भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र (टीका सहित) · अध्याय 3.1

3.1.1

तुशब्देन चोदितं दोषमपनुदति ।
विशेषस्य भावो वैशेष्यम् ।
भूयस्त्वमिति यावत् ।
सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते ऽअग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वम्ऽ इति ।
व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् ।
व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरो लोकस्य प्रसिद्ध्येत् ।
तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते ।
तद्वादस्तद्वाद इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति ॥ 22 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः ॥ 4 ॥
इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः ॥
अथ तृतीयो ऽध्यायः ।
तृतीये साधनाख्याध्याये प्रथमपादे गत्यागतिचिन्ता-वैराग्यनिरूपणविचारश्च
1 तदनन्तरप्रतिपत्त्यधिकरणम् । सू. 1-7
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्

3.1.2

द्वितीये ऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः ।
परपक्षाणां चानपेक्षत्वं प्रपञ्चितम् ।
श्रुतिविप्रतिषेधश्च परिहृतः ।
तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् ।
अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीये ऽध्याये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः ।
ऽतस्माज्जुगुप्सेत्ऽ इति चान्ते श्रवणात् ।
जीवोमुख्यप्राणसचिवः सेन्द्रियः समनस्को ऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् ।
ऽअथैनमेते प्राणा अभिसमायन्तिऽ इत्येवमादेः ऽअन्यन्नवतरं कल्याणतरं रूपं कुरुतेऽ (बृ. 4.4.1.4) इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् ।
धर्माधर्मफलोपभोगसंभवाच्च ।
स किं देहः बीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते ।
किं तावत्प्राप्तम् ।
असंपरिष्वक्त इति ।
कुतः करणोपादानवद्भूतोपादानस्याश्रुतत्वात् ।
ऽस एतास्तेजोमात्राः समभ्याददानःऽ (बृ. 4.4.1) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति ।
वाक्यशेषे चक्षुरादिसंकीर्तनात् ।
नैवं भूतमात्रोपादानसंकीर्तनमस्ति ।
सुलभाश्च सर्वत्र भूतमात्राः ।
यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् ।
तस्मादसंपरिष्वक्तो यातीति ।
एवं प्राप्ते पठत्याचार्यः - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति ।
तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूतैर्सूक्ष्मैः संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् ।
कुतः - प्रश् ननिरूपणाभ्याम् ।
तथाहि प्रश् नः - ऽवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इति ।
निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतिर्दर्शयित्वा ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.9.1) इति ।
तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते ।
नन्वन्या श्रुतिर्जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ऽतद्यथा तृणजलायुकाऽ (बृ. 4.4.3) इति ।
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकस्योपमीयत इत्यव्रोधः ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मलशाद्वृत्तिलाभस्तत्र भवति ।
केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति ।
इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते ।
मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत ।
जीव एवोत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् ।
इत्येवमाद्याः सर्वा एवानादर्तव्याः श्रुतिविरोधात् ॥ 1 ॥
fन्: दर्शनोपायाः संन्यासादयः ।
प्रसङ्गगतं देहात्मदूषणम् ।
पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निध्यानं पञ्चाग्निविद्या ।
कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः ।
भावनाया दीर्घीभावो भाविदेहविषयत्वम् ।
केवलेति सौगतकल्पनम् ।
मन इति वैशेषिककल्पनम् ।
जीव इति दिगम्बरकल्पनम् ।
लोकायतकल्पनामाद्यग्रहणेन संगृह्यति ।
ननूदाहृताभ्यां प्रश् नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति ।
अपशब्दश्रवणसामर्थ्यात् ।
तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति ।
अत उत्तरं पठति-
त्र्यात्मकत्वात् तु भूयस्त्वात्

3.1.3

तुशब्देन चोदितामाशङ्कमुच्छिनत्ति ।
त्र्यात्मिका ह्यापस्त्रिवृत्करणश्रुतेः ।
तास्वारम्भिकास्वाभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति ।
त्र्यात्मकश्च देहस्त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः ।
पुनश्च त्र्यात्मकस्त्रिधातुत्वात्त्रिभिर्वातपित्तश्लेष्माभिः ।
न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
तस्माद्भूयस्त्वापेक्षो ऽयमापः पुरुषवचस इति ।
प्रश् नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः ।
सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते ।
ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते ।
नैष दोषः ।
इतरापेक्षयाप्यपा बाहुल्यं भविष्यति ।
दृश्यते च शुक्रशोणितलक्षणे ऽपि देहबीजे द्रवबाहुल्यम् ।
कर्म च निमित्तकारणं देहान्तरारम्भे ।
कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि ।
कर्मसमवायिश्चापः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्ये ऽग्नौ हूयन्त इति वक्ष्यति ।
तस्मादप्यपां बाहुल्यप्रसिद्धिः ।
बाहुल्याच्चाप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ 2 ॥
प्राणगतेश् च

3.1.4

प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इत्यादिश्रुतिभिः ।
सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपापमपि भूतान्तरोपसृष्टानां गतिरवगम्यते ।
नहि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात् ॥ 3 ॥
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात्

3.1.5

स्यादेतत् ।
नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः ।
तथाहि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्देवागच्छतीति दर्शयति- ऽयत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणःऽ (बृ. 3.2.13) इत्यादिनेति चेत् ।
न ।
भाक्तत्वात् ।
वागादीनामग्न्यादिगतिश्रुतिर्गौणी केशेषु चादर्शनात् ।
ऽओषधीर्लोमानि वनस्पतीन्केशाःऽ (बृ. 3.2.13) इति हि तत्राम्नायते ।
नहि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति ।
नच जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते ।
नापि प्राणैर्विना देहान्तर उपभोग उपपद्यते ।
विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् ।
अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयो ऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ 4 ॥
fन्: अन्यत्र तमुत्क्रामन्तमित्यादौ ।
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः

3.1.6

स्यादेतत् ।
कथं पुनः ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इत्येतन्निर्धारयितुं पार्यते ।
यावता नैव प्रथमे ऽग्नावपां श्रवणमस्ति ।
इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामादारत्वेनाधीताः ।
तेषां च प्रमुखे ऽअसौ वाव लोको गौतमाग्निःऽ (छा. 5.4.1) इत्युपक्रम्य ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतिऽ (छा. 5.4.2)
इति श्रद्धा हौम्यद्रव्यत्वेनावेदिता ।
न तत्रापो हौम्यद्रव्यतया श्रुताः ।
यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम ।
तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ।
प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति साहसमेतत् ।
श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् ।
तस्मादयुक्तः पञ्चम्याहुतावपां पुरुषभाव इति चेत् ।
नैष दोषः ।
यतस्तत्रापि प्रथमे ऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते ।
कुतः उपपत्तेः ।
एवंह्यादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते ।
इतरथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततो ऽन्यथा प्रश्नो ऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् ।
ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ इति चोपसंहरन्नेतदेव दर्शयति ।
श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते ।
सा च श्रद्धाया अप्त्वे युक्तिः ।
कारणानुरूपं हि कार्यं भवति ।
नच श्रद्धाख्यः प्रत्ययो मनसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोषादातुं शक्यते पश्वादिभ्य इव हृदयादीनित्याप एव श्रद्धाशब्दा भवेयुः ।
श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् ऽश्रद्धा वा आपःऽ इति ।
तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः ।
यथा सिंहपराक्रमो नरः सिंहशब्दो भवति ।
श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु ।
श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः ऽअपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणेऽ इति श्रुतेः ॥ 5 ॥
fन्: संगानं तमुत्क्रामन्तमित्यादौ ।
अनपः अब्द्यो ऽन्यतः ।
अस्मै यजमानाय ।
संनमन्ते जनयन्ति ।
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः

3.1.7

अथापि स्यात्प्रतिवचनाभ्यां नामापः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् ।
नतु तत्संपरिष्वक्ता जीवा रंहेयुः ।
अश्रुतत्वात् ।
नह्यत्रापामिव जीवानां श्रावयिता कश्चिच्छब्दो ऽस्ति ।
तस्माद्रंहति संपरिष्वक्त इत्ययुक्तमिति चेत् ।
नैष दोषः ।
कुतः - इष्टादिकारिणां प्रतीतेः ।
ऽअथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तिऽ (छा. 5.10.6) इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति- ऽआकाशाच्चन्द्रमसमेष सोमो राजाऽ (छा. 5.10.4) इति ।
त एवेहापि प्रतीयन्ते ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ (छा. 5.4.2) इति श्रुतिसामान्यात् ।
तेषां चाग्निहोत्रादर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेवापः सन्ति ।
तां आहवनीये हुताः सूक्ष्मा आहुत्यो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ति ।
तेषां च शरीरं नैधनेन विधानेनान्त्ये ऽग्रावृत्विजो जुह्वति ऽअसौ स्वर्गाय लोकाय स्वाहाऽ इति ।
ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यत्तदत्र जुहोतिनाभिधीयते- ऽश्रद्धां जुह्वतिऽ (बृ. 6.2.9) इति ।
तथाचाग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ऽते वा एते आहुती हुते उत्क्रामतःऽ इत्येवमादिनाग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिः प्रदर्शिता ।
तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ 6 ॥
fन्: नैधनेन अन्त्येष्ट्याख्येन ।
असौ स्वर्गाय गच्छत्विति मन्त्रार्थः ।
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते ।
यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति- ऽएष सोमो राजा तद्देवानामन्नं ते देवा भक्षयन्तिऽ (छा. 5.10.4) इति ऽते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तिऽ (बृ. 6.2.16) इति च समानविषयं श्रुत्यन्तरम् ।
नच व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति ।
अत उत्तरं पठति-
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति

3.1.8

वाशब्दश्चोदितदोषव्यावर्तनार्थः ।
भाक्तमेषामन्नत्वं न मुख्यम् ।
मुख्ये ह्यन्नत्वे स्वर्गकामो यजेत इत्येवञ्जातीयकाधिकारश्रुतिरुपपध्येत ।
चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्युः ।
अन्नशब्दश्चोपभोगहेतुत्वसामान्यादन्ने ऽप्युपचर्यमाणो दृश्यते ।
यथा विशो ऽन्नं राज्ञां पशवो ऽन्नं विशामिति ।
तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदैवेषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा ।
ऽन ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्तिऽ (छा. 3.6.1) इति च देवानां चर्वणादिव्यापारं वारयति ।
तेषां चेष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् ।
अनात्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते ।
तथाहि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति- ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्ऽ (बृ. 1.4.10) इति ।
स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीमन्पशुवद्देवानामुपकरोतीति लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोतीति गम्यते ॥
अनात्मवित्त्वात्तथाहि दर्शयतीत्यस्यापरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिणैष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिनः ।
पञ्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति प्रकरणात् ।
पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै ।
पञ्चाग्निविद्या हीह विधित्सिता ।
वाक्यतात्पर्यावगमात् ।
तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति- ऽस सोमलोके विभूतिमनुभूय पुनरावर्ततेऽ (प्र. 5.4) इति ।
तथान्यदपि श्रुत्यन्तरम् ऽअथ ये शतं पितृणां जितलोलोकानामानन्दाः स एकः कर्मदेवनामानन्दो ये कर्मणा देवत्वमभिसंपद्यतेऽ (बृ. 4.3.33) इतीष्टादिकारिणां देवैः संवसतां भोगप्राप्तिं दर्शयति ।
एवं भाक्तत्वादन्नभाववचनस्येष्टादिकारिणो ऽत्र जीवारंहन्तीति प्रतीयते ।
तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम् ॥ 7 ॥
fन्: अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना ।
यथा पशुर्भोग्य एवमज्ञः न भेदधीमान्देवानां भोग्य इत्यर्थः ।
2 कृतात्ययाधिकरणम् । सू. 8-11
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च

3.1.9

इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- ऽतस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वां पुनर्निवर्तन्ते तथेतम्ऽ (छा. 5.10.5) इत्यारभ्य यावद्रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति ।
तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्माणो ऽवरोहन्त्याहोस्वित्सानुशया इति ।
किं तावत्प्राप्तम् ।
निरनुशया इति ।
कुतः - यावत्संपातमिति विशेषणात् ।
संपातशब्देनात्र कर्माशय उच्यते- संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति ।
यावत्संपातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।
तेषां यदा तत्पर्यवेतिऽ (बृ. 6.2.16) इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते ।
स्यादेतत् ।
यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ् क्त इति कल्पयिष्यामीति ।
नैवं कल्पयितुं शक्यते यत्किञ्चेत्यन्यत्र परामर्शात् ।
प्राप्यन्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे (बृ. 4.4.6) इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति ।
अपिच प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकम् ।
प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ।
तच्चाविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।
नहि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।
न ह्यविशिष्टे प्रदीपसंनिधौ धटो ऽभिव्यज्यते न पट इत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः कृतात्यये ऽनुशयवानिति ।
येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षीयते तेषां यदंमयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कादिव च घृतकाठिन्यम् ।
ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति ।
केन हेतुना ।
दृष्टस्मृतिभ्यामित्याह ।
तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति- ऽतद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ यैह क पूयचरणां अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वाऽ (छा. 5.10.7) इति ।
चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति ।
दृष्टश्चायं जन्मनैव प्रतिपण्युच्चावचरूप उपभोगः प्रविभज्यमान ।
आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमित्वात् ।
स्मृतिरपि ऽवर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिपद्यन्तेऽ इति सानुशयानामेवावरोहं दर्शयति - कः पुनरनुशयो नामेति ।
केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् ।
यथाहि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषो ऽवतिष्ठते तथानुशयो ऽपीति ।
ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ।
नायं दोषः ।
नहि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे ।
ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढः ।
बाढम् ।
तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ।
यथा किल कश्चित्सेवकः सकलैः सेवोपकरणै राजकुलमुपसृपश्चिरप्रवासात्परिक्षीणवहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुले ऽवस्थातुं शक्नोति ।
एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलो ऽवस्थातुं शक्नोतीति ।
नचैतद्युक्तमिव ।
नहि स्वर्गस्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् ।
नन्वेतदयुक्तम् ।
न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ।
तदेतदपेशलम् ।
स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वग्रच्युतस्यापि कञ्चित्फललेशं जनयतीति ।
न शब्दप्रमाणकामानीदृशी कल्पनावकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ।
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।
नत्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् ।
अवश्यं चैतदेवं विज्ञेयम् ।
न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशो ऽनुवर्तमानो ऽनुशय इति ।
यदिहि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशो ऽनुशयः कल्प्येत ततो रमणीय एवैको ऽनुशयः स्यान्न विपरीतः ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत- ऽतद्य इह रमणीयचरणा, अथ कपूयचरणाःऽ (छा. 5.10.7) इति ।
तस्मादामुष्मिकफले कर्मजात उपभुक्ते ऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तऽवरोहन्तीति ।
यदुक्तं यत्किञ्चेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति ।
नैतदेवम् ।
अनुशयसद्भावस्यावगमितत्वात् ।
यत्किञ्चिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।
यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिंल्लोके फलमारभ्यते केनचिदस्मिन्नित्यत्वं प्रत्युक्तम् ।
अपिचकेन हेतुना प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ।
यथैव तर्हि प्राक्प्रयाणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकाले ऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्धवानुपपतितिरिति ।
नह्यनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुं, प्रतिनियतफलत्वविरोधात् ।
नापि कस्यचित्कर्मणः प्रायणे ऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् ।
ऐकान्तिकफलत्वविरोधात् ।
नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते ।
स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति- ऽकदाचित्सुकृतं कर्म कूचस्थमिह तिष्ठति ॥
मज्जमानस्य संसारे यावद्दुःखादिमुच्यते इत्येवञ्जातीयका ।
यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन्प्रायणे ऽभिव्यक्तं सदेकां जातिमारभेत ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ।
ब्रह्महत्यादीनां चैकैकस्य कर्मणो ऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ।
नच धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयतुम् ।

नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासो ऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः ।
स्थूलसूक्ष्मरूपाभिव्क्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् ।
यथाहि प्रदीपः समाने ऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् ।
एवं प्रायणं समाने ऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति ।
तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टो ऽयमशेषकर्माभिव्यक्त्यभ्युपगमः ।
शेषकर्मसद्भावे ऽनिर्मोक्षप्रसङ्गः इत्ययमप्यस्थाने संभ्रमः ।
सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः ।
तस्मात्स्थितमेतदेवानुशयवन्तो ऽवरोहन्तीति ।
ते चावरोहन्तो यथेतमनेवं चावरोहन्ति ।
यथेतमिति यथागतमित्यर्थः ।
अनेवमिति तद्विपर्ययेणेत्यर्थः ।
धूमाकाशयोः पितृयाणे ऽध्वन्युपात्तयोरवरोहे संकीर्तनाद्यथेतंशब्दाच्च यथागतमिति प्रतीयते ।
रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययो ऽपि प्रतीयते ॥ 8 ॥
fन्: अनुशयः कर्म ।
तत् कर्म ।
प्रत्यवैति परिक्षीणं भवति ।
अभिव्यक्तिः फलोन्मुखता ।
तत् तत्रावरोहतां जीवानां मध्ये इह कर्मभूमौ रमणीयचरणाः पुण्यकर्मणः इति यत् तत् आभ्याशोह अवश्यं हीत्यर्थः ।
कपूयं पापम् ।
रिच्यमानं वियुज्यमानम् ।
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः

3.1.10

अतापि स्यात् ।
या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता- ऽतद्य इह रमणीयचरणाःऽ (छा. 5.10.7) इति ।
सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् ।
अन्यच्चरणमन्यो ऽनुशयः ।
चरणं चारित्रमाचारः शीलमित्यनर्थान्तरम् ।
अनुशयस्तु भुक्तफलात्कर्मणो ऽतिरिक्तं कर्माभिप्रेतम् ।
श्रुतिश्च कर्माचरणे भेदेन व्यपदिशति- ऽयथाकारी यथाचारी तथा भवतिऽ (बृ. 4.4.5) इति, ऽयान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि, यान्यस्माकं सुचरितानि तानि त्वयोपस्यानिऽ (तै. 1.11.2) इति च ।
तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेत् ।
नैष दोषः ।
यतो ऽनुशयोपलक्षणार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ 9 ॥
आनर्थक्यम् इति चेन् न तदपेक्षत्वात्

3.1.11

स्यादेतत् ।
कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिको ऽनुशयः प्रत्याय्यते ।
ननु शीलस्यैव श्रौतस्य विहितप्रतिष्द्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति ।
अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् ।
अन्यथा ह्यानर्थक्यमेव प्रसज्यतेति चेत् ।
नैष दोषः ।
कुतः - तदपेक्षितत्वात् ।
इष्टादि हि कर्मजातं चरणापेक्षम् ।
नहि सदाचारहीनः कश्चिदधिकृतः स्यात्- ऽआचारहीनं न पुनन्ति वेदाःऽ इत्यादिस्मृतिभ्यः पुरुषार्थत्वे ऽप्याचारस्य नानर्थक्यम् ।
इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते ।
कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः ।
तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ।
नहि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता ।
नहि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति ॥ 10 ॥
सुकृतदुष्कृते एवेति तु बादरिः

3.1.12

बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ।
चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् ।
तथाहि- अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते ।
यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति ।
आचारो ऽपि च धर्मविशेष एव ।
भेदव्यपदेशस्तु कर्मचरणयोर्बाह्मणपरिव्राजकन्यायेनाप्युपपद्यते ।
तस्माद्रमणीयचरणाः प्रशस्तकर्मणाः कपूयचरणा निन्दितकर्माण इति निर्णयः ॥ 11 ॥
fन्: गोबलीवर्दन्यायो ऽप्ययमेव ।
3 अनिष्टादिकार्यधिकरणम् । सू. 12-21
अनिष्टादिकारिणाम् अपि च श्रुतम्

3.1.13

इष्टादिकारिणश्चन्द्रमसं गच्छतीत्युक्तम् ।
ये त्वितरे ऽनिष्टादिकारिणस्ते ऽपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते ।
तत्र तावदाहुः - इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न ।
कस्मात् ।
यतो ऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।
एथाह्यविशेषेण कौषीतकिनः समामनन्ति- ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषी. 1.2) इति ।
पञ्चभ्यामाहुतावित्याहुतिसंख्यानियमात् ।
यस्मात्सर्व एव चन्द्रमसमासीदेयुः ।
इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् ।
न ।
इतरेषां चन्द्रमण्डले भोगाभावात् ॥ 12 ॥
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्

3.1.14

तुशब्दः पक्षं व्यावर्तयति ।
नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति ।
एतत्कस्मात् ।
यतो भोगायैव चन्द्रारोहणं न निष्प्रयोजनम् ।
नापि प्रत्यवरोहायैव ।
यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव ।
भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ।
तस्मादिष्चादिकारिण एव चन्द्रमसमारोहन्ति नेतरे ।
ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोन्ति ।
एवंभूतौ तेषामारोहावरोहौ भवतः ।
कुतः - तद्गतिदर्शनात् ।
तथाहि यमवचनसरूपा श्रुतिः प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति- ऽन सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मेऽ (कठ. 2.6) इति ।
ऽवैवस्वतं संगमनं जनानाम्ऽ इत्येवञ्जातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ 13 ॥
स्मरन्ति च

3.1.15

अपिच मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ 14 ॥
अपि च सप्त

3.1.16

अपिच सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः ।
ताननिष्टादिकारिणः प्राप्नुवन्ति ।
कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः ॥ 15 ॥
ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्मणो ऽनुभवन्तीति ।
यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति ।
नेत्याह-
तत्रापि च तद्व्यापारादविरोधः

3.1.17

तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः ।
यमप्रयुक्ता एव हि ते चित्रगुप्तादयो ऽधिष्ठातारः स्मर्यन्ते ॥ 16 ॥
विद्याकर्मणोर् इति तु प्रकृतत्वात्

3.1.18

पञ्चाग्निविद्यायाम् ऽवेत्थ यथासौ लोको न संपूर्यतेऽ (छा. 5.3.3) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- ऽअथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति ।
जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. 5.10.8) इति ।
तत्रैतयोः पथोरिति विद्याकर्मणोरित्येतत् ।
कस्मात् ।
प्रकृतत्वात् ।
विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते ।
ऽतद्य इत्थं विदुःऽ इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः ।
ऽइष्टापूर्ते दत्तम्ऽ (छा. 5.10.1,3) इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः ।
तत्प्पक्रियायाम्- ऽअथैतयोः पथोर्न कतरेणचनऽ इति श्रुतम् ।
एतदुक्तं भवति- ये न विद्यासाधनेन देवयाने पत्यधिकृता नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणो ऽसकृदावर्ती तृतीयः पन्था भवतीति ।
तस्मादपि नानिष्टादिकारिभिश्चन्द्रमाः प्राप्यते ।
स्यादेतत् ।
ते ऽपि चन्द्रबिम्बमारुह्य ततो ऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ।
तदपि नास्ति ।
आरोहानर्थक्यात् ।
अपिच सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोकः प्रयद्भिः संपूर्येतेत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत ।
तथाहि प्रतिवचनं दातव्यं यथासौ लोको न संपूर्यते ।
अवरोहाभ्युपगमादसंपूर्णोपपत्तिरिति चेत् ।
न ।
अश्रुतत्वात् ।
सत्यमवरोहादप्यसंपूरणमुपपद्यते ।
श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयति- ऽएतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा. 5.10.8) इति ।
तेनानारोहादेवासंपूरणमिति युक्तम् ।
अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् ।
तुशब्दस्तु शाकान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति ।
एवं सत्यधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दो ऽवतिष्ठते ।
ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ 17 ॥
यत्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, पञ्चम्यामाहुतावित्याहुतिसंख्यानियमादिति ।
तत्प्रत्युच्यते-
न तृतीये तथोपलब्धेः

3.1.19

न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः ।
कुतः - तथोपलब्धेः ।
तथाह्यन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते ऽजायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्ऽ (छा. 5.10.8) इति ।
अपिच ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा. 5.3.3) इति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् ।
अपिच पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् ।
तत्र येषामारोहावरोहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ।
अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते ॥ 18 ॥
स्मर्यते ऽपि च लोके

3.1.20

अपिच स्मर्यते लोके ।
द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् ।
तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति ।
धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः ।
यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यत्रापि भविष्यति ।
बलाकाप्यन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ 19 ॥
दर्शनाच् च

3.1.21

अपिच चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
एवमन्यत्रापि भविष्यति ॥ 20 ॥
fन्: जीवजं जरायुजम् , उद्भिज्जं वृक्षादि ।
ननु ऽतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्ऽ (छा. 6.3.1) इति ।
अत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति ।
अत्रोच्यते-
तृतीयशब्दावरोधः संशोकजस्य

3.1.22

ऽआण्डजं जीवजमुजद्भिजम्ऽ (छा. 6.3.1) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः ।
उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ 21 ॥
fन्: संशोकजं स्वेदजम् ।
4 साभाव्यापत्यधिकरणम् । सू. 22
साभाव्यापत्तिरुपपत्तेः

3.1.23

इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततःसानुशया अवरोहन्तीत्युक्तम् ।
अतावरोहप्रकारः परीक्ष्यते ।
तत्रेयमवरोहश्रुतिर्भवति- ऽअथैचमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायिर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भूत्वा प्रवर्षतिऽ (छा. 5.10.5) इति ।
तत्र संशयः - किमाकाशादिस्वरूपमेवावारोहन्तः प्रतिपद्यन्ते किंवाकाशादिसाम्यमिति ।
तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति ।
कुतः एवं हि श्रुतिर्भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षमाविषये च श्रुतिर्न्याय्या न लक्षणा ।
तथाच वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपत्तावाञ्जस्येनावकल्पन्ते ।
तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ।
एवं प्राप्ते ब्रूमः - आकाशादिसाम्यं प्रतिपद्यन्त इति ।
चन्द्रमण्डले यदंमयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति ।
तदेतदुच्यते- ऽयथेतमाकाशमाकाशाद्वायुम्ऽ (छा. 5.10.5) इत्येवमादिना ।
कुत एतत् ।
उपपत्तेः ।
एवं ह्येतदुपपद्यते ।
नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ।
विभुत्वाच्चाकाशेन नित्यसंबन्धवत्त्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते ।
श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव ।
अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते ॥ 22 ॥
5 नातिचिराधिकरणम् । सू. 23
नातिचिरेण विशेषात्

3.1.24

तत्राकाशादिप्रतिपत्तौ प्राग्विरीह्यादिप्रतिपत्तेर्भवति विशयः ।
किं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरसादृश्यं गच्छन्त्युताल्पमिति ।
तत्रानियमो नियमकारिणः शास्त्रस्याभावादिति ।
एवं प्राप्त इदमाह- नातिचिरेणेति ।
अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति ।
कुत एतत् ।
विशेषदर्शनात् ।
तथाहि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि- ऽअतो वै खलु दुर्निष्प्रपतरम्ऽ
(छा. 5.10.6) इति ।
तकार एतश्चन्दस्यां प्रक्रियायां लुप्तो मन्तव्यः ।
दुर्निप्रपततरं दुर्निष्क्रमतरं दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ।
तदत्र दुःखं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निष्प्रपतनं दर्शयति ।
सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः ।
तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात् ।
तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति ॥ 23 ॥
6 अन्याधिष्ठिताधिकरणम् । सू. 24-27
अन्याधिष्ठितेषु पूर्ववदभिलापात्

3.1.25

तस्मिन्नेवारोहे प्रवर्षणानन्तरं पठ्यते- ऽत इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽ (छा. 5.10.6)
इति ।
तत्र संशयः - किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजो ऽनुशायिनो भवत्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति ।
किं तावत्प्राप्तम् ।
स्थावरजात्यापन्नास्तत्सुखदुःखभाजो ऽनुशयिनो भवन्तीति ।
कुत एतत् ।
जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः ।
पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः ।
तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म ।
श्वादिजन्मवत् ।
यथा श्वयोनिं वा सूकरयोनिं वा चम्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिजन्मापीति ।
एवं प्राप्ते ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति ।
पूर्ववत् ।
यथा वायुधूमादिभावो ऽनुशयिनां तत्संश्लेषमात्रम् ।
एवं व्रीह्यादिभावो ऽपि जातिस्थावरैः संश्लेषमात्रम् ।
कुत एतत् ।
तद्वदेवेहाप्यभिलापात् ।
को ऽभिलापस्य तद्वद्भावः ।
कर्मव्यापारमन्तरेण संकीर्तनम् ।
यथाकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशत्येवं व्रीह्यादिजन्मन्यपि ।
तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारं रमणीयचरणाः कपूयचरणा इति च ।
अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनो ऽनुशयिनः प्रवसेयुः ।
यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसतीति प्रसिद्धम् ।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावो ऽनुशयिनां नाभिलप्येत ।
अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति ।
एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयादुपभोगस्थानत्वं च स्थावरभावस्य ।
नच वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे ।
भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानम् ।
चन्द्रमसस्त्ववरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ 24 ॥
अशुद्धम् इति चेन् न शब्दात्

3.1.26

यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनानर्थिकेति तत्परिह्रियते ।
न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ।
अयं धर्मो ऽयमधर्म इति शास्त्रमेव विज्ञाने कारणम् ।
अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च ।
यस्मिन्देशे काले निमित्ते च यो धर्मो ऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ।
तेन शास्त्रादृते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति ।
शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु ऽन हिंस्यात्सर्वा भूतानिऽ इति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति ।
बाढम् ।
उत्सर्गस्तु सः ।
अपवादः ऽअग्नीषोमीयं पशुमालभेतऽ इति ।
उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ।
तस्माद्विशुद्धं कर्म वैदिकं, शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च ।
तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् ।
नच श्वादिजन्मादिवदपि व्रीह्यादिजन्म भवितुमर्हति ।
तद्धि कपूयतरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारो ऽस्ति ।
अतश्चन्द्रमण्डलस्खलितानामनुशायिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ 25 ॥
रेतःसिग्योगो ऽथ

3.1.27

इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावो यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते - ऽयो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवतिऽ (छा. 5.10.6) इति ।
नचात्र मुख्यो रेतःसिग्भावः संभवति ।
चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति ।
कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतो ऽनुशयी प्रतिपद्यते ।
तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावो ऽभ्युपगन्तव्यः ।
तद्वद्व्रीह्यादिभावो ऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ 26 ॥
योनेः शरीरम्

मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc