ब्रह्मसूत्र2 (टीका सहित) · अध्याय 26
fन्: ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता ।
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धताऽ इति संग्रहश्लोकः ।
परमर्षिः कपिलः ।
अन्या आसुरिपञ्चशिखादिप्रणीताः ।
उपचरितं श्रुत्यर्थं प्रतिपद्येरन्नित्यर्थः ।
सूक्ष्मत्वमतीन्द्रियत्वम् ।
अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् ।
काया ब्रह्मादयः ।
शाश्वतिकः कूटस्थः ।
श्रुतिविरोधे स्मृतिप्रामाण्यं अनपेक्षं हेयम् ।
हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति ।
प्रतप्तुर्दाहकस्य ।
विश्वे मूर्धनो ऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् ।
एवं विश्वभुजादौ योज्यम् ।
ऽनामरूपे व्याकरवाणिऽइति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः ।
स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसंगतिं वक्तुं वृत्तं कीर्तयति- प्रथमे ऽध्याय इति ।
जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितं, ऽशास्त्रदृष्ट्या तुऽइत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तं, ऽआनुमानिकम्ऽइत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः ।
एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः संक्षिप्य कथयति- इदानीमिति ।
अत्र प्रथमपादे समन्वयस्य सांख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते ।
द्वितीयपादे सांख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते ।
तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते ।
चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः ।
अयमेवार्थः ।
सुखबोधार्थं श्लोकेन संगृहीतः-ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता ।
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥
ऽइति ।
तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् ।
तत्र प्रथमाधिकरणतात्पर्यमाह- प्रथममिति ।
श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसंगतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसंगतिः ।
अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः ।
स किं सांख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां संदेहे पूर्वपक्षमाह- यदुक्तमिति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम्, अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः ।
तासामपि ब्रह्मार्थककत्वमस्तीत्यविरोध इत्यत आह- तासु हीति ।
ननु सांख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रमाण्यं स्यादित्याह- मन्वादीति ।
तर्हि सांख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह- नैवमिति ।
तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितं, सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह- तस्मादिति ।
श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते- कथमिति ।
ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत्, सांख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह- भवेदिति ।
तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह- कपिलप्रभृतीनां चेति ।
ऽआदौ यो जायमानं च कपिलं जनयेदृषिम् ।
प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् ॥
ऽइति श्रुतियोजना ।
यथा सांख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति- तस्य समाधिरिति ।
तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् ।
सूक्ष्मात्मकं जगदिति यावत् ।
इतिहासवाक्यान्युक्त्वा पुराणसंमतिमाह- अतश्चेति ।
प्रभवत्यस्मादिति प्रभवो जन्महेतुः ।
प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् ।
तस्मात् कर्तुरीश्वरात् काया ब्रह्मादयः प्रभवन्ति ।
स एव मूलमुपादानम् ।
किं परिणामि, न, शाश्वतिकः कूटस्थः ।
अतः स नित्य इत्यर्थः ।
ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह- स्मृतिबलेनेति ।
स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह- दर्शितं त्विति ।
श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः ।
स्मृतीनां का गतिरित्यत आह- विप्रतिपत्तौ चेति ।
वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात् कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणं, इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः ।
कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यत्रः जैमिनीयन्यायमाह- तदुक्तमिति ।
ऽऔदुम्बरीं स्पृष्ट्वोद्गायेत्ऽइति प्रत्यक्षश्रुतिविरुद्धा ऽसा सर्वा वेष्टयितव्याऽइति स्मृतिर्मानं न वेति संदेहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः-कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् ।
हेयमिति यावत् ।
हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात् सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः ।
अस्तु सांख्यस्मृतिः प्रत्यक्षमूलेत्यत आह- न चेति ।
योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं संभावयितुं शक्यमिति शङ्क्यते- शक्यमिति ।
कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः संपादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति- न ।
सिद्धेरपीति ।
अतिशङ्कितुमिति ।
श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः ।
स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेत् न ।
अनीश्वरस्य स्वतःसिद्धौ मानाभावात् ।
अङ्गीकृत्याप्याह- सिद्धेति ।
सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः ।
श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः ।
ननु मन्दमतेः सांख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह- परतन्त्रेत्यादिना ।
ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह- या त्विति ।
कपिलशब्दमात्रेण सांख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् ।
अत्र च सर्वज्ञानसंभृतत्वेन श्रुतः कपिलो वासुदेवांश एव ।
स हि सर्वात्मत्वज्ञानं वैदिकं सांख्यमुपदिशतीति सर्वज्ञ इति भावः ।
प्रतप्तुः प्रदाहकस्य ।
किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह- अन्यार्थेति ।
द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह- भवति चेति ।
इतिहासे ऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह- महाभारते ऽपीति ।
पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः ।
बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञात्वादिगुणैः संपन्नं कथयिष्यामि ।
विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानो ऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् ।
एवं विश्वयुजत्वादियोजना ।
सर्वभूतेष्वेकश्चरत्यवगच्छति ।
सर्वत्र इत्यर्थः ।
स्वैरचारी स्वतन्त्रः ।
नास्य नियन्ता कश्चिदस्ति ।
सर्वेश्वर इत्यर्थः ।
यथासुखमिति ।
विशोकानन्दस्वरूप इति यावत् ।
कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह- श्रुतिश्चेति ।
यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति संबन्धः ।
स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह- वेदस्य हीति ।
वेदस्य प्रमाण्यं स्वतःसिद्धमपौरुषेयत्वात् ।
पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रमाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः ।
श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः ।
समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् ।
इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः ।
तस्मादिति ।
विशेषादित्यर्थः ।
भ्रान्तिमूलत्वसंभवादिति भावः
एन्द् ब्स्चोम्_2,1.1.1
स्तर्त् ब्स्चोम्_2,1.1.2
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः -
इतरेषां चानुपलब्धेः । ब्ब्स्_2,1.2 ।
प्रधानादितराणि यानि प्रधानपरिणामत्वं न समृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते ।
भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् ।
अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते ।
यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ऽआनुमानिकमप्येकेषाम्ऽ (ब्र. 1.4.1) इत्यत्र ।
कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः ।
तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः ।
तर्कावष्टम्भं तु ऽन विलक्षणत्वात्ऽ (ब्र. 2.1.4) इत्यारभ्योन्मथिष्यति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0