ब्रह्मसूत्र (टीका सहित) · अध्याय 3.4
दर्शयति च श्रुतिसहभावं प्रत्ययानम् - ऽएवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजो ऽभिरक्षतिऽ
(छा. 4.17.10) इति ।
सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविदः इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्येत ।
तस्माद्यथाकाममुपासनानां समुच्चयो विकल्पो वेति ॥ 66 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाद्यायस्य तृतीयः पादः ॥ 3 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
तृतीयाध्याये चतुर्थः पादः ।
अत्र निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचारः
1 पुरुषार्थाधिकरणम् । सू. 1-17
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः
अथेदानीमौपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित्स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तादुपक्रमते पुरुषार्थो ऽत इति ।
अस्मद्वेदान्तविहितादात्मज्ञानात्स्वतनत्रात्पुरुषार्थः सिद्द्यतीति बादरायण आचार्यो मन्यते ।
कुत एतदवगम्यते शब्दादित्याह ।
तथाहि - ऽतरति शोकमात्मवित्ऽ (छा. 7.1.3) ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु. 3.2.9) ऽब्रह्मविदाप्नोति परम्ऽ (तै. 2.1.1) ऽआचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्नविमोक्ष्ये ऽथ संपत्स्येऽ (छा ।
6.14.2) इति ।
ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्युपक्रम्य ऽसर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति (छा. 8.7.1) इति ।
ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. 4.5.6) इत्युपक्रम्य ऽएतावदरे खल्वमृतत्वम्ऽ (बृ. 4.5.15) इत्येवञ्जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति ॥ 1 ॥
अथात्र प्रत्यवतिष्ठते -
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः
कर्तृत्वमात्मनः कर्मशेषत्वात्तद्विज्ञानमपि व्रीहिप्रोक्षणादिवद्विषयद्वारेण कर्मसंबन्ध्येवेत्यतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुतिः सार्थवाद इति जैमिनिराचार्यो मन्यते यथान्येषु द्रव्यसंस्कारकर्मसु ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति ।
यदङ् के चक्षुरेव भ्रातृव्यस्य वृङ् क्ते ।
यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते कर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इत्येवञ्जातीयका फलश्रुतिरर्थवादः ।
तद्वत् ।
कथं पुनरस्यानरभ्याधीतस्यात्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ।
कर्तृद्वारेण वाक्यात्तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् ।
न ।
वाक्यात्तद्विनियोगानुपपत्तेः ।
अव्यभिचारिणा हि केनचिद्द्वारेणानारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धो ऽवकल्पते ।
कर्ता तु व्यभिचारि द्वारं लोकिकवैदिककर्मसाधारण्यात् ।
तस्मान्न तद्द्वारेणात्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति ।
न ।
व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्यो ऽन्यत्रानुपयोगात् ।
नहि देहव्यतिरिक्तात्मज्ञानं लोकिकेषु कर्मसूपयुज्यते ।
सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः ।
वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिर्नोपपद्यत इत्युपयुज्यते व्यतिरेकविज्ञानम् ।
नन्वपहतपाप्मत्वादिविशेषणादसंसार्यात्मविषयमौपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् ।
न ।
प्रियादिसंसूचितस्य संसारिण एवात्मनो द्रष्टव्यत्वेनोपदेशात् ।
अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति ।
ननु तत्र तत्र प्रसीधितमेतदधिकमसंसारि ब्रह्म जगत्कारणं तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपमुपनिषत्सूपदिश्यत इति ।
सत्यं प्रसादितं तस्यैव तु स्थूणानिखननवत्फलद्वारेणाक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ 2 ॥
आचारदर्शनात्
ऽजनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजेऽ (बृ. 3.1.1) ऽयक्ष्यमाणो वै भगवन्तो ऽहमस्मिऽ (छा. 5.11.5) इत्येवमादीनि ब्रह्मविदामप्यन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति ।
तथोद्दालकादीनामपि पुत्रानुशासनादिदर्शनाद्गार्हस्थ्यसंबन्धो ऽवगम्यते ।
केवलाच्चेज्ज्ञानात्पुरुषार्थसिद्धिः स्यात्किमर्थमनेकायाससमन्वितानि कर्माणि ते कुर्युः ऽअर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्ऽ इति न्यायात् ॥ 3 ॥
तच्छ्रुतेः
ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति च कर्मशेषत्वश्रवणाद्विद्याया न केवलायाः पुरुषार्थहेतुत्म् ॥ 4 ॥
समन्वारम्भणात्
ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. 4.4.2) इति च विद्याकर्मणोः फलारम्भे सहकारित्वदर्शनान्न स्वातन्त्र्यं विद्यायाः ॥ 5 ॥
तद्वतो विधानात्
ऽआचार्यकुलाद्वेदमधीत्य यथाविदानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानःऽ (छा. 8.15.1) इति चैवञ्जातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् ।
नन्वत्राधीत्येत्यध्ययनमात्रं वेदस्य श्रूयते नार्थविज्ञानम् ।
नैष दोषः ।
दृष्टार्थत्वाद्वेदाध्ययनमर्थावबोधपर्यन्तमितिस्थितम् ॥ 6 ॥
नियमाच् च
ऽकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरेऽ (ईश. 2) इति ।
तथा ऽएतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वाऽ इत्येवञ्जातीयकान्नियमादपि कर्मशेषत्वमेव विध्यया इति ॥ 7 ॥
एवं प्राप्ते प्रतिविधत्ते -
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्
तुशब्दात्पक्षो विपरिवर्तते ।
यदुक्तम् - ऽशेषत्वात्पुरुषार्थवादःऽ (ब्र. सू. 3.4.2) इति तन्नोपपद्यते ।
कस्मात् ।
अधिकोपदेशात् ।
यदि संसार्येवात्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषूपदिष्टः स्यात्ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् ।
अधिकस्तावच्छरीरादात्मनो ऽसंसारीश्वरः कर्तृत्वादिसंसारिधर्मरहितो ऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु ।
नच तद्विज्ञानं कर्मणां प्रवर्तकं भवति प्रत्युत कर्माण्युच्छिनत्तीति वक्ष्यति ऽउपमर्दं चऽ (ब्र.सू. 3.4.16) इत्यत्र ।
तस्मात् ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. 3.4.1) इति यन्मतं भगवतो बादरायणस्य तत्तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते ।
तथाहि तमधिकं शारीरादीश्वरमात्मानं दर्शयन्ति श्रुतयः - ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. 1.19) ऽभीषास्माद्वातः पवतेऽ (तै. 2.8.1) ऽमहद्भयं वज्रमुद्यतम्ऽ (कठ. 6.2) ऽएतस्य वा अक्षरस्य प्रशासने गार्गिऽ (बृ. 3.8.9) ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छा. 6.2.3) इत्येवमाद्याः ।
यत्तु प्रियादिसंसूचितस्य संसारिण एवात्मनो वेद्यतयानुकर्षणम् ऽआत्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यःऽ (बृ. 2.4.5) ऽयः प्राणेन प्राणिति स त आत्मा सर्वान्तरःऽ (बृ. 3.4.1) ऽय एषो ऽक्षीणि पुरुषो दृश्यतेऽ (छा. 8.7.4) इत्युपक्रम्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यस्यामिऽ (छा. 8.9.3) इति चैवमादि तदपि ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृ. 2.4.10) ऽयो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतिऽ (बृ. 3.5.1) ऽपरं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. 8.12.3) इत्येवमादिभिर्वाक्यशेषैः सत्यामेवाधिकोपदिदिक्षायामत्यन्ताभेदाभिप्रायमित्यविरोधः ।
पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम् ।
उपाधिकृतं तु शारीरत्वम् ऽतत्वमसिऽ (छा. 6.8.7) ऽनान्योदतो ऽस्ति द्रष्टृऽ (बृ. 3.8.11) इत्यादिश्रुतिभ्यः ।
सर्वं चातद्विस्तरेणास्माभिः पुरस्तात्तत्र तत्र वर्णितम् ॥ 8 ॥
तुल्यं तु दर्शनम्
यत्तूक्तमाचारदर्शनात्कर्मशेषो विद्येति ।
अत्र ब्रूमः - तुल्यामाचारदर्शनमक्मशेषित्वे ऽपि विद्यायाः ।
तथाहि श्रुतिर्भवति - ऽएतद्वा स्म वै तद्विद्वांस आहुरृषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्थावयं यक्ष्यामहे ।
एतद्ध स्म वै तत्पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रिरेऽ ऽएतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणयाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ (बृ. 3.5.1) इत्येवजातीयका ।
याज्ञवल्क्यादीनामपि ब्रह्मविदामर्मनिष्ठत्वं दृश्यते - ऽएतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहारऽ (बृ. 4.5.15) इत्यादिश्रुतिभ्यः ।
अपिच यक्ष्यमाणो वै भगवन्तो ऽहमसमि (छा. 5.11.5) इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयम् ।
संभवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् ।
नत्वत्रापि कर्माङ्गत्वमस्ति ।
प्रकरणाद्यभावात् ॥ 9 ॥
यत्पुनरुक्तम् - ऽतच्छ्रुतेःऽ (ब्र.सू. 3.4.4) इति अत्र ब्रूमः -
असार्वत्रिकी
ऽयदेव विद्यया करोतिऽ (छा. 1.1.10) इत्येषा श्रुतिर्न सर्वविद्याविषया ।
प्रकृतविद्याभिसंबन्धात् ।
प्रकृता चोद्गीथविद्या ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्यत्र ॥ 10 ॥
विभागः शतवत्
यदप्युक्तम् - ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. 4.4.2) इत्येतत्समान्वारम्भवचनमस्वतन्त्र्ये विद्याया लिङ्गमिति तत्प्रत्युच्यते ।
विभागो ऽत्र द्रष्टव्यो विद्यान्यं पुरुषमन्वारभते कर्मान्यमिति ।
शतवत् ।
यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत् ।
नचेदं समन्वारमभवचनं मुमुक्षुविषयम् ऽइति नु कामयमानःऽ (बृ. 4.4.6) इति संसारिविषयत्वोपसंहारात् ।
ऽअथाकामयमानःऽ (बृ. 4.4.6) इति च मुमुक्षोः पृथगुपक्रमात् ।
तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते विशेषाभावात् ।
करमापि विहितं प्रतिषिद्धं च यथाप्राप्तानुवादित्वात् ।
एवं सत्यविभागेनापीदं समन्वारम्भवचनमवकल्पते ॥ 11 ॥
यच्चैतत् ऽतद्वतो विधानात्ऽ (ब्र. सू. 3.4.6) इत्यत उत्तरं पठति -
अध्ययनमात्रवतः
ऽआचार्यकुलाद्वेदमधीत्यऽ (छा. 8.15.1) इत्यध्ययनमात्रस्य श्रवणादध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः ।
नन्वेवं सत्याविद्यत्वानधिकारः कर्मसु प्रज्येत ।
नैष दोषः ।
न वयमध्ययनप्रभवं कर्मावबोधनमधिकारकारणं वारयामः किं तर्ह्येनिषदमात्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत्प्रतीयमानं न कर्माधिकारकारणतां प्रतिपद्यत इत्येतावत्प्रतिपादयामः ।
यथाच न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेणापेक्ष्यत एवमेतदपि द्रष्टव्यमिति ॥ 12 ॥
यदप्युक्तं नियमच्च (ब्र. सू. 3.4.7) इत्यत्राभिधीयते -
नाविशेषात्
ऽकुर्वन्नेवेह कर्माणि जिजीविषेत्ऽ (ईशा. 2) इत्येलमादिषु नियमश्रवणेषु न विदुष इति विशेषो ऽस्ति ।
अविशेषेण नियमविधानात् ॥ 13 ॥
स्तुतये ऽनुमतिर्वा
ऽकुर्वन्नेवेह कर्माणिऽ (ईशा. 2) इत्यत्रापरो विशेष आख्यायते यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति संबध्यते तथापि विद्यास्तुतये कर्मानुज्ञानमेतद्द्रष्टव्यम् ।
ऽन कर्म लिप्यते नरेऽ (ईशा. 2) इति हि वक्ष्यति ।
एतदुक्तं भवति ।
यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे हि वक्ष्यति ।
एतदुक्तं भवति ।
यावज्जीवं कर्म कुर्वत्यपि विदुषुपुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति तदेवं विद्या स्तूयते ॥ 14 ॥
कामकारेण चैके
अपिचैके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तस्तदवष्टभ्यात्फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति ।
कामकारेणेति श्रुतिर्भवति वाजसनेयिनाम् ऽएतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. 4.4.22) इति अनुभवारूढमेव च विद्याफलं न क्रियाफलवत्कालान्तरभावीत्यसकृदवोचाम ।
अतो ऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥ 15 ॥
उपमर्दं च
अपिच कर्माकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामर्थ्यात्स्वरूपोपमर्दमामनन्ति - ऽयत्र वा अस्य सर्वमात्मत्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्ऽ (बृ. 2.4.14) इत्यादिना ।
वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासनस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत ।
तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ 16 ॥
ऊर्ध्वरेतस्सु च शब्दे हि
ऊर्ध्वरेतःसु चाश्रमेषु विद्या श्रूयते ।
नच तत्र कर्माङ्गत्वं विद्याया उपपद्यते ।
कर्माभावात् ।
नह्यग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति ।
स्यादेतत् ।
ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति तदपि नास्ति ।
ते ऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.23.1) ऽये चेमे ऽरण्ये श्रद्धा तप इत्युपासतेऽ (छा. 5.10.1) ऽतपःश्रद्धे यो ह्युपवसन्त्यरण्येऽ (मु. 1.2.11) ऽएतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्तिऽ (बृ. 4.4.22) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. 4) इत्येवमादिषु ।
प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानामपाकृतानापाकृतर्णत्रयाणां चोर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् ।
तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ 17 ॥
2 परामर्शाधिकरणम् । सू. 18-20
परामर्शं जैमिनिरचोदनाच्चापवदति हि
ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.2.3.1) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावायोदाहृता न ते तत्प्रतिपादनाय प्रभवन्ति ।
यतः परामर्शमेषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते न विदिम् ।
कुतः - नह्यत्र लिङ्गादीनामन्यतमश्चोदनाशब्दो ऽस्ति ।
अर्थान्तरपरत्वं चैषु प्रत्येकमुपलभ्यते ।
त्रयो धर्मस्कन्धा इत्यत्र तावद्यज्ञो ऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयो ऽत्यन्तमात्मानमाचार्यकुले ऽवसादयन्सर्व एते पुण्यलोका भवन्तीति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्यात्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते - ऽब्रह्मसंस्थो ऽमृतत्वमेतिऽ (छा. 2.23.1) इति ।
ननु परामर्शे ऽप्याश्रमा गम्यन्त एव ।
सत्यं गम्यन्ते ।
स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिर्न प्रत्यक्षश्रुतेः ।
अतश्च प्रत्यक्षश्रुतिविरोधे सत्यनादरणीयास्ते भविष्यन्ति ।
अनधिकृतविषया वा ।
ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टं यज्ञो ऽध्ययनं दानमिति प्रथम इति ।
सत्यमेवं तथापि तु गृहस्थं प्रत्येवाग्निहोत्रादीनां कर्मणां विधानाच्छ्रुतिप्रसिद्धमेव हि तदस्तित्वम् ।
तस्मात्स्तुत्यर्थ एवायं परमर्शो न चोदनार्थः ।
अपिचापवदति हि प्रत्यक्षा श्रुतिराश्रमान्तर् ऽवीरहा वा एष देवानां यो ऽग्निमुद्वासयतेऽ, ऽआचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीःऽ (तै. 1.11.1) ऽनापुत्रस्य लोको ऽस्तीति तत्सर्वे पशवो विदुःऽ इत्येवमाद्या ।
तथा ऽये चेमेरण्ये श्रद्धा तप इत्युपासतेऽ (छा. 5.10.1) ऽतपःश्रद्धे ये ह्युपासन्त्यरण्येऽ (मुण्ड. 1.2.11) इति च देवयानोपदेशो नाश्रमान्तरोपदेशः ।
संदिग्धं चाश्रमान्तराभिधानम् ऽतप एव द्वितीयःऽ (छा. 2.2.3.1) इत्येवमादिषु ।
तथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. 4.4.22) इति लोकसंस्तवो ऽयं न पारिव्राज्यविधिः ।
ननु ब्रह्मचर्यादेव प्रव्रजेदितिविस्पष्टमिदं प्रत्यक्षं प्रिव्राज्यविधानं जाबालानाम् ।
सत्यमेतत् ।
अनपेक्ष्य त्वेतां श्रुतिमयं विचार इति द्रष्टव्यम् ॥ 18 ॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः
अनुष्ठेयमाश्रमान्तरं बादरायण आचार्यो मन्यते ।
वेदे श्रवणात् ।
अग्निहोत्रादीनां चावश्यानुष्ठोयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमितिहीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमानः ।
कुतः साम्यश्रुतेः ।
समा हि गार्हस्त्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.2.3.1)इत्याद्या ।
यथेह श्रुत्यन्तरविहितमेव गार्हस्त्यं परामृष्टमेवाश्रमान्तरमपीति प्रतिपत्तव्यम् ।
यथाच शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनवीतयोः परामर्श उपवीतविधिपरे वाक्ये ।
तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य ।
तथा ऽएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. 4.4.22) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ।
ऽये चेमे ऽरम्ये श्रद्दा तप इत्युपासतेऽ (छा. 5.101) इत्यस्य च पञ्चाग्निविद्यया ।
यत्तूक्तम् ऽतप एव द्वितीयः (छा. 2.2.3.1) इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति ।
नैष दोषः ।
निश्चयकारणसद्भावात् ।
ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.23.1) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ।
नच यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तो ऽन्यत्राश्रमसंबन्धात्रित्वे ऽन्तर्भावयितुं शक्यन्ते ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशस्तपैत्यपि को ऽन्यस्तपःप्रधानादाश्रमाद्धर्मस्कन्धो ऽभ्युपगम्येत ।
ऽये चेमे ऽरण्येऽ (छा. 5.10.1) इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीतिः ।
तस्मात्परामर्शे ऽप्यनुष्ठेयमाश्रमान्तरम् ॥ 19 ॥
विधिर् वा धारणवत्
विधिरिवायमाश्रमान्तरस्य न परामर्शमात्रम् ।
ननु विधित्वाभ्युपगम एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चात्रैकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रह्मसंस्थाता त्वमृतत्वफलेति ।
सत्यमेतत् ।
सतीमपि त्वेकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यो ऽपूर्वत्वात् ।
विध्यन्तरस्यादर्शनात् ।
विस्पष्टाच्चाश्रमान्तरप्रत्ययाद्गुणवादकल्पनयैकवाक्यत्वायोजनानुपपत्तेः ।
धारणवत् ।
यथा ऽअधस्तत्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽ इत्यत्र सत्यामप्यविरोधोधारणैनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथाचोक्तं शेषलक्षणे - ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽ इति ।
तद्वदिहाप्याश्रमपरामर्शश्रुतिर्विधिरिवेति कल्प्यते ।
यदापि परामर्श एवायमाश्रमान्तराणां तदपि ब्रह्मसंस्थता तावत्संस्तवसामर्थ्यादवश्यं विधेयाभ्युपगन्तव्या ।
सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचिदाहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् ।
यदि च ब्रह्माचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजको ऽपि परामृष्टस्तश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषादनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति ।
अथ न परामृष्टस्ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति संत्स्यति ।
तत्र तपःशब्देन वैखानसग्राहिणापरामृष्टःपरिव्राडपीति केचित् ।
तदप्युक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमिति ।
यथात्र ब्रह्मचारिगृहमेधिनावसादारणेनैव स्वेन स्वेन विशेषणेन विशेषितावेवं भिक्षुवैखानसावपीति युक्तम् ।
तपश्चासाधारणोधर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् ।
तपःशब्दस्य तत्र रूढेः ।
भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते ।
चतुष्ठ्वेन च प्रसिद्धा आश्रमास्त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।
अपिच भेदव्यपदेशो ऽत्र भवति ऽत्रय एते पुण्यलोकभाज एको ऽमृतत्वभाक्ऽ इति ।
पृथक्त्वेव चैष भेदव्यपदेशो ऽवकल्पते ।
नह्येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञावन्यस्त्वनयोर्महाप्रज्ञ इति ।
भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति ।
तस्मात्पूर्वो त्रय आश्रमिणः पुण्यलोकभाजः परिशिष्यमाणः परिव्राडेवामृतत्वभाक् ।
कथं पुनर्ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन्परिव्राजक एवावतिष्ठेत ।
रूढ्यभ्युपगमे चाश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति ।
अत्रोच्यते - ब्रह्मसंस्थ इति हि ब्रह्मणि परिसम्प्तिरनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ।
तच्च त्रयाणामा8माणां न संबवति ।
स्वाश्रमविहितकर्माननुष्ठाने प्र्यवायश्रवणात् ।
परिव्राजकस्य तु सर्वकर्मसंन्यासातप्रत्यवायो न संभवत्यननुष्ठाननिमित्तः ।
शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलको न विरोधी ।
ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म यज्ञादीनि चेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवायः तथाच ऽन्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्म तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्ऽ (नारा. 78) ऽवेदान्तविज्ञानसुनिष्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाःऽ (मुण्ड. 3.2.6. नारा. 1.2.3. कैवल्य. 3) इत्याद्याः श्रुतयः ।
स्मृतयश्च -ऽतद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाःऽ (गी. 5.17) इत्याद्या ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति ।
तस्मातपरिव्राजकस्याश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येतेषो ऽपि दोषो न्वतरति ।
तदेवं परामर्शो ऽपीतरेषामाश्रमाणां पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव ।
अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीमयमाच्र्योण विचारः प्रवर्तितः ।
विद्यत एव त्वाश्रमान्तरविधिश्रुतिः प्रत्यक्षा ।
ऽब्रह्मचर्यं परिसम्प्य गृही भवेद्गृही भूत्वा वनीभवेद्वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽ (जाबा. 4) इति ।
न चेयं श्रुतिरनदिकृताविषया शक्या वक्तुम् ।
अविशेषश्रवणात् ।
पृथग्निधानाच्चानधिकृतानाम ऽअथ पुनरेव व्रती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वाऽ (जाबा. 4) इत्यादिना ।
ब्रह्मदानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य नानधिकृतविषयत्वम् ।
तच्च दर्शयति - ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवतिऽ (जाबा. 5) इति ।
तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः ।
सिद्धं चोर्ध्वरेतःसु विदानाद्विद्यायाः स्वातन्त्र्यमिति ॥ 20 ॥
स्तुतिमात्राधिकरणम् । सू. 21-22
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्
ऽस एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथःऽ (छा. 1.1.3) ऽइत्येवमाग्निः सामऽ ( छा. 1.6.1) अयं वाव लोक एषो ऽग्निश्चितः ।
तदिदमेवोक्थमियमेव पृथिवीऽ इत्येवञ्जातीकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्था आहोस्विदुपासनाविद्यर्था इत्यस्मिन्संशये स्तुत्यर्था इति युक्तम् ।
उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् ।
यथा ऽइयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयःऽ इत्याद्या जुह्वादिस्तुत्यर्थास्तद्वदिति चेत् ।
नेत्याह ।
नहि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तमपूर्वत्वात् ।
विध्यर्थतायां ह्यपूर्वोर्ऽथो विहितो भवति स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् ।
विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः इत्यत्र ।
प्रदेशान्तरविहितानां तूद्गीथादीनामियं प्रदेशान्तरपठिता स्तितिर्वाक्यशेषभावमप्रतिपद्यमानानर्थिकैव स्यात् ।
इयमेव जुहूरित्यादि तु विधिसंनिधावेवाम्नतमिति वैषम्यम् ।
तस्माद्विध्यर्था एवैवञ्जातीयकाः श्रुतयः ॥ 21 ॥
भावशब्दाच् च
ऽउद्गीथमुपासीतऽ (छा. 1.1.1) ऽसामोपासीतऽ (छा. 2.2.1) ऽअहमुक्थमस्मीति विद्यात्ऽ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् ।
तथाच न्यायविदां स्मरणम् -ऽकुर्यात्क्रियेत कर्तव्यं भवेतस्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्ऽ इति लिङ्गाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति ।
प्रतिप्रकरणं च फलानि श्राव्यते - ऽआपयिता ह वै कामानां भवतिऽ (छा. 1.1.7) ऽएष ह्येव कामागानस्येष्टेऽ (छा. 1.7.9) ऽकल्पन्ते हास्मै लोका ऊर्ध्वश्चावृत्ताश्चऽ (छा. 2.2.3) इत्यादीनि ।
तस्मादप्युपासनाविधानार्था उद्गीथादिश्रुतयः ॥ 22 ॥
4 पारिप्लवाधिकरणम् । सू. 23-24
पारिप्लवार्था इति चेन् न विशेषितत्वात्
ऽअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्ययनी चऽ (बृ. 4.5.1) ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामऽ (कौषी. 3.1) ऽजानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आसऽ (छा. 4.1.1) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः - किमिमानि पारिप्लवप्रयोगार्थान्योहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति ।
पारिप्लवार्था इमा आख्यानश्रुतयः ।
आख्यानसामान्यात् ।
आख्यानप्रयोगस्य च परिप्लवे चोदितत्वात् ।
ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात्, मन्त्रवत्प्रयोगशेषत्वादिति चेत् ।
तन्न ।
कस्मात् ।
विशेषितत्वात् ।
ऽपारिप्लवमाचक्षीतऽ इति हि प्रकृत्य ऽमनुर्वैवस्वतो राजाऽ इत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते ।
आख्यानसामान्याच्चेत्सामान्याच्चेत्सर्वगृहीतिः स्यादनर्थकमेवेदं विशेषणं भवेत् ।
तस्मान्न पारिप्लवार्था एता आख्यानश्रुतयः ॥ 23 ॥
तथा चैकवाक्यतोपबन्धात्
असति च परिप्लवार्थत्व आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या ।
एकवाक्यतोबन्धात् ।
तथाहि त6 तत्र संनिहिताभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात्प्रतिपत्तिसौकर्योपयोगाच्च ।
मैत्रेयीब्राह्मणे तावत् - ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. 4.5.6) इत्याद्या विद्ययैकवाक्यता दृश्यते ।
प्रातर्दने ऽपि प्राणो ऽस्मि प्रज्ञात्मा इत्याद्यया ।
जानश्रुतिरिय्यत्रापि ऽवायुर्वाव संवर्गःऽ (छा. 4.3.1) इत्याद्या ।
यथा ऽस आत्मानो वपामुदखिदत्ऽ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानां संनिहितविधिस्तुत्यर्थता तद्वत् ।
तस्मान्न पारिप्लवार्थत्वम् ॥ 24 ॥
5 अग्नीन्धनाद्यधिकरणम् । सू. 25
अत एव चाग्नीन्धनाद्यनपेक्षा
ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. 3.4.1) इत्येतद्व्यवहितमपि संभवादत इति परामृश्यते ।
अतेव च विद्यायाः पुरुषार्थहेतुत्वादग्नीन्धनादीन्याश्रमक्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीत्याद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ 25 ॥
6 सर्वापेक्षाधिकरणम् । सू. 26-27
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्
इदमिदानीं चिन्त्यते किं विद्याया अत्यन्तमेवानपेक्षाश्रमकर्ममामुतास्ति काचिदपेक्षेति ।
तत्रात एवाग्नीन्धनादीन्याश्रमकर्माणि विद्या स्वार्थसिद्धौ नापेक्ष्यन्त एवमत्यन्तमेवानपेक्षायां प्राप्तायामिदमुच्यते सर्वापेक्षा चेति ।
अपेक्षत च विद्या सर्वाण्याश्रमकर्माणि नात्यन्तमनपेक्षैव ।
ननु विरुद्धमिदं वचनमपेक्षते चाश्रमकर्माणि विद्या नापेक्षते चेति ।
नेति ब्रूमः ।
उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चिदन्यदपेक्षत उत्पत्तिं प्रति त्वपेक्षते ।
कुतः - यज्ञादिश्रुतेः ।
तथाहि श्रुतिः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनऽ (बृ. 4.4.22) इति यज्ञादीनां विद्यासाधनभावं दर्शयति ।
विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोषवसीयते ।
ऽअथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यस्य यज्ञादिभिः यंस्तवाद्यज्ञादीनामपि हि साधनभावः सूच्यते ।
ऽसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमिऽ (कठ. 2.15) इत्येवमाद्या च श्रुतिराश्रमकर्मणां विद्यासाधनभावं सूचयति ।
स्मृतिरपि - ऽकषायपकतिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्ततेऽ इत्येवमाद्या ।
अश्ववदिति योग्यतानिदर्शनम् ।
यथाच योग्यतावशेनाश्वो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते ।
एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्त उत्पत्तौ चापेक्ष्यन्त इति ॥ 26 ॥
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्
यदिकश्चिन्मन्येत यज्ञादीनां विद्यासाधनभावो न न्याय्यो विध्यबावात् ।
ऽयज्ञेन विविदिषन्तिऽ इत्येवञ्जातीयका हि श्रुतिरनुवादस्वरूपाविद्याभिष्टवपरा न यज्ञादिविधिपरा ।
इत्थं महाभागा विद्या स्याद्विद्यार्थी ऽतस्मादेवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मनेयेवात्मानं पश्यतिऽ (बृ. 4.4.23) इति विद्यासाधनत्वेन शमदमादीनां विधानाद्विहितानां चावश्यानुष्ठेयत्वात् ।
नन्वत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते न विधिः ।
नेति ब्रूमः ।
तस्मादिति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः ।
पश्येदिति न माध्यन्दिना विस्पष्टमेव विधिमधीयते ।
तस्माद्यज्ञाद्यनपेक्षायामपि शमदीन्यपेक्षितव्यानि ।
यज्ञादीन्यपि त्वपेक्षितव्यानीति यज्ञादिश्रुतेरेव ।
ननूक्तं यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति ।
सत्यमुक्तं तथापि त्वत्पूर्वत्वात्संयोगस्य विधिः परिकल्प्यते ।
नह्ययं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तो येनानूद्येत ।
ऽतस्मात्पूषा प्रपिष्टभागो ऽदन्तको हि इत्येवमादिषु चाश्रुतविधिकेष्वपि वाक्येष्वपूर्वत्वाद्विधिं परिकल्प्य पौष्णं पेषणं विकृतौ प्रतीयेत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः ।
तथाचोक्तम् ऽविधिर्वा धारणवत्ऽ (ब्र, सू. 3.4.20) इति ।
स्मृतिरपि भगवद्गीताद्यास्वनभिसंधाय फलमनुतिष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् ।
तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येवाश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि ।
तत्राप्येवंविदिति विद्यासंयोगात्प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु ब्रह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ 27 ॥
7 सर्वान्नानुमत्यधिकरणम् । सू. 28-31
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्
प्राणसंवादे श्रूयते छन्दोगानाम् - ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. 5.2.1) इति ।
तथा वाजसनेयिनाम् - ऽन ह वा अस्यान्नं जग्धं भवति नानन्नं प्रतिगृहीतम्ऽ (बृ. 6.1.14) इति ।
सर्वमेवास्यादनीयमेव भवतीत्यर्थः ।
किमिदं सर्वान्नानुज्ञानं शमादिवद्विद्याङ्गं विधीयत उत स्तुत्यर्थं संकार्त्यत इति संशये विधिरिति तावत्प्रात्म् ।
तथाहि - प्रवृत्तिविशेषकर उपदेशो भवत्यतः प्राणविद्यासंनिधानात्तदङ्गत्वेनेयं नियमनिवृत्तिरुपदिश्यते ।
नन्वेवंसति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् ।
नैष दोषः ।
स्मान्यविशेषभावाद्बाधोपपत्तेः ।
यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञापनविधिना बाधः ।
यथाच ऽन काञ्चन परिहरेत्तद्व्रतम्ऽ (छा. 2.13.2) इत्यनेन वामदेव्याविद्याविषयेण सर्वस्त्रयपरिहारवचनेन तत्सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते ।
एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्यतेति ।
एवं प्राप्ते ब्रूमः - नेदं सर्वान्नानुज्ञानं विधीयत इति ।
नह्यत्र विधायकः शब्द उपलभ्यते ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. 5.2.1) इति वर्तमानापदेशात् ।
नचासत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते ।
अपिच श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वेदमुच्यते ऽनैवंविदः किञ्चिदनन्नं भवतिऽ इति ।
नच श्वादिमर्यामन्नं मानुषेण देहेनोपभोक्तुं शक्यते ।
शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् ।
तस्मात्प्राणान्नविज्ञानप्रशंसार्थो ऽयमर्थवादो न सर्वान्नानुज्ञानविधिः ।
तद्दर्शयति ऽसर्वान्नानुमतिश्च प्राणात्ययेऽ इति ।
एतदुक्तं भवति- प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदीयत्वेनाभ्यनुज्ञायते तद्दर्शनात् ।
तथाहि श्रुतिश्चाक्रायणस्येर्षेः कष्टायामवस्थायामभक्ष्यभक्षणे प्रवृत्तिं दर्शयति - ऽमटचीहतेषु कुरुषुऽ (छा. 1.10.1) इत्यस्मिन्ब्राह्मणे ।
चाक्रायणः किलर्षिरापद्गत इभ्येन सामिखादिन्तान्कुल्माषांश्चखाद ।
अनुपानं तु तदीयमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ऽन वा अजीविष्यमिमानखादन्ऽ (छा. 1.10.4) इति, ऽकामो म उदपानम्ऽ (छा. 1.10.4) इति च ।
पिनश्चोत्तरेद्युस्तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान्भक्षयांबभूवेति ।
तदेतदुच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेराशयातिशयो लक्ष्यते प्राणात्ययप्रसङ्गे प्राणसंधारणायाभक्ष्यमपि भक्षयितव्यमिति ।
स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापीत्यनुपानप्रत्याख्यानाद्गम्यते ।
तस्मादर्थवादो ऽन ह वा एवंविदिऽ (चा. 5.2.1) इत्येवमादिः ॥ 28 ॥
अबाधाच् च
एवञ्च सत्याहारशुद्धौ सत्त्वशुद्धिरित्येवमादि भक्ष्याभक्ष्यविभागशास्त्रमबाधितं भविष्यति ॥ 29 ॥
अपि च स्मर्यते
अपिचापदि सर्वान्नभक्षणमपि स्मर्यतेविदुषो.विदुषश्चाविशेषेण - ऽजीवितात्ययमापन्नो यो ऽन्नमत्ति यतस्ततः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसाऽ इति ।
तथा ऽमद्यं नित्यं ब्राह्मणःऽ, ऽसुरापस्य ब्राह्मणस्योष्णामसिंचेयुःऽ, ऽसुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्ऽ इति च स्मर्यतेवर्जनमन्नस्य ॥ 30 ॥
fन्: उष्णमतितप्ताम् ।
शब्दश् चातो ऽकामकारे
शब्दश्चानन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः काठकानां संहितायां श्रूयते - ऽतस्माद्ब्रह्मणः सुरां न पिबेत्ऽ इति ।
सो ऽपि ऽन ह वा एवंविदिऽ (छा. 5.2.1) इत्यस्यार्थवादत्वादुपपन्नतरो भवति ।
तस्मादेवञ्जातीयका अर्थवादा न विधय इति ॥ 31 ॥
8 आश्रमकर्माधिकरणम् । सू. 32-36
विहितत्वाच् चाश्रमकर्मापि
ऽसर्वापेक्षा च -ऽ (ब्र. सू. 3.4.23) इत्यत्राश्रमकर्मणां विद्यासाधनत्वमवधारितम् ।
इदानीं तु किममुमुक्षोरप्यश्रममात्रनिष्ठस्य विद्यामकाममयमानस्य तान्यनुष्ठेयान्युताहो नेति चिन्त्यते ।
तत्र ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इत्यादिनाश्रमकर्मणां विद्यासाधनत्वेन विहितत्वाद्विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यन्यननुष्ठेयानि ।
अथ तस्याप्यनुष्ठेयानि न तर्ह्येषां विद्यासाधनत्वं नित्यानित्यसंयोगविरोधादिति ।
अस्यां प्राप्तौ पठति - ऽआश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यन्येव नित्यानि कर्माणि यावज्जीवमग्निहोत्रं जुहोतिऽ इत्यादिना विहितत्वात् ।
नहि वचनस्यातिभारो नाम कश्चिदस्ति ॥ 32 ॥
अथ यदुक्तं नैवं सति विद्यासाधनत्वेषां स्यादित्यत उत्तरं पठति -
सहकारित्वेन च
विद्यासहकारीणि चैतानि स्युर्विहितत्वादेव ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इत्यादिना ।
तदुक्तम् - ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ (ब्र. सू. 3.4.26) इति ।
नचेदं विद्यासहकारित्वावचनमाश्रमकर्मणां प्रयाजादिवद्विद्याफलविषयं मन्तव्यम् ।
अविधिलक्षणत्वाद्विद्यायाः ।
असाध्यत्वाच्च विद्याफलस्य ।
विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरमपेक्षते नैवं विद्या ।
तथाचोक्तम् ऽअत एव चाग्नीन्धनाद्यनपेक्षाऽ (ब्र. सू. 3.4.25) इति ।
तस्मादुत्त्पत्तिसाधनत्व एवैषां सहकारित्ववाचोयुक्तिः ।
नचात्र नित्यानित्यसंयोगविरोध आशङ्कयः, कर्माभेदे ऽपि संयोगभेदात् ।
नित्ये ह्येकः संयोगो यावज्जीवादिवाक्यकल्पितो न तस्य विद्याफलत्वम् ।
अनित्यस्त्वपरः संयोगः ऽतमेतं वेदानुवचनेनऽ (बृ. 4.4.22)
इत्यादिवाक्यकल्पितस्तस्य विद्याफलत्वम् ।
यथैकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वमनित्येन संयोगेन पुरुषार्थत्वं तद्वत् ॥ 33 ॥
सर्वथापि त एवोभयलिङ्गात्
सर्वथाप्याश्रमकर्मपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्टोयाः ।
त एवेत्यवधारयन्नाच्र्यः किं निवर्तयति ।
कर्मभेदशह् कामिति ब्रूमः ।
यथा कुण्डपायिनामयने ऽमासमग्निहोत्रं जिहोतिऽ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदो ऽस्तीत्यर्थः ।
कुतः -उभयलिङ्गात् ।
श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च ।
श्रुतिलिङ्गं तावत् ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ् क्ते नतु जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयतीति ।
स्मृतिलिङ्गमपि ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यःऽ (6.1) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति ।
यस्यैते ऽष्टाचत्वारिंशत्संस्कारा इत्याद्या च संस्कारत्वप्रसिद्धिर्वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति ।
तस्मात्साद्विदमभेदावधारणम् ॥ 34 ॥
अनभिभवं च दर्शयति
सहकारित्वस्यैवैतदुपोद्बलकं लिङ्गदर्सनमनभिभवं त दर्शयति श्रुतिर्ब्रह्मचर्यादिसाधनसंपन्नस्य रागदिभिः क्लेशैः ऽएष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽ (छा. 8.5.3) इत्यादिना ।
तस्माद्यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ 35 ॥
9 विधुरादिकरणम् । सू. 36 -39
अन्तरा चापि तु तद्दृष्टेः
विधुरादीनां द्रव्यादिसंपद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारो ऽस्ति किंवा नास्तीति संशये नास्तीति तावत्प्राप्तम् ।
आश्रमकर्मणां विद्याहेतुत्वावधारणादाश्रमकर्मासंभवाच्चैतेषामिति ।
एवं प्राप्त इदमाह - अन्तरा चापि त्वनाश्रमित्वेन वर्तमानो ऽपि विद्यायामधिक्रियते ।
कुतः तद्दृष्टेः ।
रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मत्वश्रुत्युपलब्धेः ॥ 36 ॥
अपि च स्मर्यते
संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्माणामपि महायोगित्वं स्मर्यत इतिहासे ॥ 37 ॥
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमिपन्यस्तं का नु खलु प्राप्तिरिति साभिधीयते -
विशेषानुग्रहश् च
तेषामपि च विधुरादीनामविरुद्धैः पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः संभवति ।
तथाच स्मृतिः - ऽजप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्त्र वा कुर्यान्मन्त्रो ब्राह्मण उच्यतेऽ इत्यसंभवदाश्रमकर्माणो ऽपि जप्ये ऽधिकारं दर्शयति ।
जन्मान्तरानुष्ठितैरपि चाश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः ।
तथाच स्मृतिः - ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (6.45) इति जन्मान्तरसंचितानामपि संस्कारविशेषाननुग्रहीतृन्विद्यायां दर्शयति ।
दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्तिनमधिकरोति श्रवणादिषु ।
तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते ॥ 38 ॥
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च
अतस्त्वन्तरालवर्तित्वादितरदाश्रमवर्तित्वं ज्यायो विद्यासाधनम् ।
श्रुतिस्मृतिसंदृष्टत्वात् ।
श्रुतिलिङ्गाच्च ऽतेनैति ब्रह्मवित्पूण्यकृत्तेजसश्चऽ (बृ. 4.4.1) इति ।
ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ।
संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्ऽ इति च स्मृतिलिङ्गात् ॥ 39 ॥
10 तद्भूताधिकरणम् । सू. 40
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः
सन्त्यूर्ध्वरेतसा आश्रमा इति स्थापितम् ।
तांस्तु प्राप्तस्य कथञ्चित्ततः प्रच्युतिरस्ति नास्ति वेति संशयः ।
पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतो ऽपि स्याद्विशेषाभावादिति ।
एवं प्राप्त उच्यते - तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदप्यतद्भावो न ततः प्रच्युतिः स्यात् ।
कुतः - नियमातद्रूपाभावेभ्यः ।
तथाहि - ऽअत्यन्तमात्मानमाचार्यकुले ऽवसादयन्ऽ (छा. 2.23.1) इति ऽअरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्ऽ इति ऽआचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।
आ विमोक्षाच्छरीरस्य सो ऽनुतिष्ठेद्यथाविदिऽ इति चैवञ्जातीयके नियमः प्रच्युत्यप्रभावं दर्शयति ।
यथाच ऽब्रह्मचर्यं समाप्य गृही भवेत्ऽ (जा. 4) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. 4) इति चैवमादीन्यारोहरूपाणि वचांस्युपलभ्यन्ते नैवं प्रत्यवरोहरूपाणि ।
नचैवमाचाराः शिष्ठा विद्यन्ते ।
यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति तदसत् ऽश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्ऽ (3.35) इति स्मरणात् ।
न्यायाच्च ।
यो हि यं प्रति विधीयते स तस्य धर्मो नतु यो येन स्वनुष्ठातुं शक्यते ।
चोदनालक्षणत्वाद्धर्मस्य ।
नच रागादिवशात्प्रच्युतिः ।
नियमशास्त्रस्य बलीयस्त्वात् ।
जैमिनेरपीत्यपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ 40 ॥
11 अधिकाराधिकरणम् । सू. 41 - 42
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत किं तस्य ऽब्रह्मचर्यावकीर्णी नैरृतं गर्दभमालभेत्ऽ इत्येतत्प्रायश्चित्तं स्यादुत नेति ।
नेत्युच्यते ।
यदप्यधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽ (जै. सू ।
6.8.21) इति तदपिन नैष्ठिकस्य भवितुमर्हति ।
किं कारणम् - ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पिनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महाऽ इत्यप्रतिसमाधेयपतनस्मरणाच्छिन्नशिरस इव प्रतिक्रियानुपपत्तेः ।
उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ 41 ॥
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम्
अपित्वेक आचार्या उपपातकमेवैतदिति मन्यते ।
यन्नैष्ठिकस्य गुरुदारादिभ्यो ऽन्यत्र ब्रह्मचर्यं विशीर्येत न तन्महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् ।
तस्मादुपकुर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रह्मचारित्वाविशेषादवकीर्णितत्वाविशेषाच्च ।
अशनवत् ।
यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनःसंस्कारश्चैवमिति ।
ये हि प्रायश्चित्तस्याभावमिच्छन्ति तेषां न मूलमुपलभ्यते ।
ये तु भावमिच्छन्ति तेषां ब्रह्मचार्यवकीर्णेत्यदविशेषश्रवणं मूलम् ।
तस्माद्भावो युक्ततरः ।
तदुक्तं प्रमाणलक्षणे - ऽसमा विप्रतिपत्तिः स्यात्ऽ (जै. सू. 1.3.8) ऽशास्त्रस्था वा तन्निमित्तत्वात्ऽ (जै. सू. 1.3.9) इति ।
प्राश्चित्ताभावस्मरणं त्वेवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातम् ।
एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत्सोमवल्लिङ्गवर्जं स्वशास्त्रसंस्कारश्च इत्यवमादि प्रायश्चित्तस्मरणमनुवर्तव्यम् ॥ 42 ॥
12 बहिरधिकरमम् । सू. 43
बहिस् तूभयथापि स्मृतेर् आचाराच् च
यदूर्ध्वरेतसां स्वश्रमेभ्यः प्रच्यवनं महापातकं यदि वोपपातकमुभयथापि शिष्ठैस्ते बहिर्कर्तव्याः ।
ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महाऽ इति ऽआरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् ।
उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्ऽ इति चैवमादिनिन्दातिशयस्मृतिभ्यः ।
शिष्टाचाराच्च ।
नहि यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः ॥ 43 ॥
13 स्वाम्यधिकरणम् । सू. 44 -46
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः
अङ्गेषूपासनेषु संशयः ।
किं तानि यजमानकर्माण्याहोस्विदृत्विक्कर्माणीति ।
किं तावत्प्राप्तम् यजमानकर्माणीति ।
कुतः - फलश्रुतेः ।
फलं हि श्रूयते - ऽवर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्तेऽ (छा. 2.3.2) इत्यादि ।
तच्च स्वामिगामि न्याय्यम् ।
तस्य साङ्गे प्रयोगे ऽधिकृतत्वात् ।
अधिकृताधिकारत्वाच्चैवञ्जातीयकस्य ।
फलं च कर्तर्युपासनानां श्रूयते - ऽवर्षत्यस्मै य उपास्तेऽ इत्यादि ।
नन्वृत्विजो ऽपि फलं दृष्टम् ऽआत्मने वा यं कामं कामयते तमागायतिऽ (बृ. 1.3.28) इति ।
न ।
तस्य वाचनिकत्वात् ।
तस्मात्स्वामिन एव फलवत्सूपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते ॥ 44 ॥
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते
नैतदस्ति स्वामिकर्माण्युपासनानीति ।
ऋत्विक्कर्माण्येतानि स्युरित्यौडुलोमिराचार्यो मन्यते ।
किं कारणं, तस्मै हि साङ्गाय कर्मणे यजमानेनर्त्विक्परिक्रीयते ।
तत्प्रयोगान्तःपातीनि चोद्गीथाद्युपासनान्यधिकृताधिकारकत्वात् ।
तस्माद्गोदोहनादिनियमवदेवर्त्विग्भिर्निर्वर्त्येतन् ।
तथाच ऽतं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव (छा. 1.2.13) इत्युद्गातृकतृर्कतां विज्ञानस्य दर्शयति ।
यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति ।
नैष दोषः ।
परार्थत्वादृत्विजो ऽन्यत्र वचनात्फलसंबन्धानुपपत्तेः ॥ 45 ॥
श्रुतेश्च
यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाचेति तस्मादु हैवंविदुद्गाता ब्रूयात्कं ते काममागायानि (छा. 1.7.8 - 9) इति ।
तच्चर्वित्वक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति ।
तस्मादङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः ॥ 46 ॥
14 सहकार्यन्तरविध्यधिकरणम् । सू. 47 - 49
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मोनं च निर्विद्याथ ब्राह्मणःऽ (बृ. 3.5.1) इति बृहदारण्यके श्रूयते ।
तत्र संशयः मौनं विदीयते न वेति ।
न विदीयत इति तावत्प्राप्तम् ।
बाल्येन तिष्ठासेदित्यत्रैव विधेरवसितत्वात् ।
नह्यथ मुनिरित्यत्र विदायका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः ।
कुतः प्राप्तिरिति चेत् ।
मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्येत्येवं प्राप्तं मौनम् ।
अपिचामौनं च मौनं च निर्विद्याथ ब्राह्मण इत्यत्र तावन्न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् ।
तस्मादथ ब्राह्मण इति प्रशंसावदस्तथैवाथ मुनिरित्यपि भवितुमर्हति समाननिर्देषत्वादिति ।
एवं प्राप्ते ब्रूमः - सहकार्यन्तरविधिरिति ।
विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेवाश्रयितव्यो ऽपूर्ववत् ।
ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् ।
नैष दोषः ।
मुनिशब्दस्य ज्ञानातिशयार्थत्वात् ।
मननान्मुनिरिति च व्युत्पत्तिरिति च व्युत्पत्तिसंभवात् ।
ऽमुनीनामप्यहं व्यासःऽ (गी. 10.37) इति च प्रयोगदर्शनात् ।
ननु मुनिशब्द उत्तमाश्रमवचनो ऽपि श्रूयते ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽ इत्यत्र ।
न ।
ऽवाल्मीकिर्मुनिपुङ्गवःऽ इत्यादिषु व्यबिचारदर्शनात् ।
इतराश्रमसंनिधानात्तु पारिशेष्यात्तत्रोत्तमाश्रमोपादानं ज्ञानप्रधानत्वादुत्माश्रमस्यष तस्माद्बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विदीयते ।
यत्तु बाल्य एव विधेः पर्यवसानमिति तथाप्यपूर्वत्वान्मुनित्वस्य विधेयत्वामाश्रीयते मुनिः स्यादिति ।
निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् ।
तद्वतो विद्यावतः सन्यासिनः ।
कथञ्च विद्यावः संन्यासिन इत्यवगम्यते ।
तदधिकारात् ऽआत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ इति ।
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मोनविधिनेत्यत आह - पक्षेणेति ।
एतदुक्तं भवति -
यस्मिन्पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मिन्नेष विधिरिति ।
विध्यादिवत् ।
यथा - ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्येवञ्जातीयके विध्यादौ सहकारित्वेनाग्न्यन्बाधानादिकमङ्गजातं विधीयते ।
एवमविप्रधाने ऽप्यस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ 47 ॥
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारः ऽअभिसमावृत्य कुटुम्बेऽ (छा. 8.15.1) इत्यत्र ।
तेन ह्युपसंहरंस्तद्विषयमादरं दर्शतीति ।
अत उत्तरं पठति -
कृत्स्नभावात् तु गृहिणोपसंहारः
तुशब्दो विशेषणार्थः ।
कृत्स्नभावो ऽस्य विशेष्यते ।
बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टान्याश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते ।
तस्माद्गृहमेधिनोपसंहारो न विरुध्यते ॥ 48 ॥
मौनवद् इतरेषाम् अप्य् उपदेशात्
यथा मौनं गार्हस्थ्यं चैतावाश्रमौ श्रुतिमन्तावेवमितरावपि वानप्रस्थगुरुकुलवासौ ।
दर्शिता हि पुरस्ताच्छ्रुतिः- ऽतपः एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी तृतीयःऽ (छा. 2.23.1) इत्याद्या ।
तस्माच्चतुर्णामप्याश्रमाणामुपदेशाविशेषात्तुल्यवद्विकल्पसमुच्चयाभ्यां प्रतिपत्तिः ।
इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षयानुष्ठातृभेदापेक्षया वेति द्रष्टव्यम् ॥ 49 ॥
15 अनाविष्काराधिकरणम् । सू. 50
अनाविष्कुर्वन्न् अन्वयात्
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्वेद्य बाल्येन तिष्ठासेत्ऽ (बृ. 3.5.1) इति बाल्यमनुष्ठेयतया श्रूयते ।
तत्र बालस्य भावः कर्म वा बाल्यमितिरद्धिते सति बालभावस्य वयोविशेषस्येच्छाया संपादयितुमशक्यत्वाद्यथोपपादं मूत्रपुरीषत्वादिबालचरितन्तर्गता वा भावविशुद्धिरप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः ।
किं तावत्प्राप्तं कामचारवादभक्षणता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् ।
ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् ।
न ।
विद्यावतः संन्यासिनो वचनस्मर्थ्याद्दोषनिवृत्तेः पशुहिंसादिष्विवेति ।
एवं प्राप्ते ऽभिधीयते ।
न ।
वचनस्य गत्यन्तराभावात् ।
अविरुद्धे ह्यन्यस्मिन्बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता ।
प्रधानोपकाराय चाङ्गं विधीयते ।
ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् ।
नच सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते ।
तस्मादान्तरो भावविशेषो बाल्यस्याप्ररूढेन्द्रियत्वादिरिह बाल्यमाश्रीयते ।
तदाह - अनाविष्कुर्वन्निति ।
ज्ञानाध्ययनधार्मिकत्वादिभिरात्मानमविख्यापयन्दम्भदर्पादिरहितो भवेत् ।
यथा बालो ऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् ।
एवं ह्यस्य वाक्यस्य प्रधानोपकार्यार्थानुगम उपपद्यते ।
तथाचोक्तं स्मृतिकारैः - ऽयं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ।
अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्ऽ ॥
ऽअव्यक्तलिङ्गो ऽव्यक्ताचारःऽ इति चैवमादि ॥ 50 ॥
16 ऐहिकाधिकरणम् । सू. 51
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्
ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र.सू. 3.4.23) इत्यत आरभ्योच्चावचं विद्यासाधनमवधारितं, तत्फलं विद्या सिद्ध्यन्ती किमिहैव जन्मनि सिद्ध्यत्युत कदाचिदमुत्रापीति च्नव्त्यते ।
किं तावत्प्राप्तम् ।
इहैवेति ।
किं कारणम् ।
श्रवणादिपूर्विका हि विद्या ।
नच कश्चिदमुत्र मे विद्या जायतामित्यभिसंधाय श्रवणादिषु प्रवर्तते ।
समान एव तु जन्मनि विद्याजन्माभिसंधायैतेषु प्रवर्तमानो दृश्यते ।
यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति प्रामाणजन्यत्वाद्विद्यायाः ।
तस्मादैहिकमेव विद्याजन्मेति ।
एवं प्राप्ते वदामः - ऐहिकं विद्याजन्म भवत्यसति प्रस्तुतप्रतिबन्ध इति ।
एतदपक्तं भवति - यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियत उपस्थितविपाकेन कर्मान्तरेण तदेहैव विद्योत्पद्यते, यदा तु खलु तत्प्रतिबन्धः क्रियते तदामुत्रेति ।
उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिनिपाताद्भवति ।
यानि चाकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येवान्यस्यापीति न नियन्तुं शक्यते ।
यतो विरुद्धफलान्यपि कर्माणि भवन्ति ।
शास्त्रमप्यस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकार्तयति ।
साधनवीर्यविशेषात्त्वतीन्द्रिया कस्यचिच्छक्तिराविर्भवति तत्प्रतिबद्धा परस्य तिष्ठति ।
नचाविशेषेण विद्यायामभिसंधिर्नोत्पद्यत इहामुत्र वा मे विद्या जायतामित्यभिसंधेर्निरङ् कुशत्वात् ।
श्रवणादि द्वारेणापि विद्योत्पद्यमाना प्रतिबन्धक्षयापेक्षयैवोत्पद्यते ।
तथाचश्रुतिर्दुर्बोधत्वमात्मनो दर्शयति - ऽश्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो ऽस्य वक्ता कुशलो ऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टःऽ (क. 2.7) इति ।
गर्भस्य एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात्साधनाज्जन्मान्तरे विद्योत्पत्तिं दर्शयति ।
नहि गर्भस्यैवैहिकं किञ्चित्साधनं संभाव्यते ।
समृतावपि - ऽअप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छतिऽ (गी. 6.36) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ऽनहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छतिऽ (गी. 6.40) इत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संबूतिं चाभिधायानन्तरम् ऽतत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्ऽ (गी.
6.43) इत्यादिना ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (गी. 6.45) इत्येतेनैतदेव दर्शयति ।
तस्मादैहिकमामुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम् ॥ 51 ॥
17 मुक्तिफलाधिकरणम् । सू. 52
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0