भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र (टीका सहित) · अध्याय 2.4

2.4.1

अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति ।
तदपि नोपपद्यते ।
कस्मात् ।
अन्तर्भावात् ।
विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति ।
तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः ।
कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति ।
शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् ।
प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् ।
समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् ।
तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् ।
स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ।
ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य ।
सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् ।
वद तावत्त्वं के बहवः समानप्रदेशाश्चेति ।
रूपादय इति चेत् ।
न ।
तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च ।
नतु बहूनामात्मनां लक्षणभेदो ऽस्ति ।
अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् ।
न ।
भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् ।
आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम् ॥ 53 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥ 3 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
द्वितीयाध्याये चतुर्थः पादः ।
अत्र पादे लिङ्गशरीरश्रुतीनां विरोधपरिहारः
1 प्राणोत्पत्त्यधिकरणम् । सू. 1-4
तथा प्राणाः

2.4.2

वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतः ।
चतुर्थेनेदानीं प्राणविषयः परिह्रियते ।
ऽतत्र तावत् तत्तेजो ऽसृजतऽ (छान्दो. 6.2.3) इति, ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तैत्ति. 2.1.1) इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पजिर्नाम्नायते क्वचिच्चानुत्पत्तिरेवैषामाम्नायते ऽअसद्वा इदमग्र आसीत्ऽ (तै. 2.7) ऽतदाहुः किं तदसदासीदित्यृषयो वाव ते ऽग्रे ऽसदासीत् ।
तदाहुः के ते ऋषय इति ।
प्राणा वाव ऋषयःऽ इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात् ।
अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते- ऽयथाग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ इति, ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. 2.1.3) इति, ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मु. 2.1.8) इति, ऽस प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो ऽन्नम्ऽ (प्र. 6.4) इति चैवमादिप्रदेशेषु ।
तत्र तत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्तिः प्राप्नोति ।
अथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिरिति प्राप्नोति ।
अत उत्तरमिदं पठति- ऽतथा प्राणाःऽ इति ।
कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् ।
सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् ।
सादृश्ये हि सत्युपमानं स्यात् ।
यथा सिंहस्तथा बलवर्मोति ।
अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत, यथादृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति ।
तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ।
नच जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् ।
जीवस्य ह्यनुत्पत्तिराख्याता ।
प्राणानां तूत्पत्तिर्व्याचिख्यासिता ।
तस्मात्तथेत्यसंबद्धमिव प्रतिभाति ।
न ।
उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः ।
अत्र प्राणोत्पत्तिवादिवाक्यजातमुजदाहरणम्- ऽएतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्तिऽ (बृ. 2.1.20) इत्येवञ्जातीयकम् ।
तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः ।
तथा- ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुण्ड. 2.1.3) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम् ।
अथवा ऽपानव्यापच्च तद्वत्ऽ (जै.अ. 3.4.15) इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् ।
यथातीतानन्तरपादाद्युक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगतास्तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम् ।
कः पुनः प्राणानां विकारत्वे हेतुः ।
श्रुतत्वमेव ।
ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तं तदयुक्तम् ।
प्रदेशान्तरेषु श्रवणात् ।
नहि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते ।
तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ 1 ॥
fन्: प्राणविषयः प्राणोत्पत्तिसंख्यातत्त्वादिविषयः ।
आनुलोम्यमाञ्जस्यम् ।
यथा तृतीयाध्यये चतुर्थपादेष्वप्रतिग्रहेष्वधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितो ऽपि सोमवमने परामृश्यते तद्वदत्रापि ज्ञेयम् ।
गौण्यसंभवात्

2.4.3

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति ।
तत्प्रत्याह- गौण्यसंभवादिति ।
गौण्या असंभवो गौण्यसंभवः ।
नहि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति ।
प्रतिज्ञाहानिप्रसङ्गात् ।
ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. 1.1.3) इति ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते- ऽएतस्माज्जायते प्राणःऽ (मुण्ड. 2.1.3) इत्यादि ।
सा च प्रतिज्ञा प्राणादेः समस्तस्य जागतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिद्ध्यति ।
गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेयं हीयेत ।
तथाच प्रतिज्ञातार्थमुपसंहरति- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ (मुण्ड. 2.2.11) इति, ऽब्रह्मैवेदं विश्वमिदं वरिष्टम्ऽ (मुण्ड. 2.2.11) इति च ।
तथा ऽआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ इत्येवञ्जातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या ।
कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ।
नैतन्मूलप्रकृतिविषयम् ।
ऽअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःऽ (मुण्ड, 2.1.2) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् ।
अवान्तरप्रकृतिविषयं त्वेतत्स्ववविकारापेक्षं प्रगुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् ।
व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः ।
वियदधिकरणे हि ऽगौण्यसंभवात्ऽ इति पूर्वपक्षसूत्रत्वाद्गौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् ।
प्रतिज्ञाहान्या च तत्र सिद्धान्तो ऽभिहितः ।
इह तु सिद्धान्तसूत्रत्वाद्गोण्या जन्मश्रुतेरसंभवादिति व्याक्यातम् ।
तदनुरोदेन त्विहापि गौणी जन्मश्रुतिसंभवादिति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ 2 ॥
तत्प्राक्श्रुतेश् च

2.4.4

इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः ।
यज्जायत इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सदुत्तरेष्वप्याकाशादिष्वनुवर्तते ।
ऽएतस्माज्जायते प्राणःऽ (मु. 2.1.3) इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति ।
नह्येकस्मिन्प्रकरण एकस्मिंश्च वाक्य एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् ।
वैरूप्यप्रसङ्गात् ।
तथा ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्रश्न. 6.4) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते ।
यत्रापि पश्चच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः ।
यथा ऽसर्वाणि भूतानि व्युच्चरन्तिऽ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते ॥ 3 ॥
तत्पूर्वकत्वाद् वाचः

2.4.5

यद्यपि ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव च त्रयाणां भूतानामुत्पत्तिश्रवणात् ।
तथापि ब्रह्मप्रकृतिकतेजोबन्नपीर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति ।
तथाहि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते- ऽअन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्ऽ (छा. 6.5.4) इति ।
तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रह्मप्रभवत्वम् ।
अथ भाक्तं ततापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. 6.1.3) इति चोपक्रमात् ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. 6.8.7) इति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते ।
तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः ॥ 4 ॥
2 सप्तगत्यधिकरणम् । सू. 5-6
सप्त गतेर् विशेषितत्वाच् च

2.4.6

उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः ।
संख्यविषय इदानीं परिह्रियते ।
तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति ।
संप्रति तु कतीतरे प्राणा इति संप्रधारयति ।
श्रुतिविप्रतिपत्तेश्चात्र विशयः ।
क्वचित्सप्त प्राणाः संकीर्त्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. 2.1.8) इति ।
क्वचिच्चाष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते- ऽ अष्टौ ग्रहा अष्टावतिग्रहाःऽऽ (बृ. 3.2.1) इति ।
क्वचिन्नव- ऽसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौऽ (तै. सं. 5.1.7.1) इति ।
क्वचिद्दश- ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इति ।
क्वचिदेकादश- ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. 3.9.4) इति ।
क्वचिद्द्वादश- ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ (बृ. 2.4.11) इत्यत्र ।
क्वचित्त्रयोदश ऽचक्षुश्च द्रष्टव्यं चऽ (बृ. 4.8) इत्यत्र ।
एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः ।
किं तावत्प्राप्तम् ।
सप्तैव प्राणा इति ।
कुतः गतेः ।
यतस्तावन्तो ऽवगम्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. 2.1.8) इत्येवंविधासु श्रुतिषु ।
विशेषिताश्चैते ऽसप्त वै शीर्षण्याः प्राणाःऽ इत्यत्र ।
ननु ऽप्राणा गुहाशया निहिताः सप्त सप्तऽ (मुण्ड. 2.1.8) इति वीप्सा श्रूयते, सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयति ।
नैष दोषः ।
पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति, न तत्त्वभेदाभिप्राया सप्त सप्तान्ये ऽन्ये प्राणा इति ।
नन्वष्टत्वादिकापि संखाया प्राणेषूदाहृता कथं सप्तैव स्युः ।
सत्यमुदाहृता ।
विरोधात्त्वन्यतमा संक्याध्यवसातव्या ।
तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् ।
वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते ॥ 5 ॥
fन्: विशयः संशयः ।
ग्रहत्वं बन्धकत्वम् ।
गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि ।
अतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः ।
अवाञ्चौ पायूपस्थौ ।
गतेः अवगतेः ।
अत्रोच्यते-
हस्तादयस् तु स्थिते ऽतो नैवम्

2.4.7

हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः श्रूयन्ते- ऽहस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोतिऽ (बृ. 3.2.8) इत्येवमाद्यासु श्रुतिषु ।
स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् ।
हीनाधिकसंख्याविप्रतिपत्तौ ह्यधिका संख्या संग्राह्या भवति तस्यां हीनान्तर्भवति नतु हीनायामधिका ।
अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति ।
उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः ।
तथा चोदाहृता श्रुतिः - ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. 3.9.4) इति ।
आत्मशब्देन चात्रान्तःकरणं परिगृह्यते, करणाधिकारात् ।
नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते ।
सत्यमुदाहृते ।
नन्वेकादशाभ्यः कार्यजातेभ्यो ऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत ।
शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धीन्द्रियाणि ।
वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि ।
सर्वार्थविषयं त्रैकाल्यवृत्ति मनत्वेकमनेकवृत्तिकम् ।
तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- ऽमनो बुद्धिरङंकारश्चित्तं चऽ इति ।
तथाच श्रुतिः कामाद्या नानाविधा वृत्तिरनुक्रम्याह- ऽएतत्सर्वं मन एवऽ (बृ. 1.5.3) इति ।
अपिच सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः ।
स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते ऽद्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्ऽ इति ।
नच तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् ।
तथा ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ
इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण ।
नाभिद्दशमिति वचनात् ।
नहि नाभिर्नाम कश्चित्प्राणः प्रसिद्धो ऽस्ति ।
मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते ।
क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् ।
तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् ।
कार्यजातवशात्त्वेकादशात्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् ।
इयमपरा सूत्रद्वययोजना ।
सप्तैव प्राणाः स्युर्यतः सप्तानामेव गतिः श्रूयते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इत्यत्र ।
ननु सर्वशब्दो ऽप्यत्र पठ्यते, तत्कथं सप्तनामेव गतिः प्रतिज्ञायत इति ।
विशेषितत्वादित्याह ।
सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः ऽस यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवतिऽ (बृ. 4.4.1) ऽएकीभवति न पश्यतीत्याहुःऽ (बृ. 4.4.2) इत्येवमादिनानुक्रमणेन ।
प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये ।
एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति ।
नन्वत्र विज्ञानमष्टममनुक्रान्तं, कथं सप्तानामेवानुक्रमणम् ।
नैष दोषः ।
मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदे ऽपि सप्तत्वोपपत्तेः ।
तस्मात्सप्तैव प्राणा इति ।
एवंप्राप्ते ब्रूमः - हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः प्रतीयन्ते-ऽ हस्तौ वै ग्रहःऽ (बृ. 3.2.8) इत्यादिश्रुतिषु ।
ग्रहत्वं च बन्धनभावो गृह्यते,बध्यते क्षेत्रज्ञो ऽनेन ग्रहसंज्ञकेन बन्धनेनेति ।
स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वि तुल्यत्वाद्बन्धनस्य ।
तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्दनमित्यर्थादुक्तं भवति ।
तथाच स्मृतिः - पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ।
इति प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति ।
आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुष द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति-ऽ हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चऽ ( प्र. 4.8) इति ।
तथा ऽदशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तिऽ (बृ. 3.9.4) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति ।
सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो दर्शयति ।
सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात् ।
सर्वे ब्राह्मणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यं, सर्वशब्दसामर्थ्यात् ।
सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता ।
इह तु न किञ्चित्सर्वशब्दार्थसंकोचने कारणमस्ति ।
तस्मात्सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहः ।
प्रदर्शनार्थे च सप्तानामनुक्रमणमित्यनवद्यम् ।
तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम् ॥ 6 ॥
fन्: गुहायां हृदये शेरत इति गुहाशयाः स्वस्तानेषु निहिताः निक्षिप्ताः ।
कर्मणा हस्तनिर्वर्त्यादानेन गृहीतः संबद्धः ।
त्रयः कालास्त्रैकाल्यं तद्विषय वृत्तिर्यस्य तन्त्रैकाल्यवृत्ति ।
चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः ।
इह उत्क्रान्तिप्रकरणे ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं अन्तःकरणचतुष्टयं अविद्या कामः कर्म चेति पर्युष्टकम् ।
प्राणाणुत्वाधिकरणम् । सू. 7
अणवश् च

2.4.8

अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति ।
अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः ।
अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् ।
सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युर्मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन्म्रियमाणस्य पार्श्वस्थैः ।
परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युरुत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् ।
तद्गुणसारत्वं च जीवस्य न सिद्ध्येत् ।
सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् ।
न. वृत्तिमात्रस्य करणत्वोपपत्तेः ।
यदेव ह्युपलब्धिसाधनं वृत्तिरन्यद्वा तस्यैव नः करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका ।
तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः ॥ 7 ॥
fन्: अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् ।
परिच्छेदो ऽल्पत्वम् ।
4 प्राणश्रैष्ठ्याधिकरणम् । सू. 8
श्रेष्ठश् च

2.4.9

मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति ।
तच्चाविसेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. 2.1.3) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् ।
ऽस प्राणमसृजतऽ (प्र. 6.4) इत्यादि श्रवणेभ्यश्च ।
किमर्थः पुनरतिदेशः,
अधिकाशङ्कापाकरणार्थः ।
नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति ऽन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्नु आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनासऽ (ऋ.सं. 8.7.17) इति ।
आनीदिति प्राणकर्मोपादानात्प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति ।
तस्मादजः प्राण इति जायते कस्यचिन्मतिः ।
तामतिदेशेनापनुदति ।
आनीच्छब्दो ऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति ।
अवातमिति विशेषणात् ।
ऽअप्राणो ह्यमनाः शुभ्रःऽ इति च मुलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् ।
तस्मात्कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति ।
श्रेष्ठ इति च मुख्यं प्राणमभिदधाति- ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. 5.1.1) इति श्रुतिनिर्देशात् ।
ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् ।
न चेतस्य तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा ।
श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् ।
श्रेष्ठश्च प्राणो गुणाधिक्यात्, ऽन वै शक्ष्यामस्त्वदृते जीवितुम्ऽ (बृ. 6.1.13) इति श्रुतेः ॥ 8 ॥
fन्: तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अहः प्रकेतः सूर्यश्च नास्तां, स्वधया पितृदेयाग्नेन सह, आनीत् चेष्टां कृतवत् ।
5 वायुक्रियाधिकरणम् । सू. 9-12
न वायुक्रिये पृथगुपदेशात्

2.4.10

स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते ।
तत्र प्राप्तं तावच्छ्रुतेर्वायुः प्राण इति ।
एवं हि श्रूयते- ऽयः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणो ऽपानो व्यान उदानः समानःऽ इति ।
अथवा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्तिः प्राण इति प्राप्तम् ।
एवं हि तन्त्रान्तरीया आचक्षते- ऽसामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेऽ ति ।
अत्रोच्यते- न वायुः प्राणो नापि करणव्यापारः ।
कुतः - पृथगुपदेशात् ।
वायोस्तावत्प्राणस्य पृथगुपदेशो भवति- ऽप्राण एव ब्रह्मणश्चश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति चऽ (छान्दो. 3.18.4) इति ।
नहि वायुरेव सन् वायोः पृथगुपदिश्येत ।
तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् ।
वृत्तिवृत्तिमतोश्चाभेदात् ।
नहि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत ।
तथा ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुःऽ (मु. 2.1.3) इत्येवमादयो ऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः ।
नच समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्समुदायस्य चाकारकत्वात् ।
ननु पञ्जरचालनन्यायेनैतद्भविष्यति ।
यथैतपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादश प्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति ।
नेत्युच्यते ।
युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूयैकं पञ्जरं चालयेयुरिति ।
तथा दृष्टत्वात् ।
इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राण न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात् ।
अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य ।
तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां, न करणवृत्तिमात्रे प्राणे ऽवकल्पते ।
तस्मादन्यो वायुक्रियाभ्यां प्राणः ।
कथं तर्हीयं श्रुतिः ऽयः प्राणः स वायुःऽ इति ।
उच्यते- वायुरेवायमध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् ।
अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ 9 ॥
स्यादेतत् ।
प्राणो ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति ।
श्रेष्ठत्वाद्गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् ।
तथाह्यनेकविधा विभूतिः प्राणस्य श्राव्यते- ऽसुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एको मृत्युनानाप्तः प्राणः संवर्गो वागादीन्संवृङ् क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान्ऽ इति ।
तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गः ।
तं परिहरति-
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः

2.4.11

तुशब्दः प्राणस्य जीववत्स्वातन्त्र्यं व्यवर्तयति ।
यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि ।
तथा मुख्यो ऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वार्थकरत्वेनोपकरणभूतो न स्वतन्त्रः ।
कुतः ।
तत्सहशिष्ट्यादिभ्यः ।
तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु ।
समानधर्माणां च सह शासनं युक्तं बृहद्रथन्तरादिवत् ।
आदिशब्देन संहतत्वाचेतनत्वादीन्प्राणस्य स्वातन्त्र्यनिराकरणहेतून्दर्शति ॥ 10 ॥
स्यादेतत् ।
यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावो ऽभायुपगम्येत,विषयान्तरं रूपादिवत्प्रसज्येत ।
रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति ।
अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः नतु द्वादशमपरं कार्यजातमधिगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायेतेति ।
अत उत्तरं पठति-
अकरणत्वाच् च न दोषस् तथा हि दर्शयति

2.4.12

न तावद्विषयान्तरप्रसङ्गो दोषः ।
अकरणत्वात्प्राणस्य ।
नहि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते ।
नचास्यैतावता कार्याभाव एव ।
कस्मात् ।
तथाहि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु- ऽअथ ह प्राणा अहंश्रेयसि व्यूदिरेऽ इत्युपक्रम्य ऽयस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठःऽ (छा. 5.1.6,7) इति चोपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति ।
ऽतावन्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि, इति चैतमेवार्थं श्रुतिराह- ऽप्राणेन रक्षन्नवरं कुलायम्ऽ (बृ.
4.3.12) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ।
ऽयस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैव तच्छुष्यतिऽ (बृ. 1.3.19) ।
ऽतेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिऽ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति ।
ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिऽ इति, ऽस प्राणमसृजतऽ इति च प्राणनिमित्ते जीवस्योत्क्रान्तप्रतिष्ठे दर्शयति ॥ 11 ॥
fन्: अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तं, व्यूदिरे विवादं चक्रिरे ।
अपरं नीचं, कुलायं देहाख्यं गृहम् ।
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते

2.4.13

इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु ऽप्राणो ऽपानो व्यान उदानः समानःऽ (बृ. 1.5.3) इति ।
वृत्तिभेदश्चायं कार्यभेदापेक्षः ।
प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा ।
अपानोर्ऽवाग्वृत्तिर्निश्वासादिकर्मा ।
व्यानस्तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः ।
उदान ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः ।
समानः समं सर्वेष्वङ्गेषु यो ऽन्नरसान्नयतीति ।
एवं पञ्चवृत्तिः प्राणो मनोवत् ।
यथा मनसः पञ्च वृत्तय एवं प्राणस्यापीत्यर्थः ।
श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः, नतु कामः संकल्पः इत्याद्याः परिपठिताः परिगृह्येरन् ।
पञ्चसंख्यातिरेकात् ।
नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयापरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः ।
एवं तर्हि ऽपरमतमप्रतिषिद्धमनुमतं भवतिऽ इति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्चवृत्तयः परिगृह्यन्ते ऽप्रमाणविपर्ययविकल्पनिद्रास्मृतयःऽ (पात. योग. सू. 1.1.6) नाम ।
बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् ।
जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम् ॥ 12 ॥
fन्: प्रमाणं प्रमितिः, विपर्ययो भ्रमः, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः, तामसी वृत्तिर्निद्रा ।
6 श्रेष्ठाणुत्वाधिकरणम् । सू. 13
अणुश् च

2.4.14

अणुश्चायं मुख्यः प्राणः प्रत्येतव्य इतरप्राणवत् ।
अणुत्वं चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् ।
पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् ।
सूक्ष्मः प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात् ।
परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्यः ।
ननु विभुत्वमपि प्राणस्य समाम्नायते- ऽसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण (बृ. 1.3.22) इत्येवमादिप्रदेशेषु ।
तदुच्यते- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्णेण प्राणात्मनैवैतद्विभुत्वमाम्नायते नाध्यात्मिकेन ।
अपिच समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः ॥ 13 ॥
fन्: प्लुषिर्मशकादपि सूक्ष्मो जन्तुः, नागो हस्ती ।
7 ज्योतिराद्यधिकरणम् । सू. 14-16
ज्योतिराद्यधिष्ठानं तु तदामननात्

2.4.15

ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिताः प्रभवन्तीति विचार्यते- तत्र प्राप्तं तावद्यथा स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति ।
अपिच देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गाच्छरीरस्य भोक्तृत्वं प्रलीयेत ।
अतः स्वमहिम्नैवैषां प्रवृत्तिरिति ।
एवं प्राप्तं इदमुच्यते- ज्योतिराद्यधिष्ठानं तु इति ।
तुशब्देन पूर्वपक्षो व्यावर्त्यते ।
ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते ।
हेतुं व्याचष्टे- तदामननादिति ।
तथाह्यामनन्ति- ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐत. 2.4) इत्यादि ।
अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाधिष्ठातृत्वमङ्गीकृत्योच्यते ।
नहि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते ।
तथा ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽ (ऐत. 2.4) इत्येवमाद्यपि यौजयितव्यम् ।
तथान्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सो ऽग्निना ज्योतिषा भाति च तपति चऽ (छा. 3.18.3) इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति ।
ऽस वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सो ऽग्निरभवत्ऽ (बृ. 1.3.12) इति चैवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थं द्योतयति ।
सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति ।
समृतावपि- ऽवागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवचतम् ।
ऽ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् ।
यदुक्तं स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति ।
तदयुक्तम् ।
शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् ।
उभयथोपपत्तौ चागमाद्देवताधिष्ठितत्वमेव निश्चीयते ॥ 14 ॥
fन्: भाति दीप्यते ।
तपति स्वकार्यं करोति ।
स प्राणो वाचं प्रथमामुद्गीथकर्माणि प्रधानां अनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवान् ।
यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिह्रियते-
प्राणवता शब्दात्

2.4.16

सतीष्वपि प्राणानामधिष्टात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धः श्रुतेरवगम्यते ।
तथाहि श्रुतिः - ऽअथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय तक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्ऽ (छा. 8.124) इत्येवञ्जातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति ।
अपिचानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिञ्शरीरे ऽवकल्पते ।
एको ह्येवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते ॥ 15 ॥
fन्: अथ देहे प्रागप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः ।
तस्य च नित्यत्वात्

2.4.17

तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वेन पुण्यपापोपलेपसंभवात्सुखदुःखोपभोगसंभवाच्च न देवतानाम् ।
ता हि परस्मिन्नैश्वर्ये पदे ऽवतिष्ठमाना न हिने ऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति ।
श्रुतिश्च भवति- ऽपुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ (बृ. 1.5.3) इति शारीरेणैव च नित्यः प्राणानां संबन्ध उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् ।
ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2)
इत्यादिश्रुतिभ्यः ।
तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति ।
करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति ॥ 16 ॥
8 इन्द्रियाधिकरणम् । सू. 17-19
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात्

2.4.18

मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ताः ।
तत्रेदमपरं संदिह्यते ।
किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति ।
किं तावत्प्राप्तं, मुख्यस्यैवेतरे वृत्तिभेदा इति ।
कुतः - श्रुतेः ।
तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति- ऽहन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्ऽ (बृ. 1.5.21) इति ।
प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः ।
इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत ।
एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वामापद्येत ।
तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तय एवं वागाद्या अप्येकादशेति ।
एवं प्राप्ते ब्रूमः - तत्त्वान्तराण्येव प्राणाद्वागादीनीति ।
कुतः -
व्यपदेशाभावात् ।
को ऽयं व्यपदेशभेदः ।
ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्जद्रियाणीत्युच्यन्ते ।
श्रुतावेवं व्यपदेशदर्शनात् ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मु. 2.1.3) इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्त्चेन्द्रियाणि ।
ननु मनसो ऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात्, ऽमनः सर्वेन्द्रियाणि चऽ इति पृथग्व्यपदेशदर्शनात् ।
सत्यमेतत् ।
स्मृतौ त्वेकादशेन्द्रियाणीति मनो ऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते ।
प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति ।
व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते ।
तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् ।
तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥ 17 ॥
fन्: अस्यैव मुख्यप्राणस्य रूपं असाम भवेमेति संकल्प्य, ते वागादयः ।
कुतश्च तत्तवान्तरभूताः -
भेदश्रुतेः

2.4.19

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- ऽते ह वाचमूचुःऽ (बृ. 1.3.2) इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम् ऽअथ हेममासन्यं प्राणमूचुःऽ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमात् ।
तथा ऽमनो वाचं प्राणं तान्यात्मने ऽकुरुतऽ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः ।
तस्मादपि तत्त्वान्तरभूता मुख्यादितरे ॥ 18 ॥
कुतश्च तत्त्वान्तरभूताः -
वैलक्षण्याच् च

2.4.20

वैलक्षण्यं च भवति मुख्यस्येतरेषां च ।
सुषुप्तेषु वागादिषु मुख्य एको जागर्ति स एव चैको मृत्युनानाप्त आप्तास्त्वितरे ।
तस्यैव च स्थित्युक्रान्तिभ्यां देहधारणपतनहेतुत्वं नेन्द्रियाणाम् ।
विषयालोचनहेतुत्वं चेन्द्रियाणां न प्राणस्येवञ्जातीयको भूयाल्लक्षणभेदः प्राणेन्द्रियाणाम् ।
तस्मादप्येषां तत्त्वान्तरभावसिद्धिः ।
यदुक्तम्- ऽत एतस्यैव सर्वे रूपमभवन्ऽ (बृ. 1.5.21) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् ।
तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः ।
तथाहि- वदिष्याम्येवाहमिति वाग्दध्रेऽ (बृ. 1.5.21) इति वागादीनीन्द्रियाण्यनुक्रम्य ऽतानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्ऽ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ऽअथेममेव नाप्नोद्यो ऽयं मध्यमः प्राणःऽ (बृ. 1.5.21) इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति ।
ऽअयं वै नः श्रेष्ठःऽ (बृ. 1.5.21) इति च श्रेष्ठतामस्यावधारयति ।
तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् ।
अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः ।
तथाच श्रुतिः - ऽत एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणाःऽ (बृ. 1.5.21) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति ।
तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति ॥ 19 ॥
fन्: मृत्युरासङ्गदोषः ।
वाद्गग्ध्रे धारणाभिप्रायं चक्रे ।
9 संज्ञामूर्तिकॢप्त्यधिकरणम् । सू. 20-22
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात्

2.4.21

सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीतिऽ (छा. 6.3.2) ।
तत्र संशयः - किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति ।
तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति ।
कुतः - ऽअनेन जीवेनात्मनाऽ इति विशेषणात् ।
यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीत्येवञ्जातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसंकलनं हेतुकर्तृत्वाद्राजात्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण ।
अपिच डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् ।
तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते ऽभिधत्ते-
ऽसंज्ञामूर्तिकॢप्तस्तुऽ इति ।
तुशब्देन पक्षं व्यावर्तयति ।
संज्ञामूर्तिकॢप्तिरिति नामरूपव्याक्रियेत्येतत् ।
त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् ।
येयं संज्ञाकॢप्तिमूर्तिकॢप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चानेकप्रकारा ।
सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति ।
कुतः - उपदेशात् ।
तथाहि- ऽसेयं देवतैक्षतऽ इत्युपक्रम्य ऽव्याकरवाणिऽ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते ।
ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् ।
नैतदेवम् ।
जीवेनेत्येतदनुप्रविश्येत्यनेन संबध्यत आनन्तर्यात्, न व्याकरवाणीत्यनेन ।
तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत ।
नच गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति ।
येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् ।
नच जीवो नाम परमेश्वरादत्यन्तभिन्नश्चार इव राज्ञः, आत्मनेति विशेषणात् ।
उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ।
तेन, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति ।
परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः ।
ऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽ (छा. 8.14.1) इत्यादिश्रुतिभ्यः ।
तस्मात्परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् ।
त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् ।
तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- ऽयदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ (छा. 6.4.1) इत्यादिना ।
तत्राग्निरितीदं रूपं व्याक्रियते ।
सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते ।
एवमादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् ।
अनेन चाग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति ।
उपक्रमोपसंहारयोः साधारणत्वात् ।
तथाह्यविशेषेणैवोपक्रमः - ऽइमास्तिस्रो देवतास्त्रिवृदेकैका भवतिऽ (छा. 6.3.4) इति ।
अविशेषेणैव चोपसंहारः - ऽयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्ऽ इत्येवमादिः ऽयदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इतिऽ (छा. 6.4.6.7) एवमन्तः ॥ 20 ॥
fन्: प्रक्रिया प्रकरणम् ।
तासां तिसृणामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था ।
तासां तिसृणां देवतानां बहिस्त्रिवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तम्- ऽइमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवतिऽ (छा. 6.4.7) इति ।
तदिदानीमाचार्यो यथाश्रुत्येवोपदर्शयत्याशङ्कितं कञ्चिद्दोषं परिहरिष्यन्-
मांसादि भौमं यथाशब्दमितरयोश् च

2.4.22

भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते ।
तथाहि श्रुतिः - ऽअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्ठस्तन्मनःऽ (छा. 6.5.1) इति ।
त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्रायः ।
तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति ।
मध्यममध्यात्मं मांसं वर्धयति ।
अणिष्ठं तु मनः ।
एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् ।
एवं मूत्रं लोहितं प्राणश्चापां कार्यम् ।
अस्थि मज्जा वाक्तेजस इति ॥ 21 ॥
अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेः ऽतास त्रिवृतं त्रिवृतमेकैकामकरोत्ऽ इति ।
किङ्कृतस्तर्ह्ययं विशेषव्यपदेशः ऽइदं तेज इमा आप इदमन्नम्ऽ इति ।
तथा ऽअध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि ।
इदमपां पीतानां कार्यं लोहितादि ।
इदं तेजसो ऽशितस्य कार्यमस्थ्यादिऽ इति ।
अत्रोच्यते-
वैशेष्यात् तु तद्वादस् तद्वादः

मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc