ब्रह्मसूत्र2 (टीका सहित) · अध्याय 32
fन्: अपदेशेन व्याजेन ।
ब्रह्मणि सर्वधर्मोपपत्तिवत् प्रधाने ऽपि तदुपपत्तिमाशङ्क्य निराचष्टे- रचनानुपपत्तेश्च नानुमानम् ।
ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितं, ततः परपक्षनिरासात्मको ऽयं पादो ऽस्मिन् शास्त्रे न संगतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति- यद्यपीति ।
परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह- तथापीति ।
तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह- वेदान्तार्थेति ।
वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् ।
ननु रागद्वेषकरणत्वात् परमतनिराकरणं न कार्यमिति शङ्कते- नन्विति ।
तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,
तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादो ऽस्मिन् शास्त्रे संगतः, संगतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसंधायोक्ताङ्गीकारेण समाधत्ते- बाढमित्यादिना ।
अपदेशेन व्याजेन ।
मन्दमतीनाम् तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः ।
स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ ।
नाप्ययं द्वेषः ।
परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्तवनिर्णयेच्छया कृत इति मन्तव्यम् ।
पौनरुक्त्यम् शङ्कते- नन्वीक्षतेरिति ।
पूर्वं सांख्यादीनां श्रुत्यर्थानुग्राहकर्तकनिरासादश्रौतत्वमुक्तम्, संप्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह- तदुच्यत इति ।
प्रधानमचेतनं जगदुपादानमिति सांख्यसिद्धान्तो ऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति संदेहे ऽसर्वधर्मोपपत्तेश्चऽइत्युक्तधर्माणां प्रधाने संभवात्तदेवोपादानमित्याक्षेपसंगत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह- तत्र साख्या इति ।
स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात् पादयोःसंगतिः ।
परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसंगतिः ।
पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् ।
मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसंगतिरिति विवेकः ।
भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह- यथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तदन्वितत्वात्, घटादिवदित्यनुमानमाह- तथेति ।
किमर्थं प्रधानं परिणमते, तत्राह- चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केनचिच्चेतनेन प्रेर्यत इत्यर्थः ।
तदुक्तम्-ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति ।
अनुमानान्तराणि तैरुक्तानि स्मारयति- तथेति ।
उक्तं हि-ऽभेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
ऽइति ।
अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् ।
शिष्टानि व्याख्यायन्ते ।
तथा हि-क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात्, घटवत् ।
न च दृष्टान्ते साध्यवैकल्यं, घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदो ऽप्यव्यक्तत्वात् ।
तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् ।
किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति ।
एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति ।
एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः ।
सिद्धान्तयति- तत्र वदाम इति ।
किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा ।
आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् ।
द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह- यदीति ।
स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् ।
ननु दृष्टः क्वचिदित्यन्वयः ।
स्वतन्त्रपदार्थमाह- चेतनानधिष्टितमिति ।
परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह- गेहेति ।
इदं जगद्च्चेतनाधिष्चिताचेतनप्रकृतिकं, कार्यत्वात्, गेहवदिति प्रयोगः ।
विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह- तथेति ।
बाह्यं पृथिव्यादि भोग्यम्, आध्यात्मिकं शरीरादि च भोगाधिष्छानमिति विभागः ।
प्रतिनियतो ऽसाधारणो ऽवयवानां विन्यासो रचना यस्य तदित्यर्थः ।
इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् ।
न कथमपीत्यर्थः ।
यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह- लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः ।
किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात्, मृदादिवदित्याह- मृदिति ।
ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात्, नतु चेतनाधिष्ठितत्वं व्यापकं, तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात्, तथा च परिणामित्वे ऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्टितत्वेनेत्याशङ्क्य निषेधति- नचेति ।
महानसदृष्टान्ते ऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।
किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात् प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह- न चैवं सतीति ।
सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह- अन्वयाद्यनुपपत्तेश्चेति ।
नानुमानं युक्तमित्यर्थः ।
आदिशब्दः परिमाणादिग्रहार्थः ।
श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च ।
नहि निमित्तनैमित्तिकयोरभेदेन योगो ऽस्ति, दण्डघटयोरदर्शनादित्यर्थः ।
किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात् तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् ।
न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह- शब्दादीति ।
विषयस्यैकत्वे ऽपि पुरुषवासनावैचित्र्यात् कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यते ऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।
एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति- तथेति ।
बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमामसि सिद्ध्यन्ति, एकस्मिन् संसर्गासंभवान्न ब्रह्मसिद्धिरिति सांख्यस्य भावः ।
किमिदं परिमितत्वं, न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः ।
नापि कालतः परिच्छेदः, सांख्यैः कालस्यानङ्गीकारात्,
अविद्यागुणसंसर्गेण सिद्धसाधनाच्च ।
नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह- सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति ।
तन्न ।
ब्रह्मणि मायायां वा समाप्तिसंभवात् ।
नच यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्टानदर्शनादित्याह- कार्येति ।
एतेनाविभागो ऽपि व्याख्यातः ।
यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरं, तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः ।
एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणानचेतनमेव प्रकृतिरिति निरस्तम् ।
चेतनाधिष्ठिताचेतनप्रकृतिकत्वे ऽपि सादृश्योपपत्तेः, ऽन विलक्षणत्वात्ऽइत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च ।
एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसंभवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः
एन्द् ब्स्चोम्_2,2.1.1
स्तर्त् ब्स्चोम्_2,2.1.2
प्रवृत्तेश् च । ब्ब्स्_2,2.2 ।
आस्तां तावदियं रचना ।
तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात्प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिर्विशिष्टकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च ।
नहि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते दृष्टाच्चादृष्टिसिद्धिः ।
अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।
ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा ।
सत्यमेतत् ।
तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिदृष्टा ।
नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा ।
किं पुनरत्र युक्तम् ।
यस्मिन्प्रवृत्तिर्दृष्टा तस्य सोत यतसंयुक्तस्य दृष्टा तस्य सेति ।
ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तमुभयोः प्रत्यक्षत्वात् ।
नतु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः ।
प्रवृत्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः केवलाचेतनरथादिवैलक्षण्यं जीवदेहस्य दृष्टमिति ।
अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः ।
तस्मादचेतनस्यैव प्रवृत्तिरिति ।
तदभिधीयते- न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति ।
भवतु तस्यैव सा ।
सा तु चेतनाद्भवतीति ब्रूमः ।
तद्भावे भावात्तदभावे चाभावात् ।
यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशलक्षणा विक्रियानुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत् ।
लौकायतिकानामपि चेतन एव देहो ऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् ।
ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् ।
न ।
अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः ।
यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितो ऽप्ययसः प्रवर्तको भवति ।
यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तकाभवन्ति ।
एवं प्रवृत्तिरहितो ऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् ।
एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् ।
न ।
अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् ।
तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे नत्वचेतनकारणत्वे
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0