ब्रह्मसूत्र (टीका सहित) · अध्याय 4.1
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यलक्षणे फल ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः ।
एवं मुक्तिलक्षणे ऽप्युत्कर्षीपकर्षकृतः कश्चिद्विशेषप्रतिनियमः ।
स्यादित्याशङ्क्याह - एवं मुक्तिफलानियम इति ।
न खलु मुक्तिफले कश्चिदेवंभूतो विशेषप्रतिनियम आशङ्कितव्यः ।
कुतः - तदवस्थावधृतेः ।
मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैवावधार्यते ।
ब्रह्मैव हि मुक्त्यवस्था नच ब्रह्मणो ऽनेकाकारयोगो ऽस्ति ।
एकलिङ्गत्वावधारणात् ऽअस्तूलमनणुऽ (बृ. 3.8.8) ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.23) ऽयत्र नान्यत्पश्यतिऽ (छा. 7.24.1) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. 2.2.11) ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिश्रुतिभ्यः ।
अपिच विद्यासाधनं स्ववीर्यविशेषास्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेन्न विद्याफले मुक्तौ ।
तद्ध्यसाध्यं नित्यसिद्धस्वभावमेव विद्यायाधिगम्यत इत्यसकृदवादिष्म ।
नच तस्यामप्युत्कर्षनिकर्षात्मको ऽतिशय उपपद्यते निकृष्टाया विद्यात्वाभावादुत्कृष्टैव हि विद्या भवति ।
तस्मात्तस्यां चिराचिरोत्पत्तिरूपो ऽतिशयो भवन्भवेत् ।
नतु मुक्तौ कश्चिदतिशयसंभवो ऽस्ति ।
विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत् ।
नहि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदो ऽस्तीति ।
सगुणासु तु विद्यासु - ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् ।
तथाच लिङ्गदर्शनम् - ऽतं यथा यथोपासते तदेव भवतिऽ इति ।
नैवं निर्गुणायां विद्यायां गुणाभावात् ।
तथाच स्मृतिः - ऽनहि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्ऽ इति ।
तदवस्थावधृतेस्तदवस्थाधृतेरिति पदाभ्यसो ऽध्यायपरिसमाप्तिं द्योतयति ॥ 52 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥ 4 ॥
अथ चतुर्थो ऽध्यायः ।
[अत्र अस्मिन् फलाध्याये प्रथमपादे जीवन्मुक्तिनिरूपणम्]
1 आवृत्ति अधिकरणम् । सू. 1-2
आवृत्तिर् असकृदुपदेशात्
तृतीये अध्याये परा अपरासु विद्यासु साधन आश्रयो विचारः प्रायेणात्यगात् ।
अथ इह चतुर्थे फलाश्रय आगमिष्यति ।
प्रसङ्गागतं च अन्यदपि किञ्चित् चिन्तयिष्यते ।
प्रथमं तावत् कतिभिः चिदधिकरणैः साधन आश्रयविचारशेषमेव अनुसरामः ।
ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. 4.4.21) ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीतऽ(बृ. 4.5.6) ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. 8.7.1) इति च एवमादिश्रवणेषु संशयः - किं सकृत् प्रत्ययः कर्तव्य आहोस्वित् आवृत्त्य इति ।
किं तावत् प्राप्तं सकृत् प्रत्ययः स्यात् प्रयाजादिवत् ।
तावता शास्त्रस्य कृतार्थत्वात् ।
अश्रूयमाणायां क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् ।
ननु असकृत् उपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति एवमादयः ।
एवम् अपि यावत् शब्दम् आवर्तयेत् सकृत् श्रवणं सकृत् मननं सकृत् निदिध्यासनं च इति न अतिरिक्तम् ।
सकृत् उपदेशेषु तु वेद उपासीत इति एवमादिषु अनावृत्तिः इति ।
एवं प्राप्ते ब्रूमः - प्रत्ययावृत्तिः कर्तव्या ।
कुतः - असकृत् उपदेशात् ।
ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ इति एवञ्जातीयको हि असकृत् उपदेशः प्रत्ययावृत्तिं सूचयति ।
ननु उक्तं यावत् शब्दमेव आवर्तयेत् न अधिकम् इति ।
न ।
दर्शनपर्यवसितत्वात् अदोषम् ।
दर्शनपर्यवसानानि हि श्रवणादीनि आवर्त्यमानानि दृष्टार्थानि भवन्ति ।
यथा अवघातादीनि तण्डुलादि निष्पत्तिपर्यसानानि तद्वत् ॥
अपि च उपासनं निदिध्यासनं च इति अत्यन्तर्णीतावृत्तिगुण एव क्रियाभिधीयते ।
तथा हि - लोके गुरुम् उपास्ते राजानम् उपास्त इति च यः तात्पर्येण गुर्वादीन् अनुवर्तते स एवम् उच्यते ।
तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तर स्मरणा पतिं प्रति सा उत्कण्ठा सा एवम् अभिधीयते ।
विद्युपास्त्योः च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते ।
क्वचित् विदिना उपक्रम्य उपासिन उपसंहरति यथा - ऽयस्तद्वेद यत्स वेद स मयैतदुक्तःऽ (छा. 4.1.4) इति अत्र ऽअनु म एतां भगवो देवतां शाधि यां देवतामुपाःसेऽ (छा. 5.2.2) इति ।
क्वचित् च उपासिन उपक्रम्य विदिना उपसंहरति यथा - ऽमनो ब्रह्मेत्युपासीतऽ (छा. 3.18.1) इति अत्र ऽभाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेदऽ (छा. 3.18.3) इति ।
तस्मत् सकृत् उपदेशेषु अपि आवृत्तिसिद्धिः ।
असकृत् उपदेशः तु आवृत्तेः सूचकः ॥ 1 ॥
लिङ्गाच् च
लिङ्गम् अपि प्रत्ययावृत्तिं प्रत्याययति ।
तथा हि उद्गीथविज्ञानं प्रस्तुत्य ऽआदित्य उद्गीथःऽ (छा. 1.5.1) इति एतत् एकपुत्रतादोषेण आपोद्य ऽरशमींस्तवं पर्यावर्तयात्ऽ (छा. 1.5.2) इति रश्मिबहुत्व विज्ञानं बहुपुत्रतायै विदधत् सिद्धवत् प्रत्ययावृत्तिं दर्शयति ।
तस्मात् तत् सामान्यात् सर्वप्रत्ययेषु आवृत्तिसिद्धिः ।
अत्र आह - भवतु नाम साध्यफलेषु प्रत्ययेषु आवृत्तिः ।
तेषु आवृत्तिसाद्यस्य अतिशयस्य संभवात् ।
यः तु परब्रह्मविषयः प्रत्ययो नित्य शुद्ध बुद्ध मुक्त स्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किम् अर्थावृत्तिः इति ।
सकृत् श्रुतौ च ब्रह्म आत्मत्वप्रतीति अनुपपत्तेः आवृत्ति अभ्युपगम इति चेत् ।
न ।
आवृत्तौ अपि तत् अनुपपत्तेः ।
यदि हि ऽतत्त्वमसिऽ (छा. 6.8.7) इति एवञ्जातीयकं वाक्यं सकृत् श्रूयमाणं ब्रह्मात्मत्व प्रतीतिं न उत्पादयेत् ततः तदेव आवर्त्यमानम् उत्पादयिष्यति इति का प्रत्याशा स्यात् ।
अथ उच्येत न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यम् अनुभावयिष्यति ब्रह्मात्मत्वम् इति ।
तथा अपि आवृत्ति आनर्थक्यमेव ।
सा अपि हि युक्तिः सकृत् प्रवृत्तैव स्वम् अर्थम् अनुभावयिष्यति ।
अथापि स्यात् उक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् ।
यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्र कम्पादि लिङ्गात् च शूलसद्भाव सामान्यमेव परः प्रतिपद्यते न विशेषम् अनुभवति यथा स एव शूली ।
विशेष अनुभवः च अविद्याया निवर्तकः ततः तदर्थ आवृत्तिः इति चेत् ।
न ।
असकृत् अपि तावत् मात्रे क्रियमाणे विशेषविज्ञान उत्पत्ति असंभवात् ।
न हि सकृत् प्रयुक्ताभ्यां शास्त्रयुक्तिभ्याम् अनवगतो विशेषः शतकृत्वः अपि प्रयुज्यमानाभ्याम् अवगन्तुं शक्यते ।
तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्यते यदि वा सामान्यमेव उभयथा अपि सकृत् प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्ति अनुपयोगः ।
न च सकृत् प्रयुक्ते शास्त्रयुक्ती कस्यचित् अपि अनुभवं न उत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात् प्रतिपत्तृणाम् ।
अपि च अनेक अंशोपेते लौकिके पदार्थे सामान्य विशेषवत् एकेन अवधानेन एकम् अंशम् अवधारयति अपरेण अपरम् इति स्यात् अपि अभ्यास उपयोगो यथा दीर्घप्रपाठकग्रहणादिषु ।
न तु निर्विशेषे ब्रह्मणि सामान्य विशेषरहिते चैतन्यमात्रात्मके प्रमा उत्पत्तौ अभ्यासापेक्षा युक्त इति ।
अत्र उच्यते - भवेत् आवृत्ति आनर्थक्यं तं प्रति यः तत्त्वमसि इति सकृत् उक्तमेव ब्रह्मात्मत्वम् अनुभवितुं शक्नुयात् ।
यस्तु न शक्नोति तं प्रत्युपयुज्यत एव आवृत्तिः ।
तथा हि छान्दोग्ये ऽतत्त्वमसि श्वेतकेतोऽ (छा. 6.8.7) इति उदिश्य ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. 6.8.7) इति पुनः परिचोद्यमानः तत् तत्
आदाशङ्का कारणं निराकृत्य तत्त्वमसि इति एव असकृत् उपदिशते ।
तथा च ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. 4.5.6) इत्यादि दर्शितम् ।
ननु उक्तं सकृत् श्रुतं चेत् तत्त्वमसि वाक्यं स्वम् अर्थम् अनुभावयितुं न शक्नोति तत आवर्त्यमानम् अपि न एव शक्ष्यति इति ।
न एष दोषः ।
नहि दृष्टे अनुपपन्नं नाम ।
दृश्यन्ते हि सकृत् श्रुतात् वाक्यात् मन्दप्रतीतं वाक्यार्थम् आवर्तयन्तः तत् तत् आभासव्युदासेन सम्यक् प्रतिपद्यमानाः ।
अपि च तत्त्वमसि इति एतत् वाक्यं त्वं पदार्थस्य तत् पदार्थभावम् आचष्टे ।
तत् पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणम् अभिधीयते ऽसत्यं ज्ञानमनन्त ब्रह्मऽ (तै. 2.1.1) ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. 3.8.11) ऽअदृष्टं द्रष्टृऽ (बृ. 3.8.11) ऽअविज्ञातं विज्ञातृऽ (बृ. 3.8.11) ऽअजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम्ऽ (बृ. 3.8.8) इत्यादि शास्त्र प्रसिद्धम् ।
तत्र अजादिशब्दैः जन्मादयो भावविकारा निवर्तिताः ।
अस्थूलादिशब्दैः च स्थौल्यादयो द्रव्यधर्माः ।
विज्ञानादिशब्दैः च चैतन्यप्रकाशात्मकत्वम् उक्तम् ।
एष व्यावृत्तसर्वसंसारधर्मकः ।
अनुभावात्मको ब्रह्मसंज्ञकः तत् पदार्थो वेदान्त अभियुक्तानां प्रसिद्धः ।
तथा त्वंपदार्थः अपि प्रत्यगात्मा श्रोता देहात् आरभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेन अवधारितः ।
तत्र येषाम् एतौ पदार्थौ अज्ञान संशय विपर्यय प्रतिबद्धौ तेषां तत्वमसि इत्येतत् वाक्यं स्वार्थे प्रमां न उत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वात् वाक्यार्थस्य इति अतस्तात् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः ।
यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथा अपि अध्यारोपितं तस्मिन् बहु अशत्वं देह इन्द्रिय मनो बुद्धि विषय वेदनादि लक्षणं तत्र एकेन अवधानेन एकम् अंशम् अपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः ।
तत् तु पूर्वरूपमेव आत्मप्रतिपत्तेः ।
येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धः अस्ति ते शक्नुवन्ति सकृत् उक्तमेव तत्त्वमसि वाक्यार्थम् अनुभवितुम् इति तान् प्रत्यावृत्ति आनर्थक्यम् इष्टमेव ।
सकृत् उत्पन्न एव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयति इति न अत्र कश्चित् अपि क्रमः अभ्युपगम्यते ।
सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिः भवेत् ।
बलवती हि आत्मनो दुःखत्वादि प्रतिपत्तिः ।
अतो न दुःखित्वादि अभावं कश्चित् प्रतिपद्यत इति चेत् ।
न ।
देहादि अभिमानवत् दुःखित्वादि अभिमानस्य मिथ्या अभिमानत्व उपपत्तेः ।
प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्य इति च मिथ्या अभिमानो दृष्टः ।
तथा बाह्यतरेषु अपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्य इत्यदि आरोपो दृष्टः ।
तथा दुःखित्वादि अभिमानः अपि स्यात् ।
देहादिवत् एव चैतन्यात् बहिः उपलभमानत्वात् दुःखित्वादीनां सुषुप्तादिषु च अननुवृत्तेः ।
चैतन्यस्य तु सुषुप्ते अपि अनुवृत्तिम् आमनन्ति ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतिऽ (बृ. 4.3.23) इत्यादिना ।
तस्मात् सर्वदुःखविनिर्मुक्त एकचैतन्यात्मकः अहम् इत्येष आत्मानुभवः ।
न च एवम् आत्मानम् अनुभवतः किञ्चित् अन्यत् कृत्यम् अवशिष्यते ।
तथा च श्रुतिः - ऽकिं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. 4.4.22) इति आत्मविदः कर्तव्य अभावं दर्शयति ।
स्मृतिः अपि - ऽयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्य कार्यं न विद्यतेऽ (गी. 3.17) इति ।
यस्य तु न एषः अनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एव आवृत्ति अभ्युपगमः ।
तत्र अपि न तत्त्वमसि वाक्यार्थात् प्रच्याव्यावृत्तौ प्रवर्तयेत् ।
न हि वरघाताय कन्याम् उद्वाहयन्ति ।
नियुक्तस्य च अस्मिन् अधिकृतः अहं कर्ता मया इदं मन्दम् अप्रतिभानात् तं ब्रह्मप्रत्ययात् विपरीतप्रत्यय उत्पद्यते ।
यः तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन् एव वाक्यार्थे स्थिरीकार आवृत्त्यादि वाचो युक्त्या अभ्युपेयते ।
तस्मात् परब्रह्मविषये अपि प्रत्यये तत् उपाय उपदेशेषु आवृत्तिसिद्धिः ॥ 2 ॥
2 आत्मत्व उपासन अधिकरणम् । सू. 3
आत्मेति तूपगच्छन्ति ग्राहयन्ति च
यः शास्त्रोक्तविशेषण परमात्मा स किम् अहम् इति ग्रहीतव्यः किंवा मत् अन्य इति एतत् विचारयति ।
कथं पुनः आत्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति ।
उच्यते - अयम् आत्मशब्दो मुख्यः शक्यते अभ्युपगन्तुं सति जीव ईश्वरयोः अभेदसंभव इतरथा तु गौणः अयम् अभ्युपगन्तव्य इति मन्यते ।
किं तावत् प्राप्तं न अहम् इति ग्राह्यः ।
न हि अपहतपाप्मत्वादि गुणो विपरीत गुणत्वेन शक्यते ग्रहीतुं विपरीत गुणो च अपहतपाप्मत्वादि गुणत्वेन ।
अपहतपाप्मत्वादि गुणः च परमेश्वरः तद्विपरीतगुणः तु शारीरः ।
ईश्वरस्य च संसारि आत्मत्व ईश्वर अभावप्रसङ्गः ।
ततः शास्त्र आनर्थक्यम् ।
संसारिणः अपि ईश्वर आत्मत्वे अधिकारि अभावात् शास्त्र आनर्थक्यमेव, प्रत्यक्षादि विरोधः च ।
अन्यत्वे अपि तादात्म्य दर्शनं शास्त्रात् कर्तव्यं प्रतिमादिषु इव विष्णु आदिदर्शनम् इति चेत् काममेवं भवतु ।
न तु संसारिणो मुख्य आत्म ईश्वर इत्येतत् नः प्रापयितव्यम् ।
एवं प्राप्ते ब्रूमः - आत्म इत्येव परमेश्वरः प्रतिपत्तव्यः ।
तथा हि परमेश्वर प्रक्रियायां जाबाला आत्मत्वेन एव एतम् उपगच्छन्ति - ऽत्वं वा अहमस्मि भगवो देवतो ऽहं वै त्वमसि भगवो देवेतिऽ इति ।
तथा अन्ये अपि ऽअहं ब्रह्मास्मिऽ इत्येवम् आदय आत्मत्व उपगमा द्रष्टव्याः ।
ग्राहयन्ति च आत्मत्वेन एव ईश्वरं वेदान्तवाक्यानि ऽएष त आत्मा सर्वान्तरःऽ (बृ. 3.4.1) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ. 3.7.3) ऽतत्सत्यं स आत्मा तत्त्वमसिऽ (छा. 6.8.7) इति एवमादीनि ।
यत् उक्तं प्रतीक दर्शनम् इदं विष्णुप्रतिमा न्यायेन भविष्यति इति तत् अयुक्तं गौणत्व प्रसङ्गात् ।
वाक्य वैरूप्यात् च ।
यत्र हि प्रतीकदृष्टिः अभिप्रेयते सकृदेव तत्र वचनं भवति यथा - ऽमनो ब्रह्मऽ (छा. 3.18.1) ऽआदित्यो ब्रह्मऽ (छा. 3.19.1) इत्यादि ।
इह पुनः त्वम् अहम् अस्मि अहं च त्वम् असि इति आह, अतः प्रतीक श्रुति वैरूप्यात् अभेदप्रतिपत्तिः ।
भेददृष्टि अपवादात् च ।
तथा हि - ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमीति न स वेदऽ (बृ. 1.4.10) ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. 4.5.7) इति एवमाद्या भूयसी श्रुतिः भेददर्शनम् अपवदति ।
यत् तु उक्तं न विरुद्धगुणयोः अन्योन्य आत्मसंभव इति ।
न अयं दोषः ।
विरुद्धगुणताया मिथ्यात्व उपपत्तेः ।
यत्पुनः उक्तम् ईश्वर अभावप्रसङ्ग इति ।
तत् असत् ।
शास्त्रप्रामाण्यात् अनभ्युपगमात् च ।
न हि ईश्वरस्य संसारि आत्मत्वं प्रतिपाद्यत इति अभ्युपगच्छामः किं तर्हि संसारिणः संसारित्व अपोहेन ईश्वरात्मत्वं प्रतिपिपायिषितम् इति ।
एवं च सति अद्वैत ईश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्या इति व्यवतिष्ठते ।
यत् अपि उक्तम् अधिकारि अभावः प्रत्यक्षादिविरोधः च इति ।
तत् अपि असत् ।
प्राक्प्रबोधात् संसारित्व अभ्युपगमात् ।
तद्विषयत्वात् च प्रत्यक्षादि व्यवहारस्य ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 2.4.14) इत्यादिना हि प्रबोधे प्रत्यक्षादि अभावं दर्शयति ।
प्रत्यक्षादि अभावे श्रुतेः अपि अभावप्रसङ्ग इति चेत् ।
न ।
इष्टत्वात् ।
ऽअत्र पितापिता भवतिऽ (बृ. 4.3.22) इति उपक्रम्य ऽवेदा अवेदाःऽ (बृ. 4.3.22) इति वचनात् इष्यत एव अस्माभिः श्रुतेः अपि अभावः प्रबोधे ।
कस्य पुनः अयम् अप्रबोध इति चेत् ।
य- त्वं पृच्छसि तस्य त इति वदामः ।
ननु अहम् ईश्वर एव उक्तः श्रुत्या, यदि एवं प्रतिबुद्धः असि न अस्ति कस्यचित् अप्रबोधः ।
यः अपि दोषः चोद्यते कैश्चित् अविद्या किल आत्मनः सद्वितीयत्वात् अद्वैत अनुपपत्तिः इति सः अपि एतेन प्रत्युक्तः ।
तस्मात् आत्म इति एव ईश्वरे मनो दधीत ॥ 3 ॥
3 प्रतीक अधिकरणम् । सू. 4
न प्रतीके न हि सः
ऽमनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेतिऽ (छा. 3.18.1) ऽतथा आदित्यो ब्रह्मेत्यादेशःऽ (छा. 3.19.1) ऽस यो नाम ब्रह्मेत्युपास्तेऽ (छा. 7.1.5) इति एवमादिषु प्रतीक उपासनेषु संशयः - किं तेषु अपि आत्मग्रहः कर्तव्यो न वा इति ।
किं तावत् प्राप्तम् ।
तेषु अपि आत्मग्रह एव युक्तः ।
कस्मात् ।
ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानाम् अपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्याम् आत्मत्व उपपत्तेः इति ।
एवं प्राप्ते ब्रूमः - न प्रतीकेषु आत्म मतिं बध्नीयात् ।
न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेनाकलयेत् ।
यत् पुनः ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततः च आत्मत्वम् इति ।
तत् असत् ।
प्रतीक अभावप्रसङ्गात् ।
विकारस्वरूप उपमर्देन हि नामादि जातस्य ब्रह्मत्वमेव आश्रिते भवति ।
स्वरूप उपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा ।
न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्टि उपदेशेषु आत्मदृष्टिः कल्प्या ।
कर्तृत्वादि अनिराकरणात् ।
कर्तृत्वादि संवर्ग संसार धर्मनिराकरणे हि ब्रह्मण आत्मत्व उपदेशः ।
तत् अनिराकरणेन च उपासनविधानम् ।
अतः च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो न उपपद्यते ।
न हि रूचक स्वस्तिकयोः इतरेतर आत्मत्वम् अस्ति ।
सुवर्ण आत्मत्वेन इव तु ब्रह्म आत्मत्वेन एकत्वे प्रतीक अभावप्रसङ्गम् अवोचाम ।
अतो न प्रतीकेषु आत्मदृष्टिः क्रियते ॥ 4 ॥
4 ब्रह्म दृष्टि अधिकरणम् । सू. 5
ब्रह्मदृष्टिर् उत्कर्षात्
तेषु एव उदाहरणेषु अन्यः संशयः - किम् आदित्यादि दृष्टयो ब्रह्मणि अध्यसितव्याः किंवा ब्रह्मदृष्टिः आदित्यादिषु इति ।
कुतः संशयः -सामानाधिकरम्ये कारण अनवधारणात् ।
अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यम् उपलभ्यते ।
आदित्यो ब्रह्म प्राणो ब्रह्म विद्युत् ब्रह्म इत्यादि समान विभक्ति निर्देशात् ।
न च अत्र आञ्जसं सामानाधिकरण्यम् अवकल्पते ।
अर्थान्तरवचनत्वात् ब्रह्म आदित्यादिशब्दानाम् ।
न हि भवति गौः अश्व इति सामानाधिकरण्यम् ।
ननु प्रकृतिविकारभावात् ब्रह्म आदित्यानां मृत् शरावादिवत् सामानाधिकरण्यं स्यात् ।
न इति उच्यते ।
विकारप्रविलयो हि एवं प्रकृतिसामानाधिकरण्यात् स्यात् ।
ततः च प्रतीक अभावप्रसङ्गम् अवोचाम ।
परमात्म वाक्यं च इदं तदानीं स्यात् ततः च उपासन अधिकारो बाध्येत ।
परिमितविकार उपादानं च व्यर्थम् ।
तस्मात् ब्राह्मणः अग्निः वैश्वानर इत्यादिवत् अन्यत्र अन्यदृष्टि अध्यासे सति क्व किन्दृष्टिः अध्यस्यताम् इति संशयः ।
तत्र अनियमो नियमकारिणः शास्त्रस्य अभावात् इत्येवं प्राप्तम् ।
अथवा आदित्यादि दृष्टय एव ब्रह्मणि कर्तव्या इति एवं प्राप्तम् ।
एवं हि आदित्यादि दृष्टिभिः ब्रह्म उपासितं भवति ब्रह्म उपासनं च फलवत् इति शास्त्रमर्यादा ।
तस्मात् न ब्रह्मदृष्टिः आदित्यादिषु इति ।
एवं प्राप्ते ब्रूमः - ब्रह्मदृष्टिः एव आदित्यादिषु स्यात् इति ।
कस्मात् ।
उत्कर्षात् ।
एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति ।
उत्कृष्टदृष्टेः तेषु अध्यासात् ।
तथा च लौकिको न्यायो अनुगतो भवति ।
उत्कृष्टदृष्टिः हि निकृष्टे अध्यसितव्य इति लौकिको न्यायः ।
यथा राजदृष्टिः क्षत्तरि ।
स च अनुसर्तव्यः ।
विपर्यये प्रत्यवाय प्रसङ्गात् ।
न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् ।
ननु शास्त्रप्रामाण्यात् अनाशङ्कनीयः अत्र प्रत्यवाय प्रसङ्गो न च लोकिकेन न्यायेन शास्त्रीया दृष्टिः नियन्तुं युक्त इति ।
अत्र उच्यते - निर्धारिते शास्त्रार्थ एतत् एवं स्यात् ।
संदिग्धे तु तस्मिन् निर्णयं प्रति लोकिकः अपि न्याय आश्रीयनाणो न विरुध्यते ।
तेन च उत्कृष्टदृष्टि अध्यासे शास्त्रार्थे अवधार्यमाणे निकृष्टदृष्टिम् अध्यस्यन् प्रत्यवेयात् इति श्लिष्यते ।
प्राथम्यात् च आदित्यादि शब्दानां मुख्यार्थत्वम् अविरोधात् गृहीतव्यम् ।
तैः स्वार्थवृत्तिभिः अवरुद्धायां बुद्धौ पश्चात् अवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्य असंभवात् ब्रह्मदृष्टिविधानार्थत एव अवतिष्ठते ।
इतिपरत्वात् अपि ब्रह्मशब्दस्य एष एव अर्थो न्याय्यः ।
तथा हि ऽब्रह्मेत्यादेशःऽ ऽब्रह्मेत्युपासीतऽ ऽब्रहमेत्युपास्तेऽ इति च सर्वत्र इतिपरं ब्रह्मशब्दम् उच्चारयति शुद्धान् तु आदित्यादि शब्दान् ।
तत- च यथा शुक्तिकां रजतम् इति प्रत्येति इत्यत्र शुक्तिवचन एव शुक्तिका शब्दो रजतशब्दः तु रजतप्रतीति लक्षणार्थः ।
प्रत्येत्येव हि केवलं रजतम् इति न तु तत्र रजतम् अस्ति ।
एवम् अत्र अपि आदित्यादीन् ब्रह्म इति प्रतीयात् इति गम्यते ।
वाक्यशेषः अपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान् दर्शयति - ऽस य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽ (छा. 3.19.4), ऽयो वाचं ब्रह्मेत्युपास्तेऽ (छा. 7.2.2), ऽयः संकल्पः ब्रह्मेत्युपास्तेऽ (छा. 7.4.3) इति च ।
यत् तु उक्तं ब्रह्म उपासनाम् एव अत्र आदरणीयं फलत्वाय इति ।
तत् अयुक्तम् ।
उक्तेन न्यायेन आदित्यादीनाम् एव उपास्यत्व अवगमात् ।
फलं तु अतिथ्यादि उपासन इव आदित्यादि उपासने ऽपि ब्रह्म एव दास्यति सर्व अध्यक्षत्वात् ।
वर्णितं च एतत् ऽफलमत उपपत्तेःऽ (ब्र.सू. 3.2.38) इति अत्र ।
ईदृशं च अत्र ब्रह्मण उपास्यत्वं यत् प्रतीकेषु तत् दृष्टि अध्यारोपणं प्रतिमादिषु इव विष्णु आदीनाम् ॥ 5 ॥
आदित्यादिमति अधिकरणम् । सू. 6
आदित्यादिमतयश् चाङ्ग उपपत्तेः
ऽय एवासौ तपति तमुद्गीथमुपासीतऽ (छा. 1.3.1), ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. 2.2.1), ऽवाचि सप्तविधं सामोपासीतऽ (छा. 2.8.1), ऽइयमेवर्गग्निः सामऽ (छा. 1.6.1) इति एवमादिषु अङ्गावबद्धेषु उपासनेषु संशयः किम् आदित्यादिषु उद्गीथादि दृष्टयो विधीयन्ते किं वा उद्गीथादिषु एव आदित्यादि दृष्टय इति ।
तत्र अनियमो नियमकारण अभावात् इति प्राप्तम् ।
न हि अत्र ब्रह्मण इव कस्यचित् उत्कर्षविशेषः अवधार्यते ऽब्रह्म हि समस्त जगत् कारणत्वात् अपहतपाप्मत्वादि गुणयोगात् च आदित्यादिभ्य उत्कृष्टम् इति शक्यम् अवधारयितुं न तु आदित्य उद्गीथादीनां विकारत्व अविशेषात् कञ्चित् उत्कर्षविशेष अवधारणे कारणम् अस्ति ।
अथवा नियमेन उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् ।
कस्मात् ।
कर्मात्मकत्वात् उद्गीथादीनां कर्मणः च फलप्राप्तिप्रसिद्धेः ।
उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति ।
तथा च ऽइयमेवर्गग्निः सामऽ(छा. 1.6.1) इति अत्र ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. 1.6.1) इति ऋक्शब्देन पृथिवीं निर्दिशति सामशब्देन अग्निं तत् च पृथिवि अग्न्योः रृक् सामदृष्टिचीकीर्षायाम् अवकल्पते न ऋक् सामयोः पृथिवि अग्निदृष्टि चिकीर्षायाम् ।
क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते न राजनि क्षत्तृशब्दः ।
अपि च ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. 2.2.1) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यम् इति प्रतीयते ।
ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. 2.11.1) इति च एतदेवं दर्शयति ।
प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्म अध्यस्तम् ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा. 3.19.1) इत्यादिषु ।
प्रथमनिर्दिष्टाः च पृथिव्यादयः चरमनर्दिष्टा हिङ्कारादयः ऽपृथिवी हिङ्कारःऽ (छा. 2.2.1) इत्यादि श्रुतिषु ।
अतः
अनङ्गेषु आदित्यादिषु अङ्गम् अतिनिक्षेप इति ।
एवं प्राप्ते ब्रूमः - आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् ।
कुतः - उपपत्तेः ।
उपपद्यते हि एवम् अपूर्वसंनिकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः ।
ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति ।
भवतु कर्मसमृद्धिफलेषु एवं, स्वतन्त्रफलेषु तु कथम् ऽय एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्तेऽ (छा. 2.2.3) इत्यादिषु ।
तेषु अपि अधिकृत अधिकारात् प्रकृत अपूर्वसंनिकर्षेण एव फलकल्पना युक्ता गोदोहनादीनियमवत् ।
फलात्मकत्वात् च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्य उत्कर्ष उपपत्तिः आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु ।
अपि च ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) ऽखल्वेतस्यैवाक्षरस्योपव्याख्यातं भवतिऽ (छा. 1.1.10)
इति च उद्गीथमेव उपास्यत्वेन उपक्रम्य आदित्यादिमतीः विदधाति ।
यत् तु उक्तम् उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्ति इति ।
तत् अयुक्तम् ।
स्वयमेव उपासनस्य कर्मत्वात् फलवत्त्व उपपत्तेः ।
आदित्यादिभावेन अपि च दृश्यमानानाम् उद्गीथादीनां कर्मात्मकत्वान् अपायात् ।
ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा. 1.6.1) इति तु लाक्षणिक एव पृथिवी अग्न्योः ऋक् सामशब्दप्रयोगः ।
लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते ।
तत्र यदि अपि ऋक् सामयोः पृथिवी अग्न्योः च संनिधानयोरेव एष ऋक् सामशब्दप्रयोग ऋक् सामसंबन्धात् इति निश्चीयते ।
क्षत्तृशब्दःअपि हि कुतश्चित् कारणात् राजानम् उपसर्पन् न निवारयितुं पार्यते ।
ऽइयमेवर्कऽ(छा. 1.6.1) इति च यथा अक्षरन्यासम् ऋच एव पृथिवीत्वम् अवधारयति ।
पृथिव्या हि अक्त्वे अवधार्यमाण इयम् ऋक् एव इत्यक्षरन्यासः स्यात् ।
ऽय एवं विद्वान्साम गायतिऽ (छा. 1.7.7) इति च अङ्गाश्रयमेव विज्ञानम् उपसंहरति न पृथिव्यादि आश्रयम् ।
तथा ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. 2.2.1) इति यदि अपि सप्तमीनिर्दिष्टा लोकाः तथापि साम्न्येव ते अध्यस्येरन् द्वितीयानिर्देशेन साम्न उपास्यत्व अवगमात् ।
सामनि हि लोकेषु अध्यस्यमानेषु साम लोकात्मन उपासितं भवति ।
अन्यथा पुनः लोकाः सामा आत्मन उपासिताः स्युः ।
एतेन ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा. 2.11.1) इत्यादि व्याख्यातम् ।
यत्र अपि तुल्यो द्वितीयनिर्देशः - ऽअथ खल्वमुमादित्यं सप्तविधं सामोपासीतऽ (छा. 2.9.1) इति, तत्र अपि ऽसमस्तस्य खलु साम्न उपासनं साधुऽ (छा. 2.8.1) ऽइति च पञ्चविधस्यऽ (छा. 2.7.2 ) ऽअथ सप्तविधस्यऽ (छा. 2.8.1) इति च साम्न एव उपास्यत्व उपक्रमात् तस्मिन् एव आदित्यादि अध्यासः ।
एतस्मात् एव च साम्न उपास्यत्व अवगमात् ऽपृथिवी हिङ्कारःऽ (छा. 2.2.1) इत्यादिनिर्देशविपर्यये अपि हिङ्कारादिषु एव पृथिव्यादि दृष्टिः ।
तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषु उद्गीथादिषु क्षिप्येरन् इति सिद्धम् ॥ 6 ॥
6 आसीन अधिकरणम् । सू. 7-10
आसीनः संभवात्
कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता न अपि सम्यक् दर्शने वस्तुतन्त्रत्वात् विज्ञानस्य ।
इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एव इति चिन्तयति ।
तत्र मानसत्वात् उपासनस्य अनियमः शरीरस्थितेः इति ।
एवं प्राप्ते ब्रवीति - आसीन एव उपासीत इति ।
कुतः - संभवात् ।
उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तत् गच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकत्वात् ।
तिष्ठतः अपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति ।
शयानस्य अपि अकस्मात् एव निद्रया अभिभूयेत ।
आसीनस्य तु एवञ्जातीयको भूयान् दोषः सुपरिहर इति संभवति तस्य उपासनम् ॥ 7 ॥
ध्यानाच् च
अपि च ध्यायति अर्थं एष यत् समानप्रत्ययप्रवाहकरणम् ।
ध्यायतिः च प्रशिथिल अङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषय आक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते ध्यायति बको ध्यायति प्रोषितबन्धुः इति ।
आसीनः च अनायासो भवति ।
तस्मात् अपि आसीनकर्म उपासनम् ॥ 8 ॥
अचलत्वं चापेक्ष्य
अपि च ऽध्यायतीव पृथिवीऽ (छा. 7.6.1) इति अत्र पृथिव्यादिषु अचलत्वमेव अपेक्ष्य ध्यायतिवादो भवति तत् च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ 9 ॥
स्मरन्ति च
स्मरन्ति अपि च शिष्टा उपासन अङ्गत्वेन आसनम् - ऽशुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनःऽ (गी. 6.11) इत्यादिना ।
अत एव पद्मकादीनाम् आसनविशेषाणाम् उपदेशो योगशास्त्रे ॥ 10 ॥
7 एकाग्रता अधिकरणम् । सू. 11
यत्रैकाग्रता तत्राविशेषात्
दिक् देशकालेषु संशयः - किम् अस्ति कश्चित् नियमो न अस्ति वा इति ।
प्रायेण वैदिकेषु आरम्भेषु दिगादिनियमदर्शनात् स्यात् इह अपि कश्चित् नियम इति यस्य मतिः तं प्रति आह दिक् देशकालेषु अर्थलक्षण एव नियमः ।
यत्र एव अस्य दिशि देशे काले वा मनसः सोकर्येण एकाग्रता भवति तत्र एव उपासीत प्राचीदिक् पूर्वाह्न प्राचीन प्रवणादिवत् विशेष अश्रावणात् ।
एकाग्रतया इष्टायाः सर्वत्र अविशेषात् ।
ननु विशेषम् अपि केचित् आमनन्ति - ऽसमे शुचौ खर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः ।
मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्ऽ (श्वे. 2.10) इति यथा इति ।
उच्यते - सत्यम् अस्ति एवञ्जातीयको नियमः ।
सति तु एतस्मिन् तद्गतेषु विशेषनियम इति सुहृत् भूत्वा आचार्य आचष्टे ।
ऽमनोनुकूलेऽ इति च एषा श्रुतिः यत्र एकाग्रता तत्र एव इति एतत् एव दर्शयति ॥ 11 ॥
8 आप्रायण अधिकरणम् । सू. 12
आ प्रयाणात् तत्रापि हि दृष्टम्
आवृत्तिः सर्व उपासनेषु आदर्तव्य इति स्थितम् आद्ये अधिकरणे ।
तत्र यानि तावत् सम्यक् दर्शनार्थानि उपासनानि तानि अवघातादिवत् कार्यपर्यवसानानि इति ज्ञातमेव एषाम् आवृत्तिपरिमाणम् ।
न हि सम्यक् दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चित् शासितुं शक्यम् ।
अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्य अविषयत्वात् ।
यानि पुनः अभ्युदयफलानि तेषु एषा चिन्ता किं कियन्तञ्चित् कालं प्रत्ययम् आवर्त्य उपरमेत् उत यावज्जीवम् आवर्तयेत् इति ।
किं तावत् प्राप्तम् ।
कियन्तञ्चित् कालं प्रत्ययम् अभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्य उपासनशब्दार्थस्य कृतत्वात् इति ।
एवं प्राप्ते ब्रूमः - आप्रायणात् एव आवर्तयेत् प्रत्ययम् ।
अन्त्यप्रत्ययवशात् अदृष्टफलप्राप्तेः ।
कर्माणि अपि हि जन्मान्तर उपभोग्यं फलम् आरभमाणानि तत् अनुरूपं भावनाविज्ञानं प्रायणकाल आक्षिपन्ति, ऽसविज्ञानो भवति सविज्ञानमेवान्ववक्रामतिऽ ऽयच्चित्तस्तेनैष प्राणमायाति, प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयतिऽ इति च एवमादिश्रुतिभ्यः ।
तृणजलूकानिदर्शनात् च ।
प्रत्ययाः तु एते स्वरूप अनुवृत्तिं मुक्त्वा किम् अन्यत् प्रायणकालभावि भावनाविज्ञानम् अपेक्षेरन् ।
तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययः तेषु अप्रायणात् आवृत्तिः ।
तथा च श्रुतिः -ऽस यावत्क्रतुरयमस्माल्लोकात्प्रैतिऽ इति प्रायणकाले अपि प्रत्यय अनुवृत्तिं दर्शयति ।
स्मृतिः अपि - ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितःऽ (गी. 8.6) इति ऽप्रयाणकाले मनसाचलेनऽ (गी. 8.10) इति च ।
ऽसो ऽन्तवेलायामेतत्त्रयं प्रतिपद्येतऽ इति च मरणवेलायाम् अपि कर्तव्यशेषं श्रावयति ॥ 12 ॥
9 तत् अधिगम अधिकरणम् । सू. 13
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्
गतः तृतीयशेषः ।
अथ इदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते ।
ब्रह्म अधिगमे सति तत् विपरीतफलं दुरितं क्षीयते न क्षीयते वा इति संशयः ।
किं तावत् प्राप्तम् ।
फलार्थत्वात् कर्मणः फलम् अदत्वा न संभाव्यते क्षयः ।
फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता ।
यदि तदन्तरेण एव फल उपभोगम् अपवृज्येत श्रुतिः कदर्थिता स्यात् ।
स्मरन्ति च ऽनहि कर्म क्षीयतेऽ इति ।
ननु एवं सति प्रायश्चित्त उपदेशःअनर्थकः प्राप्नोति ।
न एष दोषः ।
प्रायश्चित्तानां नैमित्तिकत्व उपपत्तेः गृहदाह इष्ट्यादिवत् ।
अपि च प्रायश्चित्तानां दोषसंयोगेन विदानात् भवेत् अपि दोषक्षपणार्थता न तु एवं ब्रह्मविद्यायां विधानम् अस्ति ।
ननु अनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्य अवश्यं भोक्तव्यतावात् अनिर्मोक्षः स्यात् ।
न इति उच्यते ।
देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति ।
तस्मात् न ब्रह्म अधिगमे दुरितनिवृत्तिः इति ।
एवं प्राप्ते ब्रूमः- तत् अधिगमे ब्रह्म अधिगमे सति उत्तरपूर्वयोः अघयोः अश्लेषविनाशौ भवतः उत्तरस्य अश्लेषः पूर्वस्य विनाशः ।
कस्मात् ।
तत् व्यपदेशात् ।
तथा हि ब्रह्मविद्या प्रक्रियायां संभाव्यमानसंबन्धस्य आगामिनो दुरितस्य अनभिसंबन्धं विदुषो व्यपदिशति - ऽयथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा.4.14.3) इति ।
तथा विनाशम् अपि पूर्व उचितस्य दुरितस्य व्यपदिशति - ऽतद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा. 5.24.3) इति ।
अयम् अपरः कर्मक्षयव्यपदेशो भवति - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु. 2.2.8) इति ।
यत् उक्तम् अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यात् इति ।
न एष दोषः ।
न हि वयं कर्मणः फलदायिनीं शक्तिम् अवजानीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः ।
शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्ध अप्रतिबन्धयोः अपि ।
न हि कर्म क्षीयत इति एतत् अपि स्मरणम् औत्सर्गिकं न भोगात् ऋते कर्म क्षीयत तदर्थत्वात् इति ।
इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः ऽसर्वं पाप्मानं तरतिऽ ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनमेव वदऽ इत्यादि श्रुतिस्मृतिभ्यः ।
यत् तु उक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति ।
तत् असत् ।
दोषसंयोगेन चोद्यमानानाम् एषां दोषनिर्घातफलसंभवे फलान्तरकल्पना अनुपपत्तेः ।
यत्पुनः एतत् उक्तं न प्रायश्चित्तवत् दोषक्षय उद्देशेन विद्याविदानम् अस्ति इति ।
अत्र ब्रूमः - सगुणासु तावत् विद्यासु विद्यत एव विधानम् ।
तासु च वाक्यशेष ऐश्वर्यप्राप्तिः पापनिवृत्तिः च विद्यावत उच्यते ।
तयोः च अविवक्षाकारणं न अस्ति इति अतः पाप्मप्रहाणपूर्वक ऐश्वर्यप्राप्तिः तासां फलम् इति निश्चीयते ।
निर्गुणायां तु विद्यायां यदि अपि विधानं न अस्ति तथा अपि अकर्तृ आत्मत्वबोधात् कर्मप्रदाहसिद्धिः ।
अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मवित् इति दर्शयति ।
अतिक्रान्तेषु तु यदि अपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव तथा अपि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेः तानि अपि प्रविलीयन्त इति आह विनाश इति ।
पूर्वसिद्धकर्तृत्व भोक्तृत्व विपरीतं हि त्रिषु अपि कालेषु अकर्तृत्व अभोक्तृत्वस्वरूपं ब्रह्म अहम् अस्मि न इतः पूर्वम् अपि कर्ता भोक्ता वा अहम् आसं न इदानीं न अपि भविष्यत्काल इति ब्रह्मवित् अवगच्छति ।
एवम् एव च मोक्ष उपपद्यते ।
अन्यथा हि अनादिकालप्रवृत्तानां कर्माणां क्षयाभावे मोक्ष अभावः स्यात् ।
न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुम् अर्हति ।
अनित्यत्व प्रसङ्गात् ।
परोक्षत्व अनुपपत्तेः च ज्ञानफलम् ।
तस्मात् ब्रह्म अधिगमे दुरितक्षय इति स्थिरम् ॥ 13 ॥
10 इतर असंश्लेष अधिकरणम् । सू. 14
इतरस्याप्य् एवम् असंश्लेषः पाते तु
पूर्वस्मिन् अधिकरणे बन्धहेतोः अघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशात् निरूपितौ ।
धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इति आशङ्क्य तत् निराकरणाय पूर्व अधिकरणन्याय अतिदेशः क्रियते ।
इतरस्य अपि पुण्यस्य कर्मण एवम् अघवत् असंश्लेषो विनाशः च ज्ञानवतो भवतः ।
कुतः - तस्य अपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् ।
ऽउभे उ हैवैष एते तरतिऽ (बृ. 4.4.22) इत्यादिश्रुतिषु च दुष्कृतवत् सुकृतस्य अपि प्रणाशव्यपदेशात् ।
अकर्तृ आत्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोः तुल्यत्वात् ऽक्षीयन्ते चास्य कर्माणिऽ (मु. 2.2.8) इति च अविशेषश्रुतेः ।
यत्र अपि केवल एव पाप्मशब्दो दृश्यते तत्र अपि तेन एव पुण्यम् अपि अकलितम् इति द्रष्टव्यम् ।
ज्ञानफल अपेक्षया निकृष्टफलत्वात् ।
अस्ति च श्रुतौ पुण्ये अपि पाप्मशब्दः ऽनैनं सेतुमहोरात्रे तरतःऽ (छा. 8.4.1) इति अत्र सह दुष्कृतेन सकृतमपि अनुक्रम्य सर्वे पाप्मानः अतो निवर्तन्त इति अविशेषेण एव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् ।
पाते तु इति तु शब्दः अवधारणार्थः ।
एवं धर्म अधर्मयोः बन्धहेत्वोः विद्यासामर्थ्यात् अश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिः इति अवधारयति ॥ 14॥
11 अनारब्ध अधिकरणम् । सू. 15
अनारब्धकार्ये एव तु पूर्वे तदवधेः
पूर्वयोः अधिकरणयोः ज्ञाननिमित्तः सुकृतदुष्कृतयोः विनाशः अवधारितः स किम् अविशेषेण आरब्धकार्ययोः अनारब्धकार्ययोः च भवति उत विशेषेण अनारब्धकार्ययोः एव इति विचार्यते ।
ऽतत्र उभे उ हैवैष एते तरतिऽ (बृ. 4.4.22) इति एवमादिश्रुतिषु अविशेषश्रवणात् अविशेषेण एव क्षय इति ।
एवं प्राप्ते प्रत्याह - अनारब्धकार्ये एव तु इति ।
अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन् अपि च जन्मनि प्राक् ज्ञान उत्पत्तेः संचिते सुकृतदुष्कृते ज्ञान अधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्याम् एतत् ब्रह्मज्ञान आयतनं जन्म निर्मितम् ।
कुत एतत् - ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. 6.14.2) इति शरीरपातौ अधिकरणात् क्षेमप्राप्तेः ।
इतरथा हि ज्ञानात् अशेषकर्मक्षये सति स्थितिहेतु अभावात् ज्ञानप्राप्ति अनन्तरमेव क्षेमम्श्नु अवीत, तत्र शरीरपातप्रतीक्षां न आचक्षीत ।
ननु वस्तुबलेन एव अयम् अकर्तृ आत्मावबोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचित् च उपेक्षेत ।
न हि समाने अग्निबीजसंपर्के केषाञ्चित् बीजशक्तिः क्षीयते केषाञ्चित् न क्षीयत इति शक्यम् अङ्गीकर्तुम् इति ।
उच्यते - न तावत् अनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञान उत्पत्तिः उपपद्यते ।
आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्य अन्तराले प्रतिबन्ध असंभवात् भवति वेगक्षयप्रतिपालनम् ।
अकर्तृ आत्मबोधः अपि हि मिथ्याज्ञानबाधनेन कर्माणि उच्छिनत्ति ।
बाधितम् अपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित्कालम् अनुवर्तत एव ।
अपि च न एव अत्र विवदितव्यं ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति ।
कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत ।
श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते ।
तस्मात् अनारब्धकार्ययोः एव सुकृतदुष्कृतयोः विद्यासामर्थ्यात् क्षय इति निर्णयः ॥ 15 ॥
12 अग्निहोत्रादि अधिकरणम् । सू. 16-17
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्
पुण्यस्य अपि अश्लेषविनाशयोः अघन्यायः अतिदिष्टः सः अतिदेशः सर्वपुण्यविषय इति आशङ्क्य प्रतिवक्ति - अग्निहोत्रादि तु इति ।
तु शब्द आशङ्काम् उपनुदति ।
यत् नित्यं कर्म वैदिकम् अग्निहोत्रादि तत् तत् कार्याय एव भवति, ज्ञानस्य यत्कार्यं तदेव अस्य अपि कार्यम् इत्यर्थः ।
कुतः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेनऽ (बृ. 4.4.22) इत्यादिदर्शनात् ।
ननु ज्ञानकर्मणोः विलक्षणकार्यत्वात् कार्य एकत्व अनुपपत्तिः ।
न एष दोषः ।
ज्वरमरणकार्ययोः अपि दधिविषयोः गुडमन्त्रसंयुक्तयोः तृप्तिपुष्टिकार्यदर्शनात् ।
तद्वत् कर्मणः अपि ज्ञानसंयुक्तस्य मोक्षकार्य उपपत्तेः ।
ननु अनारभ्यो मोक्षः कथम् अस्य कर्मकार्यत्वम् उच्यते ।
न एष दोषः ।
आरात् उपकारकत्वात् कर्मणः ।
ज्ञानस्य एव हि प्रापकं सत्कर्म प्राणाड्या मोक्षकारणम् इति उपचर्यते ।
अत एव च अतिक्रान्तविषयम् एतत् कार्य एकत्व अभिधानम् ।
न हि ब्रह्मविद आगामि अग्निहोत्रादि संभवति ।
अनियोज्यब्रह्मात्मत्व प्रतिपत्तेः शास्त्रस्य अविषयत्वात् ।
सगुणासु तु विद्यासु कर्तृत्व अनतिवृत्तेः संभवति आगामि अपि अग्निहोत्रादि ।
तस्य अपि निरभिसंधिनः कार्यान्तर अभावात् विद्यासंगति उपपत्तिः ॥ 16 ॥
किंविषयं पुनः इदम् अश्लेषविनाश वचनं किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति ।
अत उत्तरं पठति -
अतो ऽन्यापि ह्य् एकेषाम् उभयोः
अतः अग्निहोत्रादेः नित्यात्कर्मणः अन्यापि हि अस्ति साधुकृत्या या फलम् अभिसंधाय क्रियते तस्या एष विनियोग उक्त एकेषां शाखिनाम् ऽसुहृदः साधुकृत्यामुपयन्तिऽ इति ।
तस्या एव च इदम् अघवत् अश्लेषविनाशनिरूपणम् इतरस्य अपि एवम् अश्लेष इति ।
तथा जातीयकस्य काम्यस्य कर्मणो विद्यां प्रति अनुपकारकत्वे संप्रतिपत्तिः उभयोः अपि जैमिनिबादरायणयोः आचार्ययोः ॥ 17 ॥
13 विद्याज्ञानसाधन अधिकरणम् । सू. 18
यद् एव विद्ययेति हि
समधिगतम् एतत् अनन्तर अधिकरणे नित्यम् अग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजन उद्देशेन कृतम् उपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्म अधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवति इति ।
तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं च अस्ति ।
ऽय एवं विद्वानयजतिऽ ऽय एवं विद्वाञ्जुहोतिऽ ऽय एवं विद्वाञ्छंसतिऽ ऽय एवं विद्वान्गायतिऽ ऽतस्मादेवंविदमेव ब्रह्माणं कुर्विति नानेवं विदंऽ (छा. 4.17.10) ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. 1.1.10) इत्यादिवचनेभ्यो विद्यासंयुक्तम् अस्ति केवलम् अपि अस्ति ।
तत्र इदं विचार्यते - किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोः विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् उत विद्यासंयुक्तं केवलं च अविशेषेण इति ।
कुतः संशयः - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति यज्ञादीनाम्वि अशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् ।
विद्यासंयुक्तस्य च अग्निहोत्रादीनाम् अविशेषत्व अवगमात् ।
किं तावत् प्राप्तं विद्यासंयुक्तम् एव कर्माग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते न विद्याहीनम् ।
विद्या उपेतस्य विशिष्टत्व अवगमात् विद्याविहीनात् ।
ऽयदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवंविद्वान्ऽ इत्यादिश्रुतिभ्यः ।
ऽबुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसिऽ (गी. 2.39) ऽदूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयऽ (गी. 2.49)
इत्यादिस्मृतिभ्य- च इति ।
एवं प्राप्ते प्रतिपद्यते - यदेव विद्यया इति हि ।
सत्यम् एतत् ।
विद्यासंयुक्तं कर्माग्निहोत्रादिकं विद्याविहीनात् कर्मणः अग्निहोत्रात् विशिष्टं विद्वानिव ब्राह्मणो विद्याविहीनात् ब्राह्मणात् ।
तथा अपि न अत्यन्तम् अनपेक्षं विद्याविहीनं कर्माग्निहोत्रादिकम् ।
कस्मात् - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति अविशेषेण अग्निहोत्रादेः विद्याहेतुत्वेन श्रुतत्वात् ।
ननु विद्यासंयुक्तस्य अग्निहोत्रादेः विद्याविहीनात् विशिष्टत्व अवगमात् विद्याविहीनम् अग्निहोत्रादि आत्मविद्याहेतुत्वेन अनपेक्षमेव इति युक्तम् ।
न एतत् एवम् ।
विद्यासहायस्य अग्निहोत्रादेः विद्यानिमित्तेन सामर्थ्य अतिशयेन योगात् आत्मज्ञानं प्रति कश्चित् कारण अतिशयो भविष्यति न तथा विद्याविहीनस्य इति युक्तं कल्पयितुम् ।
नतु ऽयज्ञेन विविदिषन्तिऽ इति अत्र अविशेषेण आत्मज्ञानाङ्गत्वेन श्रुतस्य अग्निहोत्रादेः अनङ्गत्वं शक्यम् अभ्युपगन्तुम् ।
तथा हि श्रुतिः - ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति विद्यासंयुक्तस्य कर्मणः अग्निहोत्रादेः वीर्यवत्तरत्व अभिधानेन स्वकार्यं प्रति कञ्चित् अतिशयं ब्रुवाणा विद्याविहीनस्य तस्य एव तत् प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति ।
कर्मण- च वीर्यवत्त्वं तत् यत् स्वप्रयोजनसाधनप्रसहत्वम् ।
तस्मात् विद्यासंयुक्तं नित्यम् अग्निहोत्रादि विद्याविहीनं च उभयम् अपि मुमुक्षुणा मोक्षप्रयोजन उद्देशेन इह जन्मनि जन्मान्तरे च प्राक् ज्ञान उत्पत्तेः कृतं यत् तत् यथासामर्थ्यं ब्रह्म अधिगमप्रतिबन्धकारण उपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्म अधिगमकारणत्वं प्रतिपद्यमानं श्रवण मनन श्रद्धा तात्पर्यादि अन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवति इति स्थितम् ॥ 18 ॥
14 इतरक्षपण अधिकरणम् । सू. 19
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0