भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 27

27.2

महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह- इतरेषां चेति ।
ननु ऽमहतः परमव्यक्तम्ऽइतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह- यदपीति ।
सूत्रतात्पर्यमाह- कार्येति ।
सांख्यस्मृतेर्महदादिष्विव प्रधाने ऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः ।
सांख्यस्मृतेर्बाधे ऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह- तर्केति

27.3

एन्द् ब्स्चोम्_2,1.1.2
स्तर्त् ब्स्चोम्_2,1.2.3
2 योगप्रत्युक्त्यधिकरणम् । सू. 3
एतेन योगः प्रत्युक्तः । ब्ब्स्_2,1.3 ।
एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति ।
तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते ।
नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते ।
अस्ति ह्यत्राभ्यधिकाशङ्का ।
सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. 2.4.5) इति ।
ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे. 2.8) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते ।
लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का. 2.6.18) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का. 2.6.18) इति चैवमादीनि ।
योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते ।
अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति ।
इयमप्यधिका शङ्कातिदेशेन निवर्त्यते ।
अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् ।
सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः ।
सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ ।
ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं. 6.13) इति ।
निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति ।
श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं. 3.8) इति ।
द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः ।
यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् ।
येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् ।
तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ. 4.3.16) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ।
तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा. 5) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ।
तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम ।
तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै. ब्रा. 3.12.9.7) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ. 3.9.23) इत्येवमादिश्रुतिभ्यः

27.3

fन्: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् ।
तर्को ऽनुमानमनुग्राह्यं मानम् ।
उपपत्तिरनुग्राहिका युक्तिरिति भेदः ।
ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति संदेहे पूर्वन्यायमतिदिशति- एतेन योगः प्रत्युक्तः ।
अतिदेशत्वात्पूर्ववत्संगत्यादिकं द्रष्टव्यम् ।
पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह- अस्तिह्यत्रेति ।
निदिध्यासनं योगः ।
त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तन्त्र्युन्नतम् त्रिरुन्नतमितिपाठश्चेच्छान्दसः ।
युञ्जीतेति शेषः ।
न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह- लिङ्गानि चेति ।
तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते ।
उक्तामेतां ब्रह्मविद्यां योगिविधिं ध्यानप्रकारं च मृत्युप्रसादान्नचिकेता लब्धा ब्रह्म प्राप्त इति संबन्धः ।
योदस्मृतिः प्रधानादितत्त्वांशे ऽपि प्रमाणत्वेन स्वीकार्यां ।
संप्रतिपन्नः प्रामाणिकोर्ऽथैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः ।
ऽअष्टकाः कर्तव्याःऽ ऽगुरुरनुगन्तव्यःऽइत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे ।
एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशे ऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति- इयमिति ।
ननु बौद्धादिस्मृतयो ऽत्र किमिति न निराकृता इत्यत आह- सतीष्वपीति ।
तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः ।
तत्कारणमिति ।
तेषां प्रकृतानां कामानां कारणं सांख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः ।
समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह- निराकरणं त्विति ।
इति हेतोः ।
कृतमिति शेषः ।
प्रत्यासत्तेरिति ।
श्रुतिस्थसांख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् ।
किं सर्वांशेषु स्मृत्यप्रामाण्यं, नेत्याह- येन त्वंशेनेति ।
ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति- एतेनेति ।
श्रुतिविरोधेनेत्यर्थः ।
उपकारकबाधो न युक्त इत्याशङ्क्य योंऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह- तान्यपीति ।
तर्को ऽनुमानं,
तदनुग्राहिको युक्तिरुपपत्तिः

27.4

एन्द् ब्स्चोम्_2,1.2.3
स्तर्त् ब्स्चोम्_2,1.3.4
विलक्षणत्वाधिकरणम् । सू. 4-12
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ब्ब्स्_2,1.4 ।
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः ।
तर्कनिमित्त इदानीमाक्षेपः परिह्रियते ।
कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ।
ननु धर्म इव ब्रह्मण्यनपेक्ष आगमो भवितुमर्हति ।
भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयो ऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः ।
परिनिष्पन्नरूपं तु ब्रह्मावगम्यते ।
परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु ।
यथाच श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधे ऽपि तद्वशेनैव श्रुतिर्नीयेत ।
दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते ।
विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् ।
अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते ।
श्रुतिरपि- ऽश्रोतव्यो मन्तव्यःऽ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ।
अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ऽन विलक्षणत्वादस्यऽ इति ।
यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति ।
तन्नोपपद्यते ।
कस्मात् ।
विलक्षणत्वादस्य विकारस्य प्रकृत्याः ।
इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगत् ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ।
ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ।
नच विलक्षणत्वं प्रकृतिविकारभावो दृष्टः ।
नहि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः ।
मृदैव तु मृदान्विता विकाराः क्रियन्ते सुवर्णेन च सुवर्णान्विताः ।
तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रह्मणः ।
ब्रह्मविलक्षणं चास्य जगतो ऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् ।
अशुद्धं हि जगत्सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ।
अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् ।
नहि साम्ये सत्युपकार्योपकारकभावो भवति ।
नहि प्रदीपौ परस्परस्योपकुरुतः ।
ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति ।
न ।
स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ।
यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिचेतनभागः स एवान्यस्य चेतनस्योपकरोति नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ।
निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते ।
तस्मादचेतनं कार्यकारणम् ।
नच काष्टलोष्टादीनां चेतनत्वे किं चित्प्रमाणमस्ति ।
प्रसिद्धश्चायं चेतनाचेतनविभागो लोके ।
तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् ।
यो ऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि ।
प्रकृतिरूपस्य विकारे ऽन्वयदर्शनात् ।
अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति ।
यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते ।
एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषे ऽपि गुणप्रधानभावो न विरोत्स्यते ।
यथा च पार्थिवत्वाविशेषे ऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति ।
प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति ।
तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत ।
शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते ।
नचेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति ।
अनवगम्यमानमेवं हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षत, तच्च शब्देनैव विरुध्यते ।
यतः शब्दादपि तथात्वमवगम्यते ।
तथात्वमिति प्रकृतिविलक्षणत्वं कथयति ।
शब्द एव ऽविज्ञानं चाविज्ञानं चऽ (ते. 2.6) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति

27.4

fन्: अवष्टम्भो दृष्टान्तः ।
ऐतिह्यमात्रेण परोक्षतयेति यावत् ।
सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
उपजनापायवद्धर्मयोगो ऽतिशयस्तदभावो निरतिशयत्वम् ।
इतरच्चेतनाचेतनत्वरूपम् ।
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह- ब्रह्मास्येति ।
पूर्वपक्षमाक्षिपति- कुतःपुनरिति ।
अनवकाशे हेतुमाह- ननु धर्म इवेति ।
मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः ।
तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः ।
सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते- भवेदयमिति ।
अवष्टम्भो दृष्टान्तः ।
नन्वेकविषयत्वेन विरोधे ऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह- यथा चेति ।
प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः ।
किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् ।
शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह- दृष्टेति ।
ऐतिह्यमात्रेण ।
परोक्षतयेति यावत् ।
अनुभवस्य प्राधान्यं दर्शयति- अनुभवावसानं चेति ।
ऽनैषा तर्केण मतिःऽइत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह- श्रुतिरपीति ।
एवं पूर्वपक्षं संभाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकं, कार्यद्रव्यत्वात्, घटवदिति सांख्ययोगन्यायेन विरुध्यते न वेति संदेहे स्मृतेर्मूलाभावाद्दुर्बलत्वे ऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति- न विलक्षणत्वादिति ।
पूर्वोत्तरपक्षयोः समन्वयासिद्धि, तत्सिद्धिश्चेति पूर्ववत्फलम् ।
जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यद्यद्विलक्षणं तन्न तत्प्रकृतिकं, यथा मृद्विलक्षणा रुचकादय इत्यर्थः ।
सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
तथा च जगत् सुखदुःखमोहात्मकं सामान्यप्रकृतिकं, तदन्वितत्वात्, यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह- मृदैवेति ।
विलक्षणत्वं साधयति- ब्रह्मविलक्षणत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्ये ऽपि भावा द्रष्टव्याः ।
तत्र प्रीतिः सुखं, परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।
उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तं, स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते- ननु चेतनमपीति ।
भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह- नेत्यादिना ।
उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह- निरतिशया इति ।
तस्मादुपकारकत्वात् ।
श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति- यो ऽपीति ।
घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह- अविभावनं त्विति ।
अन्तःकरणान्यपरिणामत्वात्सतो ऽपि चैतन्यस्यानुपलब्धिरित्यर्थ ।
अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।
वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः- यथेति ।
आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह- एतस्मादेवेति ।
साम्ये ऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः- यथा चेति ।
चेतनाचेतनभेदः कथमित्यत आह- प्रविभागेति ।
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।
सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य सांख्यः परिहरति- तेनापि कथञ्चिदिति ।
अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति- न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् ।
वैलक्षण्यं तथात्वशब्दार्थः ।
श्रुतार्थापत्तिः शब्देन बाध्येति भावः

27.5

एन्द् ब्स्चोम्_2,1.3.4
स्तर्त् ब्स्चोम्_2,1.3.5
ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते ।
यथा ऽमृदब्रवीत्ऽ ऽआपो ऽब्रुवन्ऽ ( श.प.ब्रा. 6.1.3.2.4) इति, ऽतत्तेज ऐक्षतऽ ऽता आप ऐक्षन्तऽ (छा. 6.2.3,4) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः ।
इन्द्रियविषयापि ऽते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुःऽ (बृ. 6.1.7) इति, ऽते ह वाचमूचुस्त्वं न उद्गायेतिऽ (बृ. 1.3.2) इत्येवमाद्येन्द्रियविषयेति ।
अत उत्तरं पठति-
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ब्ब्स्_2,1.5 ।
तुशब्द आशङ्कामपनुदति ।
न खलु मृदब्रवीदित्येवञ्जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् ।
यतो ऽभिमानिव्यपदेश एषः ।
मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् ।
कस्मात् ।
विशेषानुगतिभ्याम् ।
विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः ।
सर्वचेतनतायां चासौ नोपपद्येत ।
अपिच कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये ऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति- ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ इति ।
ऽता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वाऽ (2.14) इति च ।
अनुगताश्च सर्वत्राभिमानिन्यश्चेतनादेवता मन्त्रार्थवादेतिहासपुराणादिभ्यो ऽवगम्यन्ते ।
ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ.आ. 2.4.2.4) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति ।
प्राणसंवादवाक्यशेषे च ऽते ह प्राणाः प्रजापतिं पितरमेत्योचुःऽ (छा. 5.1.7) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाचैकैकोत्क्रमणेनान्वयव्यतिर्काभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः ।
ऽतस्मै बलिहरणम्ऽ (बृ. 6.1.13) इति चैवञ्जातीयको ऽस्मदादिष्विव व्यवहारो ऽनुगम्यमानो ऽभिमानिव्यपदेशं द्रढयति ।
ऽतत्तेज ऐक्षतऽ इत्यपि परस्या एव देवताया अधिष्टात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् ।
तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् ।
विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते

27.5

fन्: संवदनं विवादः ।
विशिंषन्ति वागादीन्प्राणादीनिति शेषः ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय ।
निःश्रेयसं श्रैष्ठ्यम् ।
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते- नन्विति ।
मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात्, तथा ऽविज्ञानं चाविज्ञानं चऽइति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति सांख्यः समाधत्ते- अभिमानीति ।
संवदनं विवादः ।
न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते ।
लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः ।
विशेषपदस्यार्थान्तरमाह- अपि चेति ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात् प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः ।
प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।
अनुगतिं बहुधा व्याचष्टे- अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् ।
तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः ।
यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः

27.6

एन्द् ब्स्चोम्_2,1.3.5
स्तर्त् ब्स्चोम्_2,1.3.6
दृश्यते तु । ब्ब्स्_2,1.6 ।
तुशब्दः पक्षं व्यावर्तयति ।
यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति ।
नायमेकान्तः ।
दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् ।
नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति ।
उच्यते- एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् ।
महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् ।
तथा गोमयादीनां वृश्चिकादीनां च ।
अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत ।
अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति ।
ब्रह्मणो ऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानोदृश्यते ।
विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतित्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदस्य चैतन्यस्येति वक्तव्यम् ।
प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेदप्रसङ्गः ।
नह्यसत्यतिशये प्रकृतिविकार इति भवति ।
द्वितीये चासिद्धत्वम् ।
दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् ।
तृतीये तु दृष्टान्ताभावः ।
किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्युदाह्रियेत ।
समस्तस्य वस्तुजायस्य ब्रह्मप्रकृतित्वाभ्युपगमात् ।
आगमविरोधस्तु प्रसिद्ध एव ।
चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् ।
यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति ।
तदपि मनोरथमात्रम् ।
रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः ।
लिङ्गाद्यभावाच्च नानुमानादीनाम् ।
आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् ।
तथाच श्रुतिः - ऽनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठऽ (का. 1.2.9) इति ।
ऽको अद्धा वेद क इह प्रवोचत्ऽ ।
ऽइयं विसृष्टिर्यत आबभूवऽ (ऋ.सं 1.30.6) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः ।
स्मृतिरपि भवति- ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्ऽ इति ।
ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्योयमुच्यतेऽ (गी. 2.25) इति च ।
ऽन मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशःऽ (गी. 10.2) इति चैवञ्जातीयका ।
यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् ।
नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति ।
श्रुत्यनुगृहीत एव ह्यत्र तर्को ऽनुभवाङ्गत्वेनाश्रीयते ।
स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनो ऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवञ्जातीयकः ।
ऽतर्काप्रतिष्ठानात्ऽ (ब्र. 2.1.11) इति च केवलस्य तर्कस्यविप्रलम्भकत्वं दर्शयिष्यति ।
यो ऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षते तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् ।
परस्यैव त्विदमपि विभागश्रवणं न युज्यते ।
कथम् ।
परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते ऽविज्ञानं चाविज्ञानं चाभवत्ऽ इति ।
तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते ।
प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथाश्रुत्यैव कारणं ग्रहीतव्यं भवति

27.6

fन्: पारिणामिकस्तत्तत्केशादिगतपरिणामात्मक इत्यर्थः ।
एषा वेदान्तशास्त्रजन्या मतिस्तर्केण स्वमत्यूहमात्रेणापनेया बाधार्हा न ।
यद्वा तर्केण प्राप्तव्या नेत्यर्थः ।
किन्तु अन्येन निपुणेनाचार्येण प्रोक्तप्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति ।
हे प्रेष्ठ प्रियतमेति नाचिकेतसंप्रति यमसंबोधनम् ।
इयं विसृष्टिराकाशादिसृष्टिः कुतः कस्माज्जाता कस्माच्च स्थितिं प्राप्तेत्यद्धा तत्त्वेन को वेद, न को ऽपि ।
कः प्रवोचत् न को ऽपि प्रवक्ताभूत् ।
विप्रलम्भकत्वं अर्थविशेषाव्यवस्थापकत्वम् ।
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा ।
आद्ये व्यभिचारमाह- नायमेकान्तः ।
दृश्यते हीति ।
हेतोरसत्त्वान्न व्यभिचार इति शङ्कते- नन्विति ।
यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह- उच्यत इति ।
शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।
द्वितीये ऽपि तत्रैव व्यभिचारमाह- महानिति ।
परिणामिकः ।
केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।
किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति ।
आद्ये दोषमाह- अत्यन्तेति ।
द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह- अथेत्यादिना ।
विलक्षणत्वं विकल्प्य दूषणान्तरमाह- विलक्षणत्वेनेत्यादिना ।
जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात्, तदसंगतमित्याह- प्रथम इति ।
तृतीये तु दृष्टान्ताभाव इति ।
नच जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तो ऽस्तीति वाच्यं, अनादित्वस्योपाधित्वात् ।
नच ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।
संप्रति कल्पत्रयसाधारणं दोषमाह- आगमेति ।
पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासंभवान्न तर्केणाक्षेप इत्याह- यत्तूक्तमित्यादिना ।
लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः ।
ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः ।
एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न संपादनीया ।
यद्वा कुतर्केण न बाधनीया ।
कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति ।
हे प्रेष्ठ, प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् ।
इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को अद्धा साक्षाद्वेद ।
तिष्ठतु वेदनं, क इह लोके तं प्रवोचत् प्रावोचत् ।
छान्दसो दीर्घलोपः ।
यथावद्वक्तापि नास्तीत्यर्थः ।
प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् ।
मिषेण मननविधिव्याजेन ।
शुष्कः श्रुत्यनपेक्षः ।
श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात् पुरुषदोषस्यासंभावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।
तमाह- स्वप्नान्तेति ।
जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसंभवि, द्वैतग्राहिप्रामाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासंभावनायां, तन्निरासाय सर्वस्वास्वस्थास्वात्मनो ऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे ब्रह्म्यौष्णावदात्मव्यभिचारायोगात् सुषुप्तौ प्रपञ्चभ्रान्त्यभावे ऽसता सोम्यऽइत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसंभवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः ।
इतो ऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।
ब्रह्मणि शुष्कतर्कस्याप्रवेशः ।
सूत्रसंमत इत्याह- तर्काप्रतिष्ठानादिति ।
विप्रलम्भकत्वमप्रमापकत्वम् ।
यदुक्तं एकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं सांख्येन ।
तन्न ।
तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।
सांख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासंभवादित्याह- यो ऽपीत्यादिना ।
सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह- प्रत्युक्तत्वादिति ।
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः

27.7

एन्द् ब्स्चोम्_2,1.3.6
स्तर्त् ब्स्चोम्_2,1.3.7
असद् इति चेन् न प्रतिषेधमात्रत्वात् । ब्ब्स्_2,1.7 ।
यदि चेतनं शुद्धं शब्दविहीनं च ब्रह्म तद्विपरूतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत ।
अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् ।
नैष दोषः ।
प्रतिषेधमात्रत्वात् ।
प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति ।
नह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति ।
कथम् ।
यथैव हीदानामपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते ।
नहीदानामपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति ।
ऽसर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेदऽ (बृ. 2.4.6)
इत्यादिश्रवणात् ।
कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् ।
ननु शब्दादिहीनं ब्रह्मजगतः कारणम् ।
बाढम् ।
नतु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वास्ति ।
तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति ।
विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः

27.7

कार्यमुत्पत्तेः प्रागसदेव स्यात्, स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रये ऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते- असदितिचेदित्यादिना ।
असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।
कार्यसत्यत्वाभावे श्रुतिमाह- सर्वं तमिति ।
मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति- नन्वित्यादिना ।
विस्तरेण चैतदिति ।
मिथ्यात्वमित्यर्थः

27.8

एन्द् ब्स्चोम्_2,1.3.7
स्तर्त् ब्स्चोम्_2,1.3.8
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ब्ब्स्_2,1.8 ।
अत्राह- यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् ।
अपिच समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् ।
अपिच भोक्तृणां परेण ब्रह्मणाविभागं गतानां कर्मादिनिमित्तप्रलये ऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्तत्तिप्रसङ्गादसमञ्जसम् ।
अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतीश्च न संभवति, कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति

27.8

सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे- अत्राहेति ।
प्रतिसंसृज्यमानपदस्य व्याख्या- कारणेति ।
यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः ।
सूत्रस्य योजनान्तरमाह- अपिचेति ।
सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः ।
अर्थान्तरमाह- अपिचेति ।
कर्मादीनामुत्पत्तिनिमित्तानां प्रलये ऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः ।
शङ्कापूर्वकं व्याख्यान्तरमाह- अथेति ।
यदि लयकाले ऽपिकार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः

27.9

एन्द् ब्स्चोम्_2,1.3.8
स्तर्त् ब्स्चोम्_2,1.3.9
अत्रोच्यते-
न तु दृष्टान्तभावात् । ब्ब्स्_2,1.9 ।
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति ।
यत्तावदभिहितं कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तददूषणम् ।
कस्मात् ।
दृष्टान्ताभावात् ।
सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति ।
तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति ।
रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति ।
पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति ।
त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तो ऽस्ति ।
अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत ।
अनन्यत्वे ऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वं नतु कारणस्य कार्यात्मत्वं ऽआरम्भणशब्दादिभ्यःऽ इति वक्ष्यामः (ब्र.सू. 2.1.14) ।
अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ।
स्थितावपि समानो ऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् ।
ऽइदं सर्व यदयमात्माऽ (बृ. 2.4.6), ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2), ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मु. 2.2.11), ऽसर्वं खल्विदं ब्रह्मऽ (छा. 3.14.1) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते ।
तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः ।
अस्ति चायमपरो दृष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति ।
यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यत इति ।
प्रबोधसंप्रदायोरनन्वागतत्वात् ।
एवमवस्थात्रयसाक्ष्येको ऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
मायामात्रं ह्येतद्यत्परमात्मनो ऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति ।
अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः - ऽअनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदाऽ (गौडपा. कारि. 1.16) इति ।
तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् ।
यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति ।
अयमप्यदोषः ।
दृष्टान्तभावादेव ।
यथाहि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवत्येवमिहापि भविष्यति ।
श्रुतिश्चात्र भवति- ऽइमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्तिऽ (छा. 6.9.2,3) इति ।
यथा ह्यविभागे ऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितो दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते ।
एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः ।
सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् ।
यः पुनरयमन्ते ऽपरो विकल्प उत्प्रेक्षितो ऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सो ऽप्यनभ्युपगमादेव प्रतिषिद्धः ।
तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्

27.9

fन्: अपिगच्छत् लीयमानम् ।
विभागावस्था स्थितिकालः ।
सति ब्रह्मणि एकीभूय न विदुरित्यज्ञानोक्तिः ।
इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
अपीतौ जगत् स्वकारणं न दूषयति, कारणे लीनत्वात्, मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे- नैवेत्यादिना ।
अपिगच्छत् लीयमानम् ।
विभागावस्था स्थितिकालः ।
त्वत्पक्षस्येति ।
मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।
किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह- अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न संभवति ।
धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।
ननु सत्कार्यवादे लये ऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह- अनन्यत्वे ऽपीति ।
कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।
किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते- अत्यल्पं चेति ।
परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे- अस्ति चेति ।
मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह- यथेति ।
अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह- प्रबोधेति ।
जाग्रत्सुषुप्त्योः स्वप्नेनात्मनो ऽस्पर्शात् तत्काले ऽप्यस्पर्श इत्यर्थः ।
यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह- एवमिति ।
यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् ।
तदसङ्गित्वे वृद्धसंमतिमाह- अत्रोक्तमिति ।
यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।
फलितमाह- तत्रेति ।
द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति- यत्पुनरिति ।
सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह- श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः ।
इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वे ऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह- यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागे ऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलये ऽपि मिथ्याभूताज्ञानसंबन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते ।
यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात् स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः ।
अज्ञानां जीवानां महाप्रलये ऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।
एतेनेति ।
जन्मकारणज्ञानशक्त्यभावेनेत्यर्थः

27.10

एन्द् ब्स्चोम्_2,1.3.9
स्तर्त् ब्स्चोम्_2,1.3.10
स्वपक्षदोषाच् च । ब्ब्स्_2,1.10 ।
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः ।
कथमित्युच्यते ।
यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् ।
अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः ।
तथापीतौ कार्यस्य कारणविभागाभ्युपगमात्तद्वत्प्रसङ्गो ऽपि समानः ।
तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पतौ नियन्तुं शक्यन्ते कारणाभावात् ।
विनैव कारणेन नियमे ऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः ।
अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केनचिन्नेति चेत् ।
ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति ।
अवश्याश्रयितव्यत्वात्

27.10

fन्: प्रादुष्युः प्रादुर्भवेयुः ।
वैलक्षण्यादीनां सांख्यपक्षे ऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह- स्वपक्षेति ।
सूत्रं व्याचष्टे- स्वेति ।
प्रादुःष्युः प्रादुर्भवेयुः ।
अत एवेति ।
सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात् सांख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् ।
ऽअपीतौऽइति सूत्रोक्तदोषचतुष्टयमाह- तथापीताविति ।
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः ।
इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः ।
बद्धमुक्तव्यवस्था च ।
यदि व्यवस्थार्थं मुक्तानां भेदाः संघातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्यते तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः

27.11

एन्द् ब्स्चोम्_2,1.3.10
स्तर्त् ब्स्चोम्_2,1.3.11
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ब्ब्स्_2,1.11 ।
इतश्च नागमगम्येर्ऽथे केवलेन तर्केण प्रत्यवस्थातव्यम् ।
यस्मिन्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति ।
उत्प्रेक्षाया निरङ् कुशत्वात् ।
तथाहि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्तरैरन्यैराभास्यमाना दृश्यन्ते ।
तैरप्युत्प्रेक्षिताः सन्तस्ततो ऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं, पुरुषमतिवैरूप्यात् ।
अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत ।
एवमप्यप्रतिष्ठितत्वमेव ।
प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् ।
अतोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति ।
नहि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् ।
एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते ।
केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वात् ।
सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः ।
अतीतवर्तमानाध्वसाम्येन ह्यनागते ऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते ।
श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ।
मनुरपि चैवं मन्यते- ऽप्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सिता ॥
ऽ इति ।
ऽआर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
ऽ (12.105,106) इति च ब्रुवन् ।
अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम ।
एवंहि तावद्यत्तर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति ।
नहि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् ।
तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्, एवमप्यविमोक्षप्रसङ्गः ।
यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ।
नहीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् ।
रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम ।
अपिच सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः ।
तच्च सम्यग्ज्ञानमेकरूपं वस्तुतन्त्रत्वात् ।
एकरूपेण ह्यवस्थितो योर्ऽथः स परमार्थः ।
लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्णा इति ।
तत्रैवं सति सम्ग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ।
तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः ।
यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततो ऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके ।
कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् ।
नच प्रधानवादी तर्कविदामुत्तम इति सर्वास्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ।
नच शक्यन्ते ऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात ।
वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् ।
अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ।
अतो ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत ।
अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेति स्थितम्

27.11

fन्: तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
अतिगमभीरत्वमागमातिर्मेकामानायोग्यत्वम् ।
भावयाथात्म्यं कारणगतमद्वितीयत्वम् ।
मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् ।
किञ्च तर्कस्य संभावितदोषत्वात्तेन निर्देषवेदान्तसमन्वयो न बाध्य इत्याह- तर्काप्रतिष्ठानादपीति ।
पुरुषमतीनां विचित्रत्वे ऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते- अथेति ।
ऽकपिलो यदि सर्वज्ञः कणादो नेति का प्रमाऽइति न्यायेन परिहरति- एवमपीति ।
सूत्रमध्यस्थशङ्काभागं व्याचष्टे- अथोच्येतेति ।
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वे ऽपि व्याप्तिपक्षधर्मतासंपन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः ।
ननु सो ऽप्यप्रतिष्ठितः तर्कजातीयत्वात् विलक्षणत्वादिवदित्यत आह- नहीति ।
तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा ।
आद्ये ऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः ।
द्वितीये ऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसंधिमानाह- एतदपीति ।
किञ्चानागतपाक इष्टसाधनं, पाकत्वात्, अतीतपाकवदित्यादिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह- सर्वतर्केति ।
अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः ।
किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह- श्रुत्यर्थेति ।
मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह- मनुरिति ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति- अयमेवेति ।
सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।
पूर्वपक्षतर्कवत्सिद्धान्ततर्को ऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति- नहीति ।
क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे- यद्यपीत्यादिना ।
अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् ।
भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् ।
मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।
ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति- रूपादिति ।
अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह- अपिचेत्यादिना ।
एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वे ऽपि तर्कजन्यत्वं किं न स्यादित्यत आह- तत्रैवं सतीति ।
तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् ।
सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः ।
एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।
ननु सांख्यस्य श्रेष्ठत्वात्तञ्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह- नच प्रधानेति ।
ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह- नच शक्यन्त इति ।
तस्मात् तर्कोत्थज्ञानान्मुक्त्ययोगात् तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति- अतो ऽन्यत्रेति ।
समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति- अत आगमेति

27.12

एन्द् ब्स्चोम्_2,1.3.11
स्तर्त् ब्स्चोम्_2,1.4.12
4 शिष्टपरिग्रहाधिकरणम् । सू. 12
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्ब्स्_2,1.12 ।
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्ठैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः ।
इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति ।
परिगृह्यन्त इति परिग्रहाः न परिग्रहा अपरिग्रहाः शिष्टानामपरिग्रहाः ।
एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशंनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति ।
तुल्यमात्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमाने ऽप्यविमोक्ष आगमविरोधश्चेत्येवञ्जातीयकं निराकरणम्

27.12

ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः ।
स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति संदेहे सांख्यवृद्धानां तर्काकुशलमतित्वे ऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्ते ऽतिदिशति- एतेनेति ।
फलं पूर्ववत् ।
ननु सांख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि संभवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह- वैदिकस्येति ।
सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः ।
प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः ।
अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः ।
किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह- तुल्यत्वादिति ।
कारणमेवाह- तुल्यमिति ।
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः ।
महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् ।
अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम्

27.13

एन्द् ब्स्चोम्_2,1.4.12
स्तर्त् ब्स्चोम्_2,1.5.13
5 भोक्त्रापत्त्याधिकरणम् । सू. 13
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ब्ब्स्_2,1.13 ।
अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते ।
यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारे ऽन्यपरा भवितुमर्ति ।
यथा मन्त्रार्थवादौ ।
तर्के ऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः ।
किमतो यद्येवम् ।
अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः ।
कथं पुनः प्रमाणान्तरप्रसिद्धोर्ऽथः श्रुत्या बाध्यत इति ।
अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरो भोग्याः शब्दादयो विषया इति ।
यथा भोक्ता देवदत्तो भोज्य ओदन इति ।
तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत ।
भोग्यं वा भोक्तृभावमापद्येत ।
तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो ऽनन्यत्वात्प्रसज्येत ।
नचास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् ।
यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः ।
तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रतिब्रूयात्- स्याल्लोकवदिति ।
उपपद्यत एवायमस्मत्पक्षे ऽपि विभागः एवं लोके दृष्टत्वात् ।
तथाहि- समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनवीचीतरङ्गादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते ।
नच समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति ।
नच तेषामितरेतरभावानापत्तावपि समुद्रात्मनो ऽन्यत्वं भवति ।
एवमिहापि नच भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद्ब्रह्मणो ऽन्यत्वं भविष्यति ।
यद्यपि भोक्ता न ब्रह्मणो विकारः ।
ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणब्रह्मणो ऽनन्यत्वंऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्

27.13

fन्: अन्यपरत्वं गौणार्थकत्वम् ।
विभागो जन्म ।
यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः ।
स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति संदेहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वे ऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति- भोक्रापत्तेरिति ।
विरोधादद्वैतासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति भेदः ।
अनपेक्षश्रुत्यास्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते- यद्यपीति ।
मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः ।
यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स ऽआदित्यो यूपःऽइत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणेरपह्रियत इति समाधत्ते- तथापीति ।
अन्यपरत्वं गौणार्थकत्वम् ।
स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह- तर्को ऽपीति ।
तर्कादेर्द्वैते प्रामाण्ये ऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते- किमत इति ।
पूर्वपक्षी समाधत्ते- अत इति ।
तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः ।
इयमर्थं शङ्कापूर्वकं स्फुटयति- कथमित्यादिना ।
ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह- तयोश्चेति ।
तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः ।
ततश्च भेदो बाध्येतेत्यर्थः ।
इष्टापत्तिं वारयति- न चास्येति ।
श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः ।
ननु विभागस्याधुनिकत्वादनद्याद्वैतश्रुत्या बाध इत्यत आह- यथेति ।
अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात्, वर्तमानकालवदित्यनुमानाद्विभागो ऽनाद्यनन्त इत्यर्थः ।
एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह- स्याल्लोकवदिति ।
दृष्टान्ते ऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह- नचेति ।
एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह- एवमिहेति ।
जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते- यद्यपीति ।
औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह- तथापीति ।
विभागो जन्म ।
यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह- कार्यमनुप्रविष्टस्येति ।
औपाधिकविभागे फलितमुपसंहरति- इत्यत इति ।
एकब्रह्मभिन्नत्वे ऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः

27.14

एन्द् ब्स्चोम्_2,1.5.13
स्तर्त् ब्स्चोम्_2,1.6.14
6 आरम्भणाधिकरणम् । सू. 14-20
तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ब्ब्स्_2,1.14 ।
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः ।
नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते ।
कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते ।
कुतः ।
आरम्भणशब्दादिभ्यः ।
आरम्भणशब्दस्तावत् ।
एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा. 6.1.1) इति ।
एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।
यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते ।
विकारो घटः शराव उदञ्चनं चेति ।
नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति ।
एष ब्रह्मणो दृष्टान्तः आम्नातः ।
तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते ।
पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा. 6.4.1) इत्यादिना ।
आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा. 6.8.7), ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6), ऽब्रह्मैवेदं सर्वम्ऽ (मु. 2.2.11), ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2), ऽनेह नानास्ति किञ्चनऽ (बृ.4.4.19) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् ।
नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते ।
तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ।
नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म ।
अत एकत्वं नानात्वं चोभयमपि सत्यमेव ।
यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् ।
यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् ।
यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ।
तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति ।
नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति ।
एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति ।
नैवं स्यात् ।
ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् ।
वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् ।
दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् ।
स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् ।
अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् ।
बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत ।
दर्शयति च-
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् ।
नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् ।
तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा. 6.16) ।
मिथ्याज्ञानविजृम्भितं च नानात्वम् ।
उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत ।
ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. 4.4.19) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति ।
नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् ।
उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते ।
नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि ।
तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् ।
कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति ।
अत्रोच्यते- नैष दोषः ।
सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः ।
स्वप्नव्यवहारस्येव प्राक्प्रबोधात् ।
यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते ।
विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा ।
तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः ।
यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् ।
कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ।
नहि रज्जुसर्पेण दृष्टो म्रियते ।
नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति ।
नैष दोषः ।
शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः ।
स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् ।
तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् ।
तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् ।
नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् ।
एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः ।
तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा. 5.2.9) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति ।

तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति ।
प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति ।
तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः ।
अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति ।
यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः ।
सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् ।
नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत ।
न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा. 6.16.3) इत्यादिश्रुतिभ्यः ।
अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् ।
नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् ।
अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च ।
प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।
तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति ।
ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते ।
परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति ।
नेत्युच्यते ।
ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.23), ऽअस्थूलमनणुऽ (बृ. 3.8.8) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् ।
नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् ।
स्थितिगतिवत्स्यादिति चेत् ।
न ।
कूटस्थस्येति विशेषणात् ।
नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति ।
कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम ।
नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते ।
प्रमाणाभावात् ।
कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. 4.2.4)
इत्येवञ्जातीयकम् ।
तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् ।
नतु स्वतन्त्रं फलाय कल्प्यत इति ।
नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य ।
कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् ।
न ।
अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य ।
ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्र.सू. 1.1.4) इति ।
सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते ।
कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ।
श्रुणु यथा नोच्यते ।
सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते ।
ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. 8.14.1) इति श्रुतेः ।
ऽनामरूपे व्याकरवाणिऽ (छा. 6.3.2), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै. आ. 3.12.7), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं. 6.12) इत्यादिश्रुतिभ्यश्च ।
एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि ।
स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये ।
तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते ।
तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. 7.24.1) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ. 4.5.15) इत्यादिना च ।
एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे ।
तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी. 5.14.-15) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते ।
व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. 4.4.22) इति ।
तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी. 18.61) इति ।
सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह ।
व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति ।
अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति

27.14

fन्: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः ।
स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः ।
एकत्वस्यैकान्तः कैवल्यम् ।
व्याहन्येरन्नप्रमाणानि स्युः ।
सत्यत्वं बाधा भावः ।
बाधो मित्यात्वनिश्चयः ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् ।
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह- तदानन्यत्वमिति ।
समानविषयत्वं संगतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह- अभ्युपगम्येति ।
प्रत्यक्षादीनाम उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, संप्रत्यङ्गीकृतं प्रामाण्यं, तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथाच मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः ।
एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति- यस्मात्तयोरिति ।
स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह- व्यतिरेकेणेति ।
कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।
वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति- एतदुक्तमिति ।
आरम्भणशब्दार्थान्तरमाह- पुनश्चेति ।
अपागादग्नित्वमपगतं कारणमात्रत्वात् ।
त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् ।
तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः ।
जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह- न चान्यथेति ।
तयोरनन्यत्वे क्रमेण दृष्टान्तावाह- तस्माद्यथेति ।
प्रतिज्ञाबलादित्यर्थः ।
दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः ।
शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति- नन्विति ।
अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः ।
भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति- नैवं स्यादिति ।
एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः ।
किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह- स आत्मेति ।
एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह- स्वयमिति ।
अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह- अतश्चेति ।
स्वतः-सिद्धोपदेशादित्यर्थः ।
यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा ।
नाद्य इत्याह- बाधिते चेति ।
स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः ।
ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः ।
न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।
यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह- न चायमिति ।
संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात्, भेदाभेदयोरेकदैकत्र विरोधात् ।
अतो ऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारो ऽपि मिथ्यैवेत्यर्थः ।
किञ्च यथा लोके कश्चित् तस्करबुद्ध्या भटैर्गृहीतो ऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।
तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह- तस्करेति ।
व्यवहारगोचरो नानात्वव्यवहाराश्रयः ।
नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह- मृत्योरिति ।
किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात्, प्रमायाः प्रमान्तराबाध्यत्वादित्याह- न चास्मिन्निति ।
वैपरीत्यस्यापि संभवादिति भावः ।
इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति- नन्वित्यादिना ।
एकत्वस्यैकान्तः कैवल्यम् ।
व्याहन्येरन्नप्रमाणानि स्युः ।
उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः ।
ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह- कथं चानृतेनेति ।
धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः ।
तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह- अत्रोच्यत इत्यादिना ।
सत्यत्वं बाधाभावः ।
बाधो मिथ्यात्वनिश्चयः ।
वस्तुतो मिथ्यात्वे ऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति- यथा सुप्तस्य प्राकृतस्येति ।
एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति- कथं त्वसत्येनेति ।
किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न ।
आद्य इष्ट एव ।
नहि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः ।
अङ्गीकृत्यापि दृष्टान्तमाह- नैष दोष इति ।
सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात् सत्यं न जायत इत्यनियम इत्यर्थः ।
दृष्टान्तान्तरमाह- स्वप्नेति ।
असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः ।
यथाश्रुतमादाय शङ्कते- तत्कार्यमपीति ।
उक्तमर्थं प्रकटयति- तत्र ब्रूम इत्यादिना ।
अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः ।
प्रसङ्गाद्देहात्मवादो ऽपि निरस्त इत्याह- एतेनेति ।
स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नो ऽवगत इत्यबाधितावगतिप्रतिसंधानं न स्यात् ।
अतो देहभेदे ऽप्यनुसंधानदर्शनाद्देहान्यो ऽनुसंधातेत्यर्थः ।
असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह- तथाच श्रुतिरिति ।
नच स्त्रियो मिथ्यात्वे ऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृत्धेर्ज्ञानमिति वाच्यम्, विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृते ऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याञ्ज्ञानसंभवाच्चेति भावः ।
असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह- तथेति ।
असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह- तथाकारादीति ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः ।
एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना ।

तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं संभवतीति तात्त्विकं प्रामाण्यमिति भावः ।
यदुक्तं एकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न ।
भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् ।
किञ्च यद्युभयोरेकदा व्यवहारः स्यात् तदा स्यादपि सत्यत्वम् ।
नैवमस्ति ।
एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात्, शुक्तिज्ञानेनेव रजतस्येत्याह- अपि चान्त्यमिति ।
ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह- न चेयमिति ।
तत् किलात्मतत्त्वमस्य पितुर्वाक्यात् श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः ।
व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यं, तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते ।
किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः ।
किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह- न चेयमिति ।
ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्नऽपीत्युक्तस्वप्नदृष्टान्तं स्मारयति- प्राक्चेति ।
व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसंगतमित्युपसंहरति- तस्मादिति ।
नेदं कल्पितं, किन्तु श्रुतमिति शङ्कते- नन्विति ।
कार्यकारणयोरनन्यत्वांशे ऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति- नेत्युच्यत इति ।
सृष्टौ परिणामित्वं प्रलये तद्राहित्य च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते- स्थितीति ।
कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह- नेति ।
कूटस्थत्वासिद्धिमाशङ्क्याह- कूटस्थस्येति ।
कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः ।
किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह- नच यथेत्यादिना ।
ऽतं यथा यथोपासते तदेव भवतिऽइति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह- नहि परिणामवत्त्वेति ।
ऽब्रह्मविदाप्नोति परम्ऽइति श्रुतकूटस्थनित्यमोक्षफलसंभवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः ।
ननु पूर्वं ऽजन्माद्यस्य यतःऽइति ईश्वरकारणप्रतिज्ञा कृता ।
अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते- कूटस्थेति ।
कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतो ऽनन्यत्वमित्यविरोधमाह- नेत्यादिना ।
अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः ।
संगृहीतार्थं विवृणोति- तस्मादित्यादिना ।
तत्वान्यत्वाभ्यामिति ।
नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् ।
नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः ।
संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते- मायेति ।
नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह- ताभ्यामन्य इति ।
अन्यत्वे व्याकरणे च श्रुतिमाह- आकाश इत्यादिना ।
अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वं, प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह- स च स्वात्मभूतानिति ।
न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यं, बुद्ध्यादिसंघातभेदेन भेदोक्तेः ।
अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् ।
परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह- तथा चेति ।
कथं तर्हि कर्तृत्वादिकमित्यत आह- स्वभावस्त्विति ।
अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः ।
भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह- नादत्त इति ।
न संहरतीत्यर्थः ।
तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।
उक्तार्थः सूत्रकारसंमत इत्याह- सूत्रकारो ऽपीति ।
न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह- परिणामप्रक्रियां चेति ।
तदुक्तम्-ऽकृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्ऽइति

27.15

एन्द् ब्स्चोम्_2,1.6.14
स्तर्त् ब्स्चोम्_2,1.6.15
भावे चोपलब्धेः । ब्ब्स्_2,1.15 ।
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे ।
तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः ।
नच नियमेनान्यभावे ऽन्यस्योपलब्धिर्दृष्टा ।
नह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते ।
नच कुलालभाव एव घट उपलभ्यते ।
सत्यपि निमित्तनैमित्तिकभावे ऽन्यत्वात् ।
नन्वन्यस्य भावे ऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति ।
नेत्युच्यते ।
उद्धापिते ऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् ।
अथ धूमं कयाचिदवस्थया विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति ।
नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः ।
नचासावग्निधूमयोर्विद्यते ।
भावाच्चोपलब्धेरिति वा सूत्रम् ।
न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं,
प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः ।
भवतिहि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे ।
तद्यथा-
तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवोंऽशुषु तदवयवाः ।
अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि ततो रूपाणि वायुमात्रमाकाशमात्रं चेत्यनुमेयम् ।
(छा. 6.4) ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम

27.15

fन्: कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः ।
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह- भावे चेति ।
कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः ।
घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात् मृद्वत् ।
अन्यत्वे ऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति- नचेति ।
मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः ।
गवश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः ।
अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह- नच कुलालेति ।
न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावे ऽपि हेतुसत्त्वादन्यत्वे गवाश्वत्तद्भावायोगाच्चेति भावः ।
कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात्, कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः ।
यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते- नन्विति ।
अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह- नेति ।
अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमो ऽस्तीति व्यभिचार इत्याशङ्कते- अथेति ।
तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह- नैवमिति ।
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् ।
आलोकाभावे ऽपि घटादिरूपसत्त्वान्न व्यभिचारः ।
उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः ।
तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः ।
यद्वा ।
तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः ।
मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः ।
अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे- भावाच्चेति ।
पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः ।
न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणं, अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः ।
अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः ।
पटन्यायं तन्त्वादावतिदिशति- तथेत्यादिना ।
प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।
यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नं, कार्यत्वात्, पटवदित्यनुमेयमित्याह- अनयेति ।
कारणपरिशेषे प्रधानादिकं परिशिष्यतां, न ब्रह्मेत्यत आह-त त्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः

27.16

एन्द् ब्स्चोम्_2,1.6.15
स्तर्त् ब्स्चोम्_2,1.6.16
सत्वाच् चापरस्य । ब्ब्स्_2,1.16 ।
इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते ।
ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. 6.2.1), ऽआत्मा वा इदमेक एवाग्र आसीत्ऽ (ऐ.आ. 2.4.1.1) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् ।
यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् ।
तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते ।
यथाच कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति ।
एकं च पुनः सत्त्वमतो ऽप्यनन्यत्वं कारणात्कार्यस्य

27.16

इदं जगत् सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतं, तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः सत्त्वाच्चेति ।
श्रुत्यर्थे युक्तिमप्याह- यच्च यदात्मनेति ।
घटादिकं प्राग् मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात् सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।
कारणवत्कार्यस्यापि सत्त्वात् सत्त्वभेदे मानाभावात् कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह- यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात् सत्त्वाव्यभिचारः ।
तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् ।
तदभेदेन सती मृत् सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः

27.16

एन्द् ब्स्चोम्_2,1.6.16
स्तर्त् ब्स्चोम्_2,1.6.16
न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यं, वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् ।
तर्हि मृद्घटयोः को विशेषः ।
तादात्म्यमिति ब्रूमः ।
वस्तुतः सर्वत्र सत्तैक्ये ऽपि घटपटयोरभेदेन सत्ताया भिन्नत्वान्न तादात्म्यं, कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः

27.17

एन्द् ब्स्चोम्_2,1.6.16
स्तर्त् ब्स्चोम्_2,1.6.17
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् । ब्ब्स्_2,1.17 ।
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः - ऽअसदेवेदमग्र आसीत् (छा. 3.19.1) इति, ऽअसद्वा इदमग्र आसीत्ऽ (तै. 2.7.1) इति च ।
तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् ।
नेति ब्रूमः ।
नह्ययमत्यन्तासत्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः,किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य ।
कथमेतदवगम्यते ।
वाक्यशेषात् ।
यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ।
इह च तावत् ऽअसदेवेदमग्र आसीत्ऽ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ऽतत्सदासीत्ऽ इति ।
असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च ।
ऽअसद्वा इदमग्र आसीत्ऽ इत्यत्रापि ऽतदात्मानं स्वयमकुरुतऽ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ।
तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ।
नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् ।
अतः प्राङ्नामरूपव्याकरणादसदिवासीदिवासीदित्युपचर्यते

27.17

fन्: अग्रे शून्यमासीच्छून्यादेव जगतभूदिति पूर्वः पक्षः ।
राद्धान्ते तु इदं जगदग्रे सृष्टेः प्रागसदव्याकृतनामरूपत्वादसत्तुल्यमतिसूक्ष्मं ब्रह्मैवासीत् ।
ततो ब्रह्मणः सत् व्याकृतनामरूपं जगदजायतेति ।
उक्तं कार्यस्य प्राक् कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते- असदिति ।
ऽअक्ताः शर्करा उपदध्यात्ऽइत्युपक्रमे केनाक्ता इति संदेहे ऽतेजो वै घृतम्ऽइति वाक्यशेषाद्धृतेनेति यथा निश्चयः एवमत्रापि ऽतत्सत्ऽइति वाक्यशेषात्सन्निश्चय इत्यर्थः ।
आसीदित्यतीतकालसंबन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह- असतश्च पूर्वापरेति ।
उक्तन्यायं वाक्यान्तरे ऽतिदिशति- असद्वेति ।
क्रियमाणत्वविशेषणं शून्यस्यासंभवीति भावः

27.18

एन्द् ब्स्चोम्_2,1.6.17
स्तर्त् ब्स्चोम्_2,1.6.18
युक्तेः शब्दान्तराच् च । ब्ब्स्_2,1.18 ।
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च ।
युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते ।
नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत ।
अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् ।
अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च ।
शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् ।
असत्त्वाविशेषादन्यत्वाविशेषाच्च ।
तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् ।
अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् ।
समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः ।
अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः ।
अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत ।
तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् ।
कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते ।
किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् ।
यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् ।
नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते ।
अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति ।
अनवस्था चैवं प्रसज्येत ।
तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् ।
अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे.ऽन्यत्राव्यापारः स्यात् ।
नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत ।
युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् ।
देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः ।
गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् ।
न ।
तथा प्रतीत्यभावात् ।
यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत ।
नचैवं नियतं गृह्यते ।
प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् ।
नचैवं दृश्यते ।
प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् ।
उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् ।
क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत ।
घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् ।
तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत ।
तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते ।
उत्पन्नताप्रतीतेश्च ।
अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् ।
सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा ।
अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् ।
सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य ।
नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते ।
यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति ।
वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति ।
नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत ।
यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते ।
एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत ।
व्याप्रियते च ।
अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव ।
कार्यस्येति ।
नैष दोषः ।
यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते ।
कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि ।
नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति ।
नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् ।
तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् ।
जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् ।
न ।
क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् ।
अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा ।
तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा ।
तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः ।
तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च ।
एतेन क्षणभङ्गवादः प्रतिवदितव्यः ।
यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् ।
अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् ।
समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् ।
न ।
अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् ।
समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् ।
न ।
सत्कार्यतापत्तेः ।
तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् ।
तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते ।
शब्दान्तराच्चैतदवगम्यते ।

पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि ।
ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. 6.2.1) इत्यवधारयति ।
तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः ।
यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् ।
तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. 6.1.3) इतीयं प्रतिज्ञा पीड्येत ।
सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते

27.18

fन्: अतिशयः कार्यधर्मः कारणधर्मो वा ।
कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।
वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् ।
एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन ।
विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः- युक्तेरिति ।
दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः ।
असतो ऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह- अविशिष्टे हीति ।
असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः ।
तदुक्तं सांख्यवृद्धैः-ऽअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्ऽइति ।
शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतो ऽशक्यत्वात् ।
किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।
कार्यस्यासत्त्वे ऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते- अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।
आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह- तर्ह्यतिशयवत्त्वादिति ।
द्वितीये ऽपि कार्यसत्त्वमायातीत्याह- शक्तिश्चेति ।
कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् ।
तस्मात् कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यं, ततः सत्कार्यसिद्धिरित्यर्थः ।
किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह- अपिचेति ।
तयोरन्यत्वे ऽपि समवायशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति- समवायेति ।
समवायः समवायिभिः संबद्धोन न वा ।
आद्ये स संबन्धः किं समवायः उत स्वरूपम् ।
आद्ये समवायानवस्था ।
द्वितीये मृद्घटयोरपि स्वरूपसंबन्धादेवोपपत्तेः समवायासिद्धिः ।
असंबद्ध इति पक्षे दोषमाह- अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः ।
असंबद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।
विशिष्टधीनियामको हि संबन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात्, अतः स्वपरनिर्वाहकः समवाय इति शङ्कते- अथेति ।
संबध्यते ।
स्वस्य स्वसंबन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।
प्रतिबन्द्या दूषयति- संयोगो ऽपीति ।
यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न संबन्धत्वादिति, तन्न, धर्मत्वात्, समवायस्यापि संबन्धान्तरापत्तेरसंबद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् ।
किञ्च ऽनिष्पापत्वादयो गुणाःऽइति श्रुतिस्मृत्यादिषु ऽव्यवहारादिष्टधर्मो गुणःऽइति परिभाषया समायस्यापि गुणत्वाच्च ।
ऽजातिविशेषो गुणत्वम्ऽइति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् ।
अतः समवायसिद्धेः प्राक् संयोगस्य गुणत्वमसिद्धमिति दिक् ।
किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।
तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासंभवादित्याह- तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वं, स्वरूपेण तु मिथ्यात्मित्युक्तम् ।
वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह- कथं चेति ।
तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति- यदीत्यादिना ।
व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात् संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।
द्वितीयं शङ्कते- अथेति ।
यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहे ऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसंभवे ऽप्यवयवानामनवस्था स्यादिति दूषयति- तदापीति ।
आद्यद्वितीयमुद्भाव्य दूषयति- अथ प्रत्यवयवमित्यादिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात्, वृत्तावनेकत्वापत्तेरित्यर्थः ।
यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते- गोत्वेति ।
जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति- न ।
तथेति ।
दोषान्तरमाह- प्रत्येकेति ।
अधिकारात्संबन्धात् ।
यथा देवदत्तः स्वकार्यमध्ययनं ग्रामे ऽरण्ये वा करोति, यथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः ।
एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।
संप्रत्यसत्कार्यवादे दोषान्तरमाह- प्रागिति ।
यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते ।
अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् ।
कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।
जनेरनुभवसिद्धे ऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह- उत्पत्तिश्चेति ।
असतो घटस्योत्पत्तौ कर्तृत्वासंभवे ऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह- घटस्य चेति ।
घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति- तथेति ।
शङ्कामनूद्य दोषमाह- तथा चेति ।
अनुभवविरोधमित्यर्थः ।
उत्पत्तिर्भावस्याद्य विक्रियेति स्वमतेन कार्यसत्त्वमानीतं, संप्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते- अथेति ।
तन्मतेनापि कार्यस्य सत्त्वमावश्यकं, असतः संबन्धित्वायोगादित्याह- कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।
ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक् ध्वंसानन्तरं चासत् मध्ये तु सदेवेति वैषम्यात्संबन्धित्वोपपत्तिरित्याशङ्क्याह- अभावस्येति ।
अत्राभावब्दा असच्छब्दापरपर्याया व्याख्येयाः ।
असतः कालेनासंबन्धात्प्राक्त्वं न युक्तमित्यर्थः ।
ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह- यदि चेति ।
कार्याभावो ऽसत्कार्यमित्यर्थ इत्युपापत्स्वत उपपन्नमभविष्यदित्यन्वयः ।
कस्तर्हि निर्णयः, तत्राह- वयं त्विति ।
ऽनासतो विद्यते भावःऽइति स्मृतेरिति भावः ।
सत्कार्यवादे कारकवैयर्थ्यं शङ्कते- नन्विति ।
सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह- तदनन्यत्वाच्चेति ।
अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह- नैष दोष इति ।
कार्यसत्यत्वमिच्छतां सांख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् ।
अद्वैतवादिनां त्वघटितघठनावभासनचतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् ।
विचार्यमाणे सर्वमयुक्तं, युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।

ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह- कार्याकारो ऽपीति ।
अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।
ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते ।
तथाच घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात्, वृक्षवदित्यत आह- नचेति ।
वस्तुतो ऽन्यत्वं सत्यो भेदः ।
हेतोर्व्यभिचारस्थलान्तरमाह- तथा प्रतिदिनमिति ।
प्रत्यहं पित्रादिदेहस्यावस्थाभेदे ऽपि जन्मनाशयोरभावादभेदो युक्तः ।
दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते- जन्मेति ।
कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति- नेति ।
दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।
ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह- अदृश्येति ।
तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।
अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततो ऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह- तत्रेदृगिति ।
पितृदेहे ऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह- पित्रादीति ।
एतेनेति ।
कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।
स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति- यस्य पुनरिति ।
असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वे ऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते- समवायीति ।
समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्पाद्यं निरस्यति- नेत्यादिना ।
द्वितीयमाशङ्क्येष्टापत्तिमाह- समवायीति ।
कार्याणामवान्तरकारणानन्यत्वमुपसंहरति- तस्मादिति ।
परमकारणानन्यत्वं फलितमाह- तथा मूलेति ।
असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह- यदि तु प्रागुत्पत्तेरिति

27.19

एन्द् ब्स्चोम्_2,1.6.18
स्तर्त् ब्स्चोम्_2,1.6.19
पटवच् च । ब्ब्स्_2,1.19 ।
यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति ।
स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते ।
यथाच संवेष्टनसमये पट इति गृह्यमाणे ऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्यो ऽयं भिन्नः पट इति ।
एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारदिभिर्व्यक्तं स्पष्टं गृह्यते ।
अतः संवेष्टितप्रसीरितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः

27.19

fन्: आयामो दैर्घ्यम् ।
कार्यमुपादानद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात् ततो ऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम्- पटवच्चेति ।
द्वितीयहेतोर्व्यभिचारं स्फुटयति- यथा च संवेष्टनेति ।
आयामो दैर्घ्यम्

27.20

एन्द् ब्स्चोम्_2,1.6.19
स्तर्त् ब्स्चोम्_2,1.6.20
यथा च प्राणादिः । ब्ब्स्_2,1.20 ।
यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निवर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् ।
तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रासारणादिकमपि कार्यान्तरं निर्वर्त्यते ।
नच प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं, समीरणस्वभावाविशेषात् ।
एवं कार्यस्य कारणादनन्यत्वम् ।
अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. 6.1.1) इति

27.20

तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात्, संमतवत् इति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः- यथा च प्राणादीति ।
एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति- अतश्च कृत्स्नस्येति

27.21

एन्द् ब्स्चोम्_2,1.6.20
स्तर्त् ब्स्चोम्_2,1.7.21
7 इतरव्यपदेशाधिकरणम् । सू. 21-23
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ब्ब्स्_2,1.21 ।
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते ।
चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते ।
कुतः ।
इतरव्यपदेशात् ।
इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः - ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. 6.8.7) इति प्रबोधनात् ।
यद्वा ।
इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् ।
ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति ।
तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छरीरस्यैवेति ।
अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् ।
नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति ।
नच स्वयमत्यन्तनिर्मलः सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् ।
कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् ।
सुखकरं चोपाददीत ।
स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति ।
सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति ।
यथाच मायावी स्वयं प्रसारितां मायामिच्छयानायासेनैवोपसंहरति, एवं शारीरो ऽपीमां सृष्टिमुपसंहरेत् ।
स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् ।
एवं हितक्रियाद्यदर्शनादन्याय्या चेतमाज्जगत्प्रक्रियेति गम्यते

27.21

जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः ।
स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत् स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति संदेहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे- इतरव्यपदेशादित्यादिना ।
पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।
हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः ।
आदिपदोक्तं भ्रान्त्यादिकमापादयति- नच स्वयमित्यादिना

27.22

एन्द् ब्स्चोम्_2,1.7.21
स्तर्त् ब्स्चोम्_2,1.7.22
अधिकं तु भेदनिर्देशात् । ब्ब्स्_2,1.22 ।
तुशब्दः पक्षं व्यावर्तयति ।
यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः ।
न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते ।
नहि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं, नित्यमुक्तस्वभावात् ।
नच तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।
शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः ।
नतु तं वयं जगतः स्रष्टारं ब्रूमः ।
कुत एतत् ।
भेदनिर्देशात् ।
ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽऽ (बृ. 2.4.5), ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. 8.7.1), ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) ऽशारीर आत्मा प्राज्ञेनात्मनान्वारूढःऽ (बृ. 4.3.35) इत्येवञ्जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति ।
नन्वभेदनिर्देशो ऽपि दर्शितः ऽतत्त्वमसिऽ इत्येवञ्जातीयकः ।
कथं भेदाभेदौ विरुद्धौ संभवेयाताम् ।
नैष दोषः ।
आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठपितत्वात् ।
अपिच यदा तत्त्वमसीत्येवञ्जातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।
तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः ।
अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो नतु परमार्थतो ऽस्तीत्यसकृदवोचाम ।
जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।
अबाधिते तु भेदव्यवहारे ऽसे ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणो ऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि

27.22

जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः ।
न चेष्टापत्तिः ।
जीवस्य स्वशरीरे ऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे- तुशब्द इत्यादिना ।
जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः ।
यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते नतु तं ब्रूम इत्यन्वयः ।
किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा ।
नाद्य इत्याह- अपिचेति ।
उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति- अविद्येति ।
कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति- जन्मेति ।
द्वितीयं प्रत्याह- अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात् पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः

27.23

एन्द् ब्स्चोम्_2,1.7.22
स्तर्त् ब्स्चोम्_2,1.7.23
अश्मादिवच् च तदनुपपत्तिः । ब्ब्स्_2,1.23 ।
यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयो ऽन्ये मध्यमवीर्याः सूर्यकान्तादयो ऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते ।
यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते ।
यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति ।
एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यस्तदनुपपत्तिः ।
परपरिकल्पितदोषानुपपत्तिर्त्यर्थः ।
श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः

27.23

fन्: किंपाको महातालफलम् ।
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यं, कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः- अश्मादिवच्चेति ।
किंपाको महातालफलम् ।
तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः ।
सूत्रस्थचकारार्थमाह- श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत्, जीवाभिन्नत्वात्, जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् ।
किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः ।
यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात्, व्यतिरेकेण मृत्तन्त्वादिवदिति ।
तन्न ।
एकरूपे स्नप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः ।
तस्मात् प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्

27.24

एन्द् ब्स्चोम्_2,1.7.23
स्तर्त् ब्स्चोम्_2,1.8.24
8 उपसंहारदर्शनाधिकरणम्. सू. 24-25
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि । ब्ब्स्_2,1.24 ।
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते ।
कस्मात् ।
उपसंहारदर्शनात् ।
इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते ।
ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत ।
तस्मान्न ब्रह्म जगत्कारणमिति चेत् ।
नैष दोषः ।
यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते ।
यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते ऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति ।
ननु क्षीराद्यपि दध्यादिभावेन परिणाममानपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति ।
नैष दोषः ।
स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रमनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय ।
यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत ।
नहि वायुराकाशो वौष्ण्यदिना बलाद्दधिभावमापद्यते ।
सादनसामग्र्या च तस्य पूर्णता संपाद्यते ।
परिपूर्णशक्तिकं तु ब्रह्म ।
न तस्यान्येन केनचित्पूर्णता संपादयितव्या ।
श्रुतिश्च भवति- ऽन तस्य कार्यं कारणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥
ऽ (श्वे. 6.2) इति ।
तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते

27.24

fन्: कारकाणामुपसंहारो मेलनम् ।
त्वार्यते शैघ्र्यं कार्यते क्षीरं दधिभावमौष्ण्यादिना ।
उपसंहारदर्शनात् ।
असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति संदेहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम्, संप्रति उपाधितो ऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे- चेतनमित्यादिना ।
फलं पूर्ववत् ।
कारकाणामुपसंहारो मेलनम् ।
उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति- नैष दोष इति ।
शुद्धस्य ब्रह्मणो ऽकारणत्वमिष्टमेव ।
विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह- बाह्यमिति ।
क्षीरस्याप्यातञ्चनादिसहायो ऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावे ऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह- नन्वित्यादिना ।
तर्हि सहायो व्यर्थः, तत्राह- त्वार्यत इति ।
ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतो ऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात्, तत्राह- यदि चेति ।
शक्तस्य सहायसंपदा किं कार्यमित्यत्राह- साधनेति ।
सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः ।
तर्हि शक्तिव्यञ्जको ऽपि सहायो ब्रह्मणो वाच्यः, तत्राह- परिपूर्णोति ।
निरपेक्षमायाशक्तिकमित्यर्थः ।
तादृशशक्तौ मानमाह- श्रुतिश्चेति

27.25

एन्द् ब्स्चोम्_2,1.8.24
स्तर्त् ब्स्चोम्_2,1.8.25
देवादिवद् अपि लोके । ब्ब्स्_2,1.25 ।
स्यादेतत् ।
उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् ।
चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै कार्याय प्रवर्तमाना दृश्यन्ते ।
कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति ।
देवादिवदिति ब्रूमः ।
यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तो ऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानि शरीरीणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् ।
तन्तुनाभश्च स्वत एव तन्तून्सृजति ।
बलाका चान्तरेणैव शुक्रं गर्भं धत्ते ।
पद्मिनी चानपेक्ष्य किञ्चित्प्रस्तानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते ।
एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति ।
स यदि ब्रूयाद्य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्ट्रान्तिकेन ब्रह्मणा न समाना भवन्ति ।
शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपादानं नतु चेतन आत्मा ।
तन्तुनाभ्या च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति ।
बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते ।
पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेवैव शरीरेण सरोन्तरोपसर्पणे व्याप्रियते ।
तस्मानैते ब्रह्मणो दृष्टान्ता इति ।
तं प्रति ब्रूयान्नायं दोषः ।
कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति ।
यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतद्वाक्यं देवाद्युदाहरणेन विवक्ष्यामः ।
तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः

27.25

fन्: लोक्यते ज्ञायतेर्ऽथोनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च ।
अभिध्यानं संकल्पः ।
यथा भारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः तथा असहायस्यापि ब्रह्मणः कारणत्वम् ।
ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह- स्यदेतदिति ।
तस्यापि हेतोर्देवादौ व्यभिचार इत्याह- देवादिवदिति ।
लोक्यते ज्ञायतेर्ऽथो ऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च ।
अभिध्यानं संकल्पः ।
ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायो ऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते- स यदि ब्रूयादित्यादिना ।
व्यभिचारो ऽस्तीति परिहरति- तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टान्तवैषम्याख्यः ।
अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वं, तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः ।
असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वं, तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् ।
तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् ।
देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् ।
नरदेवादीनां कार्यारम्भे नारस्त्येकरूपा सामग्री ।
श्रूयते हि महाभारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः ।
अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम्

27.26

एन्द् ब्स्चोम्_2,1.8.25
स्तर्त् ब्स्चोम्_2,1.9.26
9 कृत्स्नप्रसक्त्यधिकरणम् । सू. 26-29
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा । ब्ब्स्_2,1.26 ।
चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् ।
शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति ।
कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति,
निरवयवत्वात् ।
यदि ब्रह्म पथिव्यादिवत्सावयवमभविष्यत्ततो ऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत् ।
निरवयवं तु ब्रह्म श्रुतिभ्यो ऽवगम्यते- ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. 6.19), ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजःऽ (मु. 2.1.2), ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवऽ (बृ. 2.4.12), ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.26), ऽअस्थूलमनणुऽ (बृ. 3.8.8) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः ।
ततश्चैकदेशपरिणामसंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत ।
द्रष्टव्यतोपदेशानर्थक्यं चापन्नमयत्नद्रष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणो ऽसंभवात् अजत्वादिशब्दकोपश्च ।
अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुष्येयुः ।
सावयवत्वे चानित्यत्वप्रसङ्ग इति ।
सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति

27.26

fन्: पर्यणंस्यत् परिणतो ऽभविष्यत् ।
एकदेशश्चावस्थास्यदपरिणतो ऽभविष्यत् ।
कृत्स्नप्रसक्तिः ।
क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं संगतिमाह- चेतनमिति ।
निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति संदेहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे- कृत्स्नेति ।
ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा ।
आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति- यदि ब्रह्मेत्यादिना ।
पर्यणंस्यत् परिणतो ऽभविष्यत् ।
एकदेशश्चावास्थास्यदपरिणतो ऽभविष्यत् ।
उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह- ततश्चेति ।
यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोर्ऽथशून्यः स्यादिति दोषान्तरमाह- द्रष्टव्यतेति ।
ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे ऽअजो ऽमरःऽइति श्रुतिविरोधश्चेत्याह- अजत्वादीति ।
सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति- अथेत्यादिना

27.27

एन्द् ब्स्चोम्_2,1.9.26
स्तर्त् ब्स्चोम्_2,1.9.27
श्रुतेस् तु शब्दमूलत्वात् । ब्ब्स्_2,1.27 ।
तुशब्देनाक्षेपं परिहरति ।
न खल्वस्मत्पक्षे कश्चिदपि दोषो ऽस्ति ।
न तावत्कृत्स्नप्रसक्तिरस्ति ।
कुतः ।
श्रुतेः ।
यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवं विकारव्यतिरेकेणापि ब्रह्मणो ऽवस्तानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात् ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2) इति, ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इति चैवञ्जातीयकात् ।
तथा हृदयायतनत्ववचनात्सत्संपत्तिवचनाच्च ।
यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात् ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.81) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् ।
विकृतेन ब्रह्मणा नित्यसंपन्नत्वादिविकृतस्य च ब्रह्मणो ऽभावात् ।
तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः ।
तस्मादस्त्यविकृतं ब्रह्म ।
नच निरवयवत्वशब्दकोपो ऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ।
शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् ।
शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च ।
लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ।
ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते ऽस्य वस्तुन एतावत्य एतत्सहाय एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ।
किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत ।
तथाचाहुः पौराणिकाः - ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥
ऽ इति तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः ।
ननु शब्देनापि न शक्यते विरुद्धोर्ऽथः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते नच कृत्स्नमिति ।
यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत ।
कृत्स्नमेव वा परिणमेत ।
अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत ।
क्रियाविषये हि ऽअतिरात्रे षोडशिनं गृह्णातिऽ ऽनातिरात्रे षोडशिनं गृह्णातिऽ इत्येवञ्जातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य ।
इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवत्यपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति ।
नैष दोषः ।
अविद्याकल्पितरूपभेदाभ्युपगमात् ।
नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते ।
नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानो ऽनेक एव भवति ।
अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणमतवतिष्ठते ।
वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति ।
नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् ।
सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिफलावगमात् ।
ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्याह- ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. 4.2.4) इति ।
तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गो ऽस्ति

27.27

परिणामपक्षो दुर्घट इति यदुक्तं तदस्मादिष्टमेवेति विवर्तवादेन सिद्धान्तयति- श्रुतेरिति ।
स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति- तुशब्देनेत्यादिना ।
ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात् पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह- सेयं देवतेति ।
न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह- तावानिति ।
इतश्चास्त्यविकृतं ब्रह्मेत्याह- तथेति ।
ऽस वा एष आत्मा हृदिऽइति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म ।
ऽतदा ऽइति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।
लिङ्गान्तरमाह- तथेन्द्रियेति ।
भ्रूम्यादेर्विकारस्येन्द्रियगोचरत्वात् ऽन चक्षुषा गृह्यतेऽइत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।
कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषो ऽपि नास्तीत्याह- नचेति ।
ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत् सावयवत्वं दुर्वारं, निरवयवस्यैकस्य द्विधा सत्त्वायोगात्, अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति- शब्दमूलं चेति ।
यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् ।
अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् ।
न तर्केण बाधनीयमित्यर्थः ।
प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।
आशयानवबोधेन शङ्कते- ननु शब्देनापीति ।
यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति- नन्विति ।
शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।
ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह- क्रियेति ।
निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति- नैष दोष इति ।
निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति ।
वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।
रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति- नहीत्यादिना ।
कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति- वाचारम्भणेति ।
ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वं, तत्राह- न चेयमिति ।
निष्प्रपञ्चब्रह्माधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम्, अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति- तस्मादिति

27.28

एन्द् ब्स्चोम्_2,1.9.27
स्तर्त् ब्स्चोम्_2,1.9.28
आत्मनि चैवं विचित्राश् च हि । ब्ब्स्_2,1.28 ।
अपिच नैवात्र विवदितव्यं कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति ।
यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते- ऽन तत्र रथा न रथयोगो न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजतेऽ ( बृ. 4.3.10) इत्यादिना ।
लोके ऽपि देवादिषु मायाव्यादिषु च स्वप्नरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते ।
तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति

27.28

पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः ।
पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः ।
तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः- आत्मनि चेति ।
रथयोगाः अश्वाः

27.29

एन्द् ब्स्चोम्_2,1.9.28
स्तर्त् ब्स्चोम्_2,1.9.29
स्वपक्षदोषाच् च । ब्ब्स्_2,1.29 ।
परेषामप्येष समानः स्वपक्षे दोषः ।
प्रधानवादिनो ऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं साववस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः ।
तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा ।
ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणा नित्यास्तेषां साम्यावस्था प्रधाने तैरेवावयवैस्तत्सावयवमिति ।
नैवञ्जातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते ।
यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् ।
एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य ।
तर्कप्रतिष्ठानात्सावयवत्वमेवेति चेत् ।
एववमप्यनित्यत्वादिदोषप्रसङ्गः ।
अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः ।
तास्तु ब्रह्मवादिनो ऽप्यवशिष्टाः ।
तथाणुवादिनो ऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः ।
अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षे ऽपि समान एष दोषः ।
समानत्वाच्च नान्यन्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति ।
परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः

27.29

fन्: वैशेषिकाणां ह्यणुभ्यां संयुज्य ह्यणुकमेकमारभ्यते, तैस्त्रिभिर्ह्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया ।
किञ्च कृत्स्नप्रसक्त्यादीनां सांख्यादिपक्षे ऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वं, ऽयश्चोभयोः समो दोषःऽइति न्यायादित्याह सूत्रकारः- स्वपक्षेति ।
प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते- नन्विति ।
किं साम्यावस्था गुणानां विकारः, समुदायो वा ।
आद्ये तस्या न मूलप्रकृतित्वं, विकारत्वात् ।
द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् ।
अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत्, तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति- नैवमित्यादिना ।
इति यतो ऽतःसमानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः ।
प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसंभवादिति शङ्कते- तर्केति ।
एतद्दोषाभावे ऽपि दोषान्तरं स्यादिति परिहरति- एवमपीति ।
ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणो ऽपि सावयवत्वं तुल्यमित्याह- अथेत्यादिना ।
अणुवादे ऽपि दोषसाम्यमाह- तथेति ।
सांख्यवद्दोषः समान इति संबन्धः ।
निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा ।
आद्ये तत्कार्यस्य द्व्यगुणकस्यैकपरमाणुमात्रत्वापत्तिः प्रथिम्नो ऽधिकपरिमाणस्यानुपपत्तेः ।
न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततो ऽधिकद्रव्यं संभवतिः द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः ।
ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह- परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम्, अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम्

27.30

एन्द् ब्स्चोम्_2,1.9.29
स्तर्त् ब्स्चोम्_2,1.10.30
10 सर्वोपेताधिकरणम् । सू. 30-31
सर्वोपेता च तद्दर्शनात् । ब्ब्स्_2,1.30 ।
एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् ।
तत्पुनः कथमवगम्यते परं ब्रह्मेति ।
तदुच्यते ।
सर्वोपेता च तद्दर्शनात् ।
सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् ।
कुतः ।
तद्दर्शनात् ।
यथाहि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो ऽवाक्यनादरःऽ (छा. 3.14.4), ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.7.1), ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. 1.1.9), ऽएतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. 3.8.9) इत्येवञ्जातीयका

27.30

fन्: अभ्यात्तः अभितोव्याप्तः ।
अवाकी वागिन्द्रियशून्यः ।
अनादरो निष्कामः ।
सर्वोपेता ।
मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधो ऽस्ति न वेति संदेहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं संगतिं वदन् सिद्धान्तसूत्रं व्याचष्टे- एकस्येत्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् ।
अभ्यात्तः अभितो व्याप्तः ।
अवाकी वागिन्द्रियशून्यः ।
अनादरो निष्कामः

27.31

एन्द् ब्स्चोम्_2,1.10.30
स्तर्त् ब्स्चोम्_2,1.10.31
विकरणत्वान् नेति चेत् तद् उक्तम् । ब्ब्स्_2,1.31 ।
स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम्- ऽअचक्षुष्कमश्रोत्रमवागमनाःऽ (बृ.3.8.8) इत्येवञ्जातीयकम् ।
कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ।
देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यत्मिककार्यकरणसंपन्ना एव तस्मैतस्मै कार्याय प्रभवन्तो विज्ञायन्ते ।
कथञ्च ऽनेति नेतिऽ (बृ. 3.9.23) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेदिति चेत् ।
यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् ।
श्रत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् ।
नच यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमो ऽस्तीति ।
प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव ।
तथाच शास्त्रम्- ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःऽ (श्वं. 3.19) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति

27.31

पूर्वपक्षन्यायमनूद्य दूषयति- विकरणत्वादिति ।
देवादिचेतनानां शक्तानामपि देहभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टं, अतो ब्रह्मणः शक्तत्वे ऽप्यदेहत्वान्न कर्तृत्वम् ।
नाप्यदेहस्य शक्तिः संभवतीति शङ्कार्थः ।
विकरणस्य जीवस्य कर्तृत्वासंभवे ऽपीश्वरस्य संभवतीति, ऽदेवादिवदपि लोकेऽइत्यत्रोक्तम् ।
तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः

27.32

एन्द् ब्स्चोम्_2,1.10.31
स्तर्त् ब्स्चोम्_2,1.11.32
11 प्रयोजनवत्त्वाधिकरणम्. सू. 32-33
न प्रयोजनवत्त्वात् । ब्ब्स्_2,1.32 ।
अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति ।
न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति ।
कुतः ।
प्रयोजनवत्त्वात्प्रवृत्तीनाम् ।
चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनामारभमाणो दृष्टः ।
किमुत गुरुतरसंरम्भाम् ।
भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः- ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवतिऽ (बृ. 2.4.5) इति गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् ।
यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तित्वं परमात्मनः श्रूयमाणं बाध्येत ।
प्रयोजनाभावे वा प्रवृत्त्यभावो ऽपि स्यात् ।
अथ चेतनो ऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत ।
तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत ।
तस्मादश्लिष्टा चेतनात्सृष्टिरिति

27.32

fन्: बुद्ध्यपराधो विवेकाभावः ।
न प्रयोजनवत्त्वात् ।
परिवृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति संदेहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे- अन्यथेत्यादिना ।
ईश्वरस्य फलाभावे ऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह- भवति चेति ।
या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः ।
नच दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।
किञ्च गुरुतरायासस्य फलं वाच्यमित्याह- गुरुतरेति ।
तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह- यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।
ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह- अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः

27.33

एन्द् ब्स्चोम्_2,1.11.32
स्तर्त् ब्स्चोम्_2,1.11.33
लोकवत् तु लीलाकैवल्यम् । ब्ब्स्_2,1.33 ।
तुशब्देनाक्षेपं परिहरति ।
यथा लोके कस्यचिदाप्तैषणस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयो ऽनभिसंधाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति ।
न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति ।
नच स्वभावः पर्यनुयोक्तुं शक्यते ।
यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयं, अपरिमितशक्तित्वात् ।
यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः ।
नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च ।
नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम्

27.33

fन्: व्यतिरिक्तं लीलायाः सकाशादिति यावत् ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे- तुशब्देनेति ।
व्यतिरिक्तं ।
लीलातिरिक्तम् ।
क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।
कदाचिद्राजादीनां लीलाया अपि किञ्चित् फलं सुखोल्लासादिकं संभाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह- यथा चेति ।
प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।
नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित्, कल्प्यतां, तत्राह- नहीति ।
आप्तकामत्वव्याघातादित्यर्थः ।
नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह- नच स्वभाव इति ।
कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः ।
यदुक्तं गुरुतरायासत्वात् फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह- यद्यपीत्यादिना ।
अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह- यदि नामेति ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह- न चेयमिति ।
नच निष्फलसृष्टिश्रुतीनामानर्थक्यं, सफलब्रह्मधीशेषत्वेनार्थवत्त्वादियुक्तं न विस्मर्तव्यमित्यर्थः

27.34

एन्द् ब्स्चोम्_2,1.11.33
स्तर्त् ब्स्चोम्_2,1.12.34
वैषम्यनैर्घृण्याधिकरणम् । सू. 34-36
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ब्ब्स्_2,1.34 ।
पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय ।
नेश्वरो जगतः कारणमुपपद्यते ।
कुतः ।
वैषम्यनैर्घृण्यप्रसङ्गात् ।
कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनीत्येवं विषमां सृष्टिं निर्मिमाणस्यैश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः ।
श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत ।
तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत ।
तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः - वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते ।
कस्मात् ।
सापेक्षत्वात् ।
यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च ।
नतु निरपेक्षस्य निर्मातृत्वमस्ति ।
सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते ।
किमपेक्षत इति चेत् ।
धर्माधर्मावपेक्षत इति वदामः ।
अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्लवरस्यापराधः ।
ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः ।
यथाहि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं क्षवति ।
देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति ।
कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ।
तथाहि दर्शयति श्रुतिः - ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौ.ब्रा. 3.8) इति ।
ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽ (बृ. 3.2.13) इति च ।
स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतत्वं च दर्शयति- ऽये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्ऽ (भ.गी. 4.11) इत्येवञ्जातीयका

27.34

fन्: पृथग्जनः पामरः ।
यं जनुमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः ।
वैषम्यनैर्घृण्ये न ।
निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसंगत्या पूर्वपक्षयति- पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोर्ऽथः ।
पृथग्जनः पामरः, ऽनिरवद्यं निरञ्जनम्ऽइति श्रुतिः, ऽन मे द्वेष्यो ऽस्ति न प्रियःऽइति स्मृतिः ।
स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः ।
निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात्, न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति- एवं प्राप्त इत्यादिना ।
नच सापेक्षत्वे अनीश्वरत्वं, सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् ।
ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह- ईश्वरस्तु पर्जन्यवदिति ।
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यं, अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः ।
यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः ।
नच कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यं, अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् ।
अतो ऽनवद्य ईश्वर इति भावः

27.35

एन्द् ब्स्चोम्_2,1.12.34
स्तर्त् ब्स्चोम्_2,1.12.35
न कर्माविभागाद् इति चेन् नानादित्वाद् । ब्ब्स्_2,1.35 ।
ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् ।
सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत ।
अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम ।
प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणो ऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् ।
नैष दोषः ।
अनादित्वात्संसारस्य ।
भवेदेष दोषो यद्यादिमान्संसारः स्यात् ।
अनादौ तु संसारे बीजाङ् कुरवद्धेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते

27.35

प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात्, तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः- न कर्मेति ।
प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह- सृष्ट्युत्तरेति ।
आद्या सृष्टिरित्युपलक्षणम् ।
आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् ।
परिहारः सुगमः

27.36

एन्द् ब्स्चोम्_2,1.12.35
स्तर्त् ब्स्चोम्_2,1.12.36
कथं पुनरवगम्यते ऽनादिरेष संसार इति ।
अत उत्तरं पठति -
उपपद्यते चाप्य् उपलभ्यते च । ब्ब्स्_2,1.36 ।
उपपद्यते च संसारस्यानादित्वम् ।
आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् ।
नचेश्वरो वैषम्यहेतुरित्युक्तम् ।
नचाविद्या केवला वैषम्यस्य कारणं, एकरूपत्वात् ।
रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् ।
नच कर्मान्तरेण शरीरं संभवति, नच शरीरमन्तरेण कर्म संभवतीतीतरेतराश्रयत्वप्रसङ्गः ।
अनादित्वे तु बीजाङ् कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति ।
उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः ।
श्रुतौ तावत् ऽअनेन जीवेनात्मनाऽ (छा. 6.3.2) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति ।
आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणादधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे ऽभिलप्येत ।
नच धारयिष्यतीत्यतो ऽभिलप्येत ।
अनागताद्धि संन्धादतीतः संबन्धो बलवान्भवति, अभिनिष्पन्नत्वात् ।
ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्ऽ (ऋ.सं 10.190.3) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति ।
स्मृतावप्यनादित्वं संसारस्योपलभ्यते- ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽ (गी. 15.3) इति ।
पुराणे चातीतानागतानां च कल्पनां न परिमाणमस्तीति स्थापितम्

27.36

प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति- कथं पुनरिति ।
उपपत्तिसहतश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति- उपपद्यत इति ।
हेतुं विनैव सार्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः ।
ननु सुखादिवैषम्ये ईश्वरो ऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति- नचेश्वर इत्यादिना ।
कस्तर्हि हेतुः, तत्राह- रागादीति ।
रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः ।
तस्मादविद्यासहकारिचत्वेन क्लेशकर्मणामनादिप्रवाहो ऽङ्गीकर्तव्य इति भावः ।
किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न संभवति, हेत्वभावात् ।
नच कर्म हेतुः, शरीरात्प्राक्कर्मासंभवात् ।
तस्मात् कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह- नचेति ।
सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणो ऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह- नच धारयिष्यतीति ।
ऽगृहस्थः सदृशीं भार्यामुपेयात्ऽइत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः ।
अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते ।
ज्ञानं विनान्तो ऽपि नास्ति ।
नाप्यादिरुपलभ्यते, असत्त्वादेव ।
नच संप्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः ।
संसारस्यानादित्वे ऽपि मिथ्यात्वात् ऽएकमेवाद्वितीयम्ऽइत्यवधारणमुपपन्नम् ।
तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम्

27.37

एन्द् ब्स्चोम्_2,1.12.36
स्तर्त् ब्स्चोम्_2,1.13.37
13 सर्वधर्मोपपत्त्यधिकरणम्. सू. 37
सर्वधर्मोपपत्तेश् च । ब्ब्स्_2,1.37 ।
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः ।
इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति ।
यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ऽसर्वज्ञं सर्वशक्ति महामायं च ब्रह्मऽ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति

27.37

सर्वधर्मोपपत्तेश्च ।
निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति संदेहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात्, नतूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह- चेतनमिति ।
विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धं, अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात्, सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः ।
यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम्, ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसंधायाह- सर्वज्ञं सर्वशक्तीति ।
महामायमिति ।
कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् ।
तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc