ब्रह्मसूत्र (टीका सहित) · अध्याय 4.2
अनारब्धकार्ययोः पुण्यपापयोः विद्यासामर्थ्यात् क्षय उक्तः इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो. 6.14.2) इति ऽब्रह्मैव सन्ब्रह्माप्येतिऽ इति च एवमादिश्रुतिभ्यः ।
ननु सति अपि सम्यक् दर्शने यथा प्राक् देहपातात् भेददर्शनं द्विचन्द्रदर्शनन्यायेन अनुवृत्तमेवं पश्चात् अपि अनुवर्तेत ।
न ।
निमित्त अभावात् ।
उपभोगशेषक्षपणं हि तत्र अनुवृत्तिनिमित्तं न च तादृशमात्र किञ्चित् अस्ति ।
ननु अपरः कर्माशयोः अभिनवम् उपभोग्म् आरप्स्यते ।
न ।
तस्य दग्धबीजत्वात् ।
मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत् च मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत्च मिथ्याज्ञानं सम्यक् ज्ञानेन दग्धम् इत्यतः साधु एतत् आरब्धकार्यक्षये विदुषः कैवल्यम् अवश्यं भवति इति ॥ 19 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ॥ 1 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
चतुर्थाध्याये द्वितीयः पादः ।
अत्र पादे उत्क्रान्तिगतिनिरूपणम्
1 वागाधिकरणम् । सू. 1-2
वाङ्मनसि दर्शनाच् छब्दाच् च
अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानम् अवतारयिष्यन् प्रथमं तावत् यथाशास्त्रम् उत्क्रान्तिक्रमम् अन्वाचष्टे ।
समाना हि विद्वत् अविदुषोः उत्क्रान्तिः इति वक्ष्यति ।
अस्ति प्रायणविषया श्रुतिः ऽअस्य सोम्य पुरुषस्य प्रयतो वाक् मनसि संपद्यते मनः प्राणे प्राण- तेजसि तेजः परस्यां देवतायाम्ऽ (छा. 6.8.6) इति ।
किम् इह वाच एव वृत्तिमत्त्या मनसि संपत्तिः उच्यत उत वाग्वृत्तेःइति विशयः ।
तत्र वाक् एव तावत् मनसि संपद्यत इति प्राप्तम् ।
तथा हि श्रुतिः अनुगृहीता भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षण अविशये च श्रुतिः न्याय्या न लक्षणा ।
तस्मात् वाच एव अयं मनसि प्रलय इति ।
एवं प्राप्ते ब्रूमः - वाक् वृत्तिः इति व्याख्याते यावता वाक् मेनसि इति एव आचार्यः पठति ।
सत्यम् एतत् ।
पठिष्यति तु पुरस्तात् ऽअविभागो वचनात्ऽ (ब्र. सू. 4.2.16) इति ।
तस्मात् अत्र वृत्ति उपशममात्रं विवक्षितम् इति गम्यते ।
तत्त्वप्रलयविवक्षायां तु सर्वत्र एव अविभागसाम्यात् किं परत्र एव विशिष्यात् अविभाग इति ।
तस्मात् अत्र वृत्ति उपसंहारविवक्षा ।
वाक् वृत्तिः पूर्वम् उपसंह्रियते मनोवृत्तौ अवस्थितायाम् इति अर्थः ।
कस्मात् ।
दर्शनात् ।
दृश्यते हि वाक् वृत्तेः पूर्व उपसंहारो मनोवृत्तौ विद्यमानायाम् ।
ननु श्रुतिसामर्थ्यात् वाच एव अयं मनसि अप्ययो युक्त इति उक्तम् ।
न इति आह ।
अतत्प्रकृतित्वात् ।
यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यो मृदीव शरावस्य ।
न च मनसो वाक् उत्पद्यत इति किञ्चन प्रमाणम् अस्ति ।
वृत्त्युत्ति उद्भव अभिभवौ तु अप्रकृतिसमाश्रयौ अपि दृश्येते ।
पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्य अग्नेः वृत्तिः उद्भवति अप्सु च उपशाम्यति ।
कथं तर्हि अस्मिन् पक्षे शब्दो वाक् मनसि संपद्यत इति ।
अत आह शब्दात् च इति ।
शब्दः अपि अस्मिन् पक्षे अवकल्पते वृत्तिवृत्तिमतोः अभेद उपचारात् इति अर्थः ॥ 1 ॥
fन्: प्रयतो म्रियमाणस्य ।
अत एव च सर्वाण्यनु
ऽतस्मादुपशान्ततेजाः ।
पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैःऽ (प्रश्न. 3.9) इति अत्र अविशेषेण सर्वेषाम् एव इन्द्रियाणां मनसि संपत्तिः श्रूयते ।
तत्र अपि अत एव वाच इव चक्षुरादीनाम् अपि सवृत्तिके मनसि अवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलय असंभवात् शब्द उपपत्तेः च वृत्तिद्वारेण एव सर्वाणि इन्द्रियाणि मनः अनुवर्तन्ते ।
सर्वेषां करणानां मनसि उपसंहार अविशेषे सति वाचः पृथक् ग्रहणं वाक् मनसि संपद्यत इति उदाहरण अनुरोधेन ॥ 2 ॥
मनोधिकरणम् । सू. 3
तन्मनः प्राण उत्तरात्
समधिगतमेतत् ऽवाङ्मनसि संपद्यतेऽ (छा. 6.8.6) इति अत्र वृत्तिसंपत्तिविवक्ष इति ।
अथ यत् उत्तरवाक्यम् ऽमनः प्राणेऽ (छा. 6.8.6) इति किम् अत्र अपि वृत्तिसंपत्तिः एव विवक्ष्यत उत वृत्तिमत् संपत्तिः इति विचिकित्सायां वृत्तिमत् संपत्तिः एव अत्र इति प्राप्तम् ।
श्रुति अनुग्रहात् तत् प्रकृतिकत्व उपपत्तेः च ।
तथा हि - ऽअन्नमयं हि सोम्य मन आपोमयःप्राणःऽ (छा. 6.5.4) इति अन्नयोनि मन आत्मनन्ति अप् योनिं च प्राणम् ।
ऽआपश्चान्नमसृजन्तऽ इति श्रुतिः ।
अत- च यत् मनः प्राणे प्रकृतिविकार अभेदात् इति ।
एवं प्राप्ते ब्रूमः - तत् अपि अगृहीत बाह्य इन्द्रियवृत्ति मनो वृत्तिद्वारेण एव प्राणे प्रलीयते इति उत्तरात् वाक्यात् अवगन्तव्यम् ।
तथा हि सुषुप्सो- मुमूर्षोः च प्राणवृत्तौ परिस्पन्द आत्मिकायाम् अवस्थितायां मनोवृत्तीनाम् उपशमो दृश्यते ।
न च मनसः स्वरूप अप्ययः प्राणे संभवति ।
अतत् प्रकृतित्वात् ।
ननु दर्शितं मनसः प्राणप्रकृतित्वम् ।
न एतत् सारम् ।
न हि ईदृशेन प्राणाडिकेन तत् प्रकृतित्वेन मनः प्राणे संपत्तुम् अर्हति ।
एवम् अपि हि अन्ने मनः संपद्येत अप्सु च अन्नम् अप्सु एव च प्राणः ।
न हि एतस्मिन् अपि पक्षे प्राणभावपरिणताभ्यः अद्भ्यो मनो जायत इति किञ्चन प्रमाणम् अस्ति तस्मात् न मनसः प्राणे स्वरूप अप्ययः ।
वृत्ति अप्यये अपि तु शब्दः अवकल्पते वृत्तिवत्तिमतोः अभेद उपचारात् इति दर्शितम् ॥ 3 ॥
3 अध्यक्ष अधिकरणम् । सू. 4-6
सो ऽध्यक्षे तदुपगमादिभ्यः
स्थितम् एतत् यस्य यतो न उत्पत्तिः तस्य तस्मिन् वृत्तिप्रलयो न स्वरूपप्रलय इति ।
इदम् इदानीं प्राणः तेजसि इति अत्र चिन्त्यते -
किं यथाश्रुति प्राणस्य तेजसि एव वृत्ति उपसंहारः किंवा देह इन्द्रियपञ्जर अध्यक्षे जीव इति ।
तत्र श्रुतेः अनतिशङ्क्यत्वात् प्राणस्य तेजसि एव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इति ।
एवं प्राप्ते प्रतिपद्यते सः अध्यक्ष इति ।
स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञ उपाधिके विज्ञान आत्मनि अवतिष्ठते ।
तत् प्रधाना प्राणवृत्तिः भवति इति अर्थः ।
कुतः - तत् उपगमादिभ्यः ।
एवम् एव इमम् आत्मानम् अन्तकाले सर्वे प्राणा अभिसामयन्ति यत्र एतत् ऊर्ध्व उच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्ष उपगामिनः सर्वान् प्राणान् अविशेषेण दर्शयति ।
विशेषेण च ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामतिऽ (बृ. 4.4.2) इति पञ्चवृत्तेः प्राणस्य अध्यक्ष अनुगामितां दर्शयति तत् अनुवृत्तितां च इतरेषाम् ।
ऽप्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामतिऽ (बृ. 4.4.2) इति ।
ऽसविज्ञानो भवतिऽ इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्व प्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति ।
ननु प्राणः तेजसि इति श्रूयते कथं प्राणः अध्यक्ष इति अधिकावापः क्रियते ।
न एष दोषः ।
अध्यक्षप्रधानत्वात् उत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्य अपि च विशेषस्य अपेक्षणीयत्वात् ॥ 4 ॥
कथं तर्हि प्राणः तेजसि इति श्रुतिः इति अत आह -
भूतेषु तच्छ्रुतेः
स प्राणसंपृक्तः अध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इति अवगन्तव्यम् ।
प्राणः तेजसि इति श्रुतेः ।
ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्य अध्यक्षस्य ।
न एष दोषः ।
सः अध्यक्ष इति अध्यक्षस्य अपि अन्तराले अपि उपसंख्यातत्वात् ।
यः अपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सः अपि स्रुघ्नात्पाटलिपुत्रं याति इति शक्यते वदितुम् ।
तस्मात् प्राणः तेजसि इति प्राणसंपृक्तस्य अध्यक्षस्य एव एतत् तेजः सहचरितेषु भूतेषु अवस्थानम् ॥ 5 ॥
कथं तेजःसहचरितेषु भूतेषु इति उच्यते यावत् एकमेव श्रूयते प्राणः तेजसि इति ।
अत आह -
नैकस्मिन् दर्शयतो हि
न एकस्मिन् एव तेजसि शरीरान्तरप्रेप्सावेलायां जीवः अवतिष्ठते कार्यस्य शरीरस्य अनेकात्मकत्वदर्शनात् ।
दर्शयतः च एतम् अर्थं प्रश्नप्रतिवचने ऽआपः पुरुषवचसःऽ (छा. 5.3.3) इति ।
तत् व्याख्यातम् ऽत्र्यात्मकत्वात्तु भूयस्त्वात्ऽ (ब्र.सू. 3.1.2) इति अत्र ।
श्रुतिस्मृती च एतमर्थं दर्शयतः ।
श्रुतिः ऽपृथ्वीमय आपोमयो वायुमय आकाशमयस्तोजोमयःऽ इत्याद्या ।
स्मृतिः अपि ऽअण्व्यो मात्राविनाशिन्यो दशार्धानां तु याःस्मृताः ।
ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशःऽ इत्याद्या ।
ननु च उपसंहृतेषु वाक् आदिषु करणेषु शरीरान्तरप्रेप्सावेलायां ऽक्वायं तदा पुरुषो भवतिऽ (बृ. 3.2.13) इति उपक्रम्य श्रुत्यन्तरं कर्माश्रयतां निरूपयति - ऽतौ ह यदूचतुः कर्म हैव तदूचतुरथ ह यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुःऽ (बृ. 3.2.13) इति ।
अत्र उच्यते - तत्र कर्मप्रयुक्तस्य ग्रह अतिग्रहसंज्ञकस्थ इन्द्रियविषयात्मकस्य बन्धनस्य प्रवृत्तिः इति कर्माश्रयता उक्ता ।
इह पुनः भूत उपादानात् देहान्तर उत्पत्तिः इति भूताश्रयत्वम् उक्तम् ।
प्रशंसाशब्दात् अपि तत्र प्राधान्यमात्रं कर्मणः प्रदर्शितं न तु आश्रयान्तरं निवारितम् ।
तस्मात् अविरोधः ॥ 6 ॥
fन्: दशार्धानां पञ्चभूतानां , अण्व्यः सूक्ष्माः , मीयन्त इति मात्राः ।
4 आसृत्युपक्रम अधिकरणम् । सू. 7
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य
सा इयम् उत्क्रान्तिः किं विद्वत् अविदुषोः समाना किंवा विशेषवति इति विशयानानां विशेषवति इति तावत् प्राप्तम् ।
भूताश्रयविशिष्टा हि एषा ।
पुनः भवाय च भूतानि आश्रीयन्ते ।
न च विदुषः पुनर्भवः संभवति ।
ऽअमृतत्वं हि विद्वानश्नुतेऽ इति स्थितिः ।
तस्मत् अविदुष एव एष उत्क्रान्तिः ।
ननु विद्याप्रकरणे समाम्नानात् विदुष एव एषा भवेत् ।
न ।
स्वापादिवत् यथाप्राप्त अनुकीर्तनात् ।
तथा हि ऽयत्रैतत्पुरुषः स्वपिति नामऽ ऽअशिशिषति नामऽ ऽपिपासति नामऽ (छा. 6.8.3,5) इति च सर्वप्राणिसाधारणा एव स्वापादयः अनुकीर्त्यन्ते विद्याप्रकरणे अपि प्रतिपादयिषितवस्तुप्रतिपादन अनुगुण्येन न तु विदुषो विशेषवन्तो विधित्स्यन्ते ।
एवम् इयम् अपि उत्क्रान्तिः महाजनगत एव अनुकीर्त्यते यस्यां परस्यां देवतायां पुरुषस्य प्रयतः तेजः संपद्यते स आत्मा तत्त्वमसि इति एतत् प्रतिपादयितुम् ।
प्रतिषिद्धा च एषा विदुषः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ. 4.4.6) इति ।
तस्मात् अविदुष एव एष इति ।
एवं प्राप्ते ब्रूमः - समाना च एष उत्क्रान्तिः वाक् मनसि इत्याद्या विद्वत् अविदुषोः आसृति उपक्रमात् भवितुम् अर्हति ।
अविशेषश्रवणात् ।
अविरुद्धान् देहबीजभूतानि भूतसूक्ष्माणि आश्रित्य कर्मप्रयुक्तो देहग्रहणम् अनुभवितुं संसरति ।
विद्वान् तु ज्ञानप्रकाशितं मोक्षनाडीद्वारम् आश्रयते ।
तत् एतत् आसृति उपक्रमात् इति उक्तम् ।
ननु अमृतत्वं हि विदुषा प्राप्तव्यं न च तत् देशान्तर आयत्तं तत्र कृतो भूत आश्रयत्वं सृति उपक्रमो वा इति ।
अत्र उच्यते - अनुपोष्य च इदम्, अदग्ध्वा अत्यन्तम् अविद्यादीन् क्लेशान् अपरविद्यासामर्थ्यात् आपेक्षिकम् अमृतत्वं प्रेप्सते संभवति तत्र सृति उपक्रमो भूत आश्रयत्वं च ।
ने हि निराश्रयाणां प्राणानां गतिः उपपद्यते ।
तस्मात् अदोषः ॥ 7 ॥
5 संसारव्यपदेश अधिकरणम् ॥ सू. 8-11
तदापीतेः संसारव्यपदेशात्
ऽतेजः परस्यां देवतायाम्ऽ (छा. 6.8.6) इति अत्र प्रकरणसामर्थ्यात् तत् यथाप्रकृतं तेजः साध्यक्षं सप्राणं सकरणग्रामं भूतान्तरसहितं प्रयतः पुंसः परस्यां देवतायां संपद्यत इति एतत् उक्तं भवति ।
कीदृशी पुनः इयं संपत्तिः स्यात् इति चिन्त्यते ।
तत्र आत्यन्तिक एव तावत् स्वरूपप्रविलय इति प्राप्तम् ।
तत् प्रकृतित्व उपपत्तेः ।
सर्वस्य हि जनिमतो वस्तुजातस्य प्रकृतिः परा देवता इति प्रतिष्ठापितम् ।
तस्मात् आत्यन्तिकीयम् अविभागापत्तिः इति ।
एवं प्राप्ते ब्रूमः - तत् तेज आदि भूतसूक्ष्मं श्रोत्रादिकरणाश्रयभूतमापीतेरा संसारमोक्षात् सम्यक् ज्ञाननिमित्तात् अवतिष्ठते ।
ऽयोनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये ऽनुसंयन्ति यथाकर्मयथाश्रुतम्ऽ (क. 5.7) इत्यादि संसारव्यपदेशात् ।
अन्यथा हि सर्वः प्रायणसमय एव उपाधिप्रत्यस्तमयात् अत्यन्तं ब्रह्म संपद्येत ।
तत्र विधिशास्त्रम् अनर्थकं स्यात् विद्याशास्त्रं च ।
मिथ्याज्ञाननिमित्तः च बन्धो न सम्यक् ज्ञानात् ऋते विस्रंसितुम् अर्हति ।
तस्मात् तत् प्रकृतित्वे अपि सुषुप्तप्रलयवत् बीजभाव अवशेष एव एषा संत्सपत्तिः इति ॥ 8 ॥
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः
तत् च इतरभूतसहितं तेजो जीवस्य अस्मात् शरीरात् प्रवसत आश्रयभूतं स्वरूपतः प्रमाणतः च सूक्ष्मं भवितुम् अर्हति ।
तथा हि - नाडीनिष्क्रमणश्रवणादिभ्यः अस्य सौक्ष्म्यम् उपलभ्यते ।
तत्र तनुत्वात् संचार उपपत्तिः ।
स्वच्छत्वात् च अप्रतीघात उपपत्तिः ।
अत एव च देहात् निर्गच्छन् पार्श्वस्थैः न उपलभ्यते ॥ 9 ॥
नोपमर्देनातः
अत एव सूक्ष्मत्वात् न अस्य स्थूलस्य शरीरस्य उपमर्देन दाहादिनिमित्तेन इतरत् सूक्ष्मं शरीरम् उपपद्यते ॥ 10 ॥
अस्यैव चोपपत्तेर् ऊष्मा
अस्य एव च सूक्ष्मस्या शरीरस्य एष ऊष्मा यम् एतस्मिन् शरीरे संस्पर्शेन ऊष्माणं विजानन्ति ।
तथा हि मृतावस्थायाम् अवस्थिते अपि देहे विद्यमानेषु अपि च रूपादिषु देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत देहगुणेषु न ऊष्म उपलभ्यते जीवत् अवस्थायाम् एव तु उपलभ्यत इति अत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यपाश्रय एव एष ऊष्म इति ।
तथा च श्रुतिः - ऽउष्ण एव जीविष्यञ्शितो मरिष्यन् इतिऽ ॥ 11 ॥
6 प्रतिषेध अधिकरणम् । सू. 12-14
प्रतिषेधाद् इति चेन् न शारीरात्
ऽअमृतत्वं चानुपोष्यऽ इति अतो विशेषणात् आत्यन्तिके अमृतत्वे गति उत्क्रान्त्योः अभावो अभ्युपगतः ।
तत्र अपि केनचित् कारणेन उत्क्रान्तिम् आशङ्क्य प्रतिषेधति - ऽअथाकामयमानो यो ऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इति अतः परविद्याविषयात् प्रतिषेधात् न परब्रह्मविदो देहात् प्राणानाम् उत्क्रान्तिः अस्ति इति चेत् ।
न इति उच्यते ।
यतः शारीरात् आत्मन एष उत्क्रान्तिप्रतिषेधः प्राणानां न शरीरात् ।
कथम् अवगम्यते ऽन तस्मात्प्राणा उत्क्रामन्तिऽ इति शाखान्तरे पञ्चमी प्रयोगात् ।
संबन्धसामान्यविषया हि षष्ठी शाखान्तरगतया पञ्चम्या संबन्धविशेषे व्यवस्थाप्यते ।
तस्मात् इति च प्राधान्यात् अभ्युदयनिःश्रेयस अधिकृतो देही संबध्यते न देहः ।
न ।
तस्मात् उच्चिक्रमिषोः जीवात् प्राणा अपक्रामन्ति सह एव तेन भवन्ति इति अर्थः ॥ 12 ॥
सप्राणस्य च प्रवसतो भवति उत्क्रान्तिः देहात् इति एवं प्राप्ते प्रति उच्यते -
स्पष्टो ह्येकेषाम्
न तत् अस्ति यत् उक्तं परब्रह्मविदः अपि देहात् अस्ति उत्क्रान्तिः उत्क्रान्तिप्रतिषेधस्य देह उपादानत्वात् इति ।
यतो देह उपादान एव उत्क्रान्तिप्रतिषेध एकेषां समाम्नातृणां स्पष्ट उपलभ्यते ।
तथा हि - आर्तभागप्रश्ने ऽयत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेतिऽ (बृ. 3.2.11) इति अत्र ऽनेति होवाच याज्ञवल्क्यःऽ (बृ. 3.211) इति अनुत्क्रान्तिपक्षं परिगृह्य न तर्हि अयम् अनुत्क्रान्तेषु प्राणेषु म्रियत इति अस्याम् आशङ्कायाम् ऽअत्रैव समवनीयन्तऽ इति प्रविलयं प्राणानां प्रतिज्ञाय तत् सिद्धये ऽस उच्छ्वयत्याध्यात्मायत्याध्मातो मृतः शेतेऽ (बृ. 3.2.11) इति सशब्दपरामृष्टस्य प्रकृतस्य उत्क्रान्ति अवधेः उच्छ्वयनादीनि समामनन्ति ।
देहस्य च एतानि स्युः
न देहिनः ।
तत् सामान्यात् ऽन तस्मात्प्राणा उत्क्रामन्त्यत्रैव समवनीयन्तेऽ इति अत्र अपि अभेद उपचारेण देहापादानस्य एव उत्क्रमणस्य प्रतिषेधः ।
यदि अपि प्राधान्यं देहिन इति व्याख्येयं येषां पञ्चमी पाठः ।
येषां तु षष्ठीपाठः तेषां विद्वत् संबन्धिनि उत्क्रान्तिः प्रतिषिध्यत इति प्राप्त उत्क्रान्तिप्रतिषेधार्थत्वात् अस्य वाक्यस्य देहपादान एव सा प्रतिषिद्धा भवति, देहात् उत्क्रान्तिः प्राप्ता न देहिनः ।
अपि च ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इति एवम् अविद्वत् विषयं सप्रपञ्चम् उत्क्रमणं संसारगमनं च दर्शयित्वा ऽइति नु कामयमानःऽ (बृ. 4.4.6) इति उपसंहृत्य अविद्वत् कथाम् ऽअथाकामयमानःऽ (बृ. 4.4.6) इति व्यपदिश्य विद्वांसं यदि तत् विषये अपि उत्क्रान्तमेव प्रापदेयसमञ्जस एव व्यपदेशः स्यात् ।
तस्मात् अविद्विषये प्राप्तयोः गति उत्क्रान्त्योः विद्वत् विषये प्रतिषेध इति एवमेव व्याख्येयं व्यपदेशार्थवत्त्वाय ।
न च ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य प्रक्षीणकामकर्मण उत्क्रान्तिः गतिः वा उपपद्यते निमित्त अभावात् ।
ऽअत्र ब्रह्म समश्नुतेऽ इति च एवञ्जातीयकाः श्रुतयो गति उत्क्रान्त्योः अभावं सूचयन्ति ॥ 13 ॥
स्मर्यते च
स्मर्यते अपि च महाभारते गति उत्क्रान्त्योः अभावः - ऽसर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः ।
देवा अपि मार्गे मुह्यन्त्यपदस्य पदैषिणःऽ इति ।
ननु गतिः इति ब्रह्मविदः सर्वगतब्रह्मात्मभूतस्य स्मर्यते ऽशुकः किल वैयासकिर्मुमुक्षुरादित्यमण्डलमभिप्रतस्थे पित्रा चानुगम्याहूतो भो इति प्रतिशुश्रावऽ इति ।
न ।
सशरीरस्य एव अयं योगबलेन विशिष्टदेशप्राप्तिपूर्वकः शरीर उत्सर्ग इति द्रष्टव्यम् ।
सर्वभूतदृश्यत्वादि उपन्यासात् ।
न हि अशरीरं गच्छन्तं सर्वभूतानि द्रष्टुं शक्नुयुः ।
तथा च तत्र एवौपसंहृतम्- ऽशुकस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः ।
दर्शयित्वा प्रभावं स्वं सर्वभूतगतो ऽभवत्ऽ इति ।
तस्मात् अभावः परब्रह्मविदो गति उत्क्रान्त्योः ।
गतिश्रुतीनां तु विषयम् उपरिष्टात् व्याख्यास्यामः ॥ 14 ॥
7 वागादिलय अधिकरणम् । सू. 15
तानि परे तथा ह्य् आह
तानि पुनः प्राणशब्दोदितानि इन्द्रियाणि भूतानि च परब्रह्मविदः तस्मिन् एव परस्मिन् आत्मनि प्रलीयन्ते ।
कस्मात् ।
तथा हि आह श्रुतिः - ऽएवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति (प्रश्न. 6.5) इति.
ननु ऽगताः कलाः पञ्चदश प्रतिष्ठाःऽ (मु. 3.2.7) इति विद्वत् विषय एव अपरा श्रुतिः परस्मात् आत्मनः अन्यत्र अपि कलानां प्रलयम् आह स्म ।
न ।
सा खलु व्यवहारापेक्षा, पार्थिवाद्याः कलाः पृथिव्यादिः एव स्वप्रकृतीः अपीयन्ति इति ।
इतरा तु विद्वत् प्रतिपत्ति अपेक्षा, कृत्स्नं कलाजातं परब्रह्मविदो ब्रह्म एव संपद्यत इति ।
तस्मात् अदोषः ॥ 15 ॥
8 अविभाग अधिकरणम् । सू. 16
अविभागो वचनात्
स पुन- विदुषः कलाप्रलयः किम् इतरेषाम् इव सावशेषो भवति आहोस्वित् निरवशेष इति ।
तत्र प्रलयसामान्यात् शक्ति अवशेषताप्रसक्तौ ब्रवीति - अविभागापत्तिः एव इति ।
कुतः - वचनात् ।
तथा हि कलाप्रलयम् उक्त्वा वक्ति - ऽभिद्यते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषो ऽकलो ऽमृतो भवतिऽ (प्र. 6.5) इति ।
अविद्या निमित्तानां च कलानां न विद्यानिमित्ते प्रलये सावशेषत्व उपपत्तिः ।
तस्मात् अविभाग एव इति ॥ 16 ॥
9 तदोकः अधिकरणम् । सू. 17
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया
समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता ।
संप्रतितु अपरविद्याविषयाम् एव चिन्ताम् अनुवर्तयति ।
समाना च असृति उपक्रमात् विद्वत् अविदुषोः उत्क्रान्तिःइति उक्तं तम् इदानीं सति उपक्रमं दर्शयति ।
तस्य उपसंहृतवागादि कलापस्य उच्चिक्रमिषतो विज्ञानात्मन ओक आयतनं हृदयम् ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ इति श्रुतेः ।
तत् अग्रप्रज्वलनपूर्विका चक्षुरादिस्थान अपादाना च उत्क्रान्तिः श्रूयते - ऽतस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. 4.4.2) इति ।
सा किम् अनियमेन एव विद्वत् अविदुषोः भवति अथ अस्ति कश्चित् विदुषो विशेषनियम इति विचिकित्सायां श्रुति अविशेषात् अनियमप्राप्तौ आचष्टे - समा अपि हि विद्वत् अविदुषोः हृदयाग्रप्रद्योतने तत् प्रकाशितद्वारत्वे च मूर्धस्थानात् एव विद्वान् निष्क्रामति स्थानान्तरेभ्यः तु इतरे ।
कुतः - विद्यासामर्थ्यात् ।
यदि विद्वान् अपीतरवत् यतः कुतश्चित् देहदेशात् उत्क्रामेत न एव उत्कृष्टं लोकं लभेत ।
तत्र आनर्थिका एव विद्या स्यात् ।
तत् शेषगति अनुस्मृतियोगात् च विद्याशेषभूता च मूर्धनि अनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता ताम् अभ्यस्यन् तस्य एव प्रतिष्ठित इति युक्तम् ।
तस्मात् हृदयालयेन ब्रह्मणा सु उपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्यया एव शताधिकया शतात् अतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिः इतरे ।
तथा हि हार्दविद्यां प्रकृत्य समामनन्ति - ऽशतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमेण भवन्तिऽ (छा. 8.6.6) इति ॥ 17 ॥
रश्मि अधिकरणम् । सू. 18
रश्म्यनुसारी
अस्ति हार्दविद्या - ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा. 8.1.1) इति उपक्रम्य विहिता ।
तत् प्रक्रियायाम् ऽअथ या एता हृदयस्य नाड्यःऽ (छा. 8.6.1) इति उपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धम् उक्त्वा उक्तम् ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. 8.6.5) इति ।
पुनः च उक्तम् ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा. 8.6.6) इति ।
तस्मात् शताधिकया नाड्या निष्क्रामन् रश्मि अनुसारी निष्क्रामति इति गम्यते ।
तत् किंम् अविशेषेण एव अहनि रात्रौ वा म्रियमाणस्य रश्मि अनुसारित्वम् आहोस्वित् अहनि एव इति संशये सति अविशेषश्रवणात् अविशेषेण एव तावत् रश्मि अनुसारि इति प्रतिज्ञायते ॥ 18 ॥
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च
अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्मि अनुसारित्वं रात्रौ तु प्रेतस्य न स्यात् ।
नाडीरश्मिसंबन्धविच्छेदात् इति चेत् ।
न ।
नाडीरश्मिसंबन्धस्य यावत् देहभावित्वात् ।
यावत् देहभावी हि शिराकिरणसंपर्कः ।
दर्शयति च एतमर्थं श्रुतिः - ऽअमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते ते ऽमुष्मिन्नादित्ये सृप्ताःऽ (छा. 8.6.2) इति निदाघसमये च निशासु अपि किरण अनुवृत्तिः उपलभ्यते प्रतापादिकार्यदर्शनात् ।
स्तोक अनुवृत्तेः तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेषु इव दुर्दिनेषु ।
ऽअहरेवैतद्रात्रौ दधातिऽ इति च एतदेव दर्शयति ।
यदि च रात्रौ प्रेतो विना एव रश्मि अनुसारेण ऊर्ध्वम् आक्रमेत रश्मि अनुसार आनर्थक्यं भवेत् ।
न हि एतत् विशिष्य अधीयते यो दिवा प्रैति स रश्मीन् अपेक्ष्य ऊर्द्वम् आक्रमते यः तु रात्रौ सः अनपेक्ष्य एव इति ।
अथ तु विद्वान् अपि रात्रिप्रायण अपराधमात्रेण न ऊर्ध्वम् आक्रमेत पाक्षिकफला विद्या इति अप्रवृत्तिः एव तस्यां स्यात् ।
मृत्युकालानियमात् ।
अथ अपि रात्रौ उपरतः अहरागमम् उदीक्षेत ।
अहरागमे अपि अस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् ।
ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा. 8.6.5) इति च श्रुतिः अनुदीक्षां दर्शयति ।
तस्मात् तत् अविशेषेण एव इदं रात्रिदिवं रश्मि अनुसारित्वम् ॥ 19 ॥
11 दक्षिणायन अधिकरणम् । सू. 20-21
अतश् चायने ऽपि दक्षिणे
अत एव च उदीक्षा अनुपपत्तेः अपाक्षिकफलत्वात् च विद्याया अनियतकालत्वात् च मृत्योः दक्षिण अयने अपि म्रियमाणो विद्वान् प्राप्नोति एव विद्याफलम् ।
उत्तरायण मरण प्राशस्ति अप्रसिद्धेर्भीष्मस्य च प्रतीक्षादर्शनात् ऽआपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान्ऽ (छा. 4.15.5) इति च श्रुतेः अपेक्षितव्यम् उत्तरायणम् इति इमाम् आशङ्काम् अनेन सूत्रेण अपनुदति ।
प्राशस्त्यप्रसिद्धिः अविद्वत् विषया ।
भीष्मस्य प्रतिपालनम् आचारप्रतिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च ।
श्रुतेः तु अर्थं वक्ष्यति ऽआतिवाहिकास्तल्लिङ्गात्ऽ (ब्र. सू. 4.3.4) इति ॥ 20 ॥
ननु च - ऽयत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं फलं वक्ष्यामि भरतर्षभऽ (गी. 8.23) इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतौ अपुनरावृत्तये नियमितः कथं रात्रौ दक्षिणायने वा प्रयातो अनावृत्तिं यायादिति ।
अत्र उच्यते -
योगिनः प्रति च स्मर्येते स्मार्ते चैते
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0