भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 20

20.1

स्तर्त् ब्स्चोम्_1,4.1.1
प्रथमाध्याये चतुर्थः पादः ।
[अत्र प्रधानविषयत्वेन संदुह्यमानानामव्यक्ताजादिपदानां चिन्तनम्]
1 आनुमानिकाधिकरणम् । सू. 1-7
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च । ब्ब्स्_1,4.1 ।
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्- ऽजन्माद्यस्य यतःऽ (ब्र. 1.1.2) इति ।
तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्- ऽईक्षतेर्नाशब्दम्ऽ (ब्र. 1.1.5) इति ।
गतिस्मान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन ।
इदं त्विदानीमवशिष्टमाशङ्क्ष्यते- यदुक्तं प्रधानस्याशब्दत्वं तदसिद्धं, कासुचिच्छास्वासु प्रधानसमर्पणाभासानां शब्दनां श्रूयमाणत्वात् ।
अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ।
तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ।
अतस्तेषामन्यपरत्वं दर्शयितुं परः संदर्भः प्रवर्तते ।
आनुमानिकमप्यनुमाननिरूपितमपि प्रधानमेकेषां शाखिनां शब्दवदुपलभ्यते ।
काठके हि पठ्यते- ऽमहतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ (1.3.11) इति ।
तत्र य एव यन्नामानो यत्क्रमाच्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते ।
तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसंभवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते ।
तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् ।
तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् ।
नैतदेवम् ।
नह्येतत्काटकं वाक्यं स्मृतिन्यायप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् ।
नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशं प्रत्यभिज्ञायते ।
शब्दमात्रं ह्यत्राव्यक्तमितिप्रत्यभिज्ञायते ।
स च शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते ।
नचायं कस्मिंश्चिद्रूढः ।
या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते ।
नच क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवत्यसति तद्रूपप्रत्यभिज्ञाने ।
नह्यश्वस्थाने गां पश्यन्नश्वो ऽयमित्यमूढो ऽध्यवस्यति ।
प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते ।
शरीररूपकविन्यस्गृहीतेः ।
शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते ।
कुतः ।
प्रकरणात्परिशेषाच्च ।
तथाह्यनन्तरातीतो ग्रन्थ आत्मशरीरवादिनां रथिरथादिरूपककॢप्तिं दर्शयति- ऽआत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥
ऽ (का. 1.3.3,4) इति ।
तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति ।
संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायां, तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति- ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (का. 1.3.10,11) इति ।
तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृतास्त एवेह परिगृह्यन्ते प्रकृतहानाप्रकृतप्रक्रियापरिहाराय ।
तत्रेन्द्रियमनोबुद्धयस्तावत्पूर्वत्रेह च समानशब्दा एव ।
अर्था ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टास्तेषां चेन्द्रियेभ्यः परत्वम् ।
ऽइन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम्ऽ (बृ. 3.2) इति श्रुतिप्रसिद्धेः ।
विषयेभ्यश्च मनसः परत्वं, मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य ।
मनसस्तु परा बुद्धिः ।
बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति ।
बुद्धेरात्मा महान्परः, यः स ऽआत्मानं रथिनं विद्धिऽ इति रथित्वेनोपक्षिप्तः ।
कुतः ।
आत्मशब्दात् ।
भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः ।
महत्त्वं चास्य स्वामित्वादुपपन्नम् ।
अथवा ऽमनो महान्तमतिर्ब्रह्मा पूर्बुद्धिः ख्यतिरीश्वरः ।
प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते ॥
ऽ इति स्मृतेः, ऽयो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मैऽ (श्वे. ।
6.18) इति च श्रुतेर्या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परा प्रतिष्ठा ।
सेह महानात्मेत्युच्यते ।
सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगीहोपदिश्यते ।
तस्या अप्यस्मादीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः ।
एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम् ।
परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् ।
तदेवं शरीरमेवैकं परिशिष्यते ।
इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते ।
शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता ।
तथाच ऽएष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ ॥
(का. 1.3.12) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति- ऽयच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनिऽ ॥
(का. 1.3.13) इति ।
एतदुक्तं भवति- वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत ।
मनो ऽपि विषयविकल्पाभिमिखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् ।
तामपि बुद्धिं महत्यात्मनि भोक्तर्यग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् ।
महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च ।
तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc