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति ।
नचैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम् ।
निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः ।
अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायस्तथापि नोपपद्यते ।
भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् ।
अथ भाव एवास्य व्यापार इत्यभिप्रायस्तथापि नैवोपपद्यते ।
हेतुस्वभावानुपरक्तस्य फलस्येत्पत्त्यसंभवात् ।
स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः ।
विनैव वा स्वभावोपरागेण हेतु फलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः ।
अपिचोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा ।
सर्वथापि नोपपद्यते ।
यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः ।
अस्थास्ति कश्चिद्विशेष इति मन्येतोत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यान्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः ।
अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्यातामश्वमहिषवत्, ततो वस्तु उत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम्, एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव ।
तस्मादप्यसंगतं सौगतं मतम्

33.20

fन्: निरुध्यमानत्वं विनाशकसांनिध्यम् ।
निरुद्धत्वमतीतत्वम् ।
द्विविधो हि कार्यसमुत्पादः सुगतसंमतो हेत्वधीनः कारणसमुदायाधीनश्चेति ।
तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः ।
तत्राद्यमङ्गीकृत्य द्वितीयः संघातकर्त्रभावेन दूषितः ।
संप्रत्याद्यं दूषयति सूत्रकारः- उत्तरेति ।
क्षणिकोर्ऽथः क्षणिक इत्युच्यते ।
निरुध्यमानत्वं विनाशकसांनिध्यं, निरुद्धत्वमतीतत्वम् ।
ननु कार्यकाले विनाशव्याप्तत्वे ऽपि पूर्वक्षणे सत्त्वात् क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते- अयं भावेति ।
सद्रूप इत्यर्थः ।
किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा ।
नाद्य इत्युक्त्या द्वितीयं शङ्कते- अथेति ।
भाव उत्पत्तिः ।
उक्तं हि ऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतऽइति ।
येषां क्षणिकाभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः ।
नष्टस्यापि निमित्तत्त्वं स्यान्वोपादानत्वं, तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः ।
सत्त्वे च क्षणिकत्वहानिरिति परिहरति- तथापीत्यादिना ।
प्रथमपक्षेक्तदोषं द्रढयति- विनैवेति ।
वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह- अपि चेति ।
तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनो ऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् ।
द्वितीयं शङ्कते- अथास्तीति ।
विशेषमेवाह- उत्पादेति ।
दूषयति- एवमपीति ।
ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।
संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति- अथात्यन्तेति

33.21

एन्द् ब्स्चोम्_2,2.4.20
स्तर्त् ब्स्चोम्_2,2.4.21
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्ब्स्_2,2.21 ।
क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् ।
अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्, ततः प्रतिज्ञोपरोधः स्यात् ।
चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत ।
निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत ।
अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात्ततो यौगपद्यं हेतुफलयोः स्यात् ।
तथापि प्रतिज्ञोपरोध एव स्यात् ।
क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत

33.21

सूत्रं व्याख्यातुं वृत्तं स्मारयति- क्षणभङ्गेति ।
किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा ।
आद्ये प्रतिज्ञाहानिरित्याह- अथासत्येवेत्यादिना ।
विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः ।
यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः ।
प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह- निर्हेतुकायां चेति ।
सहेतुकत्वपक्षे ऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे- अथोत्तरक्षणेत्यादिना ।
सम्यक् क्रियन्त इति संस्काराः ।
आद्यन्तवन्तो भावा इत्यर्थः

33.22

एन्द् ब्स्चोम्_2,2.4.21
स्तर्त् ब्स्चोम्_2,2.4.22
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात् । ब्ब्स्_2,2.22 ।
अपिच वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति ।
तदपि च क्षयं प्रतिसंख्याप्रतिसंखायानिरोधावकाशं चेत्याचक्षते ।
त्रयमपि चैतदवस्त्वभावमात्रं निरुपाख्यमिति मन्यन्ते, बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतो ऽप्रतिसंख्यानिरोधः आवरणभावमात्रमाकाशमिति ।
तेषामाकाशं परस्तात्प्रत्याख्यास्यति ।
निरोधद्वयमिदानीं प्रत्याचष्टे ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरप्राप्तिः ।
असंभव इत्यर्थः ।
कस्मात् ।
अविच्छेदात् ।
एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्यातां भावगोचरौ वा ।
न तावत्संतानगोचरौ संभवतः ।
सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् ।
नापि भावगोचरौ संभवतः ।
नहि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् ।
अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् ।
तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः

33.22

fन्: निरुपाख्यं निःस्वरूपम् ।
प्रतीपा प्रतुकूलः संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या तया निरोधः ।
एवमाद्यसूत्राभ्यां समुदायो निरस्तः ।
उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते ।
संप्रति तदभिमतं द्विविधं विनाशं दूषयति- प्रतिसंख्येति ।
संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रं, त्रयात्तुच्छरूपादन्यदित्यर्थः ।
किं तत्रयं, तदाह- तदपीति ।
निरुपाख्यं निःस्वरूपम् ।
प्रतीपा प्रतिकूला संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या, तया निरोधः कस्यचिद्भावस्य भवति ।
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह- तद्विपरीत इति ।
परक्रियामुक्त्वा सूत्रं व्याचष्टे- तेषामिति ।
भावाः संतानिनः ।
संतानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् संताने चरमक्षणः क्षणान्तरं करोति वा न वा ।
आद्ये चरमत्वव्याघातः, संतानाविच्छेदात् ।
द्वितीये चरमस्यासत्त्वप्रसंगः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात्, चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् ।
तस्मात् संतानस्य विच्छेदासंभवान्निरोधाप्राप्तिरित्याह- न तावदिति ।
न द्वितीय इत्याह- नापीति ।
घटकपालचूर्णाद्यवस्थासुसेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः ।
बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह- अस्पष्टेति ।
अङ्कुरादयो ऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात्पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः ।
यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षण(?)निरोधासंभव इत्युपसंहारः

33.23

एन्द् ब्स्चोम्_2,2.4.22
स्तर्त् ब्स्चोम्_2,2.4.23
उभयथा च दोषात् । ब्ब्स्_2,2.23 ।
यो ऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्स्वयमेव वा ।
पूर्वस्मिन्विकल्पे निहर्तुकविनाशाभ्युपगमहानिप्रसङ्गः ।
उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः ।
एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम्

33.23

fन्: परिकरा यमनियमादयस्तत्सहितात् ।
सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ।
अविद्यादीनां प्रतिसंख्यानिरोधं तदभिमतं दूषयति- उभयथेति ।
यमनियमादयः परिकराः ।
सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः

33.24

एन्द् ब्स्चोम्_2,2.4.23
स्तर्त् ब्स्चोम्_2,2.4.24
आकाशे चाविशेषात् । ब्ब्स्_2,2.24 ।
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति, तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् ।
आकाशस्येदानीं निराक्रियते ।
आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् ।
आगमप्रामाण्यात्तावत् ऽआत्मन आकाशः संभूतःऽ (तै. 2.1) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्राप्तिः ।
विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यं, गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् ।
अपि चावरणाभावमात्रमाकाशमिच्छतामेकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतो ऽनवकाशत्वप्रसङ्गः ।
यत्रावरणाभावस्तत्र पतिष्यतीति चेत् ।
येनावरणभावो विशेष्यते तत्तर्हि वस्तुभूतमेवाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत ।
सौगते हि समये ऽपृथिवी भगवः किंसंनिश्चयाऽ इत्यस्मिन्प्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः ऽकिंसंनिश्चयःऽ इत्यस्य प्रश्नस्य प्रतिवचनं भवति ऽवायुराकाशसंनिश्चयःऽ इति ।
तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् ।
तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् ।
अपिच निरोधद्वयमाकाशं च त्रयमप्येतन्निरूपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ।
नह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य ।
धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यान्न निरुपाख्यत्वम्

33.24

fन्: पतिष्यति संचरिष्यतीत्यर्थः ।
किं सम्यक् निश्चय आश्रयो ऽस्या इति किं संनिश्चया ।
आगमप्रामाण्यादिति ।
तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः ।
नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह- विप्रतिपन्नानिति ।
शब्दो वस्तुनिष्ठः गुणत्वात्, गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति ।
पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः ।
आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति- अपि चेति ।
यथैकघटसत्त्वे ऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वे ऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसंचारो न स्यादित्यर्थः ।
देशविशेषावच्छेदेनावरणाभावो ऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह- यत्रेत्यादिना ।
पतिष्यति ।
पक्षी संचरिष्यतीत्यर्थः ।
आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह- अपि चेति ।
किं सम्यक् निश्रय आश्रयो ऽस्या इति किंसंनिश्रया ।
अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति ।
व्याघातान्तरमाह- अपिचेति ।
ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति संभवति ।
धर्मिणो ऽसत्त्वव्याघातादित्यर्थः

33.25

एन्द् ब्स्चोम्_2,2.4.24
स्तर्त् ब्स्चोम्_2,2.4.25
अनुस्मृतेश् च । ब्ब्स्_2,2.25 ।
अपिच वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन्नुपलब्धुरपि क्षणिकतामभ्युपेयात् ।
नच सा संभवति ।
अनुस्मृतेः अनुभवमुपलब्धिमनूत्पद्यमानं स्मरणमेवानुस्मृतिः ।
सा चोपलब्ध्येककर्तृका सती संभवति ।
पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् ।
कथं ह्यहमदो ऽद्राक्षमिदं पश्यामीति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् ।
अपिच दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धो ऽहमदो ऽद्राक्षमिदं पश्यामीति ।
यदि हि तयोर्भिन्नः कर्ता स्यात्ततो ऽहं स्माराम्यद्राक्षीदन्य इति प्रतीयात् ।
नत्वेवं प्रत्येति कश्चित् ।
यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोको ऽवगच्छति, स्मराम्यहमसावदो ऽद्राक्षीदिति ।
इह त्वहमदो ऽद्राक्षमिति दर्शनस्मरणयोर्विनाशिको ऽप्यात्मानमेवैकं कर्तारमवगच्छति ।
न नाहमित्यात्मनो दर्शनं निर्वृत्तं निह्नुते यथाग्निरनुष्णो ऽप्रकाश इति वा ।
तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् ।
तथानन्तरमनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकामोत्तमादुच्छ्वासादतीताश्च प्रतिपत्तीरा जन्मन आत्मैककर्तृकाः प्रतिसंदधानः कथं क्षणभङ्गवादी वैनाशिको नापपेत स यदि ब्रूयात्सादृश्यादेतत्समपत्स्यत इति ।
तं प्रतिब्रूयात् ।
तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्, सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात् ।
स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथासत्येकस्य क्षणद्वयावस्थ4नात्क्षणिकत्वप्रतिज्ञा पीड्येत ।
तेनेदं सदृशमिति प्रत्ययान्तरमेवेदं न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमितिचेत् ।
न ।
तेनेदमिति ।
भिन्नपदार्थोपादानात् ।
प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्तेनेदं सदृशमिति वाक्यप्रयोगो ऽनर्थकः स्यात् ।
सादृश्यमित्येव प्रयोगः प्राप्नुयात् ।
यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते तदा स्वपक्षसिद्धिः परपक्षदोषो वोभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसंतानमारोहति ।
एवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यम् ।
ततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
नचायं सादृश्यात्संव्यवहारो युक्तः ।
तद्भावावगमात्तत्सदृशभावानवगमाच्च ।
भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसंभवात्तदेवेदं स्यात्तत्सदृशं वेति संदेहः ।
उपलब्धरि तु संदेहो ऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वेति ।
य एवाहंपूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामीति निश्चिततद्भावोपलम्भात् ।
तस्मादप्यनुपपन्नो वैनाशिकसमयः

33.25

आत्मनः क्षणिकत्वं दूषयति- अनुस्मृतेरिति ।
अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः ।
क्षणिकत्वे ज्ञानद्वयानुसंधानं च न स्यादित्याह- कथं ह्यहमिति ।
पूर्वदर्शनकर्तुरद्राक्षमितिस्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह- अपि चेति ।
यो ऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः ।
इदं पश्यामीति ज्ञानान्तरसंबन्धकथनं, यो ऽहमद्राक्षं सो ऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् ।
विपक्षे बाधकमाह- यदि हीति ।
द्रष्टृस्मर्त्रोर्भेदे ऽहं स्मरामि अन्यो ऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह- यत्रैवमिति ।
प्रत्ययमाह- स्मरामीति ।
स्मराम्यहमन्यो ऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोको ऽवगच्छतीत्यविवादमित्यर्थः ।
प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह- इह त्वहमद इति ।
यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात् प्रत्यभिज्ञा प्रमेत्युक्तं भवति ।
तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह- तत्रैवं सतीति ।
क्षणद्वयसंबन्धे ऽप्यात्मनस्तृतीयक्षणे भङ्गो ऽस्त्विति वदन्तं प्रत्याह- तथेति ।
वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्चावर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः प्रतिसंदधानः सन्निति योजना ।
दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते- स इति ।
सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात् स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं संभवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति- तमित्यादिना ।
स्यादेतत् ।
न सादृश्यप्रत्ययः पूर्वोत्तरवस्तूदयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते- तेनेदमिति ।
अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति ।
नेति वदतः स्वानुभवविरोधः ।
किञ्चार्थभेदाभावात् पदत्रयप्रयोगो न स्यात् ।
तस्मात् पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति- न तेनेति ।
अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् ।
न ।
त्रयाणामेकप्रत्ययाभेदे मिथो ऽप्यभेदापत्तेः ।
इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह- यदा हीति ।
वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसंभवात् स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदो ऽङ्गीकार्यः ।
तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः ।
ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति- एवमेवेति ।
यत् प्रमाणसिद्धं तदेव वक्तव्यम् ।
न हि क्षणिकत्वे किञ्चित् प्रमाणमस्ति ।
न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्वरूपे क्षणिकत्वे मानमिति वाच्यम्, तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः ।
नच यत्सत् तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् ।
नच स्थायिनमनुमातारमन्तरेणानुमानं संभवति ।
तस्मादमानसिद्धार्थवक्ता तथागतो ऽश्रद्धेयवचन इत्यर्थः ।
किञ्च सादृश्यं प्रत्यभिज्ञायां दोषयता निमित्तं विषयतया वा ।
आद्ये ऽपि स्वरूपसत् ज्ञातं वा ।
नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञाने ऽपि रूप्याभेदभ्रमापत्तेः ।
न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासंभवस्योक्तत्वात् ।
नापि विषयतया निमित्तमित्याह- नचेति ।
सो ऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः ।
सो ऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति- भवेदिति ।
जडार्थे प्रत्यभिज्ञाते ऽपि बाधसंभावनया संशयः कदाचित् स्यान्नात्मनीत्यर्थः ।
असंदिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासंगतमित्युपसंहरति- तस्मादिति

33.26

एन्द् ब्स्चोम्_2,2.4.25
स्तर्त् ब्स्चोम्_2,2.4.26
नासतो ऽदृष्टत्वात् । ब्ब्स्_2,2.26 ।
इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छतामभावाद्भावोत्पत्तिरित्येतदापद्यते ।
दर्शयन्ति चाभावाद्भावोत्पत्तिम्- ऽनानुपमृद्य प्रादुर्भावात्ऽ इति ।
विनष्टाद्धि किल बीजादङ् कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः ।
कूटस्ताच्चेत्कारणात्कार्यमुत्पद्येताविशेषात्सर्वं सर्वत उत्पद्येत ।
तस्मादभावग्रस्तेभ्यो बीजादिभ्यो ऽङ् कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिरिति मन्यन्ते ।
तत्रेदमुच्यते- ऽनासतो ऽदृष्टत्वात्ऽ इति ।
नाभावाद्भाव उत्पद्यते ।
यद्यभावाद्भाव उत्पद्येताभावत्वाविशेषात्कारणविशेषाभ्युपगमो ऽनर्थकः स्यात् ।
नहि बीजादीनामुपमृदितानां यो ऽभावस्तस्याभावस्य शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषो ऽस्ति, येन बीजादेवाङ् कुरो जायते क्षीरादेव दधीत्येवञ्जातीयकः कारणिशेषणादिभ्युपगमोर्ऽथवान्स्यात् ।
निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्यो ऽप्यङ् कुरादयो जायेरन् ।
नचैवं दृश्यते ।
यदि पुनरभावस्यापि विशेषो ऽभ्युपगम्येतोत्पलादीनामिव नीलत्वादिस्ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत ।
नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव, शशविषाणादिवत् ।
आभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् ।
नचैवं दृश्यते ।
सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् ।
नच मृदान्विताः शरावादयो भावस्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते ।
मृद्विकारानेव तु मृदान्वितान्भावांल्लोकः प्रत्येति ।
यत्तूक्तं स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वामुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति ।
तद्दुरुक्तम् ।
स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् ।
येष्वपि बीजादिषु स्वरूपोपमर्दे लक्ष्यते तेष्वरपि नासावुपमृद्यमाना पूर्वावस्थोत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानामेवानुयायिनां बीजाद्यवयवानामङ् कुरादिकारणभावाभ्युपगमात् ।
तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः ।
अपिच चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते

33.26

अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति- नासत इति ।
न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च ।
द्वौ नञौ प्रकृतार्थं गमयतः ।
मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह- विनष्टादिति ।
कारणविनाशात् कार्यजन्मेत्यत्र युक्तिमाह- कूटस्थादिति ।
विनाशशून्यात् ।
नित्यादित्यर्थः ।
नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः ।
नच सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् ।
अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् ।
अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् ।
तस्मान्न स्थायिभवात् कार्यजन्मेत्यर्थः ।
क्षणिकभावस्य हेतुत्वम् ऽउत्तरोत्पादे चऽइत्यत्र निरस्तम् ।
अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे- तत्रेदमिति ।
यदि बीजाभावस्याभावान्तराद्विशेषः स्यात्, तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोर्ऽथवान्स्यात्, न सो ऽस्तीत्याह- येनेति ।
सूत्रं योजयति- निर्विशेषस्येति ।
शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः ।
अस्त्वभावस्यापि विशेष इत्यत आह- यदीति ।
अभावस्य हेतुत्वे ऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह- नापीति ।
अभावो न हेतुः, असत्त्वात् ।
संमतवदित्यर्थः ।
अभावो न प्रकृतिः, कार्यानन्वितत्वात्, यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह- अभावाच्चेति ।
अतो ऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह- मृदिति ।
स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति- यत्तूक्तमित्यादिना ।
अनुभवबलात्स्थिरस्वभावानामेव सहकारिसंनिधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् ।
नच शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यं, यतो ऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् ।
ततः स्वर्णादौ स्वतो ऽतिशयशून्ये ऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः ।
न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यं, पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या ।
यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति ।
तन्न ।
अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः ।
न ह्यर्थक्रियाकारित्वमेव सत्त्वम्, असतस्तदयोगेन सत्त्वस्य ततो भेदात् ।
सते ह्यर्थक्रियाकारित्वं नासतः ।
अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव ।
तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः ।
पूर्वापरविरोधमप्याह- अपिचेति

33.27

एन्द् ब्स्चोम्_2,2.4.26
स्तर्त् ब्स्चोम्_2,2.4.27
उदासीनानाम् अपि चैवं सिद्धिः । ब्ब्स्_2,2.27 ।
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवंसत्युदासीनानामनीहमानानांपि जनानामभिमतसिद्धिः स्यात् ।
अभावस्य सुलभत्वात् ।
कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् ।
कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्याप्यमत्रोत्पत्तिः ।
तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः ।
स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत ।
नचैतद्युज्यते ऽभ्युपगम्यते वा केनचित् ।
तस्मादप्यनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः

33.27

fन्: अनीहमानानां प्रयत्नशून्यानाम् ।
अमत्रं घटादिपात्रम् ।
अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् ।
अतिप्रसङ्गान्तरमाह- उदासीनानामिति ।
अनीहमानानां प्रयत्नशून्यानाम् ।
अमत्रं घटादिपात्रम् ।
तन्वानस्य व्यापारयतः ।
तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम्

33.28

एन्द् ब्स्चोम्_2,2.4.27
स्तर्त् ब्स्चोम्_2,2.5.28
5 अभावाधिकरणम् । सू. 28-32
नाभाव उपलब्धेः । ब्ब्स्_2,2.28 ।
एवं बाह्यार्तवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठिते ।
केषाञ्चित्किल बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरोचिता ।
नासौ सुगताभिप्रायः ।
तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः ।
तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयव्यवहारः सर्व उपपद्यते ।
सत्यपि बाह्येर्थे बुद्ध्यारोहमन्तरेण प्रमाणप्रमेयफलव्यवहारानवतारात् ।
कथं पुनरवगम्यते ऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाह्योर्ऽथो ऽस्तीति ।
तदसंभवादित्याह ।
स हि बाह्योर्थो ऽभ्युपगम्यमानः परमाणवो वा स्युस्तत्समूहा वा स्तम्भादयः स्युः ।
तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति (परमाण्वाभासज्ञानानुत्पत्तेः) ।
नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्यो ऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् ।
एवं जात्यादीनपि प्रत्यक्षीत ।
अपिचानुभावमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य यो ऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् ।
अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना ।
अपिच सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति ।
नह्यनयोरेकस्यानुपलम्भे ऽन्यस्योपलम्भो ऽस्ति ।
नचैतत्स्वभावविवेके युक्तं, प्रतिबन्धकारणाभावात् ।
तस्मादप्यर्थाभावः ।
स्वप्नादिवच्चेदं द्रष्टव्यम् ।
यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते ।
प्रत्ययत्वाविशेषात् ।
कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ।
वासनावैचित्र्यादित्याह ।
अनादौ हि संसारे बीजाङ् कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते ।
अपिचान्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते ।
स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्योभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् ।
अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मयानभ्युपगम्यमानत्वात् ।
तस्मादप्यभावो बाह्यार्थस्येति ।
एवं प्राप्ते ब्रूमः - ऽनाभाव उपलब्धेःऽ इति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते ।
कस्मात् ।
उपलब्धेः ।
उपलभ्यते हि प्रतिप्रत्ययं बाह्योर्ऽथः स्तम्भः कुड्यं घटः पट इति ।
नचोपलभ्यमानस्यैवाभावो भवितुमर्हति ।
यथा हि कश्चिद्भुञ्जानो भुजितसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति, तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थं नाहमुपलभे नच सो ऽस्तीति ब्रुवन्कथमुपादेयवचनः स्यात् ।
ननु नाहमहं ब्रवीमि न कञ्चिदर्थमुपलभ इति किं तूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि ।
बाढमेवं ब्रवीषि निरङ् कुशत्वात्ते तुण्डस्य ।
नतु यक्त्युपेतं ब्रवीषि ।
यत उपलब्धिव्यतिरेको ऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव ।
नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते ।
उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते यत्प्रत्याचक्षाणा अपि बाह्यार्थमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत इति ।
ते ऽपि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थं बहिर्वदति वत्कारं कुर्वन्ति ।
इतरथा हि कस्माद्बहिर्वदति ब्रूयुः ।
नहि विष्णुमित्रो वन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत ।
तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं नतु बहिर्वदवभासत इति ।
ननु बाह्यार्थस्यासंभवाद्बहिर्वदवभासत इत्यध्यवसितम् ।
नायं साधुरध्यवसायो यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संबवासंभवाववधार्येते न पुनः संभवासंभवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती ।
यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति ।
यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति ।
इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योर्ऽथ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येतोपलब्धेरेव ।
नच ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य ।
अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषययोरुपायोपेयभावहेतुको नाभेदहेतुक इत्यब्युपगन्तव्यम् ।
अपिच घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदो न विशेष्यस्य ज्ञानस्य ।
द्वाभ्यां च भेद एतस्य सिद्धो भवत्येकस्माच्च द्वयोः ।
तस्मादर्थज्ञानयोर्भेदः ।
तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् ।
अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदो न विशेषणस् घटस्य ।
यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदो न विशेषणस्य क्षीरस्य तद्वत् ।
अपिच द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैवोपक्षीणयोरितरेतरग्राह्यग्राहकत्वानुपपत्तिः ।
ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगतास्ता हीयेरन् ।
किञ्चान्यत् ।
विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योर्थः स्तम्भः कुड्यमित्येवञ्जातीयकः तस्मान्नाभ्युपगम्यत एवेति युक्तमभ्युपगन्तुम् ।
अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाह्यो ऽप्यर्थ इति चेत् ।
अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छस्यग्निरात्मानं दहतीतिवत्, अविरुद्धं तु लोकप्रसिद्धं स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योर्ऽथोनुभूयत इति नेच्छास्यहो पाण्डित्यं महद्दर्शितम् ।
नचार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव ।
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे तदप्यनेन ग्राह्यं तदप्यन्येनेत्यनवस्था प्राप्नोति ।
अपिच प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति ।
तदुभयमप्यसत् ।
विज्ञानग्तहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादानवस्ताशङ्कानुपपत्तेः ।
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात् ।
किञ्चान्यत् ।
प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।

शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् ।
बाढमेवम्, अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वयानुज्ञायत इति चेत् ।
न ।
अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् ।
अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते ।
साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानमित्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् ।
न ।
विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् ।
अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम्

33.28

fन्: पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
अविद्योपप्लवो ऽविद्यासंसर्गः ।
नाभाव उपलब्धेः ।
अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततो ऽन्योर्ऽथो ऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह- एवमित्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् ।
नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह- केषाञ्चिदिति ।
उक्तं च धर्मकीर्तिना-ऽदेशना लोकनाथानां सत्त्वाशयवशानुगाःऽइति ।
सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः ।
नन्वसति बाह्यार्थे मानमेयव्यवहारः कथं, तत्राह- तस्मिन्निति ।
विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम्, अवभासात्मना मानफलं, शक्त्यात्मना मानं, शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।
मुख्य एव भेदः किं न स्यादत आह- सत्यपीति ।
नहि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारो ऽस्ति ।
अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।
बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति- कथमित्यादिना ।
ज्ञेयं ज्ञानातिरेकेणासत्, तदतिरेकेणासंभवात्, नरशृङ्गवदित्याह- तदसंभवादिति ।
असंभवं विवृणोति- स हीति ।
परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् ।
समूहस्त्वसन्नित्यर्थः ।
अवयव्यभावे ऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह- एवमिति ।
जातिगुणकर्मणां धर्मिणः सकाशादभेदे ऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः ।
भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।
किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसंबन्धाभावे सर्वविषयत्वापत्तेर्विशेषो ऽङ्गीकार्यः, तथाच ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह- अपिचेति ।
पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
किञ्च ज्ञेयं ज्ञानाभिन्नं, ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात्, ज्ञानवदित्याह- अपिचेति ।
ज्ञानार्थयोवास्तवभेदे ऽपि सहोपलम्भनं स्यात्, ग्रैह्यग्राहकभावादित्यत आह- न चैतदिति ।
क्षणिकज्ञानस्यार्थेन संबन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः ।
किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनं, विज्ञानत्वात्, स्वप्नादिज्ञानवदित्याह- स्वप्नेति ।
विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते- कथमिति ।
अन्यथोपपत्त्या परिहरति- वासनेति ।
अनादिसंतानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधाने ऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।
उभयवादिसंमतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह- अपिचेति ।
क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे- नाभाव इत्यादिना ।
किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।
नाद्य इत्युक्त मुपलब्धेरिति ।
द्वितीयं शङ्कते- ननु नाहमिति ।
ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह- बाढमित्यादिना ।
त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह- अतश्चेति ।
बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात्, दृष्टान्तत्वात्संभवाच्च बहिर्वच्छब्दो न स्यादित्याह- इतरथेति ।
अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह- तस्मादिति ।
ज्ञेयार्थो ज्ञानातिरेकेणासन्नसंभवादित्युक्तबाधाद्वत्करणमिति शङ्कते- नन्विति ।
को ऽसावसंभवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसंभवस्याभावो वा ।
नाद्यः, साध्याभेदात् ।
न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासंभवासिद्धरित्याह- नायं साधुरिति ।
संभवः सत्तानिश्चयः प्रमाणाधीनः ।
असंभवो ऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति- यद्धीति ।
उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः संभवं वदन्नेव तृतीयं दूषयति- इहेति ।
प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षे ऽप्ययुक्तत्वस्य तुल्यत्वात् ।
न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकप्रसङ्गात् ।
न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः ।
तस्मादयुक्तत्वे ऽपि यथानुभवं व्यवहारयोग्योर्ऽथः स्वीकार्यः ।
न चतुर्थः, निश्चिते तादृशसंभवस्यानुपयोगात् ।
तस्य क्वचित् प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।
यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह- नचेति ।
यत्तु गौरवमुक्तं, तन्न दूषणं, प्रामाणिकत्वादित्याह- वहिरिति ।
यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमो ऽपि नाभेदसाधक इत्याह- अत एवेति ।
यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वे ऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदे ऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः ।
नच ज्ञानस्य क्षणिकत्वात् स्वभिन्नग्राह्यसंबन्धायोगः, स्थायित्वादिति भावः ।
विज्ञानमनेकार्थेभ्यो भिन्नम्, एकत्वात्, गोत्ववदिति सत्प्रतिपक्षमाह- अपि चेति ।
नच हेत्वसिद्धः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।
नच सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह- नविशेष्यस्येति ।
घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह- तथेति ।
घटो द्वाभ्यां भिन्नः एकत्वात्, क्षीरवदित्यर्थः ।
ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह- अपि चेति ।
क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च ।
तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् ।
तथाच तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः ।
एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता ।
सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम्, अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेणवा दुर्ज्ञानत्वात् उत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् ।

किचाविद्योपप्लवो ऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् ।
अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या ।
आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशो ऽनेकज्ञानसाध्यो गृहीतः ।
तस्मात् प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदो ऽङ्गीकार्य इत्यर्थः ।
ज्ञानार्थयोभेदे युक्तयन्तरमस्तीत्याह- किञ्चान्यदिति ।
ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।
स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते- अथ विज्ञानमिति ।
विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह- अत्यन्तेति ।
ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितं, वस्तुतः स्ववेद्यत्वमयुक्तमित्याह- नचेति ।
कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः ।
नच स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम्, अभेदे विषयविषयित्वस्याप्यसंभवादिति भावः ।
ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते- नन्विति ।
अनवस्था च साम्यं चेति दोषद्वयं परिहरति- तदुभयमपीति ।
अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था ।
नापि साम्यम् ।
चिज्जडत्ववैषम्यादित्यर्थः ।
साक्षी क्वेत्यत आह- स्वयंसिद्धस्येति ।
निरपेक्षस्य साक्षिणो ऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सो ऽङ्गीकार्य इत्यर्थः ।
अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह- किञ्चेति ।
विज्ञानं ज्ञानान्तरापेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात्, स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्ता स्यात्, तथाच ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् ।
अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।
विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यं, स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते- बाढमिति ।
अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति- नेति ।
विमतं विज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात्, देहवदित्यर्थः ।
अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा ।
आद्ये ऽनवस्था ।
द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते- साक्षिण इति ।
त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते ।
अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितं, कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति- न ।
विज्ञानस्येति

33.29

एन्द् ब्स्चोम्_2,2.5.28
स्तर्त् ब्स्चोम्_2,2.5.29
वैधर्म्याच् च न स्वप्नादिवत् । ब्ब्स्_2,2.29 ।
यदुक्तं बाह्यार्थपलायिना स्वप्नादिप्रत्ययवजिजागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति ।
तत्प्रतिवक्तव्यम् ।
अत्रोच्यते- न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति ।
कस्मात् ।
वैधर्म्यात् ।
वैधर्म्यं हि भवति स्वप्नजागरितयोः ।
किं पुनर्वैधर्म्यम् ।
बाधाबाधाविति ब्रूमः ।
बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति, नह्यस्ति मम महाजनसमागमो निद्रालग्नं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति ।
एवं मायादिष्वपि भवति यताविधं बाधः ।
नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते ।
अपिच समृतिरेषा यत्स्वप्नदर्शनम् ।
उपलब्धिस्तु जागरितदर्शनम् ।
स्मृत्युपलब्धयोश्च प्रत्यक्षमन्तरं स्वयमनुभूयतेर्ऽथविप्रयोगसंयोगात्मकमिष्टं पुत्रं स्मरामि नोपलभ उपलब्धुमिच्छामीति ।
तत्रैवंसति न शक्यते वक्तुं मिथ्या जागरितोपलब्धिरूपलब्धित्वात्स्वप्नोपलब्धिवदित्युभयोरन्तरं स्वयमनुभवता ।
नच स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् ।
अपिचानुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते ।
नच यो यस्य स्वतो धर्मो न संभवति सो ऽन्यस्य साधर्म्यात्तस्य संभविष्यति ।
नह्यग्निरुष्णो ऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति ।
दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः

33.29

fन्: निद्रालग्निमिति करणदोषाभिधानम् ।
संस्कारमात्रजं हि विज्ञानं समृतिः ।
प्रमाणजो ऽनुभव उपलब्धिः ।
एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् ।
संप्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति- वैधर्म्याच्चेति ।
किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम्, अथवा व्यावहारिकविषयशून्यत्वम् ।
नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् ।
न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।
तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह- बाध्यते हीत्यादिना ।
निद्राग्लानमिति ।
करणदोषोक्तिः ।
साधनव्यापकत्वनिरासायाह- नचैवमिति ।
किञ्च प्रमाणजानुभव उपलब्धिः पक्षो ऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।
परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह- अपि चेति ।
स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह- अर्थविप्रयोरेति ।
असंबन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत्, न संप्रयुक्तवर्यमानार्तमात्रग्राहिण्या उपलब्धेरिति भावः ।
पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह- तत्रैवंसतीति ।
वैधर्म्ये सतीत्यर्थः ।
अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।
वैधर्म्यासिद्धिं निरस्यति- नचेति ।
बाधमप्याह- अपिचेति ।
वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो दि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतो ऽपि वक्तुं शक्यत्वात् ।
नहि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् ।
यदि न वस्तुतो धर्मो ऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् ।
अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।
उक्तोपाधिरपि न विस्मर्तव्य इत्याह- दर्शितं त्विति

33.30

एन्द् ब्स्चोम्_2,2.5.29
स्तर्त् ब्स्चोम्_2,2.5.30
न भावो ऽनुपलब्धेः । ब्ब्स्_2,2.30 ।
यदप्युक्तं विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्प्यत इति ।
तत्प्रतिवक्तव्यम् ।
अत्रोच्यते- नभावो वासनानामुपपद्येत त्वत्पक्षे ऽनुपलब्धेर्बाह्यानामर्थानाम् ।
अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति ।
अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः ।
अनादित्वे ऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यान्नाभिप्रायसिद्धिः ।
यावप्यन्यव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवंसति प्रत्युक्तौ द्रष्टव्यौ ।
विनार्ऽथोपलब्ध्या वासनानुपपत्तेः ।
अपिच विनापि वासनाभिरर्थोपलब्ध्युपगमाद्विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमादर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः ।
अपिच वासना नाम संस्कारविशेषाः ।
संस्काराश्च नाश्रयमन्तरेणावकल्प्यन्ते ।
एवं लोके दृष्टत्वात् ।
नच तव वासनाश्रयः कश्चिदस्ति प्रमाणतो ऽनुपलब्धेः

33.30

fन्: भाव उत्पत्तिः सत्ता वा ।
सूत्रव्यावर्त्यं स्मारयित्वा दूषयति- यदप्युक्तमित्यादिना ।
भाव उत्पत्तिः सत्ता वा ।
ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह- अनादित्वे ऽपीति ।
बीजादङ्कुरो दृष्ट इत्यदृष्टे ऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः ।
ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह- याविति ।
वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः ।
कार्यत्वग्राहकं व्यतिरेकमाह- विनेति ।
अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् ।
अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह- अपिचेति ।
यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह- अपिचेति

33.31

एन्द् ब्स्चोम्_2,2.5.30
स्तर्त् ब्स्चोम्_2,2.5.31
क्षणिकत्वाच् च । ब्ब्स्_2,2.31 ।
यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति ।
नहि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि ।
देशकालनिमित्तापेक्षवासनाधानस्मृतिप्रतिसंधानादिव्यवहारः संभवति ।
स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः ।
अपिच विज्ञानवादे ऽपि क्षणिकत्वाभ्युपगमस्य समानत्वाद्यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि ऽउत्तरोत्पादे च पूर्वनिरोधात्ऽ इत्येवमादीनि तानीहाप्यनुसंधातव्यानि ।
एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च ।
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
नह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यते ऽपह्नोतुमपवादाभाव उत्सर्गप्रसिद्धेः

33.31

fन्: नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योजयन्ते ।
अस्त्वालयविज्ञानमाश्रय इत्यत आह- क्षणिकत्वाच्चेति ।
सूत्रं व्याचष्टे- यदपीति ।
सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात्, पौर्वापर्ये चाधेयक्षणे ऽसत आधारत्वायोगात्, सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः ।
अस्तु तर्ह्यालयविज्ञानसंतानाश्रया वासनेत्यत आह- नहीति ।
सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा संतानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न संभवतीत्यर्थः ।
यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह- स्थिरेति ।
सूत्रमतिदेशार्थत्वेनापि व्याचष्टे- अपिचेति ।
मतद्वयनिरासमुपसंहरति- एवमिति ।
ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्कय सूत्रकारः किमिति न निराचकारेत्यत आह- शून्येति ।
आदरः पृथक्सूत्रारम्भो न क्रियते ।
एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः ।
तथाहि-ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः ।
ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात्, सुषुप्तिवदित्यत आह-ऽवैधर्म्याच्च न स्वप्नादिवत्ऽ ।
स्वप्न आदिर्यस्याः सुषुप्तेस्तदन्नेतरावस्थयोः शून्यत्वम्, उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् ।
सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः ।
किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यं, तस्य त्वन्ते न भावः ।
मानतो ऽनुपलब्धेरित्याह-ऽन भावो ऽनुपलब्धेःऽ ।
तदर्थमाह- न ह्ययमिति ।
यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् ।
बाधाभावादित्यर्थः ।
नच सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् ।
मिथ्यात्वसंभवादिति भावः ।
ऽक्षणिकत्वाच्चऽइति सूत्रं ऽक्षणिकत्वोपदेशाच्चऽइति पठनीयम् ।
शून्यत्वविरुद्धक्षणिकत्वोपदेशादसंगतप्रलापी सुगत इत्यर्थः

33.32

एन्द् ब्स्चोम्_2,2.5.31
स्तर्त् ब्स्चोम्_2,2.5.32
सर्वथानुपपत्तेश् च । ब्ब्स्_2,2.32 ।
किं बहुना ।
सर्वप्रकारेण यथायथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथातथा सिकताकूपवद्विदीर्यत एव ।
न काञ्चिदप्यत्रोपपत्तिं पश्यामः ।
अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः ।
अपिच बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनो ऽसंबद्धप्रलापित्वं, प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति ।
सर्वथाप्यनादरणीयो ऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः

33.32

fन्: वेदबाह्या अत्र प्रजा ग्राह्याः ।
सुगतमतासांगत्यमुपसंहरति- सर्वथेति ।
सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह- प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः ।
अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम्

33.33

एन्द् ब्स्चोम्_2,2.5.32
स्तर्त् ब्स्चोम्_2,2.6.33
6 एकस्मिन्नसंभवाधिकरणम् । सू. 33-36
नैकस्मिन्न् असंभवात् । ब्ब्स्_2,2.33 ।
निरस्तः सुगतसमयः ।
विवसनसमय इदानीं निरस्यते ।
सप्त चैषां पदार्थाः संमता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम ।
संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ ।
यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते ।
तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम- जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशास्तिकायश्चेति ।
सर्वेषामप्येषामवान्तरप्रभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति ।
सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति ।
स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति ।
एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति ।
अत्राचक्ष्महे- नायमभ्युपगमो युक्त इति कुतः ।
एकस्मिन्नसंभवात् ।
नह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् ।
य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नैव वा तथा स्युः ।
इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् ।
नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति ।
नेति ब्रूमः ।
निरङ् कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वविशेषात्स्यादिति स्यानव्नास्तीत्यादिविकल्पोपनिपातादिनिर्धारणात्मकतैव स्यात् ।
एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षे ऽस्तिता स्याच्च पक्षे नास्तीति ।
एवंसति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितष्वनिर्धारितासूपदेष्टुं शक्नुयात् ।
कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेर्ऽथे ऽनिर्धारितरूपे प्रवर्तेरन् ।
ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोको ऽनाकुलः प्रवर्तते नान्यथा ।
अतश्चानिर्धार्तार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् ।
तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् ।
नचैषां पदार्थानामवक्तव्यत्वं संभवति ।
अवक्तव्याश्चेन्नोच्येरन् ।
उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् ।
उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च ।
तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा, एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्यायितव्यपक्षस्य ।
स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः ।
अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः ।
एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्सत्त्वे चैकस्मिन्धर्मे ऽसत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैवं सत्त्वस्यासंभवादसंगतमिदमार्हतं मतम् ।
एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः ।
यत्तु पुद्गलसंज्ञकेभ्यो ऽणुभ्यः संगाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते

33.33

fन्: जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेनिद्रियाणां प्रवृत्तिरास्रवः, तां संवृणोतीति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
अस्तिकायशब्दः सांकेतिकः पदार्थवाची ।
जीवश्चासावस्तिकायश्चेति विग्रहः ।
पूर्यन्ते गन्तीति पुद्गलाः परमाणुसंघाः कायाः ।
सप्तानांस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी तस्या नयो न्यायः ।
नैकस्मिन्नसंभवात् ।
मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह- निरस्त इति ।
एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधो ऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां संदेहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसंधायतन्मतमुपन्यस्यति- सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
नन्वास्त्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह- संक्षेपतस्त्विति ।
संक्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह- तयोरिति ।
अस्तिकायशब्दः सांकेतिकः पदार्थवाची ।
जीवश्चासावस्तिकायश्चेत्येवं विग्रहः ।
पूर्यन्ते ग्लन्तीति पुद्गलाः परमाणुसंघाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः ।
पञ्चपदार्थानामवान्तरभेदमाह- सर्वेषामिति ।
अयमर्थः-जीवास्तिकायस्त्रिविधः-कश्चिज्जीवो नित्यसिद्धोर्ऽहन्मुख्यः, केचित्सांप्रतिकमुक्ताः, केचिद्बद्धा इति ।
पुद्गलास्तिकायः षोढा-पृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति ।
प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ ।
आकाशास्तिकायो द्विविधः-लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति ।
बन्धाख्यं कर्माष्टविधम्-चत्वारि घातिकर्माणि चत्वार्यघातीनि ।
तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि ।
तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानम् द्वितीयं, बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं, मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम्, इमानि चत्वारि श्रेयोहन्तृत्वाघातिकर्माणि ।
अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति ।
मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम्, एतन्नामाहमस्मीत्यभिमानो नामिकम्, अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टो ऽस्मीत्यभिमानो गोत्रिकम्, शरीरस्थित्यर्थं कर्म आयुष्कम् ।
अथवा शुक्रशोणितमिश्रितमायुष्कं, तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकं, शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकं, सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयं, तत्त्ववेदनानुकूलत्वात् ।
तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वाघातीनि ।
तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति ।
इयं प्रक्रिया मान्यशून्येति द्योतयति- स्वसमयपरिकल्पितानिति ।
स्वीयतन्त्रसंकेतमात्रकल्पितानित्यर्थः पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह- सर्वत्रेति ।
अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति ।
सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः ।
घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् ।
अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः ।
के ते सप्तभङ्गाः, तानाह- स्यादस्तीति ।
स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् ।
स्यादस्ति ।
कथञ्चिदस्तीत्यर्थः ।
एवमग्ने ऽपि ।
तत्र वस्तुनो ऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते ।
नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः ।
क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः ।
युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात् स्यादवक्तव्य इति चतुर्थो भङ्गः ।
आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः ।
द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः ।
तृतीयचतुर्थेच्छायां स्यादस्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः ।
एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादेको ऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेको ऽवक्तव्यः स्यादेको ऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।
एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः संभवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात्, तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति- अत्रेति ।
यदस्ति तत् सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा ।
न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम्, अप्राप्तिभ्रान्त्या यत्नसंभवात् ।
यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि ।
प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः ।
तथाहि-किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण ।
द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव ।
नहि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामो ऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः ।
अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् ।
नाद्य इत्याह- नायमिति ।
ननु विमतमनैकात्मकं, वस्तुत्वात्, नारसिंहवदिति चेत् ।
न ।
घट इदानीमस्त्येवेत्यनुभवबाधात् ।
किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् ।
आद्ये व्यभिचार इत्याह- य इति ।
द्वितीये पदार्थनिश्चयो न स्यादित्याह- इतरथेति ।
अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते- नन्विति ।
तस्य निश्चयरूपत्वं नियतमनियतं वा ।
आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः ।
द्वितीये तस्य संशयत्वं स्यादित्याह- नेति ब्रूम इति ।
प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति- एवमिति ।
निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः ।
इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह- एवंसतीति ।
अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह- तथा पञ्चानामिति ।
यदुक्तमवक्तव्यत्वं तत् किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् ।
नाद्यः, व्याघातादित्याह- न चैषामिति ।
उच्यन्ते च ।
अवक्तव्यादिपदैरिति शेषः ।
न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात्, शेषस्यापि मुखभेदात् ।

न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यं, तादृशवाञ्छाया एवानुत्पत्तिरिति ।
किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह- उच्यमानाश्चेत्यादिना ।
इति च प्रलपन्नित्यन्वयः ।
अर्हन्निति शेषः ।
अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः ।
इतश्चासंगतो ऽनैकान्तवाद इत्याह- स्वर्गेति ।
किञ्चानादिसिद्धोर्ऽहन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमो ऽपि न स्यादित्याह- अनादीति ।
प्रपञ्चितं सूत्रार्थं निगमयति- एवमिति ।
एतेनेति ।
सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः ।
परमाणुसंघाताः पृथिव्यादय इति ।
दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह- यत्त्विति

33.34

एन्द् ब्स्चोम्_2,2.6.35
स्तर्त् ब्स्चोम्_2,2.6.34
एवं चात्माकार्त्स्न्यम् । ब्ब्स्_2,2.34 ।
यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्त एवमात्मनो ऽपि जीवस्याकार्त्स्न्यमपरो दोषः प्रसज्येत ।
कथम् ।
शरीरपरमात्माणो हि जीव इत्यार्हता मन्यन्ते ।
शरीरपरिमाणतायां च सत्यामकृत्स्नो ऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत ।
शरीरीणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् ।
पुत्तिकाजन्म च प्राप्मुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयेत ।
समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थविरेषु दोषः ।
स्यादेतत् ।
अन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुर्महति च विकुचेयुरिति ।
तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा नवेति वक्तव्यम् ।
प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् ।
अप्रतिघाते ऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् ।
अपिच शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्

33.34

fन्: कर्मविपाकः कर्मणामभिव्यक्तिः ।
जीवस्य देहपरिमाणतां दूषयति- एवं चेति ।
अकार्त्स्न्यं मध्यमपरिमाणत्वम् ।
तेनानित्यत्वं स्यादित्यर्थः ।
अर्थान्तरमाह- शरीराणां चेति ।
विपाकः कर्मणामभिव्यक्तिः ।
जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् ।
शरीरैकदेशो निर्जीवः स्यादित्यर्थः ।
पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् ।
देहाद्बहिरपि जीवः स्यादित्यर्थः ।
किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित् स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह- समान इति ।
यथा दीपावयवानां घटे संकोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते- स्यादिति ।
दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्ये ऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति- तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् ।
द्वितीयं दूषयति- अप्रतिघात इति ।
अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह- अपिचेति

33.35

एन्द् ब्स्चोम्_2,2.6.34
स्तर्त् ब्स्चोम्_2,2.6.35
अथ प्रयायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते-
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ब्ब्स्_2,2.35 ।
नच पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते ।
कुतः ।
विकारादिदोषप्रसङ्गात् ।
अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्, विक्रियावत्त्वे च चर्मादिवदनित्यं प्रसज्येत ।
ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति ।
किञ्चान्यत् ।
आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानामात्वं शरीरादिवत् ।
ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् ।
नच स निरूपयितुं शक्यते ऽयमसाविति ।
किञ्चान्यत् ।
आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्त्यपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् ।
नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च निलीयेरन्, अभौतिकत्वाज्जीवस्य ।
नापि कश्चिदन्यः साधारणो ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् ।
किञ्चान्यत् ।
अनवधृतस्वरूपश्चैवंसत्यात्मा स्यात् ।
आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् ।
अत एवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते ।
अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्यायेण परिमाणानवस्थाने ऽपि स्रोतःसंताननित्यतान्यायेनात्मनो नित्यता स्यात् ।
यथा रक्तपटानां विज्ञानानवस्थाने ऽपि तत्संताननित्यता तद्वद्धिसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते ।
संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः ।
वस्तुत्वे ऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति

33.35

fन्: देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि स्रोतःप्रवाहः ।
विगतं सिग् वस्त्रं विसिचो दिगम्बरास्तेषामित्यर्थः ।
एवं जीवावयवा नित्या इतिमते देहमानत्वं निरस्तम् ।
संप्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते- अथेति ।
बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः ।
सूत्रेण परिहरति- नचेति ।
आगमापायौ पर्यायः ।
किमागमापायिनामवयवानामात्मत्वमस्ति न वा ।
आद्ये आह- विकारादिदोषेति ।
को ऽसौ बन्धमोक्षाभ्युपगम इत्यत आह- कर्माष्टकेति ।
व्याख्यातमेतत् ।
आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति- किञ्चेति ।
अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।
यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह- किञ्चेति ।
सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।
किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तो ऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह- किञ्चेति ।
अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम्, अवयवसमूहत्वे चासत्त्वं, आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापाये ऽपि सद्यः शरीरस्याचेतनत्वं, गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति- अत इति ।
सूत्रस्यार्थान्तरमाह- अथवेति ।
स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्संतानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।
पर्यायेणेत्यस्य व्याख्या स्रोत इति ।
देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि ।
स्रोतः प्रवाहः ।
तदात्मकस्यात्मव्यक्तिसंतानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह- यथेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः ।
पर्यायात् संतानादप्यात्मनित्यत्वस्याविरोध इति न च ।
कुतः ।
विकारादिभ्यः ।
संतानस्यावस्तुनः आत्मत्वे शून्यवादः, संतानस्य वस्तुत्वे संतान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात् संतानात्मपक्षो ऽनुपपन्न इति सूत्रार्थः

33.36

एन्द् ब्स्चोम्_2,2.6.35
स्तर्त् ब्स्चोम्_2,2.6.36
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ब्ब्स्_2,2.36 ।
अपिचान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः ।
तद्वत्पूर्वयोरप्यविद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् ।
एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः ।
अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्महान्वा जीवो ऽभ्युपगन्तव्यो न शरीरपरिमाणः ।
अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्

33.36

पत्यधिकरणम् । सू. 37-41
यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति- अन्त्येति ।
अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना ।
आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात्, अन्त्यपरिमाणवत् ।
न चाप्रयोजकता, परिमाणनाशे सत्यात्मनो ऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः ।
परिमाणत्रयसाम्यापादानफलमाह- एकेति ।
अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरारप्राप्तावात्मनःस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः ।
पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् ।
संप्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् प्रागसतो नित्यत्वायोगात्, तथा चाविशेषः कालत्रये ऽपि जीवपरिमाणाभेद इत्याह- अथवेति ।
तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम्

33.37

एन्द् ब्स्चोम्_2,2.6.36
स्तर्त् ब्स्चोम्_2,2.7.37
पत्युर् असामञ्जस्यात् । ब्ब्स्_2,2.37 ।
इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते ।
तत्कथमवगम्यते ।
ऽप्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ ऽअभिध्योपदेशाच्चऽ (ब्र. 1.4.23,24) इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् ।
यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत ।
तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते ।
सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा ।
केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति ।
माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति ।
तथा वैशेषिकादयो ऽपि केचित्कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति ।
अत उत्तरमुच्यते- ऽपत्युरसामञ्जस्यात्ऽ इति ।
पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते ।
कस्मात् ।
असामञ्स्यात् ।
किं पुनरसामञ्जस्यम् ।
हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत ।
प्राणिकर्मापेक्षितत्वाददोष इति चेत् ।
न ।
कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात् ।
नानादित्वादिति चेत् ।
न ।
वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः ।
अपिच ऽप्रवर्तनालक्षणा दोषाःऽ (न्यायसू. 1.1.18) इति न्यायवित्समयः ।
नहि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते ।
स्वार्थप्रयुक्त एव च सर्वो जनः परार्थे ऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यं, स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात् ।
पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्

33.37

fन्: सांख्ययोगव्यपाश्रयाः हिरण्यगर्भपतञ्जलिप्रभृतयः ।
माहेश्वराश्चत्वारः - शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति ।
पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
पत्युरसामञ्जस्यात् ।
लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसंगतिमाह- इदानीमिति ।
सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते- तदिति ।
स्वोक्तिविरोधान्मैवमित्याह- प्रकृतिश्चेत्यादिना ।
प्रतिष्ठापितत्वात् केवलनिमित्तेश्वरप्रतिषेधो ऽवगम्यत इत्यन्वयः ।
व्याहतोविरुद्धो ऽभिव्याहार उक्तिर्यस्य स तथा ।
अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो नप्रकृतिरिति शैवादिमतेन विरोधो ऽस्ति न वेति संदेहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्तद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्वासत्वयोरेकत्रासंभववत् कर्तृत्वोपादानत्वयोरप्येकत्रासंभवात् कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह- सा चेति ।
सेश्वरः सांख्याः सांख्यशब्दार्थः ।
चत्वारो मादेश्वराः-शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति ।
सर्वो ऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते ।
कार्यं महदादिकं, कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः ।
पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
पाशुपतागमप्रमाण्यात् पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह- तथेति ।
विमतं सकर्तृकं, कार्यत्वात्, घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति ।
कर्मफलं सपरिकराभिज्ञदातृकं, कालान्तरभाविफलत्वात्, सेवाफलवदिति गौतमा दिगम्बराश्च ।
ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात्, परिमाणवदिति सांख्यसौगतपातञ्जला इति मत्वोक्तम्- केचित्कथञ्चिदिति ।
सिद्धान्तयति- अत इति ।
आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह- किमिति ।
न तावत् स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् ।
नच सर्वज्ञानं मूलं, तत्र मानाभावात् ।
न चागम एव मानम्, आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् ।
नच पुरुषवचसां स्वतोमानत्वं युक्तं, मिथो विरोधेन तत्त्वाव्यवस्थानाच्च ।
नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः संभवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् ।
तथाच लोके यादृशाः कर्तारो दृष्टान्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः ।
यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शने ऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यतां, कर्तुरेवोपादानत्वेन लाघवात्, अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् ।
अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् ।
अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्देषेश्वरनिर्णयः ।
निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यं, तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह- हीनेति ।
यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् ।
न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्देषत्वादावुदासीनत्वात् ।
न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात्, दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च ।
दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः ।
यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवो ऽपि स्यादिति ।
न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः ।
ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते- प्राणीति ।
जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह- नेति ।
न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह- कर्मेति ।
अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते- नानादित्वादिति ।
अतीतकर्मणो ऽपि जडत्वान्नेश्वरप्रेरकता ।
नच तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् ।
ततो ऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयति चेत् ।
न ।
मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् ।
अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः ।
यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति ।
तन्न ।
विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात्, पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् ।
अस्माकं तु ऽएष ह्येव साध्वसाधु कारयतिऽइति, ऽनिरवद्यम्ऽइति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् ।
किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह- अपिचेति ।
प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथाचेश्वरः स्वार्थे रागादिमान्, प्रवर्तकत्वात्, संमतवत् ।
नच कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः ।
उदासीनः प्रवर्तक इति च व्याहृतमिति योगान्प्रत्याह- पुरुषेति

33.38

एन्द् ब्स्चोम्_2,2.7.37
स्तर्त् ब्स्चोम्_2,2.7.38
संबन्धानुपपत्तेश् च । ब्ब्स्_2,2.38 ।
पुनरप्यस्माञ्जस्यमेव ।
नहि प्रधानपुरुषव्यतिरिक्त ईश्वरो ऽन्तरेणसंबन्धं प्रधानपुरुषयोरीशिता ।
न तावत्संयोगलक्षणः संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च ।
नापि समवायलक्षणः संबन्धः, आश्रयाश्रयिभावानिरूपणात् ।
नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुं, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् ।
ब्रह्मवादिनः कथमिति चेत् ।
न ।
तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः ।
अपिचागमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमो ऽस्ति ।
परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः ।
परस्यापि सर्वज्ञप्रणीतागमसद्भावात्समानमागमबलमिति चेत् ।
न ।
इतरेतराश्रयत्वप्रसङ्गादागमप्रत्ययत्वात्सर्वज्ञत्वसिद्धिः सर्वज्ञप्रत्ययाच्चागमसिद्धिरिति ।
तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना ।
एवमन्यास्वपि वेदब्रह्मास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम्

33.38

प्रधानवादे दोषान्तरमाह सूत्रकारः- संबन्धेति ।
ईश्वरेणासंबद्धस्य प्रधानादेः प्रेर्यत्वायोगात्संबन्धो वाच्यः ।
स च संयेगः समवायो वा नास्तीत्यर्थः ।
कार्यबलात् प्रेरणयोग्यात्वाख्यः संबन्धः कल्प्यतामित्यत आह- नाप्यन्य इति ।
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत् संबन्धकल्पना स्यात् ।
तच्चाद्याप्यसिद्धमित्यर्थः ।
मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसंबन्धः, ऽदेवात्मशक्तिम्ऽइति श्रुतेः ।
किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसंबन्धो वैदिकेनानुसर्तव्यः ।
आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह- अपिचेति ।
सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् ।
न ह्यमनस्कस्य ज्ञानं संभवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः ।
प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह- एवमन्यास्वपीति

33.39

एन्द् ब्स्चोम्_2,2.7.38
स्तर्त् ब्स्चोम्_2,2.7.39
अधिष्ठानानुपपत्तेश् च । ब्ब्स्_2,2.39 ।
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ।
स हि परिकल्प्यमानः कुमभकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् ।
नचैवमुपपद्यते ।
नह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात्

33.39

ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः- अधिष्ठानेति ।
प्रधानादिकं चेतनस्यानधिष्ठेयं, अप्रत्यक्षत्वात्, ईश्वरवत्, व्यतिरेकेण मृगादिवच्चेत्यर्थः

33.40

एन्द् ब्स्चोम्_2,2.7.39
स्तर्त् ब्स्चोम्_2,2.7.40
करणवच् चेन् न भोगादिभ्यः । ब्ब्स्_2,2.40 । ।
स्यादेतत् ।
यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषो ऽधितिष्ठत्येवं प्रधानमपीश्वरो ऽधिष्ठास्यतीति ।
तथापि नोपपद्यते ।
भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते ।
नचात्र भोगादयो दृश्यन्ते ।
करणग्रामसाम्ये वाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन् ।
अन्यथा वा सूत्रद्वयं व्याख्यायते- अधिष्ठानानुपपत्तेश्च इतश्चानुपपत्तिस्तार्किकपरिकल्पिस्येश्वरस्य ।
साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते न निरधिष्ठानः ।
अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यपि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात् ।
नच तद्वर्णयितुं शक्यते ।
सृष्ट्युत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः ।
निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः ।
एवं लोके दृष्टत्वात् ।
ऽकरणवच्चेन्न भोगादिभ्यःऽ ।
अथ लोकदर्शनानुसारेणेश्वरस्यापि किञ्चित्कारणानामायतनं शरीरं कामेन कल्प्येत ।
एवमपि नोपपद्यते ।
सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्येत

33.40

fन्: भोगः सुखदुःखानुभवः ।
आदिपदाद्विषयानुभवग्रहः ।
करणान्यत्र सन्तीति करणवच्छरीरम् ।
चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति- करणवदिति ।
रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति- रूपेति ।
स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह- तथापीति ।
भोगः सुखदुःखानुभवः ।
आदिपदाद्विषयानुभवग्रहः ।
नच यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यं, भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात्, करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् ।
नच विशेष्यवैयर्थ्यं, परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् ।
नच प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः ।
जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।
विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति- करणेति ।
प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् ।
अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः ।
सूत्रद्वयस्यार्थान्तरमाह- अन्यथा वेति ।
यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह- इतश्चेति ।
किमतं सेश्वरं, कार्यत्वात्, राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् ।
तत्रेष्टापत्तिं निरस्यति- नच तद्वर्णयितुमिति ।
नच नित्यं शरीरं सर्गात्प्रागपि संभवतीति वाच्यं, शरीरस्य भौतिकत्वनियमादित्यर्थः ।
अस्त्वशरीर एवेश्वर इत्यत आह- निरधिष्ठानत्वे चेति ।
जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति- करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् ।
इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम्

33.41

एन्द् ब्स्चोम्_2,2.7.40
स्तर्त् ब्स्चोम्_2,2.7.41
अन्तवत्त्वम् असर्वज्ञता वा । ब्ब्स्_2,2.41 ।
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ।
स हि सर्वज्ञस्तैरभ्युपगम्यते ऽनन्तश्च ।
अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यते ।
तत्र सर्वज्ञेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत ।
उभयथापि दोषो ऽनुषक्त एव ।
कथम् ।
पूर्वस्मिंस्तावद्विकल्प इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यं भाव्येवं लोके दृष्टत्वात् ।
यद्धि लोक इयत्तापरिच्छिन्नं वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् ।
संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् ।
स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति ।
पुरुषगता च महासंख्या ।
ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारिणः संसारान्मुच्यन्ते तेषां संसारो ऽन्तवान्संसारित्वं च तेषामन्तवत् ।
एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् ।
प्रधानं च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत् ।
किंविषये वा सर्वज्ञतेश्वरते स्याताम् ।
प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्गः ।
आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पो ऽभ्युपगम्येत न प्रधानस्य पुरुषाणामात्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति, तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत ।
तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः

33.41

fन्: संख्या वा परिमाणं वेयत्ता ।
एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयो ऽपि न संभवतीत्याह सूत्रकारः- अन्तवत्वमिति ।
प्रधानपुरुषेश्वरत्रयमनित्यं, इयत्तापरिच्छिन्नत्वात् घटवदित्याह- पूर्वस्मिन्निति ।
संख्या वा परिमाणं वेयत्ता ।
तथाच निश्चितसंख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् ।
यद्यपि संख्यावत्वमात्रं हेतुः संभवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् ।
तत्राद्यहेतोरसिद्धिर्नास्तीत्याह- संख्यापरिमाणमिति ।
संख्यास्वरूपमित्यर्थः ।
द्वितीयहेतुं साधयति- स्वरूपेति ।
प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात्, घटवदित्यर्थः ।
ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञाते ऽपि जीवानामानन्त्यात्कथं संख्यानिश्चयः, तत्राह- पुरुषेति ।
जीवसंख्यापीश्वरेण निश्चीयते ।
अनिश्चये सर्वज्ञत्वायोगादित्यर्थः ।
हेतुसिद्धेः फलमाह- ततश्चेति ।
माषराशिवत्केषाञ्चिज्जीवानां संघस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः ।
नित्यस्यानवशेषादिति भावः ।
ननु ईश्वरः शिष्यतामिति चेत् ।
न ।
तस्यापि भिन्नित्वेनान्तवत्त्वात् ।
किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह- प्रधानमिति ।
दोषान्तरमाह- प्रधानेति ।
इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते- अथेति ।
इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।
प्रदानादयः संख्यापरिमाणवन्तः, द्रव्यत्वात्, माषादिवदित्यनुमानादादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति- तत इति ।
तस्मात् केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न तर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम्

33.42

एन्द् ब्स्चोम्_2,2.7.41
स्तर्त् ब्स्चोम्_2,2.8.42
8 उत्पत्त्यसंभवाधिकरणम् । सू. 42-45
उत्पत्त्यसंभवात् । ब्ब्स्_2,2.42 ।
येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्यातः ।
येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्याययते ।
ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति ।
श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः ।
तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति ।
उच्यते- यद्यप्येवजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवत्त्यस्तित्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारमभः ।
तत्र भागवता मन्यन्ते ।
भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च ।
वासुदेवो नाम परमात्मोच्यते ।
संकर्षणो नाम जीवः ।
प्रद्युम्नो नाम मनः ।
अनिरुद्धो नामाहङ्कारः ।
तेषां वासुदेवः परा परकृतिरितरे संकर्षणादयः कार्यम् ।
तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति ।
तत्र यत्तावदुच्येत यो ऽसौ नारायणः परो ऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा स आत्मानात्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, ऽस एकधा भवति त्रिधा भवतिऽ (छा. 7.26.2) इत्यादिश्रुतिभ्यः परमात्मनो ऽनेकधाभावस्याधिगतत्वात् ।
यदपि तस्य भगवतो ऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते,
तदपि न प्रतिषिध्यते ।
श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् ।
यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति ।
अत्र ब्रूमः - न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति ।
अनित्यत्वादिदोषप्रसङ्गात् ।
उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ।
ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् ।
कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् ।
प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम्- ऽनात्माश्रुतेर्नित्यत्वाच्च ताभ्यःऽ (ब्र.सू. 2.3.17) इति ।
तस्मादसंगतैषा कल्पना ।
fन्: व्यूहो मूर्तिः ।
वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम्, पूजाद्रव्याणामर्जनमुपादानम्, इज्या पूजा, स्वाध्यायो ऽष्टाक्षरादिजपः, योगो ध्यानम् ।
पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति- उत्पत्त्यसंभवात् ।
अधिकरणतात्पर्यमाह- येषामिति ।
अधिकरणारम्भमाक्षिपति- नन्विति ।
वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह- उच्यत इति ।
अत्र भागवतपञ्चरात्रागमो विषयः ।
स किं जीवोत्पत्त्याद्यंशे मानं नवेति संदेहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति- तत्रेति ।
पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः ।
सावयवत्वं निरस्यति- निरञ्जनेति ।
कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह- स इति ।
व्यूहो मूर्तिः ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह- तमित्थंभूतमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् ।
वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् ।
पूजाद्रव्याणामर्जनमुपादानम् ।
इज्या पूजा ।
स्वाध्यायो ऽष्टाक्षरादि जपः ।
योगो ध्यानम् ।
तत्राविरुद्धांशमुपादत्ते- तत्रेति ।
ऽसमाहितः श्रद्धावित्तो भूत्वाऽइति, ऽतं यथा यथोपासतेऽइत्याद्या च श्रुतिः ।
ऽमत्कर्मकृन्मत्परमःऽइत्याद्या स्मृतिः ।
विरुद्धांशमनूद्य दूषयति- यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः ।
न्यायोपेतया ऽअज आत्माऽइत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः

33.43

एन्द् ब्स्चोम्_2,2.8.42
स्तर्त् ब्स्चोम्_2,2.8.43
न च कर्तुः करणम् । ब्ब्स्_2,2.43 ।
इतश्चासंगतैषा कल्पना ।
यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते ।
वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते ।
कर्तृजाच्च तस्मादनिरुद्धसंज्ञको ऽहङ्कार उत्पद्यत इति ।
नचैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः ।
नचैवंभूतां श्रुतिमुपलभामहे

33.43

जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति- नच कर्तुरिति ।
यस्मात् कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसंगता कल्पनेत्यन्वयः ।
सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।
वर्णनं निर्मूलमित्याह- नवेति ।
ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् ।
सत्यम् ।
शिल्प्नो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तं, जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् ।
विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः

33.44

एन्द् ब्स्चोम्_2,2.8.43
स्तर्त् ब्स्चोम्_2,2.8.44
विज्ञानादिभावे वा तदप्रतिषेधः । ब्ब्स्_2,2.44 ।
अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यैर्धर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्देषा निरधिष्ठान निरवद्याश्चेति ।
तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति ।
अत्रोच्यते- एवमपि तदप्रतिषेध उत्पत्त्यसंभवस्याप्रतिषेधः प्राप्नोत्येवामुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः ।
कथम् ।
यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति, ततो ऽनेकेश्वरकल्पनानार्थक्यम्, एकेनैवेश्वरेणेश्वरकार्यसिद्धेः ।
सिद्धान्तहानिश्च ।
भगवानेकैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् ।
अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसंभवः ।
नहि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् ।
भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः ।
नह्यसत्यतिशये कार्यं कारणमित्यवकल्पते ।
नच पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदो ऽभ्युपगम्यते ।
वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते ।
नचैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन्, ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्

33.44

fन्: निर्देषा रागादिशून्याः, निरधिष्ठाना प्रकृत्यजन्याः, निरवद्या नाशादिरहिता इत्यर्थः ।
संकर्षणादीनामुत्पत्त्यसंभवे ऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते- अथापि स्यादिति ।
ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यं, बलं शरीरसामर्थ्यं, वीर्यं शौर्यं, तेजः प्रागल्भ्यमेतैरन्विता यस्मात्संकर्षणादयस्तस्मादीश्वरा एवेत्यर्थः ।
सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह- वासुदेवा एवेति ।
निर्देषा रागादिशून्याः ।
निरधिष्ठानाः प्रकृत्यजन्याः ।
निरवद्या नाशादिरहिता इत्यर्थः ।
ईश्वरत्वाज्जन्मासंभवो गुण एवेत्याह- तस्मादिति ।
सूत्रेण सिद्धान्तयति- अत्रेति ।
एवमपि ।
चतुर्णामीश्वरत्वेन विज्ञानशक्यादिभावे ऽपीत्यर्थः ।
प्रकारान्तरं पृच्छति- कथमिति ।
किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः ।
आद्यमनूद्य दूषयति- यदीत्यादिना ।
द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा ।
आद्यमुत्थाप्य निषेधति- अथेत्यादिना ।
न्यूनत्वपक्षे ऽपसिद्धान्तमाह- नच पञ्चेति ।
यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह- नचैत इति

33.45

एन्द् ब्स्चोम्_2,2.8.44
स्तर्त् ब्स्चोम्_2,2.8.45
विप्रतिषेधाच् च । ब्ब्स्_2,2.45 ।
विप्रतिषेधश्चास्मिञ्छास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ।
ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात् ।
वेदविप्रतिषेधश्च भवति ।
चतुर्षु वेदेषु परं श्रेयो ऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात् ।
तस्मादसंगतैषा कल्पनेति सिद्धम्

33.45

इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः- विप्रतिषेधाच्चेति ।
स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् ।
आदिपदात् प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः ।
पूर्वापरविरोधादसांगत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह- वेदेति ।
एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्यो ऽधिक इति निन्दादिपदार्थः ।
तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc