ब्रह्मसूत्र (टीका सहित) · अध्याय 3.3
बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते ।
केवलाकर्मणो ऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते ।
कर्मापेक्षादपूर्वापे ऽक्षाद्वा यथा तथास्त्वीश्वरात्फलमिति सिद्धान्तः ।
कुतः - हेतुव्यपदेशात् ।
दर्माधर्मयोरपि हि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य च दातृत्वेन ऽएष ह्येष साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते ।
एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ इति ।
स्मर्यते चायमर्थो भगवद्गीतासु - ऽयो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्झधां तामेव विदधाम्यहम् ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हितान्ऽ (7.21) इति ।
सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते ।
तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपाः प्रजाः सृजतीति ।
विचित्रकार्यानुपपत्त्यादयो ऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ 41 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ 2 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
तृतीयाध्याये तृतीयः पादः ।
[अत्र परापरब्रह्मविद्यागुणोपसंहारविवरणम्]
1 सर्ववेदान्तप्रत्ययाधिकरणम् । सू. 1-4
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्
व्याख्यातं विज्ञेयस्य ब्रह्मणस्तत्त्वम् ।
इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते ।
ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवघनवदवधारितं तत्र कुतो विज्ञानभेदाभेदचिन्तावतारः ।
नहि कर्मबहुत्ववद्ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ।
ब्रह्मण एकवाक्यत्वादेकरूपत्वाच्च ।
नचैकूपे ब्रह्मण्यनेतरूपाणि विज्ञानानि संभवन्ति ।
नह्यन्यथार्थो ऽन्यथा ज्ञानमित्यभ्रान्तं भवति ।
यदि पुनरेकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमभ्रान्तं भ्रान्तानीतराणीत्यनाश्वासप्रसङ्गो वेदान्तेषु ।
तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्यते ।
ब्रह्मविज्ञानस्याचोदनालक्षणत्वात् ।
अविधिप्रधानैर्हि वस्तुपर्यवसायिभिर्ब्रह्मवाक्यैर्ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ऽतत्तु समन्वयात्ऽ (ब्र.सू. 1.1.4) इत्यत्र ।
तत्कथमिमां भेदाभेदचिन्तामारभत इति ।
तदुच्यते - सगुणब्रह्मविषया प्राणादिविषया चेयं विज्ञानभेदाभेदच्न्तेत्यदोषः ।
अत्र हि कर्मवदुपासनानां भेदाभेदौ संभवतः कर्मवदेव चोपासनानि दृष्टफलानि चोच्यन्ते ।
क्रममुक्तिफलानि च कानिचित्सम्यग्ज्ञानोत्पत्तिद्वारेण ।
तेष्वेषा चिन्ता संभवति ।
किं प्रतिवेदान्तं विज्ञानभेद आहोस्विन्नेति ।
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते ।
नाम्नास्तावद्भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु ।
अस्ति चात्र वेदान्तान्तरविहितेषु विज्ञानेष्वन्यदन्यन्नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं शाट्यायनकमित्येवमादि ।
तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनऽ मित्येवमादिषु ।
अस्ति चात्र रूपभेदः ।
तद्यथा - केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्यत्परे पुनः पञ्चैव पठन्ति ।
तथा प्राणसंवादादिषु केचिदूनान्वागादीनामनन्ति केचिदधिकान् ।
तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु ।
अस्ति चात्र धर्मविशेषः ।
यथाथर्वणिकानां शिरोव्रतमिति ।
एवं पुनरुक्त्यादयो ऽपि भेदहेतवो यथासंभवं वेदान्तान्तरेषु योजयितव्याः ।
तस्मात्प्रतिवेदान्तं विज्ञानभेद इति ।
एवं प्राप्ते ब्रूमः - सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिंस्तस्मिन्वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
कुतः - चेदनाद्यविशेषात् ।
आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते ।
संयोगरूपचोदनाख्याविशेषादित्यर्थः ।
यथैकस्मिन्नग्निहोत्रे शाखाभेदे ऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति ।
एवम् ऽयो ह वै ज्योष्ठं च श्रेष्ठं च वेदऽ (बृ.6.1.1, छा. 5.1.1) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना ।
प्रयोजनसंयोगो ऽप्यविशिष्ट एव ऽज्येष्ठश्च श्रेष्ठश्च स्वानां भवतिऽऽ (बृ. 6.1.1) इति ।
रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् ।
यथा च द्रव्यदेवते यागस्य रूपमेवं विज्ञेयं रूपं विज्ञानस्य तेन हि तद्रूप्यते ।
समाख्यापि सैव प्राणविद्येति ।
तस्मात्सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् ।
एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् ।
ये तु नामरूपादयो भेदहेत्वाभासास्ते प्रथम एव काण्डे न नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः ॥ 1 ॥
fन्: चोद्यत इति चोदना पुरुषप्रयत्नः स हि पुरुषव्यापारः ।
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति -
भेदान् नेति चेन् नैकस्याम् अपि
स्यादेतत् ।
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते ।
तथाहि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्यः ष्ठमपरमग्निमामनन्ति - ऽतस्याग्निरेवाग्निर्भवतिऽ (बृ. 6.2.14) इत्यादिना ।
छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्ति ऽअथ ह य एतानेवं पञ्चाग्नीन्वेदऽ (छा. 5.10.10) इति ।
योषां च स गुणो ऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत ।
नचात्र गुणोपसंहारः शक्यते प्रत्येतुं, पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान्वाक्चक्षुः श्रोतमनांसि छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति ऽरेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेदऽ (बृ. 6.1.6) इति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्येति चेत् ।
नैष दोषः ।
यत एकस्यामपि विद्यायामेवञ्जातीयको गुणभेद उपपद्यते ।
यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायामानत्वान्न विद्याभेदो भवितुमर्हति ।
नहि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पठ्यते ऽपि च षष्ठो ऽग्निश्छन्दोगैः - ऽतं प्रेतं दिष्टमितो ऽग्नय एवं हरन्तिऽ
(छा. 5.9.2) इति ।
वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ऽतस्याग्निरेवाग्निर्भवति समित्समित्ऽ (बृ. 6.2.14) इत्यादि समामनन्ति स नित्यानुवादः ।
अथाप्युपासनार्थ एष वादस्तथापि स गुणः शक्यतेछन्दोगैरप्युपसंहर्तुम् ।
नचात्र पञ्चसंख्याविरोधे आशङ्क्यः ।
सांपादिकाग्न्यभिप्राया ह्येषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनीत्यदोषः ।
एवं प्राणसंवादेष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते ।
नचावापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्चाशङ्क्यः ।
कस्यचिद्वेद्यांशस्यावापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव ॥ 2 ॥
fन्: इतो ऽस्माल्लोकान् दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः ।
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः
यदप्युक्तमाथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणादन्येषां च तदनपेक्षणाद्वद्याभेद इति तत्प्रत्युच्यते ।
स्वाध्यायस्यैष धर्मो न विद्यायाः ।
कथमिदमवगम्यते ।
यतस्तथात्वेन स्वाद्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्त आथर्वणिका इदमपि वेदव्रतत्वेन व्याक्यातमिति समामनन्ति ।
ऽनैतदचीर्णव्रतो ऽधीतेऽ (मु. 3.2.11) इति चादिकृतविषयादेच्छब्दादध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एवैष इति निर्दार्यते ।
ननु च ऽतेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्ऽ (मुण्ड. 3.2.10) इति ब्रह्मविद्यासंयोगश्रवणादेकैव सर्वत्र ब्रह्मविद्येति संकीर्येतैष धर्मः ।
न ।
तत्राप्येतामिति प्रकृत्यप्रत्यवमर्शात् ।
प्रक-तत्वं च ब्रह्मविद्याया ग्रन्थविशेषापेक्षमिति ग्रन्थविशेषसंयोग्येवैष धर्मः ।
सववच्च तन्नियम इति निदर्शननिर्देशः ।
यथाच सवाः सप्त सौर्यादयः सथौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिसंबन्धादथर्वणोदितैकाग्न्यभिसंबन्धाच्चाथर्वणिकानामेव नियम्यन्ते तथैवायमपि धर्मः स्वाध्यायविशेषसंबन्धात्तत्रैव नियम्यते ।
तस्मादप्यनवद्यं विद्यैकत्वम् ॥ 3 ॥
दर्शयति च
दर्शयति च वेदो ऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् सर्वे वेदा यत्परमामनन्ति (क. 2.15) इति ।
तथा एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य एतं महाव्रते छन्दोगाः इति च ।
तथा ऽमहद्भयं वज्रमुद्यतम्ऽ (क.6.2) इति काठक उक्तस्येश्वरगुणस्य भयहेतुकस्य तैत्तिरीयके भेदर्शननिन्दायै परामर्शो दृश्यते ऽयदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषो ऽमन्वानस्यऽ (तै. 2.7.1) इति ।
तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य छान्दोग्ये सिद्धवदुपादानम् ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्तेऽ (छा. 5.18.1) इति ।
तथा सर्ववेदान्तप्रत्ययत्वेनान्यत्र विहितनामुक्थादीनामन्यत्रोपासनविधानायोपादानात्प्रायदर्शनन्यायेनोपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः ॥ 4॥
॥
2 उपसंहाराधिकरणम् । सू. 5
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च
इदं प्रयोजनसूत्रम् ।
स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानामन्यत्रोदितानां विज्ञानगुणानामन्यत्रापि समाने विज्ञान उपसंहारो भवति ।
अर्थाभेदात् ।
य एव हि तेषां गुणानामेकत्रार्थो विशिष्टविज्ञानोपकारकः स एवान्यत्रापि ।
उभयत्रापि हि तदेवैकं विज्ञानं तस्मादुपसंहारः ।
विधिशेषवत् ।
यथाहि विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादि कर्म सर्वत्रेत्यर्थाभेदादुपसंहरणमेवमिहापि ।
यदि हि विज्ञानभेदो भवेत्ततो विज्ञानान्तरनिबद्धत्वाद्गुणानां प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः ।
विज्ञानैकत्वे तु नैवमस्ति ।
अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः सर्वाभेदादित्यारभ्य भविष्यति ॥ 5 ॥
3 अन्यथात्वाधिकरणम् । सू. 6-8
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्
वाजसनेयके ऽते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेतिऽ (बृ. 1.3.1) ऽते ह वाचमुचुस्त्वं न उद्गायऽ (बृ.
1.3.2) इति प्रक्रम्य वागादीन्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ऽ (बृ. 1.3.7) इति ।
तथा छान्दोग्ये ऽपि - ऽतद्धदेवा उद्गीथमाजग्मुरनेनैनानभिभविष्यामःऽ (छा. 1.21) इति प्रक्रम्येतरान्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरेऽ (छा. 1.2.7) इति ।
उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते ।
तत्र संशयः - किमत्र विद्याभेदः स्यादाहोस्विद्विद्यैकत्वमिति ।
किं तावत्प्राप्तं पूर्वेण न्यायेन विद्यैकत्वमिति ।
ननु न युक्तं विद्यैकत्वं प्रक्रमभेदात् ।
अन्यथा हि प्रक्रमन्ते वाजसनेयिनो ऽन्यथा छन्दोगाः ऽत्वं न उद्गायऽ (बृ. 1.3.2) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति ।
छन्दोगास्तूद्गीथत्वेन ऽतमुद्गीथमुपासंचक्रिरेऽ (छा. 1.2.7) इति ।
तत्कथं विद्यैकत्वं स्यादिति चेत् ।
नैष दोषः ।
न ह्येतावता विशेषेण विद्यैकत्वमपगच्छति ।
अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् ।
तथाहि - देवासुरसंग्रामोपक्रमत्वमसुरात्ययाभिप्राय उद्गीथोपन्यासो वागादिसंकीर्तनं तन्निन्दया मुख्यप्राणव्यपाश्रयस्तद्वीर्याच्चासुरविध्वंसनमश्मलोष्टनिदर्शनेनेत्येवं बहवोर्ऽथा उभयत्राप्यविशिष्टाः प्रतीयन्ते ।
वाजसनेयके ऽपिचोद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् - ऽएष उ वा उद्गीथःऽ (बृ. 1.3.23) इति ।
तस्माच्छान्दोग्ये ऽपि कर्तृत्वं लक्षयितव्यम् ।
तस्माच्च विद्यैकत्वमिति ॥ 6 ॥
fन्: आसन्यं आस्ये भवम् ।
असुरात्ययाभिप्रायो ऽसुरजयार्थं संवादः ।
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्
न वा विद्यैकत्वमात्र न्याय्यं विद्याभेद एवात्र न्याय्यः ।
कस्मात् ।
प्रकरणभेदादिति ।
प्रक्रमभेदादित्यर्थः ।
तथाहि - इह प्रक्रमभेदो दृश्यते ।
छान्दोग्ये तावत् - ओमित्येतदक्षरमुद्गीथमुपासीत (छा. 1.1.1) इत्येवमुद्गीथावयवस्योङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानं तत्र कृत्वा अथ खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति (छा. 1.1.10) इति पुनरपि तमेवोद्गीथावयवमोङ्कारमनुवर्त्य देवासुराख्यायिकाद्वारेण तम् प्राणमुद्गीथमुपासांचक्रिरे (छा. 1.2.2) इत्याह ।
तत्र यद्युद्गीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्तोद्गातर्त्विक्तत उपक्रमश्चोपरपध्येत लक्षणा च प्सज्येत ।
उपक्रमानुरोधेन चैकस्मिन्वाक्य उपसंहारेण भवितव्यम् ।
तस्मादत्र तावदुद्गीथावयव ओङ्कारे प्राणदृष्टिरुपदिस्यते ।
वाजसनेयके तद्गीथशब्देनावयवग्रहणे कारणाभावात्सकलैव भक्तिरावेद्यते ।
त्वं न उद्गाय (बृ. 1.3.2) इत्यपि तस्याः कर्तोद्गातर्त्विक्प्राणत्वेन निरूप्यत इति प्रस्थानान्तरम् ।
यदपि तत्रोद्गीथसामानाधिकरण्यं प्राणस्य तदप्युद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति ।
सकलभक्तिविषय एव च तत्राप्युद्गीथशब्द इति वैषम्यम् ।
नच प्राणस्योद्गातृत्वमसंभवेन हेतुना परित्यजत उद्गीथभाववदुद्गातृभावस्याप्युपासनार्थत्वेनोपदिश्यमानत्वात् ।
प्राणवीर्येणैव चोद्गातौद्गात्रं करोतीति नास्त्यसंभवः ।
तथाच तत्रैव श्रावितम्- वाचा च ह्येव स प्राणेन चोदगायत् (बृ. 1.3.24) इति ।
नच विवक्षितार्थभेदे ऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् ।
तथाह्यभ्युदयवाक्ये पशुकामवाक्ये च त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् इत्यादिनिर्देशसाम्ये ऽप्युपक्रमभेदादभ्युदयवाक्ये दवतापनयो ऽध्यवसितः, पशुकामवाक्ये तु यागविधिः ।
तथेहाप्युपक्रमभेदाद्विद्याभेदः ।
परोवरीयस्त्वादिवत् ।
यथा परमात्मदृष्ट्यध्याससाम्ये ऽपि ऽआकोशो ह्येवैभ्यो ज्यायानाक्शः परायणम्ऽ (छा. 1.9.1) ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छा. 1.9.2) इति परोवरीयस्त्वगुणविशिष्टमुद्गीथोपासनमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनाद्भिन्नम् ।
नचेतरेतरगुणोपसंहार एकस्यामपि शाखायां तद्वच्छाखान्तरस्थेष्वप्येवञ्जातीयकेषूपासनेष्विति ॥ 7 ॥
fन्: वैषम्यमुभयत्र विद्यानानात्वम् ।
अपनयो वियोगः ।
परस्मात्परो वराच्च वरतरः परोवरीयान् ।
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि
अथोच्यते संज्ञैकत्वाद्विद्यैकत्वमत्र न्याय्यमुद्गीथविद्येति ह्युभयणाप्येका संज्ञेति ।
तदपि नोपपद्यते ।
उक्तं ह्येतत् - ऽन वा प्रकरणभेदात्परोवरीयस्त्वादिवत्ऽ (ब्र. सू. 3.3.7) इति ।
तदेव चात्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत्संज्ञैकत्वं तु श्रुत्यक्षरबाह्यमुद्गीथशब्दमात्रप्रयोगाल्लौकिकैर्व्यहर्तृभिरुपचर्यते ।
अस्ति चैतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषूद्गीथविद्येति ।
तथा प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञकत्वं दृश्यते तथेहापि भविष्यति ।
यत्र तु नास्ति कश्चिदेवञ्जातीयको भेदहेतुस्तत्र भवतु संज्ञैकत्वाद्विद्यैकत्वं यथा संवर्गविद्यादिषु ॥ 8 ॥
4 व्याप्त्यधिकरणम् । सू. 9
व्याप्तेश् च समञ्जसम्
ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्यत्राक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे ऽध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात्कतमो ऽत्र पक्षो न्याय्यः स्यादिति विचारः ।
तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते ।
यस्मिन्नितरबुद्धिरध्यस्यते ऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि ।
यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते ।
यथावा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः ।
एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षरबुद्धुरिति ।
अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति ।
यथा देहेन्द्रियसंघात आत्मबुद्धिरात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या ऽतत्त्वमसिऽ (छा. 6.8.7) इत्यनया यथार्थबुद्ध्या निवर्तते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
एवमिहाप्यक्षरबुद्ध्योद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति ।
एकत्वं त्वक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् ।
यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति ।
विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्ग औद्गात्रविशेषस्य समर्पणम् ।
यथा नीलं यदुत्पलं तदानयेति ।
एवमिहाप्युद्गीथो य ओङ्कारस्तमुपासीतेति ।
एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमान एते पक्षाः प्रतिभान्ति तत्रान्यतमनिर्धारणकारणाभावादनिर्दारणप्राप्ताविदमुच्यते - व्याप्तेश्च समञ्जसमिति ।
चशब्दो ऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन- ।
तदिह क्षयः पक्षाः सावद्या इति पर्युदस्यन्ते ।
विशेषणपक्ष एवैको निरवद्य इत्युपादीयते ।
तत्राध्यासे तावद्या बुद्धिरितरत्राध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत तत्फलं च कल्प्येत ।
श्रूयत एव फलम् ऽआपयिता ह वै कामानां भवतिऽ (छा. 1.1.7) इत्यादीति चेत् ।
न ।
तस्यान्यफलत्वात् ।
आप्त्यादिदृष्टिफलं हि तन्नोद्गीथाध्यासफलम् ।
अपवादे ऽपि समानः फलाभावः ।
मिथ्याज्ञाननिवृत्तिः फलमिति चेत् ।
न ।
पुरुषार्थोपयोगानवगमात् ।
नच कदाचिदप्योङ्कारादोङ्कारबुद्धिर्निवर्तत उद्गीथाद्वेद्गीथबुद्धिः ।
नचेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् ।
उपासनाविधिपरत्वात् ।
नाप्येकत्वपक्षः संगच्छते निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् ।
एकेनैव विवक्षितार्थसमर्पणात् ।
नच हौत्रविषय आध्वर्यवविषये वाक्षर ओङ्कारशब्दवाच्य उद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दवाच्यायामोङ्कारशब्दप्रसिद्धिर्येनानतिरिक्तार्थता स्यात् ।
परिशेषाद्विशेषणपक्षः परिगृह्यते ।
व्याप्तेः सर्ववेदसाधारण्यात् ।
सर्वव्याप्यक्षरमिह मा प्रसञ्जीत्यत उद्गीथशब्देनाक्षरं विशेष्यते कथं नामोद्गीथावयवभूत ओङ्कारो गृह्येतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा ।
उद्गीथशब्दस्यावयवलक्षणार्थत्वात् ।
सत्यमेतत् ।
लक्षणायामपि तु संनिकर्षविप्रकर्षो भवत एव ।
अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु ।
अतश्च व्याप्तेर्हेतोरोमित्येतदक्षरमित्येतस्योद्गीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थः ॥ 9 ॥
5 सर्वाभेदाधिकरणम् । सू. 10
सर्वाभेदादन्यत्रेमे
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्योपास्यत्वमुक्तम् ।
वागादयो ऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ते च प्राणे पुनः प्रत्यर्पिताः - ऽयद्वा अहं वसिष्ठो ऽस्मि त्वं तद्वसिश्षो ऽसिऽ (बृ. 6.1.14) इत्यादिना ।
अन्येषामपि तु शाखिनां कौषीतकि प्रभृतीनां प्राणसंवादेषु अथातो निःश्रेयसादानम् ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ (कौ. 2.14) इत्येवञ्जातीयकेषु प्राणस्य श्रैःष्टमुक्तं न त्विमे वसिष्ठत्वादयो ऽपि गुणा उक्ताः ।
तत्र संशयः - किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्राप्यस्येरन्नुत नास्येरन्निति ।
तत्र प्राप्तं तावन्नास्येरन्निति ।
कुतः - एवंशब्दसंयोगात् ।
ऽअथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वाऽ इति तत्रतत्रैवंशब्देन वेद्यं वस्तु निवेद्यते ।
एवंशब्दश्च संनिहितावलम्बनो न शाखान्तरपरिपठिमेवञ्जातीयकं गुणजातं शक्नोति निवेदयितुम् ।
तस्मात्स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमिति ।
एवं प्राप्ते प्रत्याह - अस्येतन्नियमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयो ऽन्यत्रापि ।
कुतः - सर्वाभेदात् ।
सर्वत्रैव हि तदेवैकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते ।
प्राणसंवादादिसारूप्यात् ।
अभेदे च विज्ञानस्य कथमिमे गुणाः क्वचिदुक्ता अन्यत्र नास्येरन् ।
नन्वेवंशब्दस्तत्र तत्र भेदेनैवञ्जातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् ।
अत्रोच्यते - यद्यपि कौषीतकिब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातमसंशब्दितमसंनिहितत्वात्तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनैवंशब्देन तत्संशब्दितमिति न परशाखागतमप्यभिन्नविज्ञानावरुद्धं गुणजातं स्वशाखागताद्विशिष्यते ।
नचैवं सति श्रुतहानिरश्रुतकल्पना वा भवति ।
एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् ।
नहि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धो देशान्तरं गतस्तद्देश्यैरविभावितशौर्यादिगुणो ऽप्यतद्गुणो भवति ।
यथाच तत्र परिचयविशेषाद्देशान्तरे ऽपि देवदत्तगुणा विभाव्यन्ते ।
एवमभियोगविशेषाच्छाखान्तरे ऽप्युपास्या गुणाः शाखान्तरे ऽप्यस्येरन् ।
तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैवोपसंहर्तव्या इति ॥ 10 ॥
fन्: निःश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणम् ।
अहंश्रेयसे स्वश्रैष्ठ्याय ।
6 आनन्दाद्यधिकरणम् । सू. 11-13
आनन्दादयः प्रधानस्य
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिष्वानन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवञ्जातीयका ब्रह्मणो धर्माः क्वचित्केचिच्छ्रूयन्ते ।
तेषु संशयः - किमानन्दादयो ब्रह्मधर्मा यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः किंवा सर्वे सर्वत्रेति ।
तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायामिदमुच्यते - आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः ।
कस्मात् ।
सर्वाभेदादेव ।
सर्वत्र हि तदेवैकं प्रधानं विशेष्यं ब्रह्म न भिद्यते ।
तस्मात्सार्वत्रिकत्वं ब्रह्मधर्माणां तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यदिनिदर्शनेन ॥ 11 ॥
नन्वेवं सति प्रियशिरस्त्वादयो ऽपि धर्माः सर्वत्र संकीर्येरन् ।
तथाहि - तैत्तिरीयक आनन्दमयमात्मानं प्रक्रम्याम्नायते - ऽतस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठाऽ (तै. 2.5) इति ।
अत उत्तरं पठति -
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयक आम्नातानां नास्त्यन्यत्र प्राप्तिः ।
यत्कारणं प्रियं मोदः प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्त्रन्तरापेक्षया चोपचितापचितरूपा उपलभ्यन्ते ।
उपचयापचयौ च सति भेदे संभवतः ।
निर्भेदं तु ब्रह्म ऽएकमेवाद्वितीयम्ऽ (छा. 6.2.1) इत्यादिश्रुतिभ्यः ।
नचैते प्रियशिरस्त्वादयो ब्रह्मधर्माः, कोशधर्मास्त्वेत इत्युपदिष्टमस्माभिः ऽआनन्दमयो ऽभ्यासात्ऽ (ब्र.सू. 1.1.12) इत्यत्र ।
अपिच परस्मिन्ब्रह्मणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन ।
एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् ।
ब्रह्मधर्मास्त्वेतान्कृत्वा न्यायमात्रमिदमाचार्येण प्रदर्शितं प्रियशिरस्त्वाद्यप्राप्तिरिति ।
स च न्यायो ऽन्येषु निश्चितेषु ब्रह्मधर्मेषूपासनायोपदिश्यमानेषु नेतव्यः संयद्वामादिषु सत्यकामादिषु च ।
तेषु हि सत्यप्युपास्यस्य ब्रह्मण एकत्मे प्रक्रमभेदादुपासनाभेदे सति नान्योन्यधर्माणामन्योन्यत्र प्राप्तिः ।
यथा च द्वे नार्यावेकं नृपतिमुपासते छत्रेणैका चामरेणान्या तत्रोपास्यैकत्वे ऽप्युपासनाभेदो धर्मव्यवस्था च भवेत्येवमिहापीति ।
उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते न निर्गुणे परस्मिन्ब्रह्मणि ।
अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ 12 ॥
इतरे त्वर्थसामान्यात्
इतरे त्वानन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैवोच्यमाना अर्थसामान्यात्प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात्सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यं प्रतिपत्तिमात्रप्रयोजना हि त इति ॥ 13 ॥
7 आध्यानाधिकरणम् । सू. 14-15
आध्यानाय प्रयोजनाभावात्
काठके हि पठ्यते - ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिःऽ (क. 3.10) इत्यारभ्य ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (क. 3.11 ) इति ।
तत्र संशयः - किमिमे सर्व एवार्थादयस्ततस्ततः परत्वेन प्रतिपाद्यन्त उत पुरुष एवैभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति ।
तत्र तावत्सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः ।
तथाहि श्रूयते -
इदमस्मात्परमिदमस्मात्परम् इति ।
ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् ।
नैष दोषः ।
वाक्यबहुत्वोपपत्तेः ।
बहून्येवह्येतानि वाक्यानि प्रभवन्ति बहुविषयान्परत्वोपेतान्प्रतिपादयितुम् ।
तस्मात्प्रत्येकमेषां परत्वप्रतिपादनमिति ।
एवं प्राप्ते ब्रूमः - पुरुष एव ह्येभ्यः सर्वेभ्यः परः प्रतिपाद्य इति युक्तं न प्रत्येकमेषां परत्वप्रतिपादनम् ।
कस्मात् ।
प्रयोजनाभावात् ।
नहीतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते प्रयोजनं मोक्षसिद्धिः ।
तथाच श्रुतिः - ऽनिचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ (क. 3.15) इति ।
अपिच परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन्पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति - आध्यानायेति ।
आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः ।
सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते न त्वाध्यानमेव स्वप्रधानम् ॥ 14 ॥
आत्मशब्दाच् च
इतश्च पुरुषप्रतिपत्त्यर्थैवेयमिन्द्रियादिप्रवाहोक्तिः ।
यत्कारणम् ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ (कठ. 3.12) इति प्रकृतं पुरुषमात्मेत्याह ।
अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते ।
तस्यैव च दुर्विज्ञानतां संस्कृतमितिगम्यतां च दर्शयति ।
तद्विज्ञानायैव ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ (कठ. 3.13) इत्याध्यानं विदधाति ।
तद्व्याख्यतम् ऽआनुमानिकमप्येकमप्येकेषाम्ऽ (ब्र.सू. 1.4.1) इत्यत्र ।
एवमनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु ।
अपिच ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ (क. 3.9) इत्युक्ते किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायामिन्द्रियाद्यनुक्रमणात्परमपदप्रतिपत्त्यर्थ एवायमायाम इत्यवसीयते ॥ 15 ॥
8 आत्मगृहीत्यधिकरणम् । सू. 16-17
आत्मगृहीतिर् इतरवद् उत्तरात्
ऐतरेयके श्रूयते - ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजाऽ (ऐ. 1.1) इति ऽस इमांल्लोकानसृजताम्भो मरीचीर्मरमापःऽ (ऐ. 1.2) इत्यादि ।
तत्र संशयः - किं पर एवात्मशब्देनाभिलप्यत उतान्यः कश्चिदिति ।
किं तावत्प्राप्तं न परमात्मेहात्मशब्दाभिलप्यो भवितुमर्हतीति ।
कस्मात् ।
वाक्यान्वयदर्शनात् ।
ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते प्रागुत्पत्तेरात्मैकत्वावधारणात् ।
ईक्षणपूर्वकस्रष्टृवचनाच्च ।
नेत्युच्यते ।
लोकसृष्टिवचनात् ।
परमात्मनि हि स्रष्टरि परिगृह्यमाणे महाभूतसृष्टिरादौ वक्तव्या लोकसृष्टिस्त्विहादावुच्यते ।
लोकाश्च महाभूतसंनिवेशाविशेषाः ।
तथाचाम्भःप्रभृतींल्लोकत्वेनैव निर्ब्रवीति - ऽअदो ऽम्भः परेण दिवम्ऽ (ऐ. 1.2) इत्यादिना ।
लोकसृष्टिश्च परमेश्वराधिष्ठितेनापरेण केनचिदीश्वरेण आसीत्पुरुषविधःऽ (बृ. 1.4.1) इत्याद्या ।
स्मृतिरपि ऽस वै शरीरी प्रथमःस वै पुरुषः उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति ।
ऐतरेयिणो ऽपि अथातो रेतसः प्रजापते रेतो देवाः इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति ।
आत्मशब्दो ऽपि तस्मिन्प्रयुज्यमानो दृश्यते - आत्मैवेदमग्र आसीत्पुरुषविधिःऽ (बृ. 1.4.1) इत्यत्र ।
एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते ।
ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् ।
अपिच ताभ्यो गामानयत्ताभ्यो ऽश्वमानयत्ताभ्योः पुरुषमानयत्ता अब्रुवन्नित्येवञ्जातीयको भूयान्व्यापारविशेषो लौकिकेषु विशेषवत्स्वात्मसु प्रसिद्ध इहानुगम्यते ।
तस्माद्विशेषावानेव कश्चिदिहात्मा स्यादिति ।
एवं प्राप्ते ब्रूमः - ऽपर एवात्मेहात्मशब्देन गृह्यत इतरवत् ।
यथेतरेषु सृष्टिश्रवणेषु तस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1.1) इत्येवमादिषु परस्यात्मनो ग्रहणम् ।
यथा चेतरस्मिंल्लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति यत्र तु ऽआत्मैवेदमग्र आसीत्ऽ (बृ. 1.4.1) इत्येवमादौ ऽपुरुषविधःऽ (बृ. 1.4.1) इत्येवमादि विशेषणान्तरं श्रूयते भवेत्तत्र विशेषत आत्मनो ग्रहणम् ।
अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमप्युत्तरमुपलभ्यते ऽस ईक्षत लोकान्नु सृजा इतिऽ (ऐ. 1.1) ऽस इमांल्लोकानसृजतऽ (ऐ. 1.2) इत्येवमादि ।
तस्मात्तस्यैव ग्रहणमिति न्याय्यम् ॥ 16 ॥
fन्: अम्भः स्वर्गः , मरीचयो ऽन्तरिक्षलोकः , मरो मर्त्यलोकः , आपः पाताललोकः ॥
पुरुषविधो नराकारः ।
आत्मा हिरण्यगर्भः ।
रेतः रेतःकार्यम् ।
अन्वयाद् इति चेत् स्याद् अवधारणात्
वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्तव्यमिति ।
अत्रोच्यते ।
स्यादवधारमादिति ।
भवेदुपपन्नं परमात्मनो ग्रहणम् ।
कस्मात् ।
अवधारणात् ।
परमात्मग्रहणे हि प्रागित्पत्तेरात्मैकत्वावधारणमाञ्जमसवकल्पते ।
अन्यथा ह्यनाञ्जसं तत्परिकल्पेत ।
लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि ।
यथा तत्तेजो ऽसृजत (छा. 6.2.3) इत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमित्ययूयुजमेवमिहापि ।
श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषूपसंहर्तव्यो भवति ।
यो ऽप्ययं व्यापारविशेषानुगमस्ताभ्यो गामानयदित्येवमादिः सो ऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः ।
नह्ययं सकलः कथाप्रबन्धो विवक्षत इति शक्यते वक्तुम, तत्प्रतिपत्तौ पुरुषार्थाभावात् ।
ब्रह्मात्मत्वं त्विह विवक्षितम् ।
तथाह्यमभःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्टावा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा ऽकथं न्विदं मदृते स्यात्ऽ (ऐ. 3.11 इति वीक्ष्येदं शरीरं प्रविवेशेति दर्शयति - ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ (ऐ. 3.12) इति ।
पुनश्च ऽयदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्ऽ (ऐ. 3.12) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ऽअथ को ऽहम्ऽ (ऐ. 3.11) इति वीक्ष्य ऽस एतमेव पुरुषं ब्रह्म ततममपश्यत्ऽ (ऐ. 3.13) इति ब्रह्मात्मत्वदर्शनमवधारयति ।
तथोपरिष्टात् एष ब्रह्मैष इन्द्रः (ऐ. 5.3) इत्यादिना समस्तभेदजातं सह महाभूतैरमुक्रम्य ऽसर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मऽ (ऐत. 5.3) इति ब्रह्मात्मत्वदर्शनमेवावधारयति ।
तस्मादिहात्मगृहीतिरित्यनपवादम् ।
अपरा योजना - आत्मगृहीतिरितरवदुत्तरात् ।
वाजसनेयके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. 4.3.7) इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रहामात्मतामवधारयति ।
तथाह्युपसंहरति - ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) इति ।
छान्दोग्ये तु ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इत्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के ऽस आत्मा तत्त्वमसिऽ (छा. 6.8.7) इति तादात्म्यमुपदिशति ।
तत्र संशयः - तुल्यार्थत्वं किमनयोराम्नानयोः स्यादतुल्यार्थत्वं वेति ।
अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादाम्नानयोः ।
नह्याम्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमाम्नानतन्त्रत्वादर्थपरिग्रहस्य ।
वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते ।
छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्ययः ।
ननु छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेश इत्युक्तम् ।
सत्यमुक्तम् ।
उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सेति मन्यते ।
तथा प्राप्ते ऽभिधीयते - ऽआत्मगृहीतिः सदेव सोम्येदमग्रासीत्ऽ (छा. 6.2.1) इत्यत्र छन्दोगानामपि भवितुमर्हतीतरवत् ।
यथा ऽकतम आत्माऽ (बृ. 4.3.7) इत्यत्र वाजनेयिनामात्मगृहीतस्तथैव ।
कस्मात् ।
उत्तरात्तादात्म्योपदेशात् ।
अन्वयादिते चेत्स्यादवधारणात् ।
यदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावान्नात्मगृहीतिरिति तस्य कः परिहार इति चेत्सो ऽभिधीयते स्यादवधारणादिति ।
भवेदुपपन्नेहात्मगृहीतिः ।
अवधारणात् ।
तथाहि - ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ ((छा. 6.1.1) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य तत्संपिपादयिषया ऽसदेव-ऽ इत्याह ।
तच्चात्मगृहीतौ सत्यां संपद्यते ।
अन्यथा हि यो ऽयं मिख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्येत ।
तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्शः स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुनः पुनः ऽतत्त्वमसिऽ (छा. 6.8.7) इत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् ।
नचाज्ञोपक्रमतन्त्रत्वोपन्यासो न्याय्यः ।
नह्युपक्रम आत्मत्वसंकीर्तनमनात्मत्वसंकीर्तनं वास्ति ।
सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य ।
सच्छब्दार्थो ऽपि च पर्यालोच्यमानो न मुख्यादात्मनो ऽन्यः संभवत्यतो ऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्यो ऽनृतत्वोपपत्तेः ।
आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति ।
आहर पात्रं पात्रमाहरेत्येवमादिष्वर्थसाम्ये ऽपि तद्दर्शनात् ।
तस्मादेवञ्जातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदे ऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ 17 ॥
fन्: ततमं व्याप्ततमम् ।
तकारलोपश्छान्दसः ।
उदर्क उपसंहारः ।
9 कार्याख्यानाधिकरणम् । सू. 18
कार्याख्यानादपूर्वम्
छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिसंवादे श्वादिमर्यादं प्राणस्यान्नमाम्नान्य तस्यैवापो वास आमनन्ति ।
अनन्तरं च छन्दोगा आमनन्ति -ऽतस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोष्टाच्चाद्भिः परिदधातिऽ (छा. 5.2.2) इति ।
वाजसनेयिनस्त्वामनन्ति - ऽतद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. 6.1.14) ऽतस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुतेऽ इति ।
तत्र त्वाचमनमनग्नताचिन्तनं त प्राणस्य प्रतीयते त्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते ।
किं तावत्प्राप्तम् ।
उभयमपि चैतदपूर्वत्वाद्विध्यर्हम् ।
अथवाचमनमेव विदीयते ।
विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदश्ष्यन्नाचामेदशित्वा चाचामेदिति ।
तस्यैव स्तुत्यर्थमनग्नतासंकीर्तनमिति ।
एवं प्राप्ते ब्रूमः - नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् ।
प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थं स्मृतिप्रसिद्धमन्वाख्यायते ।
नन्वियं श्रुतिस्तस्याः स्मृतेर्मूलं स्यात् ।
नेत्युच्यते ।
विषयनानात्वात् ।
सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति ।
श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्वषयमेवाचमनं विदधती विदध्यात् ।
नच भिन्नविषययोः श्रुतिस्मृत्योर्मूलमूलिभावो ऽवकल्पते ।
नचेयं श्रुतिः प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ।
पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् ।
अत एव च नोभयविधानम् ।
उभयविधाने च वाक्यं भिद्येत ।
तस्मात्प्राप्तमेवाशिसिषतामशितवतां चोभयत आचमनमनूद्य ऽएतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. 6.1.14) इति प्राणस्यानग्नताकरणसंकल्पो ऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते ।
नचायमनग्नतावाद आचमनस्तुत्यर्थ इति न्याय्यम् ।
आचमनस्याविधेयत्वात् ।
स्वयं चानग्नतासंकल्पस्य विधेयत्वप्रतीतेः ।
नचैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्था छेति ।
क्रियान्तरत्वाभ्युपगमात् क्रियान्तरमेव ह्याचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते, तदीयासु त्वप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् ।
अपिच ऽयदिदं किञ्चाश्वस्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्ते ऽन्नम् (बृ. 6.1.14) इत्यत्र सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ।
अशब्दत्वादशक्यत्वाच्च ।
सर्वं तु प्राणस्यान्नमितीयमन्नदृष्टिश्चोद्यते तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेवत्वाचमनीयास्वप्सु परिधानदृष्चिश्चोद्यत इति युक्तम् ।
नह्यर्धवैशसं संभवति ।
अपिचाचामन्तीति वर्तमानापदेशित्वम् शब्दो विधिक्षमः ।
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम् ।
सत्यमेवमेतत् ।
अवश्यविधेये त्वन्यतरस्मिन्वासःकार्याख्यानादपां वासःसंकल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् ।
यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् ।
अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वाः पर्यवस्यन्ति नामनन्ति तस्मादेवंविदित्यादि ।
तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
यो ऽप्ययमभ्युपगमः क्वचिदाचमनं विधीयते क्वचिद्वासोविज्ञानमिति सो ऽपि न साधुः ।
आपो वास इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम् ॥ 18 ॥
10 समानाधिकरणम् । सू. 19
समान एवं चाभेदात्
वाजसनेयिशाखायमगिनिरहस्ये शाण्डुल्यनामाङ् किता विद्या विज्ञाता ।
तत्र च गुणाः श्रूयन्ते - स आत्मानमुपासीत मनमयं प्राणशरीरं भारूपम् इत्येवमादयः. तस्यामेव शास्त्रायां बृहदारण्यके पुनः पठ्यते - ऽमनोमयो ऽयं पुरुषो भाः सत्यस्मिन्नन्तर्हदये यदा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्चऽ (बृ. 5.6.1) इति ।
तत्र संशयः - किमियमेका विद्याग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।
किं तावत्प्राप्तम् ।
विद्याभेदो गुणव्यवस्था चेति ।
कुतः - पौनरुक्त्यप्रसङ्गात् ।
भिन्नासु हि शाखास्वध्येतृभेदात्पौनरुक्तस्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिष्वत्युक्तम् ।
एकस्यां पुनः शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति ।
नचात्रैकमाम्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभागः संभवति ।
तदा ह्यतिरिक्ता एव गुणा इतरत्रेतरत्र चाम्नायेरन्न समाना अपि तूभयत्राम्नायन्ते मनोमयत्वदयः ।
तस्मान्नान्योन्यं गुणोपसंहार इति ।
एवं प्राप्ते ब्रूमहे - यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवत्येवमेकस्यामपि शाखायां भवितुमर्हति ।
उपास्याभेदात् तदेव हि ब्रह्म मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीमः ।
उपास्यं च रूपं विद्यायाः ।
नच विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः ।
नापि विद्याभेदे गुणव्यवस्थानम् ।
ननु पौनरुक्त्यप्रसङ्गद्विद्याभेदो ऽध्यवसितः ।
नेत्युच्यते ।
अर्थविभागोपपत्तेः ।
एकं ह्याम्नानं विद्याविद्याविधानार्थमपरं गुणविधानार्थमिति न किञ्चिन्नोपपद्यते ।
नन्वेवं सति यदुपठिमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् स एष सर्वस्येशानः इत्यादि ।
यत्तु पठितमेव मनोमय इत्यादि चेन्न पठितव्यम् ।
नैष दोषः ।
तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ।
मसानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते ।
अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते ।
अपिचाप्राप्तांशोपदेशेनार्थवति वाक्ये संजाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाप्युपपद्यमानत्वान्न तद्बलेन प्रत्यभिज्ञोपोदितुं शक्यते ।
तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ 19 ॥
11 संबन्धाधिकरणम् । सू. 20-21
संबन्धादेवमन्यत्रापि
बृहदारण्यके ऽसत्यं ब्रह्मऽ (बृ. 5.5.1) इत्युक्रम्य ऽतद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. 55.2) इति तस्यैव सत्यस्य ब्रह्मणो ऽधिदैवतमध्यात्मं चायतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाद्य द्वे उपनिषदावुपदिश्येते ।
तस्योपनिषहरित्यधिदैवतम् ।
तस्योपनिषदहमित्यध्यात्मम् ।
तत्र संशयः - किमविभागेनैवोभे अप्युपनिषदावुभयत्रानुसंगातव्ये उत विभागेनैकाधिदैवमेकाध्यात्ममिति ।
तत्र सूत्रेणैवोपक्रमते ।
यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्त एवमन्यत्राप्येवञ्जातीयके विषये भवितुमर्हति ।
एकविद्याभिसंबन्धात् ।
एका हीयं सत्यविद्याधिदैवमध्यात्मं चाधीता ।
उपक्रमाभेदाद्व्यतिषक्तपाठाच्च ।
कथं तस्यामुदितो धर्मस्तस्यामेव न स्यात् ।
योह्याचार्यो कश्चिदनुगमनादिराचारश्चोदितः स ग्रामगते ।
रण्यगते च तुल्यवदेव भवति ।
तस्मादुभयोरप्युपनिषदोरुभयत्र प्राप्तिरिति ॥ 20 ॥
एवं प्राप्ते प्रतिविधत्ते -
न वा विशेषात्
न वोभयोरुभयत्र प्राप्तिः ।
कस्मात् ।
विशेषात् ।
उपासनस अतानविशेषोपनिबन्धादित्यर्थः ।
कथं स्थानविशेषोपनिबन्ध इत्युच्यते - ऽय एष एतस्मिन्मण्डले पुरुषःऽ (बृ. 5.5.3) इति ह्याधिदैवकं पुरुषं प्रकृत्य तस्योपनिषदहरिति श्रावयति ।
ऽयो ऽयं दक्षिणे ऽक्षन्पुरुषःऽ (5.5.4) इति ह्यध्यात्मिकं पुरुषं प्रकृत्य तस्योपनिषदमिति ।
तस्येति चैतत्संनिहितावलम्बनं सर्वनाम, तस्मादायतनविशेषव्यपाश्रयेणैवैते उपनिषदावुपदिश्येते ।
कुत उभयोरुभयत्र प्राप्तिः ।
नन्वेक एवायमधिदैवतमध्यात्मं च पुरुष एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् ।
सत्यमेवेतत् ।
एकस्यापि त्ववस्थाविशेषोपादानेनैवोपनिषद्विशेषोपदेशात्तदवस्थास्यैव सा भवितुमर्हति ।
अस्ति चायं दृष्टान्तः सत्यप्याचार्यस्वरूपापानपाये यदाचार्यस्यासीनस्यनुवर्तनमुक्तं न तत्तिष्ठतो भवति ।
यच्च तिष्ठत उक्तं न तदासीनस्येति ।
ग्रामारण्ययोस्त्वाचार्यस्वरूपानापायात्तत्स्वरूपानुबुद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावादुभयत्र तुल्यवद्भाव इत्यदृष्टान्तः सः ।
तस्माद्व्यवस्थानयोरुपनिषदोः ॥ 21 ॥
दर्शयति च
अपि चैवञ्जातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति - ऽतस्यैतस्य तदेव रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामऽ (छा. 1.7.5) इति ।
कथमस्यलिङ्गत्वमिति तदुच्यते ।
अक्ष्यादिनित्यस्थानभेदभिन्नान्धर्णानन्योन्यस्मिन्ननुपसंहार्यान्पश्यन्निहातिदेशेनादित्यपुरुषगतान्रूपादीनक्षिपुरुष उपसंहरति - ऽतस्यैतस्य तदेव रूपम्ऽ (छा. 1.7.5) इत्यादिना ।
तस्माद्व्यवस्थिते एवैते उपनिषदाविति निर्णयः ॥ 22 ॥
12 संभृत्यधिकरणम् । सू. 23
संभृतिद्युव्याप्त्यपि चातः
ब्रह्मज्येष्ठा विर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते ।
तेषामेव चोपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते ।
तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन्न वेति विचारणायां ब्रह्मसंबन्धादुपसंहारप्राप्तावेवं पठति ।
संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः ।
अत एव चायतनविशेषयोगात् ।
तथाहि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् - ऽएष म आत्मान्तर्हृदयेऽ (छा. 3.14.3) इति ।
तद्वदेव दहरविद्यायामपि ऽदहरं पुण्डरीके वेश्म दहरो ऽस्मिन्नन्तराकाशःऽ (छा. 8.1.1) इति ।
उपकोसलविद्यायां त्वक्ष्यायतनत्वम् ऽय एषो ऽक्षणि पुरुषो दृश्यतेऽ (छा. 4.15.1) इति ।
एवं तत्र तत्रत् तदाध्यात्मिकमायतनमेतासु विद्यासु प्रतीयते ।
आधिदैविक्यस्त्वेता विभूतयः संभृतिद्युव्याप्तिप्रभृतयस्तासां कुत एतासु प्राप्तिः ।
नन्वेतास्वप्याधिदैविक्यो विभूतयः श्रूयन्ते - ऽज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छा. 3.14.3) ऽएष उ एव भामनीरेष हि सर्वेषु लोकेषु भातिऽ (छा. 4.15.4) ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा. 8.1.3) इत्येवमाद्याः ।
सन्ति चान्या आयतनविशेषहीना अपीह ब्रह्मविद्याः षोडशकलाद्याः ।
सत्यमेतत् ।
तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः ।
समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् ।
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वान्न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते विद्याभेदे ऽपि तदुपपत्तेः ।
एकमपि हि ब्रह्म विबूतिभेदैरनेकधोपास्यत इति स्थितिः ।
परोवरीयस्तवादिवद्भेददर्शनात् ।
तस्माद्वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिष्वनुपसंहार इति ॥ 23 ॥
fन्: ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि निलोपश्छान्दसः ।
वीर्या वीर्याणि पराक्रमभेदाः ।
13 पुरुषाद्यधिकरणम् । सू. 24
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात्
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ।
तत्र पुरुषो यज्ञः कल्पितः ।
तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् ।
अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।
अन्ये च धर्मस्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः ।
तैत्तिरीयका अपि कञ्चित्पुरुषयज्ञं कल्पयनव्ति - ऽतस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नीऽ (नारा. 80) इत्येतेनानुवाकेन ।
तत्र संशयः - किं य इतरत्रोक्ताः पुरुषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्याः किंवा नोपसंहर्तव्या इति ।
पुरुषयज्ञत्व्विशेषादुपसंहारप्राप्तावाचक्ष्महे - नोपसंहर्तव्या इति ।
कस्मात् ।
तद्रूपप्रत्यभिज्ञानाभावात् ।
तदाहाचार्यः - पुरुषविद्यायामिवेति ।
यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानं नैवमितरेषां तैत्तिरीयाणामाम्नानमस्ति ।
तेषां हूतरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यश्वृत्विगाद्यनुक्रमणात् ।
यदपि सवनसंपादनं तदपीतरविलक्षणमेव ऽयत्प्रातर्मध्यन्दिनंसायं च तानिऽ (नारा. 80) इति ।
यदपि किञ्चिन्मरणावभृथत्वादिसाम्यं तदप्यल्पीयस्तवाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
नच तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते ।
विदुषो यज्ञस्येति हि नचैते समानाधिकरणे षष्ठ्यौ विद्वानेव योयज्ञस्तस्येति ।
नहि पुरुषस्य मुख्यं यज्ञत्वमस्ति ।
व्यधिकरणे त्वेते षष्ठ्यौ विदुषो यो यज्ञस्तस्येति ।
भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः ।
सत्यां च गतौ मुख्य एवार्थ आश्रयितव्यो न भाक्तः ।
आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनैवास्य यज्ञसंबन्धं दर्शयति ।
अपिच तस्यैवंविदुषैति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् ।
अपिच संसन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवंविदुष इत्याद्यनुक्रमणं फस्यन्तः पूर्वशेष एवैष आम्नायो न स्वतन्त्र इति प्रतीमः ।
तथाचैकमेव फलमुभयोरप्यनुवाकयोरुपलबामहे ऽब्रह्मणो महिमानमाप्नोतिऽ (नारा. 80) इति ।
इतरेषां त्वनन्यशेषः पुरुषविद्याम्नायः ।
आयुरभिवृद्धिफलो ह्यसौ ऽस ह --षोडशं वर्षशतं जीवति य एवं वेदऽ (छा. 3.16.7) इति समभिव्याहारात् ।
तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके ॥ 24 ॥
14 वेधाद्यधिकरणम् । सू. 25
वेधाद्यर्थभेदात्
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः - ऽसर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरो ऽभिप्रवृज्यत्रिधा विपृक्तःऽ इत्यादिः ।
ताण्डिनाम् - ऽदेव सवितः प्रसुव यज्ञम्ऽ इत्यादिः ।
शाठ्यायनिनाम् - ऽश्वेताश्वो हरितनीलो ऽसिऽ इत्यादिः ।
कठानां तैत्तिरीयाणां - ऽशं नो मित्रः शं वरुणःऽ (तै. 1.1.1) इत्यादिः ।
वाजसनेयिनां तूपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते - ऽदेवा ह वै निषेदुःऽ इत्यादि ।
कौषीतकिनामप्यग्निष्टोमब्राह्मणम् - ऽब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति ते ऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्तिऽ इति ।
किमिमे सर्वे प्रविध्यमादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासूपसंह्रियेरन्किंवा नोपसंह्रियेरन्निति मीमांसामहे ।
किं तावन्नः प्रतिभाति उपसंहार एवैषां विद्यास्विति ।
कुतः ।
विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् ।
नन्वेषां विद्यार्थतया विधानं नोपलबामहे ।
बाढम् ।
अनुपलभमाना अपि त्वनुमास्यामहे संनिधिसामार्थ्यात् ।
नहि संनिधेरर्थवत्त्वे संभवत्यकस्मादसावनाश्रयितुं युक्तः ।
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः ।
कथं च प्रवर्ग्यादीनि कर्माण्यन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति ।
नैष दोषः ।
सामर्थ्यं तावन्मन्त्राणां विद्याविषयमपि किञ्चिच्छक्यं कल्पयितुं हृदयादिसंकीर्तनात् ।
हृदयादीनि हि प्रयेणोपासनेष्वायतनादिभावेनोपदिष्टानि तद्द्वारेण च हृदयं प्रविध्येत्येवञ्जातीयकानां मन्त्राणामुपपन्नमुपासनाङ्गत्वम् ।
दृष्टश्चोपासनेष्वपि मन्त्रविनियोगः ऽभूः प्रपद्ये ऽमुनामुनामुनाऽ (छा. 3.15.3) इत्येवमादिः ।
तथा प्रवर्ग्यादीनां कर्मणामन्यत्रापि विनियुक्तानां सतामविरुद्धो विद्यासु विनियोगो वाजपेय इव बृहस्पतिसवस्येति ।
एवं प्राप्ते ब्रूमः -
नैषामुपसंहारो विद्यास्विति ।
कस्मात् ।
वेधार्थभेदात् ।
हृदयं प्रविध्येत्येवञ्जातीयकानां हि मन्त्राणां येर्ऽथा हृदयवेधादयो भिन्ना अनभिसंबद्धास्त उपनिषदुदिताभिर्विद्याभिः ।
न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति ।
ननु हृदयस्योपासनेष्वप्युपयोगात्तद्द्वारक उपासनसंबन्ध उपन्यस्तः ।
नेत्युच्यते ।
हृदयमात्रसंकीर्तनस्य ह्येवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत नच हृदयमात्रमत्र मन्त्रार्थः ।
हृदयं प्रविध्य धमनीः प्रवृज्येत्येवञ्जातीयको हि न सकलो मन्त्रार्थे विद्याभिरभिसंबध्यते ।
आभिचारिकविषयो ह्येषोर्ऽथस्तस्मादाभिचारिकेण कर्मणा सर्वं प्रविध्येत्येतस्य मन्त्रस्याभिसंबन्धः ।
तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः ।
एवमन्येषामपि मन्त्राणां केषाचिल्लिङ्गेन केषाञ्चिद्वचनेन केषाञ्चित्प्रमाणान्तरेणात्येवमर्थान्तरेषु विनियुक्तानां रहस्यपठितानामपि सतां न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः ।
दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै. सू. 3.3.13) इत्यत्र ।
तथाकर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः ।
नह्येषां विद्याभिः सहैकार्थ्यं किञ्चिदस्ति ।
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् - ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति ।
अपि चैको ऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेनान्यत्र विनियुक्तो न दुर्बलेन प्रमाणेनान्यत्रापि विनियोगमर्हति ।
अगृह्यमाणविशेषत्वे हि प्रमाणयोरेतदेवं स्यान्नतु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव ।
तस्मादेवञ्जातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् ।
अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम् ॥ 25 ॥
15 हान्यधिकरणम् । सू. 26
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम्
अस्ति ताण्डानां श्रुतिः - ऽअश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामिऽ (छा. 8.13.1) इति ।
तथाथर्णिकानाम ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. 3.2.8) इति ।
तथा शाट्यायनिनः पठन्ति ऽतस्य पुत्रा दायमुपयन्ति सिहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति ।
तथैव कौषीतकिनः ऽतत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपन्त्यप्रिया दुष्कृतम्ऽ (कौ. 1.4) इति ।
तदिह क्वचित्सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनं क्वचित्तूभयमपि हानमुपायनं च तद्यत्रोभयं श्रूयते तत्र तावन्न किञ्चिद्वक्तव्यमस्ति ।
यत्राप्युपायनमेव श्रूयते न हानं तत्राप्यर्थादेव हानं संनिपतति ।
अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोरावश्यकत्वात्तद्धानस्य ।
यत्र तु हानमेव श्रूयते नोपायनं तत्रोपायनं सनिपतेद्वा न वेति विचिकित्सायामश्रवणादसंनिपातः ।
विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य ।
अपिचात्मकर्तृकं सुकृतदुष्कृतयोर्हानं परकर्तृकं तूपायनं तयोरसत्यावश्यकभावे कथं हानेनोपायमाक्षिप्येत ।
तस्मादसंनिपातो हानावुपायनस्येति ।
अस्यां प्राप्तौ पठति - हानौ त्विति ।
हानौ त्वेतस्यां केवलायामपि श्रूयमाणायामुपायनं संनिपतितुमरपहति ।
तच्छेषत्वात् ।
हानशब्दशेषो ह्युपायनशब्दः समधिगतः कौषीतकिरहस्ये ।
तस्मादन्यत्र केवलहानशब्दश्रवणे ऽप्युपायनानुवृत्तिः ।
यदुक्तमश्रवणाद्विद्यन्तरगोचरत्वादनावश्यकत्वाच्चासंनिपात इति,
तदुच्यते ।
भवेदेषा व्यवस्थोक्तिर्यद्यनुष्ठेयत्वेन संकीर्त्यते ।
विद्यास्तुत्यर्थं त्वनयोः संकीर्तनम् ।
इत्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयते ते चास्य सुहृद्विषत्सु निविशेते इतै ।
स्तुत्यर्थे चास्मिन्संकीर्तने हानानन्तरभावित्वेनोपायस्य क्वचिच्छ्रुतत्वादन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय ।
प्रसिद्धा चार्थवादान्तरापेक्षार्थवादान्तरप्पवृत्तिः - ऽएकविंशो वा इथो ऽसावादित्यःऽ (छा. 2.10.5) इत्येवमादिषु ।
कथं हीहैकविंशतादित्यस्याभिधीयतानपेक्ष्यमाणेर्ऽथवादान्तरे द्वादश मासाःपञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इत्येतस्मिन् ।
तथा त्रिष्टुभौ भवतः सेन्द्रियत्वाय इत्येवमादिषु इन्द्रियं वै त्रिष्टुप् इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् ।
उपायनशब्दशेषत्वादिति तु शब्दशब्दं समुच्चारयन्स्तुत्यर्थमेव हानावुपायनानुवृत्तिं सूचयति ।
गुणोपसंहारविवक्षायां ह्युपायनार्थस्यैव हानावृत्तिं ब्रूयात् ।
तस्माद्गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् ।
कुशाच्छन्दस्तुत्युपगानवदित्युपमोपादानम् ।
तद्यथा भाल्लविनाम् - ऽकुशा वानस्पत्याः स्थ ता मा पातऽ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे शाट्यायनिनामौदुम्बराः कुशा इति विशेषवचनादौदुम्बर्यः कुशा आश्रीयन्ते ।
यथाच क्वचिद्देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे ऽदेवच्छन्दांसि पूर्वाणिऽ इति पैङ्ग्याम्नानात्प्रतीयन्ते ।
यथाच षोडशुस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ ऽसमयाध्युषिते सूर्येऽ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः ।
यथैव चाविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः ।
यथैतेषु कुशादिषु श्रुत्यन्तरगतविशेषैरन्वय एवं हानावप्युपायनान्वय इत्यर्थः ।
श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरे ऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् ।
स चान्याय्यः सत्यां गतौ ।
तदुक्तं द्वादशलक्षणायाम् - ऽअपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्ऽ इति ।
अथवैतास्वेव विधूनवश्रुतिष्वेतेन सूत्रेणैतच्चिन्तयितव्यम् ।
किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किंवार्ऽथान्तरमिति ।
तत्र चैवं प्रापयितव्यम् ।
न हानं विधूननमभिधीयते ऽधञ् कम्पनेऽ इति स्मरणात् ।
दोधूयन्ते ध्वजाग्राणीति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् ।
तस्माच्चालनं विधूननमभिधीयते ।
चालनं तु सुष्कृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनादित्येवं प्रापय्य प्रतिवक्तव्यम् ।
हानावेवैष विधूयननशब्दो वर्तितुमर्हति ।
उपायनशब्दशेषत्वात् ।
नहि परपरिग्रहभूतयोः सुकृतदुष्कृतयोरप्रहीणयोः परैरुपायनं संभवति ।
यद्यपीदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं नाञ्जसं संभाव्यते तथापि तत्सर्न्तनात्तावत्तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते ।
क्वचिदपि चेदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाछन्दस्तुत्युपगानवद्विधनूनश्रुत्या सर्वत्रापेक्षामाणं सार्वत्रिकं निर्णयकारणं संपद्यते ।
नच चालनं ध्वजाग्रवत्सुकृतदुष्कृतयोर्मुख्यं संभवति ।
अद्रव्यत्वात् ।
अश्वश्च रोमाणि विधून्वानस्त्यजन्रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. 8.13.1) इति च ब्राह्मणम् ।
अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः ।
तदुक्तमिति व्याख्यातम् ।
16 सांपरायाधिकरणम् । सू. 27-28
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये
देवयानेन पथा पर्यङ् कस्थं ब्रह्माभिप्रस्तितस्य व्यध्वनि सुकृतदुष्कृतयोर्विभागं कौषीतकिनः पर्यङ् कविद्यायाममनन्ति ऽस एतं देवयानं पन्तानमासाद्याग्निलोकमागच्छतिऽ (कौ. 1.3) इत्युपक्रम्य ऽस आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुतेऽ (कौ. 1.4) इति ।
तत्किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यमाहोस्विदादावेव देहादपसर्पण इति विचारणायां श्रुतिप्रामाण्याद्यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति - सांपराय इतै ।
सांपराये गमन एव देहादपसर्पण इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवतीति प्रतिजानीते ।
हेतुं चाचष्टो तर्तव्याभावादिति ।
नहि विदुषः संपरेतस्य विद्यया ब्रह्म संप्रेप्सतो ऽन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम् ।
विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति ।
तस्मात्प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते ।
तथा ह्यन्ये ऽपि शिखिनस्ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. 8.13.1) इति, ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति च ॥ 27 ॥
छन्दत उभयाविरोधात्
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयो ऽभ्युपगम्येत ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषप्रयत्नस्येच्छातो ऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् ।
तस्मात्पूर्वमेव साधकावस्थायां छन्दतो ऽनुष्ठानं तस्यस्यात् ।
तत्पूर्वकं च सुकृतदुष्कृतहानमिति द्रष्टव्यम् ।
एवं निमित्तनैमित्तिकयोरुपपत्तिस्ताण्डिशाट्यायनिश्रुत्योश्च संगतिरिति ॥ 28 ॥
17 गतेरर्थवत्त्वाधिकरणम् । सू. 29-30
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः
क्वचित्पुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते क्वचिन्न ।
तत्र संशयः - किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेदुत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति ।
यथा तावद्धानावविशेषेणैवोपायनानुवृत्तिरुक्तैवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तावाचक्ष्महे ।
गतेर्देवयानस्य पथोर्ऽथवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गतिः क्वचिन्नेति नाविशेषेण ।
अन्यथा ह्यविशेषेणैवैतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् ।
ऽपुण्यपारपे विधूय निरञ्जनः परमं साम्यमुपैतिऽ (मु. 3.1.3) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत ।
कथं हि निरञ्जनो ऽगन्ता देशान्तरं गच्छेत् ।
गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तमित्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ 29 ॥
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्
उपपन्नश्चायमुभयथाभावः क्वचिदर्थवती गतिः क्वचिन्नेति ।
तल्लक्षणार्थोपलब्धेः ।
गतिकारणभूतो ह्यर्थः पर्यङ् कविद्यासु सगुणेषूपासनेषूपलभ्यते ।
यत्र हि पर्यङ् कारोहणं पर्यङ् कस्तेन ब्रह्मणा संवदनं विशिष्टगन्धादि प्राप्तिश्चेत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्रार्थवती गतिः ।
नहि सम्यग्दर्शने तल्लक्षणार्तोपलब्धिरस्ति ।
नह्यात्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशयक्षपणव्यतिरेकेणापेक्षितव्यं किञ्चिदस्ति तत्रानर्थिका गतिः ।
लोकवच्चैष विभागो द्रष्टव्यो यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते नारोग्यप्राप्तावेवमिहापीति ।
भूयश्चैनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ 30 ॥
18 अनियमाधिकरणम् । सू. 31
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम्
सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युख्तम् ।
सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते यथा पर्यङ् कविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति ।
नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडषकलविद्यायां वैश्वानरविद्यायामिति ।
तत्र संशयः - किं यास्वेवैषा गतिः श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवञ्जातीयकाभिर्विद्याभिरभिसंबध्यतेति ।
किं तावत्प्राप्तं नियम इति ।
यत्रैव श्रूयते तत्रैव भवितुमर्हति ।
प्रकरणस्य नियामकत्वात् ।
यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छ्रुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् ।
अपिचार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते तत्सर्वार्थत्वे ऽनर्थकं पुनर्वचनं स्यात् ।
तस्मान्नियम इत्येवं प्राप्ते पठति - अनियम इति ।
सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा दवयानाख्या गतिर्भवितुमर्हति ।
नन्वनियमाभ्युपगमे प्रकरणविरोध उक्तः ।
नैषो ऽस्ति विरोधः शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः ।
तथाहि श्रुतिः - ऽतद्य इत्थं विदुःऽ (छा. 5.10.1) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽ (छा. 5.10.1) इति विद्यान्तरशीलिनामपि प्चाग्निविद्याविद्भिः समानमार्गतां गमयति ।
कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ।
ननु श्रद्धातपःपरायणानामेव स्यात्तन्मात्रश्रवणात् ।
नैष दोषः ।
नहि केवलाभ्यां श्रद्दातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते ऽविद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनःऽ इति श्रुत्यन्तरात् ।
तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।
वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारे ऽधीयते - ऽय एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. 6.2.15) इति ।
तत्र श्रद्धलवो ये सत्यं ब्रह्मोपासत इति व्याख्येयम् ।
सत्यशब्दस्य ब्रह्मण्यसकृत्प्रयुक्तत्वात् ।
पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवैतदुपादानं न्याय्यम् ।
ऽअथ य एतौ पन्थानौ न विदुस्ते पतङ्गा यदिदं दन्दशूकम्ऽ (बृ. 6.2.16) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति ।
तत्रापि विद्याविसेषादेषां देवयानप्रतिपत्तिः ।
समृतिरपि - ऽशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यानावृत्तिमन्ययावर्तते पुनःऽ (भ.गी. 8.23) इति ।
यत्पुनर्देवयानस्य पथो द्विराम्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुभयत्राप्यनुचिन्तनार्थम् ।
तस्मादनियमः ॥ 31 ॥
fन्: श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ।
दन्दशूकः सर्पः ।
19 यावदधिकाराधिकरणम् । सू. 32
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।
ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति ।
नेयं चिन्तोपपद्यते ।
नहि पाकसादनसंपत्तावोदनो भवेन्न वेति चिन्ता संभवति ।
नापि भुञ्जानस्तृप्येन्न वेति चिन्त्यते ।
उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथाह्यपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात्कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति ।
वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति ।
भृग्वादिनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते ।
सनत्कुमारो ऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात्स्कन्दत्वेन प्रादुर्बभूव ।
एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ ।
श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते ।
ते च केचित्पतिते पूर्वदेहे देहान्तरमाददत्ते केचित्तु स्थित एव तस्मिन्योगैश्वर्यवशादनेकदेहादानन्यायेन ।
सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते ।
तदेतेषां देहान्तरोत्पत्तिदर्शनात्प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति ।
अत उत्तरमुच्यते ।
न ।
तेषामपान्तरतमप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारततन्त्रत्वास्थितेः ।
यथासौ भगवान्सविता सह्स्रयुगपर्यन्तं जगतो ऽधिकारं चरित्वा तदवसान उदयास्तमयवर्जितं कैवल्यमनुभवति ऽअथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाताऽ (छा. 3.11.1) इति श्रुतेः ।
यथाच वर्तमाना ब्रह्मविद आरब्धभोगक्षये कैवल्यमनुभवन्ति ।
ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. 6.14.2) इति श्रुतेः ।
एवमपान्तरमप्रभृतयो ऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधैकारमवतिष्ठन्ते, तदवसाने चापवृज्यन्त इत्यविरुद्धम् ।
सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणैव गृहादिव गृहान्तरमन्यमन्यं देहं संचरन्तः स्वाधिकारनिवर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वान्निर्माय देहान्युगपत्क्रमेण वाधितिष्ठन्ति ।
नचैते जातिस्मरा इत्युच्यन्ते ऽत एवैतेऽ इति स्मृतिप्रसिद्धेः ।
यथाहि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामाख्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्स्वमेव देहमाविवेशेति स्मर्यते ।
यदि ह्यपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्ततो ऽन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत, नत्वियमाशह् का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
तथाहि श्रुतिः - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. 2.2.8) इति ।
ऽस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षःऽ (छा. 7.26.2) इति चैवमाद्या ।
स्मृतिरपि - ऽयथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुतेर्ऽजुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ (भ.गी. 4.37) ऽबीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनःऽ इति चैवमाद्या ।
नचाविद्यादिक्लेशदाहे सति क्लेशबीजस्य सर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते ।
नह्यग्निदग्धस्य शालिबीजस्यैकदेशप्ररोहो दृश्यते ।
प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयान्निवृत्तिः ।
ऽतस्य तावदेव चिरम्ऽ (छा. 6.14.2) इति शरीरपातावधि क्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारमाधिकारिणामवस्थितिः ।
नच ज्ञानफलस्यानैकान्तिकता ।
तथाच श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ. 1.4.10) इति ।
ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ।
ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते ।
ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ इति स्मरणात् ।
प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः ।
कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।
अनुभवारूढं तु ज्ञानफलम् ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. 3.4.1) इति श्रुतेः ऽतत्त्वमसिऽ (6. 8.7) इति च सिद्धवदुपदेशात् ।
नहि ऽतत्त्वमसिऽ इत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः ।
ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृ. 1.4.10) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति ।
तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः ॥ 32 ॥
fन्: ऊर्ध्वो विलक्षणः ब्रह्मरूपः सन् उद्गम्य ।
तेन जनकेन , व्युद्य विवादं कृत्वा ।
निर्विण्णा विरक्ताः ।
प्रतिसंचरः प्रलपः ।
20 अक्षरध्यधिकरणम् । सू. 33
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्
वाजसनेयके श्रूयते - ऽएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्ऽ (बृ. 3.8.8) इत्यादि ।
तथाथर्वणे श्रूयते - ऽअथ परा यया तदक्षरमदिगम्यते ।
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्ऽ (मु. 1.1.5) इत्यादि ।
तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रह्मश्राव्यते ।
तत्र च क्वचित्केचिदतिरिक्ता विशेषाः प्रतिपद्यन्ते ।
तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिरुत व्यवस्थेति संशये श्रुतिविभागाद्व्यवस्थाप्राप्तावुच्यते - अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् - समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः ।
तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नं प्रत्यभिज्ञायते ।
तत्र किमित्यन्यत्र कृता बुद्धयो ऽन्यत्र न स्युः ।
तथाच ऽआनन्दादयः प्रधानस्यऽ (ब्र.सू. 3.3.11) इत्यत्र व्याख्यातम् ।
तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिषेधरूपाणीति विशेषः ।
प्रपञ्चार्थश्चायं चिन्ताभेदः ।
औपसदवदिति निदर्शनम् ।
यथा जामदग्न्ये ऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमन्त्राणाम् अग्नेर्वेर्हेत्रं वेरध्वरम् इत्येवमादीनामुद्गातृवेदोत्पन्नानामप्यध्वर्युभिरभिसंबन्धो भवति ।
अध्वर्युकर्तृत्वातत्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाच्चङ्गानाम् ।
एवमिहाप्यक्षरतन्त्रत्वात्तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानामक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः ।
तदुक्तं प्रथमे काण्डे - ऽगुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगःऽ (जै. सू. 3.3.8) इत्यत्र ॥ 33 ॥
21 इयदधिकरणम् । सू. 34
इयदामननात्
ऽद्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (मु. 3.1.1) इत्यध्यात्माधिकारे मन्त्रमाथर्वमिकाः श्वेताश्वतराश्च पठन्ति ।
तथा कठाः ऽऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताःऽ (क. 3.1) इति ।
किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशयः ।
किं तावत्प्राप्तं, विद्यानानात्वमिति ।
कुतः ।
विशेषदर्शनात् ।
द्वा सुपर्णेत्यत्र ह्येकस्य भोक्तृत्वं दृश्यते ।
एकस्य चाभोक्तृत्वं दृश्यते ।
ऋतं पिबन्तावित्यत्रोभयोरपि भोक्तृत्वमेव दृश्यते तद्वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति विद्यैकत्वमिति ।
कुतः - यत उभयोरप्यनयोर्मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यरूपमभिन्नमामनन्ति ।
ननु दर्शितो रूपभेदः ।
नेत्युच्यते ।
उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतो नार्थान्तरम् ।
द्वा सुपर्णा इत्यत्र तावत् अनश्नन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते ।
वाक्यशेषे ऽपि च स एव प्रतिपाद्यम्नो दृश्यते ।
ऽजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्ऽ (श्वे. 4.7) इति ।
ऋतं पिबन्तौ इत्यत्र तु जीवे पिबत्यशनायाद्यतीतः परमात्मापि साहचर्याच्छत्रिन्यायेन पिबतीत्युपचर्यते ।
परमात्मप्रकरणं ह्येतत् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. 2.14) इत्युपक्रमात् ।
तद्विषय एव चात्रापि वाक्यशेषो भवति ऽयः सेतुरीजानानामक्षरं ब्रह्म यत्परम्ऽ (क. 3.2) इति ।
ऽगुहां प्रविष्टावात्मानौ हिऽ (ब्र.सू. 1.2.11) इत्यत्र चैतत्प्रपञ्चितम् ।
तस्मान्नास्ति वेद्यभेदस्तस्माच्च विद्यैकत्वम् ।
अपिच त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यलोचने परमात्मविद्यैवावगम्यते तादात्म्यविवक्षयैव जीवोपादानं नार्थान्तरविवक्षया ।
नच परमात्मविद्यायां भेदाभेदविचारावतारो ऽस्तीत्युक्तम् ।
तस्मात्प्रपञ्चार्थ एवैष योगः ।
तस्माच्चाधिकधर्मोपसंहार इति ॥ 34 ॥
22 अनन्तराधिकरणम् । सू. 35-36
अन्तरा भूतग्रामवत्सात्मनः
ऽयत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरःऽ (बृ. 3.4.1 - 3.5.1)इत्येवं द्विरुष्स्तकहोलप्रश्नयोर्नैरल्तर्येण वाजसनेयिनः समामनन्ति ।
तत्र संशयः - विद्यैकत्वं वा स्याद्विद्यानानात्वं वेति ।
विद्यानानात्वमिति तावत्प्राप्तम् ।
अभ्याससामर्थ्यात् ।
अन्यथा ह्यन्यूनानातिरिक्तार्थे द्विराम्नानमर्थकमेव स्यात् ।
तस्माद्यथाभ्यासात्कर्मभेद एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह - अन्तराम्नानाविशेषात्स्वात्मनो विद्यैकत्वमिति ।
सर्वान्तरो हि स्वात्मोभयत्राप्यविशिष्टः पृच्छ्यते च प्रत्युच्यते च ।
नहि द्वावात्मानावेकस्मिन्देहे सर्वान्तरौ संभवतः ।
तदा ह्येकस्याञिजसंसर्वान्तरत्वमवकल्प्येत ।
एकस्य तु भूतग्रामवन्नैव सर्वान्तरत्वं स्यात् ।
यथाच पञ्चभूतसमूहे देहे पृथिव्या आपोन्तरा अद्भ्यस्तेजो ऽन्तरमिति सत्यप्यापेक्षिके ऽन्तरत्वे नैव मुख्य सर्वान्तरत्वं भवति तथेहापीत्यर्थः ।
अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति ।
यथा ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे.
6.11) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्राम्येष्वेक एव सर्वान्तर आत्माम्नायते ।
एवमनयोरपि ब्राह्मणयोरित्यर्थः ।
तस्माद्वेद्यैक्याद्विद्यैकत्वमिति ॥ 35 ॥
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत्
अथ यदुक्तमनभ्युपगम्यमाने विद्याभेद आम्नानभेदानुपपत्तिरिति तत्परिहर्तव्यम् ।
अत्रोच्यते - नायं दोषः ।
उपदेशान्तरवदुपपत्तेः ।
यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके - ऽस आत्मा तत्त्वमसि श्वेकतेतोऽ (छा. 6.8.7) इति नवकृत्वो ऽप्युपदेशे न विद्याभेदो भवत्येवमिहापि भविष्यति ।
कथं न नवकृत्वो ऽप्युपदेशे विद्याभेदो न भवति ।
उपक्रमोपसंहाराभ्यामेकार्थतावगमात् ।
ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. 6.5.4) इति चैकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितव्यत्वेनोपक्षेपात् ।
आशङ्कान्तरनिराकरणेन चासकृदुपदेशोपपत्तेः ।
एवमिहापि प्रश्नरूपाभेदात् अतो ऽन्यदार्तम्ऽ (बृ. 3.4.2 - 3.5.1) इति च परिसमाप्त्यविशेषादुपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्यते ।
ऽयदेव साक्षादपरोक्षाद्ब्रह्मऽ (बृ. 3.5.1) इति द्वितीये प्रश्न एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थमुत्तरत्रानुकृष्यमाणं दर्शयति ।
पूर्वस्मिन्श्च ब्राह्मणो कार्यकरणव्यतिरिक्तस्यात्मनः सद्भावः कथ्यते ।
उत्तरस्मिंस्तु तस्यैवाशनायादिसंसारधर्मातीतत्वं कथ्यते ।
इत्येकार्थतोपपत्तिः ।
तस्मादेका विद्येति ॥ 36 ॥
23 व्यतिहाराधिकरणम् । सू. 37
व्यतिहारो विशिंषन्ति हीतरवत्
तथा - ऽतद्यो ऽहं सो ऽसौ यो ऽसौ सो ऽहम्ऽ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः त्वं वा अहमस्मि भगवो देवते ऽहं वै त्वमसिऽ इति ।
तत्र संशयः - किमिह व्यतिहारेणोभयरूपा मतिः कर्तव्योतैकरूपैवेति ।
एकरूपैवेति तावदाह ।
नह्यत्रात्मन ईश्वरेणैकत्वं मुक्त्वान्यत्किञ्चिच्चिन्तयितव्यमस्ति ।
यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत संसारिणस्तावदीश्वरात्ममीश्वरस्य संसीर्यात्मत्वमिति ।
तत्र संसारिणस्तावदीश्वरात्मत्व उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्षः कुतः स्यात् ।
तस्मादैकारूप्यमेव मतेः ।
व्यतिहाराम्नायस्त्वेकत्वदृढीकारार्थ इति ।
एवं प्राप्ते प्रत्याह - व्यतिहारो ऽयमाध्यानायामनायते इतरवत् ।
यथेतरं गुणाः सर्वात्मत्वप्रभृतय आध्यानायाम्नायन्ते तद्वत् ।
तथाहि विशिंषन्ति समाम्नातार उभयोच्चारणेन ऽत्वमहमस्म्यहं च तत्त्वमसिऽ इति ।
तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति ।
अन्यथा हीदं विशेषेणोभयाम्नानमनर्थकं स्यात् ।
एकेनैव कृतत्वात् ।
ननूभयाम्नानस्यार्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेर्निकर्षः प्रसज्येतेत्युक्तम् ।
नैष दोषः ।
ऐकात्म्यस्यैवानेन प्रकारेणानुचिन्त्यमानत्वात् ।
नन्वेवं सति स एवैकत्वदृढीकार आपद्येत ।
न वयमेकत्वदृढीकारं वारयामः ।
किं तर्हि व्यतिहारेणेह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यान्नैकरूपेत्येतावदुपपादयामः ।
फलतस्त्वेकत्वमपि दृढीभवति ।
यथाध्यानार्थो ऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिद्ध्यति तद्वत् ।
तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषय उपसंहर्तव्यो भवतीति ॥ 37 ॥
fन्: जीवेशयोर्मिथो विशेषणविशेश्याभावो व्यतिहारः ।
24 सत्याद्यधिकरणम् । सू. 38
सैव हि सत्यादयः
ऽस यो हैतं महद्यक्षं प्रथमजं वेद ब्रह्मऽ (बृ. 5.4.1) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तिमाम्नायते - ऽतद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. 5.5.2) इत्यादि ।
तत्र संशयः -ऽ किं द्वे एते सत्यविद्ये किंवैकैवेति ।
द्वे इति तावत्प्राप्तम् ।
भेदेन हि फलसंयोगो भवति जयतीमांल्लोकान्ऽ (बृ. 5.4.12) इति पुरस्तात् ।
हन्ति पाप्मानं जहाति च (बृ. 5.5.3,4) इत्युपरिष्चात् ।
प्रकृताकर्षणं तूपास्यैकत्वादिति ।
एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति ।
कुतः - ऽतद्यत्तत्सत्यम्ऽ (बृ. 5.5.2) इति प्रकृताकर्षणात् ।
ननु विद्याभेदे ऽपि प्रकृताकर्षणमुपास्यैकत्वादुपपद्यत इत्युक्तम् ।
नैतदेवम् ।
यत्र तु विस्पष्टात्कारणान्तराद्विद्याभेदः प्रतीयते तत्रैतदेवं स्यात् ।
अत्र तूक्षया संभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्दमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चयः ।
यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति ।
अत्रोच्यते - तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः ।
अपिचार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु श्रूयमाणानि बहून्यपि फलान्यवयविन्यामेव विद्यायामुपसंहर्तव्यानि भवन्ति ।
तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषणोपेताम्नातेत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्याः ।
केचित्पुनरस्मिन्सूत्र इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यं, छान्दोग्ये च - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा. 1.6.6) ऽअथ य एषो ऽक्षिणि पुरुषो दृश्यतेऽ (छा. 4.15.1) इत्युदाह-त्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादीन्गुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते ।
तन्न साधु लक्ष्यते ।
छान्दोग्ये हि ज्योतिष्टोमकर्मसमबन्धिनीयमुद्गीथव्यपाश्रया विद्या विज्ञायते तत्र ह्यदिमध्यावसानेषु हि कर्मसंबन्धचिह्नानि भवन्ति ऽइयमेवर्गग्निः सामऽ (छा. 1.6.1) इत्युपक्रमे, ऽतस्यर्क्क साम च गेष्णौ तस्मादुद्गीथःऽ (छा. 1.6.8) इति मध्ये, ऽय एवं विद्वान्साम गायतिऽ (छा. 1.7.9) इत्युपसंहारे ।
नैवं वाजसनेयके किञ्चित्कर्मसंबन्धि चिह्नमस्ति ।
तत्र प्रक्रमभेदाद्विद्याभेदे सति गुण्यवस्थैव युक्तेति ॥ 38 ॥
fन्: गेष्णौ गायकौ ।
तस्मादृक्सामगेष्णत्वात् ।
25 कामाद्यधिकाराधिकरमम् । सू. 39
कामादीतरत्र तत्र चायतनादिभ्यः
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः (छा. 8.1.1) इति प्रस्तुत्य छन्दोगा अधीयते ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ (छा. 8.1.5) इत्यादि ।
तथा वाजसनेयिनः - स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु य एषो ऽन्तर्हदय आकाशस्तस्मिञ्छेते सर्वस्य वशी (बृ. 4.4.22) इत्यादि ।
तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये विद्यैकत्वमिति ।
तत्रेदमुच्यते - कामादीति ।
सत्यकामादित्यर्थः ।
यथा देवदत्तो दत्तः सत्यभामा भामेति ।
यदेतच्चान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुलभ्यते तदितरत्र वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र छान्दोग्ये एष आत्मापहतपाप्मा (छा. 8.1.5) इत्यत्र संबध्यते ।
कुतः - आयतनादिसामान्यात् ।
समानं ह्युभयमत्रापि हृदयमातनं समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनमित्येवमादि बहु सामान्यं दृश्यते ।
ननु विशेषो ।
ञपि दृश्यते छान्दोग्ये हृदयाकाशस्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रह्मण इति ।
न ।
ऽदहर उत्तरेभ्यःऽ (ब्र.सू. 1.3.14) इत्यत्र छान्दोग्ये ऽप्याकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् ।
अयं त्वत्र विद्यते विशेषः ।
सगुणा हि ब्रह्मविद्या छान्दोग्य उपदिश्यते ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ (छा. 8.1.6) इत्यात्मवत्कामानमपि वेद्यत्वश्रवणात् ।
वाजसनेयके तु निर्गुणमेव परं ब्रह्मोपदिश्यमानं दृश्यते ऽअत ऊर्ध्वं विमोक्षाय ब्रूहिऽ (बृ. 4.3.14) असङ्गो ह्ययं पुरुषः (बृ. 4.3.15) इत्यादिप्रश्नप्रतिवचनसमन्वयात् ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते ।
तथाचोपरिष्टात् ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.26) इत्यादिना निर्गुणमेव ब्रह्मोपसंहरति ।
गुणवतस्तु ब्रह्मण एकत्वाद्विभूतिप्रदर्शनायायं गुणोपसंहारः सूत्रितो नोपासनायेति द्रष्टव्यम् ॥ 39 ॥
26 आदराधिकरणम् । सू. 40-41
आदरादलोपः
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणस्य स्वाहाऽ (छा. 5.19.1) इत्यादि ।
तत्र पञ्च प्राणाहुतयो विहिताः ।
तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ऽय एतदेवं विद्वानग्निहोत्रं जुहोतिऽ (छा. 5.24.2) इति ऽयथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽ (छा. 5.24.5) इति च ।
तत्रेदं विचार्यते - किं भोजनलोपे लोपः प्राणाग्निहोत्रस्योतालोप इतै ।
तद्यद्भवति भक्तागमनसंयोगश्रवणाद्भक्तागमनस्य च बोजनार्थत्वाद्भोजनलोपे लोपः प्राणाग्निहोत्रस्येति ।
एवं प्राप्ते न लुप्येतेति तावदाह ।
कस्मात् ।
आदरात् ।
तथाहि वैश्वारविद्यायामेव जाबालानां श्रुतिः - ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात् ।
यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्ऽ इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्र आदरं करोति ।
या हि न प्राथम्यलोपं सहते नेतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रथितः ।
न ।
तस्य द्रव्यविशेषविधानार्थत्वात् ।
प्राकृते ह्यग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वादिहाप्यग्निहोत्रशब्दात्कौण्डपायिनामयनवत्तद्धर्मप्राप्तौ सत्यां भक्तद्रव्यैकतागुणविशेषविधानार्थमिदं वाक्यं तद्यद्भक्तमिति ।
अतो गुणलोपे न मुख्यस्येत्यें प्राप्तम् ।
भोजनलोपे ऽप्यद्भिर्वान्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ 40 ॥
अत उत्तरं पठति -
उपस्थिते ऽतस्तद्वचनात्
उपस्थिते भोजने ऽतस्तस्मादेव भोजनद्रव्यात्प्रथमोपनिपतितात्प्राणाग्निहोत्रं निर्वर्तयितव्यम् ।
कस्मात् ।
तद्वचनात् ।
तथाहि - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा. 5.19.1) इति ।
सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति ।
ता अप्रयोजकलक्षणापन्नाः सत्यः कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः ।
नचात्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति ।
कुण्डपायिनामयने हि मासाग्निहोत्रं जुहोतीति विध्युद्देशगतो ऽग्निहोत्रशब्दस्तद्वद्भावं विदापयेदिति युक्ता तद्धर्मप्राप्तिः ।
इह पुनरर्तवादगतो ऽग्निहोत्रशब्दो न तद्वद्भावं विधापयितुमर्हति ।
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामग्न्युद्धरणादयोष-पि प्राप्येरन् ।
नचास्ति संभवः ।
अग्न्युद्धरणं तावद्धोमाधिकरमभावाय ।
नचायमग्नौ होमो भोजनार्थताव्याघातप्रसङ्गात् ।
भोजनोपनीतद्रव्यसंबन्धाच्चास्य एवैष होमः ।
तथाच जाबालश्रुतिः पूर्वो ऽतिथिभ्यो ऽश्नीयादित्यास्याधारामेवेमां होमनिर्वत्तिं दर्शयति ।
अत एव चेहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति - ऽउर एव वेदिर्लोमानि बहुर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमाहवनीयःऽ (छा. 5.18.2) इति ।
वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या ।
मुख्याग्निहोत्रे वेद्याभावात् ।
तदङ्गानां चेह संपिपादयिषितत्वात् ।
भोजनेनैव च कृतकालेन संयोगान्नाग्निहोत्रकालावरोधसंभवः ।
एवमन्ये ऽप्युपस्थानादयो धर्माः केचित्कथञ्चिद्विरुध्यन्ते ।
तस्माद्भोजनपक्ष एवैते मन्त्रद्रव्यदेवतासंयोगात्पञ्च होमा निर्वर्तयितव्याः ।
यत्त्वादरदर्शनवचनं तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
नह्यस्ति वचनस्यातिभारः ।
न त्वनेनास्य नित्यता शक्यते दर्शयितुम् ।
तस्माद्भोजनलोप एव प्राणाग्निहोत्रस्येति ॥ 41 ॥
27 तन्निर्धारणाधिकरणम् । सू. 42
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि - ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्येवमादीनि ।
किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवदुतानित्यानि गोदोहनादिवदिति विचारयामः ।
किं तावत्प्राप्तं - नित्यानीति ।
कुतः - प्रयोगवचनपरिग्रहात् ।
अनारभ्याधीतान्यपि ह्येतान्युद्गीथादिद्वारेण क्रतुसंबन्धात्क्रतुप्रयोगवचनेनैवाङ्गान्तरवत्संस्पृश्यन्ते ।
यत्त्वेषां स्ववाक्येषु फलश्रवणम् ऽआपयिता ह वैकामानां भवतिऽ (छा. 1.1.7) इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेवापापश्लोकश्रवणादिवन्न फलप्रदानम् ।
तस्माद्यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति इत्येवमादीनामप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात्प्रकरणपठितवन्नित्यतैवमुद्गीथाद्युपासनानामपीति ।
एवं प्राप्ते ब्रूमः - तन्निर्धारणनियम इति ।
यान्येतान्युद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतम आप्तिः समृद्धिर्मुख्यप्राण आदित्य इत्येवमादीनि नैतानि नित्यवत्कर्मसु नियम्येरन् ।
कुतः - तद्दृष्टेः ।
तथाह्यनियतत्वमेवञ्जातीयकानां दर्शयति श्रुतिः - ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. 1.110) इत्यविदुषो ऽपि क्रियाभ्यनुज्ञानात् ।
प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्सनात् ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसिऽ (छा. 1.10.9) ऽतां चेदविद्वानुद्गास्यसिऽ (छा. 1.10.10) ऽतां चेदविद्वान्प्रतिहरिष्यसिऽ (छा. 1.10.11) इति च ।
अपि चैवञ्जातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलमुपलभ्यते कर्मफलसिद्धिद्द्यप्रतिबन्धस्तत्समृद्धिरतिशयविशेषः कश्चित् ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति ।
तत्र नाना त्विति विद्वदविद्वत्प्रयोगयोः पृथक्करणाद्वीयर्वत्तरमिति च तरप्प्रत्ययप्रयोगाद्विद्याविहीनमपि कर्मविर्यवदिति गम्यते ।
तच्चानित्यत्वे विद्याया उपपद्यते ।
नित्यत्वे तु कथं तद्विहीनं कर्मविर्यवदित्यनुज्ञायेत ।
सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः ।
तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते ऽकल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चऽ (छा. 2.2.3) इत्येवमादीनि, नचेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ।
तथाहि गुणवाद आपद्येत ।
फलोपदेशे तु मुख्यवादोपपत्तिः ।
प्रयाजादिषु त्वितिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात्तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् ।
तथानारभ्याधीतेष्वपि पर्णमयीत्वादिषु ।
नहि पर्णमयीत्वादीनामक्रियात्मकानामाश्रयमन्तरेण फलसंबन्धो ऽवकल्पते ।
गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः ।
तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः ।
नतु पर्णमयीत्वादिष्वेवंविधः कश्चिदाश्रयः प्रकृतो ऽस्ति ।
वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फले ऽपि विधिं विवक्षतो वाक्यभेदः स्यात् ।
उपासनानां तु क्रियात्मत्वाद्विशिष्टविधानोपपत्तेरुद्गीथाद्याश्रयाणां फले विदानं न विरुध्यते ।
तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यान्येवमुद्गीथाद्युपासनान्यपीति द्रष्टव्यम् ।
अत एव च कल्पसूत्रकारा नैवञ्जातीयकान्युपासनानि क्रतुषु कल्पयाञ्चक्रुः ॥ 42 ॥
28 प्रदानाधिकरणम् । सू. 43
प्रदानवदेव तदुक्तम्
वाजसनेयके - ऽवदिष्याम्येवाहमीति वाग्दध्रेऽ (बृ. 1.5.21) इत्यत्राध्यात्मं वागादीनां श्रेष्ठो ऽवधारितो ऽधिदैवतमग्न्यादीनां वायुः तथा छान्दोग्ये - ऽवायुर्वाव संवर्गःऽ (छा. 4.3.1) इत्यत्राधिदैवतमग्न्यादीनां वायुः सर्ङ्गो ऽवधारितः ऽप्राणो वाव संवर्गःऽ (छा. 4.3.2) इत्यत्राध्यात्मं वागादीनां प्राणः ।
तत्र संशयः - किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्यातामपृथग्वेति ।
अपृथगेवेति तावत्प्राप्तं तत्त्वभेदात् ।
नह्यभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् ।
दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ. 2.4) इत्यारभ्य ।
तथा ऽत एते सर्व एव समाः सर्वो ऽनन्ताःऽ (बृ. 1.5.13) इत्याध्यात्मिकानां प्रामानामाधिदैविकीं विबूतिमात्मभूतां दर्शयति ।
तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवतं च बहुधा तत्त्वभेददर्शनं भवति ।
क्वचिच्च ऽयः प्राणः स वायुः इति स्पष्टमेव वायुं प्राणं चैकं करोति ।
तथोदाहृते ऽपि वाजसनेयिब्राह्मणे यतश्चेदेति सूर्यः (बृ. 1.5.23) इत्यस्मिन्नुपसंहारश्लोके ऽप्राणाद्वा एष उदेति प्राणे ऽस्तमेतिऽ (बृ. 1.5.23) इति प्राणेनैवोपसंहरन्नेत्वं दर्शयति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापायान्याच्चऽ (बृ. 1.5.23) इति च प्राणव्रतेनैकेनोपसंहरेन्नेतदेव द्रढयति ।
तथा छान्दोग्ये ऽपि परस्तात् ऽमहात्मनश्चतुरो देव एकः कः स जागर भुवनस्य गोपाःऽ (छा. 4.3.6) इत्येकमेव संवर्गं गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गो ऽपरो ऽपरेषामिति ।
तस्मादपृथक्त्वमुपगमनस्येति ।
एवं प्राप्ते ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति ।
कस्मात् ।
पृथगुपदेशात् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेशः सो ऽसत्याध्यानपृथक्त्वे ऽनर्थक एव स्यात् ।
ननूक्तं न पृथगनुचिन्तनं तत्त्वाभेदादिति ।
नैष दोषः ।
तत्त्वाभेदे ऽप्यवस्थाभेदादुपदेशभेदवशेनानुचिन्तनभेदोपपत्तेः ।
श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ।
ऽस यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुःऽ (बृ. 1.5.22) इति चोपमानोपमेयकरणात् ।
एतेन व्रतोपदेशो व्याख्यातः ।
ऽएकमेव व्रतम्ऽ (बृ. 1.5.23) इति चैवकारो वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः ।
भग्नव्रतानि हि वागादीन्युक्तानि ऽतानि मृत्युः श्रमो भूत्वोपयेमेऽ (बृ. 1.5.21) इति श्रुतेः ।
ऽन वायुव्रतनिवृत्त्यर्थः अथातो व्रतमीमांसाऽ (बृ. 1.5.21) इति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् ।
ऽएकमेव व्रतं चरेत्ऽ (बृ. 1.5.23) इति चेक्त्वा ऽतेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ. 1.5.23) इति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति ।
द्वतेत्यत्र वायुः स्यादपरिच्चिन्नात्मकत्वस्य प्रेप्सितत्वात् ।
पुरस्तात्प्रयोगाच्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. 1.5.22) इति ।
तथा ऽतौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषुऽ (छा. 4.3.4) इति भेदेन व्यपदिशति ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ (छा. 4.3.8) इति च भेदेनैवोपसंहरति ।
तस्मात्पृथगेवोपगमनम् ।
प्रदानवत् ।
यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयन्नवद्यत्यछंबट्कारमिति ।
अतो वचनादिन्द्राभेदाच्च सहप्रदानाशङ्कायां राजादिगुणभेदाद्याज्यानुवाक्यव्यत्यासविधानाच्च यथान्यसमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
एवं तत्त्वाभेदे ऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वमित्यर्थः ।
तदुक्तं संकर्षे ऽनाना वा देवता पृथग्ज्ञानात्ऽ इति ।
तत्र तु द्रव्यदेवताभेदाद्यागभेदो विद्यते नैवमिह विद्याभेदो ऽस्ति ।
उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः ।
विद्यैकस्थे ऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति अग्निहोत्र इव सायंप्रातःकालभेदात् ।
इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ 43 ॥
29 लिङ्गभूयस्त्वाधिकरणम् । सू. 44-52
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि
वाजसनेयिनो ऽग्निरहस्ये - ऽनैव इदमग्रे सदासीत्ऽ इत्येतस्मिन्ब्राह्मणे मनो ऽधिकृत्याधीयते ऽतत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयामनश्चितःऽ इत्यादि ।
तथैव ऽवाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितो ऽग्निचितःऽ इति पृथगगमनीनामनन्ति सांपादिकान् ।
तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति ।
तत्र प्रकरणाक्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभयस्त्वादिति ।
भूयांसि हिलिङ्गान्यस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इति, ऽतान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति चैवञ्जातीयकानि ।
तद्धि लिङ्गं प्रकरणाद्बलीयः ।
तदप्युक्तं पूर्वस्मिन्काण्डे - ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै.सू. 3.3.13) इति ॥ 44 ॥
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्
नैतदुक्तं स्वतन्त्रा एते ऽग्नयो ऽनन्यशेषभूता इति ।
पूर्वस्य क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेशः स्यान्न स्वतन्त्रः ।
ननु प्रकरणाल्लिङ्गं बलीयः ।
सत्यमेतत् ।
लिङ्गमपि त्वेवञ्जातीयकं न प्रकरणाद्बलीयो भवति ।
अन्यार्थदर्शनं ह्येतत् ।
सांपादिकाग्निप्रशंसारूपत्वात् ।
अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।
तस्मातसांपादिका अप्येते ऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः ।
मानसवत् ।
यथा दशरात्रस्य दसणे ऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गुह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येवाम्नायन्ते ।
स च मानसो ऽपि ग्रहकल्पः क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थः ॥ 45 ॥
fन्: अविवाक्यमिति दशमस्याह्नो नामधेयम् ।
अतिदेशाच् च
अतिदेशश्चैषामग्नीनाङ्क्रियानुप्रवेशमुपोद्बलयति - ऽषट्त्रिंशत्सहसस्राण्यग्नयोर्ऽकास्तेषामेकैक एव तावन्यावानसौ पूर्वःऽ इति ।
सति हि सामान्ये ऽतिदेशः प्रवर्तते ।
ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाग्निना संपादिकानग्नीनतिदिशन्क्रियानुप्रवेशमेवैषां द्योतयति ॥ 46 ॥
विद्यैव तु निर्धारणात्
तुशब्दः पक्षं व्यावर्तयति ।
विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयो ऽग्नयः स्युर्न क्रियाशेषभूताः ।
तथाहि निर्धारयति - ऽते हैते विद्याचित एवऽ इति ।
विद्यया हैवैत एवंविदश्चिता भवन्ति इति च ॥ 47 ॥
दर्शनाच् च
दृश्यते चैषां स्वातन्त्र्ये लिङ्गम् ।
तत्पुरस्ताद्दर्शितम् लिङ्गभूयस्त्वात् (ब्र. सू. 3.3.44) इत्यत्र ॥ 48 ॥
ननु लिङ्गमप्यसत्यांमन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति -
श्रुत्यादिबलीयस्त्वाच् च न बाधः
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्रयपक्षो बाधितव्यः ।
श्रुत्यादेर्बलीयस्त्वात् ।
बलीयांसि हि प्रकरणाच्छ्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।
तानि चेह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते ।
कथम् ।
श्रुतिस्तावत् ऽते हैते विद्याचित एवऽ इति ।
तथा लिङ्म् ऽसर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति ।
तथा वाक्यमपि ऽविद्यया हैवैत एवंविदाश्रिताभवन्तिऽ इति ।
ऽविद्याचित एवऽ इति हि सावधारणेयं श्रुतिः क्रियानुप्रवेशे ऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।
नन्वबाह्यसाधनत्वाभिप्रायमिदवधारणं भविष्यति ।
नेत्युच्यते ।
तदभिप्रायतायां हिविद्योचित इतीयता स्वरूपसमकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् ।
स्वरूपमेव ह्येषामबाह्यसाधनमिति ।
अबाह्यसाधनत्वे ऽपि तु मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणर्थवद्भविष्यति ।
तथा ऽस्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतान्येतानग्निंश्चिन्वन्तिऽ इति सातत्यदर्शनमेषां स्वातन्त्र्ये ऽवकल्पते ।
यथा सांपादिके वाक्यप्राणमये ऽग्निहोत्रे ऽप्राणं तदा वाचि जुहोति - वाचं तदा प्राणे जुहोतिऽ (कौ. 2.5) इति चोक्त्वोच्यते - ऽएते अनन्ते आहुती जाग्रच्च स्वपंश्च सततं - जुहोतिऽ (कौषी. 2.5) इति ।
तद्वत् ।
क्रियानुप्रवेशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येषां प्रयोगः कल्पेत ।
नचेदमर्थवादमात्रमिति न्याय्यम् ।
यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ।
इह हि विस्पष्टोविध्यन्तरानुपलब्धेः संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् ।
तच्च यथासंकीर्तनमेव कल्पयितुं शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते ।
ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः ।
एतेन तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इत्यादि व्याख्यातम् ।
तथा वाक्यमपि एवंविदे इति पुरुषविशेषसंबन्धमेवैषामाचक्षणं न क्रतुसंबन्धं मृष्यते ।
तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ 49 ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् ।
यत्क्रियावयवान्मन-आदिव्यापारेष्वनुबध्नाति ऽते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियतेऽ इत्यादिना ।
संपत्फलो ह्ययमनुबन्धः ।
नच प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः ।
नचात्रोद्गीथाद्युपासनवत्क्रियाङ्गसंबन्धात्तदनुप्रवेशित्वमाशङ्कितव्यं श्रुतिवैरूप्यात् ।
नह्यत्र क्रियाङ्गं किञ्चिदादाय तस्मिन्नदो नामाध्यवसितव्यमिति वदति ।
षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयादिवत् ।
संख्या चेयं पुरुषायुषस्याहःसु दृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् ।
एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् ।
आदिशब्दादतिदेशाद्यपि यथासंभवं योजयितव्यम् ।
तथाहि - ऽतेषामेकैक एव तावान्यानानसौ पूर्वःऽ इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्यातिदिशन्किरियायामनादरं दर्शयति ।
नच सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् ।
नहि येन व्यापारेणाहनीयधारणादिना पूर्वः क्रियायामुपकरोति तेनोत्तर उपकर्तुं शक्नुवन्ति ।
यत्तु पूर्वपक्षे ऽप्यतिदेश उपोद्बलक इत्युक्तं सति हि सामान्ये ऽतिदेशः प्रवर्तत इति तदस्मात्पक्षे ऽग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् ।
अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति ।
श्रुत्यादीनि च कारणानि दर्शितानि ।
एवमनुबन्धादिभ्यः कारणेभ्यः स्वतान्त्र्यं मनश्चिदादीनाम ।
प्रज्ञान्तरपृथक्त्ववत् ।
यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेनानुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्त्येवमिति ।
दृष्टश्चावेष्टे राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षो वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य ।
तदुक्तं प्रथमे काण्डे - ऽक्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्ऽ (जै.सू. 11.4.7) इति ॥ 50 ॥
fन्: अवेष्टिरेतन्नाम्नी इष्टिः ।
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः
यदुक्तं मानसावदिति तत्प्रत्युच्यते ।
न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् ।
पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः ।
नहि किञ्चित्कस्यचित्केनचित्सामान्यं न संभवति ।
नच तावता यथात्वं वैषम्यं निवर्तते ।
मृत्युवत् ।
यथा ऽस वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषःऽ इति ऽअग्निर्वै मृत्युःऽ (बृ. 3.2.10) इति चाग्न्यादित्यपुरुषयोः समाने ऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः ।
यथा च ऽअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्ऽ (छा. 5.4.1) इत्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत् ॥ 51 ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः
परस्तादपि ऽअयं वाव लोक एषो ऽग्निश्चित्तःऽ इत्यस्मिन्ननन्तरे ब्राह्मणे तावद्वध्यं केवलविद्याविधित्वं शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् ।
तत्र हि -ऽ विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षीणा यन्ति नाविद्वांसस्तपस्विनःऽ इत्यनेन श्लोकेन केवलं कर्मनिन्दन्विध्यां च प्रशंसन्निदं गमयति ।
तथा पुरस्तादपि यदेतन्मण्डलं तपति इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते सो ऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति इति विद्याफलेनैवोपसंहारान्न कर्मप्रधानता तत्सामान्यादिहापि तथात्वम् ।
भूयांसस्त्वग्न्यवयवाः संपादयितव्या विद्यायामित्येतस्मात्कारणादग्निनानुबध्यते विद्या न कर्माङ्गत्वात् ।
तस्मान्मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ 52 ॥
30 ऐकात्म्याधिकरणम् । सू. 53-54
एक आत्मनः शरीरे भावात्
इह देहव्यतिरिक्तस्यात्मनः सद्भावः समर्थ्यते बन्धमोक्षाधिकारसिदमधयो ।
नह्यसति देहव्यतिरिक्तात्मनि परलोकाश्चोदना उपपजद्येरन्कस्य वा ब्रह्मात्मत्वमुपदिश्येत ।
ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोग्यस्य देहाव्यतिरिक्तस्यात्मनो ऽस्तित्वमुक्तम् ।
सत्यमुक्तं भाष्यकृचा नतु तत्रात्मास्तित्वे सूत्रमस्ति ।
इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् ।
इत एव चाकृष्याचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् ।
अत एव च भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्यमाः इत्युद्धारः कृतः ।
इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय ।
अपिच पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितं को ऽसौ पुरुषो यदर्था एते मनश्चिदादय इत्यस्यां प्रसक्ताविदं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वमुच्यते ।
तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् ।
आक्षेपपूर्विका हि परिहारोक्तिर्विवक्षितेर्ऽथे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयति ।
अत्रैके देहमात्रात्मदर्शिनो लोकायतिका देहव्यतिरिक्तस्यात्मनो ऽभावं मन्यमानाः समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति संभावयन्तस्तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानं चैतन्यविशिष्टः कायः पुरुष इति चाहुः ।
न स्वर्गगमनायापवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मास्ति ।
हेतुं चाचक्षतशरीरे भावादिति ।
यद्धि यस्मिन्सति भवत्यसति च न भवति तत्तद्धर्मत्वेनाध्यवसीते यथाग्निधर्मावौष्ण्यप्रकाशौ ।
प्राणचेष्टाचैतन्यस्मृत्याश्चात्मधर्मत्वेनाभिमता आत्मवादिनां ते ऽप्यन्तरेव देह उपलभ्यमाना बहिश्चानुपलभ्यमाना असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति ।
तस्मादव्यतिरिक्तो देहादात्मन इति ॥ 53 ॥
fन्: उद्धारः उपरमः ।
एवं प्राप्ते ब्रूमः -
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत्
नत्वेदमस्ति यदुक्तमव्यतिरेको देहादात्मन इति ।
व्यतिरेक एवास्य देहाद्भवितुमर्हति तद्भावाभ्वित्वात् ।
यदि देहभावे भावाद्देहधर्मत्वमात्मधर्माणां मन्येत ततो देहभावे ऽप्यभावादतद्धर्मत्वमेवैषां किं न मन्येत ।
देहधर्मवैलक्षण्यात् ।
येहि देहधर्मा रूपादयस्ते यावद्देहं भवति ।
प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न बवन्ति ।
देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते नत्वात्मधर्माश्चैतन्यस्मृत्यादयः ।
अपिच सति हि तावद्देहे जीवदवस्थायामेषां भावः शक्यते निश्चेतुं नत्वसत्यभावः ।
पतिते ऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेणात्मधर्मा अनुवर्तेरन् ।
संशयमात्रेणापि परपक्षः प्रतिषिध्यते ।
किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छतीति परः पर्यनुयोक्तव्यः ।
नहि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित्तत्त्वं प्रत्येति ।
यदनुभवनं भूतभौतिकानां तच्चैतन्यमिति चेत् ।
तर्हि विषयत्वात्तेषां न तद्धर्मत्वमश्नुवीत स्वात्मनि क्रियाविरोधात् ।
नह्यग्निरुष्णः सन्स्वात्मानं दहति ।
नहि नटः शिक्षितः सन्स्वस्कन्धमधिरोक्ष्यति ।
नहि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् ।
नहि रूपादिभिः स्वरूपं पररूपं वाविषयीक्रियते ।
विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन ।
अतश्च यथैवास्या भूतभौतिकविषयाया उपलब्धेर्भावो ऽभ्युपगन्तव्यः ।
उपलब्धिस्वरूप एव च न आत्मेत्यात्मनो देहव्यतिरिक्तत्वम् ।
नित्यत्वं चोपलब्धेरैकरूप्यात् ।
अहमिदमद्राक्षमिति चावस्थान्तरयोगे ऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् ।
स्मृत्याद्युपपत्तेश्च ।
यत्तूक्तं शरीरे भावाच्छरीरधर्म उपलब्दैरिति तद्वर्णितेन प्रकारेण प्रत्युक्तम् ।
अपिच सत्सुप्रदीपादिषूपकरणेषूपलब्धिर्भवत्यसत्सु न भवति ।
नचैतावता प्रदीपादिधर्म एवोपलब्धिर्भवति ।
एवं सति देह उपलब्धिर्भवत्यसति च न भवतीति न देहधर्मौ भवितुमर्हति ।
उपकरणत्वमात्रेणापि प्रदीपादिवद्देहोपयोगोपपत्तेः ।
नचात्यन्तं देहस्योपलब्धावुपयोगो ऽपि दृश्यते निश्चेष्टे ऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् ।
तस्मादनवद्यं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वम् ॥ 54 ॥
31 अङ्गावबद्धाधिकरणम् । सू. 55-56
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्
समाप्ता प्रासङ्गिकी कथा, संप्रति तु प्रकृतामेवानुवर्तामहे - ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा.
1.1.1) ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. 2.1.1), ऽउक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम्ऽ, ऽइयमेव पृथिवीऽ, ऽअयं वाव लोक एषो ऽग्निश्चितःऽ इत्येवमाद्या य उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहितास्ते तत्तच्छाखागतेष्वेवोद्गीथादिषु भवेयुरथवा सर्वशाखागतेष्विति विशयः ।
प्रतिशाखं न स्वरादिबेदादुद्गीथादिषु विधीयेरन्निति ।
कुतः - संनिधानात् ।
ऽउद्गीथमुपासीतऽ (छा. 1.1.1) इति हि सामान्यविहितानां विश्षाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन विशेषणाकाङ्क्षादिनिवृत्तेः ।
तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति ।
तस्मात्प्रतिशाखं व्यवस्थेति ।
एवं प्राप्ते ब्रवीत्यङ्गावबद्धास्त्विति ।
तुशब्दः पक्षं व्यवर्तयति ।
नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् ।
अपितु सर्वशाखास्वनुवर्तेरन् ।
कुतः - उद्गीथादिश्रुत्यविशेषात् ।
स्वशाखाव्यवस्थायां ह्युद्गीथमुपासीतेति साम्न्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् ।
नचैतन्न्याय्यम् ।
संनिधानात्तु श्रुतिर्बलीयसी ।
नच सामान्याश्रयः प्रत्ययो नोपपद्यते ।
तस्मात्स्वरादिभेदे सत्यप्युद्गीथत्वाद्यविशेषात्सर्वशाखागतेष्वेवोद्गीथादिष्वेवञ्जातीयकाः प्रत्ययाः स्युः ॥ 55 ॥
मन्त्रादिवद्वाविरोधः
अथवा नैवात्र विरोधः शङ्कितव्यः ।
कथमन्यशाखागतेषूद्गीथादिष्वन्यशाखाविहिता प्रत्यया भवेयुरिति ।
मन्त्रादिवविरोधोपपत्तेः ।
तथाहि मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तर उपसंग्रहो दृश्यते ।
येषामपि हि शाखिनां कुटरुरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटो ऽसीत्यश्मादानमादत्ते कुदरुरसीति वेति ।
येषामपि समिदादयः प्रयाजडा नाम्नातस्तेषामपि तेषु गुणविधिराम्नायते - ऋतवो वै प्रयाजाः समानत्र होतव्याः इति ।
तथा येषामपि अजो ऽग्नीषोमीयः इति जातिविशेषोपदेशो नास्ति तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते - छागस्य वपाया मेदसो ऽनुर्ब्रूहि इति ।
तथा वेदान्तरोत्पन्नानामपि ऽअग्नेर्वेर्हेत्रं वेरध्वरम्ऽ इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः ।
तथाबह्वृचपठितस्य सूक्तस्य यो जात एव प्रथमो मनस्वान् (ऋ.सं 2.6.7) इत्यस्य अध्वर्यवे सजनीयं शस्यम् इत्यत्र परिग्रहो दृष्टः ।
तस्माद्यथाश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिरेवमाश्रितानामपि प्रत्ययानामित्यविरोधः ॥ 56 ॥
32 भूमज्यायस्त्वाधिकरणम् । सू. 57
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति
ऽप्राचीनशाल औपमन्यवःऽ (छा. 5.11.1) इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रूयते ।
व्यस्तोपासनं तावत् ऽऔपमन्यव कं त्वमात्मानमुपाःस इति देवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपाःसेऽ (छा. 5.12.1) इत्यादि ।
तथा समस्तोपासनमपि ऽतस्य ह वा एतस्यात्मनो वैश्वानरस्यमूर्धैव सुतेजाश्चक्षुर्विश्वरूप प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौऽ (छा. 5.18.2) इत्यादि ।
तत्र संशयः - किमिहोभयथाप्युपासनं स्याद्व्यस्तस्य समस्तस्य चोत स्मस्तस्यैवेति ।
किं तावत्प्राप्तम् ।
प्रत्यवयवं सुतेजःप्रभृतिषूपाःस इति क्रियापदश्रवणात् ऽतस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यतेऽ (छा. 5.12.1) इत्यादिफलभेदश्रवणाच्च व्यस्तान्यप्युपासनानि स्युरिति प्राप्तम् ।
ततो ऽबिधीयते - भून्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यमस्मिन्वाक्ये विवक्षितं भवितुमर्हति न प्रत्येकमवयवोपासनानामपि ।
क्रतुवत् ।
यथा क्रतुषु दर्शपूर्णमासाप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एवैकोविवक्ष्यते न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् ।
नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य तद्वत् ।
कुत एतद्भूमैव ज्यायानिति ।
तथाहि श्रुतिर्भूम्नो ज्यायस्त्वं दर्शयति एकवाक्यतावगमात् ।
एकं हीदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते ।
तथाहि - प्राचीनशालप्रभृतय उद्दालकावसानाः षडृषयो वैश्वानरविद्यायां परिनिष्ठमप्रतिपद्यमाना अश्वपतिं कैकेयं राजानमभ्याजग्मुरित्युपक्रम्यैकैकस्यर्षेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा ऽमूर्धा त्वेष आत्मन इति होवाचऽ (छा. 5.12.2) इत्यादिना मूर्धादिभावं तेषां विदधाति ।
ऽमूर्धा तेव्यपतिष्यद्यन्मां नागमिष्यःऽ (छा. 5.12.2) इत्यादिना च व्यस्तोपासनमपवदति ।
पुनश्च व्यस्तोपासनं व्यावर्त्य समस्तोपासनमेवानुवर्त्य ऽस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिऽ (छा. 5.18.1) इति भूमाश्रयमेव फलं दर्शयति ।
यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणं तदेवं सत्यङ्गफलानि प्रधान एवाभ्युपगतानीति द्रष्टव्यम् ।
तथोपाःस इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थं न व्यस्तोपासनविधानार्थम् ।
तस्मात्समस्तोपासनपक्ष एव श्रेयानीति ।
केचित्त्वत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारो ऽनुमन्यत इति कथयन्ति तदयुक्तम् ।
एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् ।
ऽमूर्धा ते व्यपतिष्यत्ऽ (छा. 5.12.2) इति चैवमादिनिन्दावचनविरोधात् ।
स्पष्टो चोपासंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् ।
सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणाप्युपपद्यमानत्वात् ॥ 57 ॥
33 शब्दादिभेदाधिकरणम् । सू. 58
नाना शब्दादिभेदात्
पूर्वस्मिन्नधिकरणे सत्यमपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् ।
अतः प्राप्ता बुद्धिरन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्योपाशिष्यन्त इति ।
अपिच नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते ।
वेद्यं हि रूपं विद्याया द्रव्यदैवतमिव यागस्य ।
वेद्यश्चैक एवेस्वरः श्रुतिनानत्वे ऽप्यवगम्यते ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) ऽकं ब्रह्म खं ब्रह्मऽ (छा. 4.10.5) ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.1.5) इत्येवमादिषु ।
तथा एक एव प्राणः प्राणो वाव संवर्गःऽ (छा. 4.3.3) ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. 5.1.1) ऽप्राणो ह पिता प्राणो माताऽ (छा. 7.15.1) इत्येवमादिषु ।
वैद्यैकत्वाच्चविद्यैकत्वम् ।
श्रुतिनानात्वमप्यस्मिन्पक्षे गुणान्तरपरत्वान्नानार्थकम् ।
तस्मात्स्वपरशाखाविहितमेकद्यव्यपाश्रयं गुणजातंमुपसंहर्तव्यं विद्याकार्त्स्न्यायेति ।
एवं प्राप्ते प्रतिपद्यते नानेति ।
वेद्याभेदे ऽप्येवञ्जातीयकाविद्या भिन्ना भवितुमर्हति ।
कुतः शब्दादिभेदात् ।
भवति हि शब्दभेदः ऽवेदऽ ऽउपासीतऽ ऽस क्रतुं कुर्वतिऽ (छा. 3.14.1) इत्येवमादिः ।
शब्दभेदाश्च कर्मभेदहेतुः समधिगतः पुरस्ताच्छब्दान्तरे कर्मभेदः कृतानुबन्धत्वादिति ।
आदिग्रहणाद्गुणादयो ऽपि यथासंभवं भेदहेतवो योजयितव्याः ।
ननु वेदेत्यादिषु शब्दभेद एवावगम्यते न यजतीत्यादिवदर्थभेदः सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् अर्थान्तरासंभवाच्च ।
तत्कथं शब्दभेदाद्विद्याभेद इति ।
नैष दोषः ।
मनोवृत्त्यर्थत्वाभेदे ऽप्यनुबन्धभेदाद्वेद्यबेदे सति विद्याभेदोपपत्तेः ।
एकस्यापीश्वरस्योपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते ।
तथैकस्यापि प्राणस्य तत्र तत्रोपास्यस्यभेदे ऽप्यन्यादृग्गुणो ऽन्यत्रोपासितव्यो ऽन्यादृग्गुणश्चान्त्रेत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते ।
नचात्रैको विद्याविधिरितरे गुणविधय इति शक्यं वक्तुम् ।
विनियोगमनायां हेत्वभावात् ।
अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः ।
नचास्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः ।
प्रतिप्रकरणं चेदङ्कामेनेदमुपासितव्यमिदङ्कामेन चेदमिति नैराकाङ्क्ष्यावगमान्नैकवाक्यतापत्तिः ।
नचात्र वैश्वानरविद्यायामिव समस्तचोदनापरास्ति यद्बलेन प्रतिप्रकरणवर्तिन्यवयवोपासनानि भूत्वैकवाक्यतामियुः ।
विद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ् कुशे प्रतिज्ञायमाने समस्तगुणोपसंहारो ऽशक्यः प्रतिज्ञायेत ।
तस्मात्सुष्ठूच्यते नाना शब्दादिभेदादिति ।
स्थिते चेतस्मिन्नधिकरणे सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ 58 ॥
34 विकल्पाधिकरमम् । सू. 59
विकल्पो ऽविशिष्टफलत्वात्
स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात्, अथवा विकल्प एव नियमेनेति ।
तत्र स्थितत्वात्तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति ।
ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते ।
नैष दोषः ।
नित्यताश्रुतिर्हि तत्र कारणं नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति ।
तस्मान्न समुच्चयनियमः ।
नापि विकल्पनियमः ।
विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् ।
पारिशेष्याद्याथाकाम्यमापद्यते ।
नन्वविशिष्टफलत्वादासां विकल्पो न्याय्यः ।
तथाहि - मनोमयः प्राणशरीरः (छा. 3.14.2) ऽकं ब्रह्म खं ब्रह्मऽ (छा.4.105) ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8 1.5) इत्येवमाद्यास्तुल्यवदीश्वरप्राप्तिफला लक्ष्यन्ते ।
नैष दोषः ।
समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु यताकाम्यदर्शनात् ।
तस्माद्यथाकाम्यप्राप्तावुच्यते विकल्प एवासां भवितुमर्हति न समुच्चयः ।
कस्मात् ।
अविशिष्टफलत्वात् ।
अविशिष्टं ह्यासां फलमुपास्यविषयसाक्षात्करणम् ।
एकेन चोपासनेन साक्षात्कृ उपास्ये विषय ईश्वरादौ द्वितीयमनर्थकम् ।
अपि चासंभवः ।
साक्षात्करणस्य समुच्चयपक्षे चित्तविक्षेपहेतुत्वात् ।
साक्षात्करणसाद्यं च विद्याफलं दर्शयन्ति श्रुतयः -
ऽयस्य स्यादद्धा न विचिकित्सास्तिऽ (छा. 3.14.4) इति ऽदेवो भूत्वा देवानप्येतिऽ (बृ. 4.1.2) इति चैवमाद्याः ।
तस्मादविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्याद्यावदुपास्यविषयसाक्षात्करमेन तत्फलं प्राप्तमिति ॥ 59 ॥
35 काम्याधिकरणम् । सू. 60
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्
अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम् ।
यासु पुनः काम्यासु विद्यासु ऽस य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितिऽ (छा. 3.15.2) ऽस यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यताकामचारो भवतिऽ (छा. 7.1.5) इति चैवमाद्यासु क्रियावददृष्टेनात्मनात्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति ।
ता यताकामं समुच्चीयेरन्न वा समुच्चीयेरन्पूर्वहेत्वाभावात् ।
पूर्वस्याविशिष्टफलत्वादित्यस्य विकल्पहेतोरभावात् ॥ 60 ॥
36 यथाश्रयभावादिकरणम् । सू. 61-66
अङ्गेषु यथाश्रयभावः
कर्माङ्गेषूद्गीथादिषु य आश्रिताः प्रत्यया वेदत्रयविहिताः किं ते समुच्चीयेरन्किंवा यथाकामं स्युरिति संशये यथाश्रयभाव इत्याह ।
यतैवैषामाश्रयाः स्तोत्रादयः संभूय भवन्त्येवं प्रत्यया अपि आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥ 61 ॥
शिष्टेश् च
यथा वाश्रयाः स्तोत्रादयस्त्रिषु शिष्यन्त एवमाश्रिता अपि प्रत्ययाः ।
नोपदेशकृतो ऽपि कश्चिद्विशेषो ऽङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः ॥ 62 ॥
समाहारात्
होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति (छा. 1.5.5) इति च प्रणवोद्गीथैकत्वाविज्ञानमाहात्म्यादुद्गातास्वकर्मणयुत्पन्नं क्षतं होत्रात्कर्मणः प्रतिसमादधातीति ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात्स्रववेदोदितप्रत्ययोपसंहारसूचयतीति लिङ्गदर्शनम् ॥ 63॥
गुणसाधारण्यश्रुतेश् च
विद्यायां च विद्याश्रयं सन्तमोङ्कारं वेत्रयसाधारणांश्रावयति- ऽतेनेयं त्रयी विद्या वर्तत ओमित्याश्रायत्योमिति शंसत्योमित्युद्गायतिऽ (छा. 1.1.9) इति च ।
ततश्चाश्रयसादारण्यादाश्रितसाधारम्यमिति लिङ्गदर्शनमेव ।
अथवा गुणसाधारण्यश्रुतेश्चेति ।
यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युर्न स्यात्ततस्तदाश्रयाणां प्रत्ययानां सहभावः ।
ते तूद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते ।
तथश्चाश्रयसहभावात्प्रत्ययसहभाव इति ॥ 64 ॥
न वा तत्सहभावाश्रुतेः
न वेति पक्षव्यावर्तनम् ।
न यताश्रयभाव आश्रितानामुपासनानां भवितुमर्हति ।
कुतः - तत्सहभावाश्रुतेः ।
यथा हि त्रिवेदीविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते - ऽग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तोत्रमनुशंसति प्रस्तोतः साम गाय होतरेतद्यजऽ इत्यादिना ।
नैवमुपासनानां सहभावश्रुतिरस्ति ।
ननु प्रयोगवचन एषां सहभावं प्रापयेत् ।
नेति ब्रूमः - पुरुषार्थत्वादुपासनानाम् ।
प्रयोगवचनो हि ऋत्वर्तानामुद्गीथादीनां सहभावं प्रापयेत् ।
उद्गीथाद्युपासनानि ऋत्वर्थाश्रयाण्यपि गोदोहनादिवत्पुरुषार्थनीत्वोचाम ऽपृथग्घ्यप्रतिबन्धः फलम्ऽ (ब्र.सब. 3.3.42) इत्यत्र ।
अयमेव चोपदेशाश्रयो विसेषो ऽङ्गानां तदालम्बनानां चोपासनानां यदेकेषां क्रत्वर्थत्वमेकेषां पुरुषार्थत्वमिति ।
परं च लिङ्गद्वयमकारणमुपासनसहभावस्य श्रुतिन्यायाबावात् ।
नच प्रतिप्रयोगमाश्रयकार्त्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् ।
अतत्प्रत्युक्तत्वादुपासनानाम् ।
आश्रयतन्त्राण्यपि ह्युपासनानि काममाश्रयाभावे मा भूवन्न त्वाश्रयसहभावेन सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव ।
तस्माद्यथाकाममेवोपासनान्यनुष्ठीयेरन् ॥ 65 ॥
दर्शनाच् च
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0