ब्रह्मसूत्र (टीका सहित) · अध्याय 2.2
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः ।
इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति ।
यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ऽसर्वज्ञं सर्वशक्ति महामायं च ब्रह्मऽ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥ 37 ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यशङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य प्रथमः पादः समाप्तः ॥ 1 ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
रचनानुपपत्तेश् च नानुमानं
यद्यपीदं वेदान्तवाक्यानामैदंपर्यं निरूपयितुं शास्त्रं प्रवृत्तं न तर्क्शास्त्रवत् देवलाभिर् युक्तिभिः कंचित् सिद्धान्तं साधयितुं दूषयितुं वा प्रवृत्तम् ।
तथापि वेदान्तवाक्यम् अपि व्याचक्षाणैः सम्यग्दर्शनप्रतिपक्षभूतानि सांख्यादिदर्शनानि निराकरणीयाणीति तदर्थः परः पादः प्रवर्तते ।
वेदान्तार्थनिर्णयस्य च सम्यग्दर्शनार्थत्वात् तन्निर्णयेन स्वपक्षस्थापनं प्रथमं कृतं तद्द्यभ्यर्हितं परपक्षप्रत्याख्यानाद् इति ।
ननु मुमुक्षूणां मोक्षसाधनत्वेन सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनम् एव केवलं कर्तुं युक्तं किं परपक्षनिराकरणेन परद्वेषकरेण ।
बाढम् एवम् ।
तथापि महाजनपरिगृहीतानि महान्ति सांख्यादितन्त्राणि सम्यग्दर्शनापदेशेन प्रवृत्तान्युपलभ्य भवेत् केषांचिन् मन्दमतीनाम् एतान्य् अपि सम्यग्दर्शनायोपदेयानीत्यपेक्षा ।
तथा युक्तगाढत्वसंभवेन सर्वज्ञभाषितत्वाच्च श्रद्धा च तेष्वित्यतस्तदसारतोपपादनाय प्रयत्यते ।
ननु ऽईक्षतेर्नाशब्दम्ऽ (ब्र,सू. 1.1.5), ऽकामाच्च नानुमानापेक्षाऽ (ब्र,सू. 1.1.18) ऽएतेन सर्वे व्याख्याता व्याख्याताःऽ (ब्र,सू. 1.4.28) इति च पूर्वत्रापि सांख्यादिपक्षप्रतिक्षेपः कृतः, किं पुनः कृतकरणेनेति ।
तदुच्यते- सांख्यादयः स्वपक्षस्थापनाय वेदान्तवाक्यान्यप्युदाहृत्य स्वपक्षानुगुणेनैव योजयन्तो व्याचक्षते, तेषां यद्व्याख्यानं तद्व्याख्यनाभासं न सम्यग्व्यख्यानमित्येतावत्पूर्वं कृतम् ।
इह तु वाक्यनिरपेक्षः स्वतन्त्रस्तद्युक्तिप्रतिषेधः क्रियत इत्येष विशेषः ।
तत्र सांख्या मन्यन्ते- यथा घटशरावादयो भेदा मृदात्मनान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्विका भवितुमर्हन्ति ।
यत्तत्सुखदुःखमोहात्मकं सामान्यं तत्त्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना विवर्तत इति ।
तथा परिणामादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिनुते ।
तत्र वदामः - यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम् ।
गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते ।
तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यम्, आध्यत्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् ।
लोष्टपाषाणादिष्वदृष्टत्वात् ।
मृदादिष्वपि कुमभकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते तद्वत्प्रधानस्यापि चेतनान्तरादिष्ठितत्वप्रसङ्गः ।
नच मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयं न बाह्यकुम्भकारादिव्यपाश्रयेणेति किञ्चिन्नियामकमस्ति ।
नचैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते चेतनकारणसमर्पणात् ।
अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमन्तव्यं भवति ।
अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति ।
नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः ।
तन्निमित्तत्वप्रतीतेश्च ।
शब्दाद्यविशेषे ऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः ।
तथा परिमितानां भेदानां मूलाङ् कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपीर्वकत्वप्रसङ्गः परिमितत्वविशेषात् ।
कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम् ॥ 1 ॥
fन्: अपदेशेन व्याजेन ।
प्रवृत्तेश् च
आस्तां तावदियं रचना ।
तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात्प्रच्युतिः सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिर्विशिष्टकार्याभिमुखप्रवृत्तिता सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च ।
नहि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते दृष्टाच्चादृष्टिसिद्धिः ।
अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति ।
ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा ।
सत्यमेतत् ।
तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिदृष्टा ।
नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा ।
किं पुनरत्र युक्तम् ।
यस्मिन्प्रवृत्तिर्दृष्टा तस्य सोत यतसंयुक्तस्य दृष्टा तस्य सेति ।
ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तमुभयोः प्रत्यक्षत्वात् ।
नतु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः ।
प्रवृत्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः केवलाचेतनरथादिवैलक्षण्यं जीवदेहस्य दृष्टमिति ।
अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः ।
तस्मादचेतनस्यैव प्रवृत्तिरिति ।
तदभिधीयते- न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति ।
भवतु तस्यैव सा ।
सा तु चेतनाद्भवतीति ब्रूमः ।
तद्भावे भावात्तदभावे चाभावात् ।
यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशलक्षणा विक्रियानुपलभ्यमानापि च केवले ज्वलने ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत् ।
लौकायतिकानामपि चेतन एव देहो ऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् ।
ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् ।
न ।
अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः ।
यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितो ऽप्ययसः प्रवर्तको भवति ।
यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तकाभवन्ति ।
एवं प्रवृत्तिरहितो ऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् ।
एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् ।
न ।
अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् ।
तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे नत्वचेतनकारणत्वे ॥ 2 ॥
fन्: उभयोः प्रवृत्तितदाश्रययोः ।
पयो ऽम्बुवच् चेत् तत्रापि
स्यादेतत् ।
यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथाच जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति ।
नैतत्साधूच्यते ।
यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे ।
उभयवादिप्रसिद्धे रथादवचेतने केवले प्रवृत्त्यदर्शनात् ।
शास्त्रं च ऽयो ऽप्सु तिष्ठन् यो ऽपो ऽन्तरो यमयतिऽ (बृ. 3.7.4), ऽएतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नद्यः स्यन्दन्तेऽ (बृ. 3.8.9) इत्येवञ्जातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति ।
तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः ।
चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः ।
वत्सचोषणेन च पयस आकृष्यमाणत्वात् ।
नचाम्बुनो ऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य ।
चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् ।
ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र.सू. 2.1.24) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् ।
शास्त्रदृष्ट्या तु पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते ॥ 3 ॥
fन्: साध्यवत्ता पक्षेण तुल्यत्वात् ।
अनुपन्यासः न विचारभूमिः ।
व्यतिरेकानवस्थितेश् चानपेक्षत्वात्
सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् ।
नतु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्तितमस्ति ।
पुरुषस्तूदासीनो न प्रवर्तको न निवर्तक इत्यतो ऽनपेक्षं प्रधानं, अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम् ।
ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते ॥ 4 ॥
अन्यत्राभावाच् च न तृणादिवत्
स्यादेतत् ।
यथा तृणपल्लवोदादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमत एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति ।
कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ।
निमित्तान्तरानुपलम्भात् ।
यदि हि किञ्चिन्निमित्तमुपलभेमहि ततो यथाकामं तेन तृणाद्युपादाय क्षीरं संपादयेमहि, नतु संपादयामहे ।
तस्मात्स्वाभाविकस्तृणादेः परिणामस्तथा प्रधानस्यापि स्यादिति ।
अत्रोच्यते- भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परणामो यदि तृणादेरपि स्वाभाविकः परिणामो ऽभ्युपगम्येत ।
नत्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः ।
कथं निमित्तान्तरोपलब्धिः, अन्यत्राभावात् ।
धेन्वैव ह्युपयुक्तं तृणादि क्षीरो भवति न प्रहीणमनडुदाद्युपयुक्तं वा ।
यदि हि निर्निमित्तमेतत्स्याद्धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत् ।
नच यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति ।
भवति हि किञ्चित्कार्यं मानुषसंपाद्यं किञ्चिद्दैवसंपाद्यम् ।
मनुष्या अपि शक्नुवत्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम् ।
प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति ।
ततश्च प्रभूतं क्षीरं लभन्ते ।
तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः ॥ 5 ॥
fन्: प्रहीणं नष्टम् ।
अभ्युपगमे ऽप्य् अर्थाभावात्
स्वाभाविकी प्रधानप्रवृत्तिर्न भवतीति स्थापितम् ।
अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषो ऽनुषज्येतैव ।
कुतः ।
अर्थाभावात् ।
यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्येत ततो यथैव सहकारि किञ्चिन्नापेक्षत एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत ।
स यदि ब्रूयात्सहकार्येव केवलं नापेक्षते न प्रयोजनमपीति ।
तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यं भोगो वा स्यादपवर्गो वोभयं वेति ।
भोगश्चेत्कीदृशो ऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ।
अनिर्मोक्षप्रसङ्गश्च अपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् ।
शब्दाद्यनुपलब्धिप्रसङ्गश्च ।
उभयार्थताभ्युपगमे ऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव ।
नचौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः ।
नहि प्रधानस्याचेतनस्यौत्सुक्यं संभवति ।
नच पुरषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् ।
दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव ।
तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् ॥ 6 ॥
fन्: अर्थाभावात् पुरुषार्थाभावप्रसङ्गात् ।
सुखदुःख प्राप्तिपरिहाररूपातिशयशून्यस्य ।
मीयन्ते भुज्यन्ते इति मात्रा भोगाः ।
पुरुषाश्मवद् इति चेत् तथापि
स्यादेतत् ।
यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिहीनः पङ्गुरपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिहीनमन्धमधिष्ठाय प्रवर्तयति ।
यथा वायस्कान्तो ऽश्मा स्वयमप्रवर्तमानो ऽप्ययः प्रवर्तयति ।
एवं पुरुषः प्रधानं प्रवर्तयिष्यतीति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् ।
अत्रोच्यते- तथापि नैव दोषान्निर्मोक्षो ऽस्ति ।
अभ्युपेतहानं तावद्दोष आपतति ।
प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात्, पुरुषस्य न प्रवर्तकत्वानभ्युपगमात् ।
कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ।
पङ्गुरपि ह्यन्धं वागादिभिः पुरुषं प्रवर्तयति ।
नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारो ऽस्ति, निष्क्रियत्वाच्च ।
नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत् ।
संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् ।
अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यस्तीत्यनुपन्यासः पुरुषाश्मवदिति ।
तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः ।
योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः ।
पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः ।
परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयं च प्रवर्तकत्वमित्यस्त्यतिशयः ॥ 7 ॥
अङ्गित्वानुपपत्तेश् च
इतश्च न प्रधानस्य प्रवृत्तिरवल्पते ।
यद्धि सत्त्वरजस्तमसामान्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानं सा प्रधानावस्था ।
तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गिभावानुपपत्तेः ।
बाह्यस्य च कस्यचित्क्षोभयितुरभावाद्गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात् ॥ 8 ॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात्
अथापि स्यादन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत ।
नह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात् ।
कार्यवशेन तु गुणानां स्वभावो ऽभ्युपगम्यते ।
यथा यथा कार्योत्पाद उपपद्यते तथा तथैषां स्वभावो ऽभ्युपगम्यते ।
चलं गुणवृत्तमिति चास्त्यभ्युपगमः ।
तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति ।
एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव ।
ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत ।
चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् ।
वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् ।
भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन्निति प्रसज्यत एवायमनन्तरो ऽपि दोषः ॥ 9 ॥
विप्रतिषेधाच् चासमञ्जसम्
परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः ।
क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश ।
तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहङ्कीरात् ।
तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति क्वचिदेकमिति ।
प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या ।
तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति ।
अत्राह- नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् ।
एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनो विशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यं स्यात् ।
यदि चेतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यां तप्यतापकाभ्यां न निर्मुच्यत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् ।
नह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते ।
यो ऽपिजलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादन्यो विशेषा आविर्भावतिरोभावरूपेण नित्या एवेति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः ।
प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके ।
तथाहि- अर्थी चार्थश्चान्योन्यभिन्नौ लभ्येते ।
यद्यर्थिनः स्वतो ऽन्योर्ऽथो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं स्यात्, यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वं भवति ।
अप्राप्ते ह्यर्थे ऽर्थिनो ऽर्थित्वं स्यादिति ।
तथार्थास्याप्यर्थत्वं न स्यात् ।
यदि स्यात्स्वार्थत्वमेव स्यात् ।
नचैतदस्ति ।
संबन्धिशब्दो ह्येतावर्थी चार्थश्चेति ।
द्वयोश्च संबन्धिनोः संबन्धः स्यान्नैकस्यैव ।
तस्माद्भिन्नावेतावर्थार्थिनौ ।
तथानर्थानर्थिनावपि ।
अर्थिनो ऽनुकूलोर्ऽथः प्रतिकूलो ऽनर्थस्ताभ्यामेकपर्यायेणोभाभ्यां संबध्यते ।
तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थानर्थावनर्थं एवेति तापकः स उच्यते ।
तप्यस्तु पुरुषो य एकः पर्यायेणोभाभ्यां संबध्यत इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः ।
जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ।
अत्रोच्यते- न ।
एकत्वादेव तप्यतापकभावानुपपत्तेः ।
भवेदेष दोषो यद्येकात्मतायां तप्यतापकावान्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् ।
नत्वेतदस्त्येकत्वादेव ।
नह्यग्निरेकः सन्स्वमात्मानं दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च ।
किं कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः संभवेत् ।
क्व पुनरयं तप्यतापकभावः स्यादिति ।
उच्यते- किं न पश्यसि कर्मभूतो जीवद्देहस्तप्यस्तापकः सवितेति ।
ननु तप्तिर्नाम दुःखं सा चेतयितुर्नाचेतनस्य देहस्य ।
यदि हि देहस्यैव तप्तिः स्यात्सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति ।
उच्यते- देहाभावे ऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा ।
नच त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते ।
नापि देहचेतनयोः संहतत्वमशुद्ध्यादिदोषप्रसङ्गात् ।
नच तप्तेरेव तप्तिमभ्युपगच्छति ।
कथं तवापि तप्यतापकभावः सत्त्वं तप्यं तापकं रज इति चेत् ।
न ।
ताभ्यां चेतनस्य संहतत्वानुपपत्तेः ।
सत्त्वानुरोधित्वाच्चेतनो ऽपि तप्यत इवेति चेत्, परमार्थतस्तर्हि नैव तप्यत इत्यापततीवशब्दप्रयोगात् ।
न चेत्तप्यते नेवशब्दो दोषाय ।
नहि डुण्डुभः सर्पं इवेत्येतावता सविषो भवति ।
सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति ।
अतश्चाविद्याकृतो ऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति ।
नैवं सति ममापि किञ्चिद्दुष्यति ।
अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत , नित्यत्वाभ्युपगमाच्च तापकस्य ।
तप्यतापकशक्त्योर्नित्यत्वे ऽपि सनिमित्तसंयोगापेक्षत्वापत्तेः संयोगनिमित्तादर्शननिवृत्तावात्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्न इति चेत् ।
न ।
अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् ।
गुणानां चोद्भावाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षो ऽपरिहार्यः स्यात् ।
औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तेर्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादनिर्मोक्षशङ्का स्वप्ने ऽपि नोपजायते ।
व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न चोदयितव्यः परिहर्तव्यो वा भवति ॥ 10 ॥
fन्: त्वड्यात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, सर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च मनश्चेत्येकादश ।
बुद्धिरहङ्कारो मन इति त्राणि ।
एकमिति बुद्धिरेव ।
2 महद्दीर्घाधिकरणम् । सू. 11
प्रधानकारणवादो निराकृतः ।
परमाणुकारणवाद इदानीं निराकर्तव्यः ।
तत्रादौ तावद्यो ऽणुवादिना ब्रह्मवादिनि दोष उत्प्रेक्ष्यते स प्रतिसमाधीयते ।
तत्रायं वैशेषिकाणामभ्युपगमः - कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्ययादर्शनाच्च ।
तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वे ऽभ्युपगम्यमाने कार्ये ऽपि जगति चेतन्यं समवेयात् ।
तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणं भवितुमर्हतीति ।
इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति-
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्
एषा तेषां प्रक्रिया- परमाणवः किल कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमण्डल्यपरिमाणश्च तिष्ठन्ति ।
ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते ।
कारणगुणाश्च कार्ये गुणान्तरम् ।
यदा द्वौ परमाणू द्व्यणुकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शक्लादीनपरानारभन्ते ।
परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात् ।
अणुत्वह्रस्वत्वे हि द्व्यमुकवर्तिनी परिमाणे वर्णयन्ति ।
यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम् ।
अणुत्वह्रस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वादीर्घत्वपरिमाणयोगाभ्युपगमात् ।
यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्यमारभते तदापि समानैषा योजना ।
तदेवं यथा परमाणोः परिमण्डलात्सतो ऽणु ह्रस्वं च द्व्यणुकं जायते महद्दीर्घं च त्र्यणुकादि न परिमण्डलम्, यथा वा द्व्यणुकादणोर्ह्रस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते नाणु नो ह्रस्वम्, एवं चेतनाद्ब्रह्मणो ऽचेतनं जगज्जनिष्यत इत्यब्युपगमे किं तव च्छिन्नम् ।
अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादीत्यतो नारम्भकाणि कारणगतानि पारिमण्डल्यादीनीत्यभ्युपगच्छामि, नतु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत ।
नह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणो ऽस्ति, चेतनाप्रतिषेधमात्रत्वात् ।
तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति ।
नैवं मंस्थाः ।
यथा कारणे विद्यमानानामपि पारिमाण्डल्यादिनामनारम्भकत्वमेवं चैतन्यस्यापीत्यस्यांशस्य समानत्वात् ।
नच परिमाणान्तरक्रान्तत्वं पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः ।
आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् ।
नच परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात् ।
ऽकारणबहुत्वात्कारणमहत्वात्प्रचयविशेषाच्च महत्ऽ (वै. सू. 7.1.9) ऽतद्विपरीतमणुऽ (7.1.10 ) ऽएतेन दीर्घत्वह्रस्वत्वे व्याख्यातेऽ (7.1.17) इति हि काणभुजानि सूत्राणि ।
नच संनिधानविशेषात्कुतश्च्त्कारणबहुत्वादीन्येवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत, द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायविशेषात् ।
तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वं, तथा चेतनाया अपीति द्रष्टव्यम् ।
संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः ।
द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत् ।
न ।
दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात् ।
नच द्रव्यस्य द्रव्यमेवोदाहर्तव्यं गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति ।
सूत्रकारो ऽपि भवतां द्रव्यस्य गुणमुदाजहार- ऽप्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यतेऽ (वै. सू. 4.2.2) इति ।
यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगो ऽप्रत्यक्ष एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात् ।
प्रत्यक्षं हि शरीरम् ।
तस्मान्न पाञ्चभौतिकमिति ।
एतदुक्तं भवति- गुणश्च संयोगो द्रव्यं शरीरम् ।
ऽदृश्यते तुऽ (ब्र. सू. 2.1.6) इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता ।
नन्वेवं सति तेनैवैतद्गतम् ।
नेति ब्रूमः ।
तत्सांख्यं प्रत्युक्तम्, एतत्तु वैशेषिकं प्रति ।
नन्वतिदेशो ऽपि समानन्यायतया कृतः ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽ (ब्र.सू. 2.1.12) इति ।
सत्यमेतत् ।
तस्यैव त्वयं वैशेषिकप्रक्रियारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः ॥ 11 ॥
fन्: परमाणुः परिमण्डलः तद्गतं परिमाणं पारिमाण्डल्यम् ।
द्वे द्वे इति पठितव्यम् ।
3 परमाणुजगदकारणत्वाधिकरणम् । सू. 12-17
उभयथापि न कर्मातस्तदभावः
इदानीं परमाणुकारणवादं निराकरोति ।
स च वाद इत्थं समुत्तिष्ठत- पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतेरैव संयोगसचिवैस्तन्त्वादिभिर्द्रव्यैरारभ्यमाणानि दृष्टानि ।
तत्सामान्येन यावत्किञ्चित्सावयवं तत्सर्वं स्वानुगतेरैव संयोगसचिवैस्तैर्द्रव्यैरारब्धमिति गम्यते ।
स चायमवयवावयविविभागो यतो निवर्तते सो ऽपकर्षपर्यन्तगतः परमाणुः ।
सर्वं चेदं जगद्गिरिसमुद्रादिकं सावयवं, सावयवत्वाच्चाद्यन्तवत् ।
नचाकारणेन कार्येण भवितव्यमित्यतः परमाणवो जगतः कारणमिति कणभुगभिप्रायः ।
तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्वनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति स प्रलयकालः ।
ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते तत्कर्म स्वाश्रयमणुमण्वन्तरेण संनियुक्ति ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते ।
एवमग्निरेवमाप एवं पृथिवी ।
एवमेव शरीरं सेन्द्रियमिति ।
एवं सर्वमिदं जगदणुभ्यः संभवति ।
अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति तन्तुपटन्यायेनेति काणादा मन्यन्ते ।
तत्रेदमभिधीयते- विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षो ऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् ।
कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् ।
अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्मस्यात् ।
अभ्युपगमे ऽपि यदि प्रयत्नो ऽभिघातादिर्वा (अथा)यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात् ।
नहि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति शरीराभावात् ।
शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सत्यात्मगुणः प्रयत्नो जायते ।
एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यतव्यम् ।
सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति ।
अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा ।
उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् ।
नह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यप्रक्रियायामभिहितम् ।
आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् ।
आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् ।
अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्, संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् ।
तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् ।
कर्माभावात्तनिबन्धनः संयोगो न स्यात् ।
संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् ।
संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा ।
सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च ।
प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् ।
एकदेशेन चेत्सावयवत्वप्रसङ्गः ।
परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् ।
कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात् ।
असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत ।
यथाचादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलये ऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् ।
नहि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति ।
अदृष्टमपि भोगप्रसिद्ध्यर्थं न प्रलयप्रसिद्ध्यर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म ।
अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत ।
तस्मादनुपपन्नो ऽयं परमाणुकारणवादः ॥ 12 ॥
fन्: स्वानुगतैः स्वसंबद्धैः ।
संबन्धश्चाधार्याधारभूतः प्रत्ययहेतुः समुदायः ।
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः
समवायाभ्युपगमाच्च तदभाव इति प्रकृतेनाणुवादनिराकरणेन संबध्यते ।
द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता ।
नचैवमभ्युपगच्छता शक्यते ऽणुकारणता समर्थयितुम् ।
कुतः ।
साम्यादनवस्थितेः ।
यथैव ह्यणुभ्यामत्यन्तभिन्नं सद्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यत एवं समवायो ऽपि समवायिभ्यो ऽत्यन्तभिन्नः सन्समवायलक्षणेनान्येनैव संवन्धेन समवायिभिः संबध्येतात्यन्तभेदसाम्यात् ।
ततश्च तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत ।
नन्विह प्रत्ययग्राह्यः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्यते नासंबद्धः संबन्धान्तरापेक्षो वा ।
ततश्च न तस्यान्यः संबन्धः कल्पयितव्यो येनानवस्था प्रसज्येतेति ।
नेत्युच्यते ।
संयोगो ऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत ।
अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवोयो ऽपि तर्ह्यर्थान्तरत्वात्संबन्धान्तरमपेक्षेत ।
नच गुणत्वात्संयोगः संबन्धान्तरमपेक्षते न समवायो ऽगुणत्वादिति युज्यते वक्तुम् ।
अपेक्षाकारणस्य तुल्यत्वात् ।
गुणपरिभाषायाश्चातन्त्रत्वात् ।
तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था ।
प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुक नैवोत्पद्येत ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ 13 ॥
नित्यम् एव च भावात्
अपिचाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वोभयस्वभावा वानुभयस्वभावा वाभ्युपगम्यन्ते गत्यन्तराभावात् ।
चतुर्धापि नोपपद्यते ।
प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः ।
निवृत्तिस्वभावत्वे ऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः ।
उभयस्वभावत्वं च विरोधादसमञ्जसम् ।
अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गात् ।
अतन्त्रत्वे ऽप्यदृष्टादेरनित्याप्रवृत्तिप्रसङ्गात् ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ 14 ॥
रूपादिमत्त्वाच् च विपर्ययो दर्शनात्
सावयवानां द्रव्याणामवयववशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति स तेषामभ्युपगमो निरालम्बन एव ।
यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत ।
परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः ।
कुतः ।
एवं लोके दृष्टत्वात् ।
यदि लोके रूपादिमद्वस्तु तत्स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम् ।
तद्यथा पटस्तन्तूनपेक्ष्य स्थूले ऽनित्यश्च भवति तन्तवश्चंशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति, तथाचामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते, तस्मात्ते ऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति ।
यच्च नित्यत्वे कारणं तैरुक्तम्- ऽसदकारणवन्नित्यम्ऽ (वै. सू. 4.1.1) इति ।
तदप्येवं सत्यणुषु न संभवति ।
उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः ।
यदपि नित्यत्वे द्वितीयं कारणमुक्तम्- ऽअनित्यमिति च विशेषतः प्रतिषेधाभावःऽ (वै. सू. 4.1.4) इति ।
तदपि नावश्यं परमाणूनां नित्यत्वं साधयति ।
असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते ।
न पुनः परमाणुनित्यत्वमेवापेक्ष्यते ।
तच्चास्त्येव नित्यं परमकारणं ब्रह्म ।
नच शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् ।
यदपि नित्यत्वे तृतीयं कारणमुक्तम्- ऽअविद्या चऽ (वै. सू. 4.1.5) इति, तद्यद्येवं विव्रीयते सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत ।
अथाद्रव्यत्वे सतीति विशेष्येत तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमाद्येत ।
तस्य च प्रागेवोक्तत्वात् ऽअविद्या चऽ इति पुनरुक्तं स्यात् ।
अथापि कारणविभागात्कारणविनाशाच्चन्यस्य तृतीयस्य विनाशहेतोरसंभवो ऽविद्या सा परमाणूनां नित्यत्वं ख्यपयतीति व्याख्यायेत ।
नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतिति नियमो ऽस्ति ।
संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भके ऽभ्युपगम्यमान एतदेवं स्यात् ।
यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते ।
तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम् ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ 15 ॥
उभयथा च दोषात्
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुरित्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते ।
तद्वत्परमाणवो ऽप्युपचितापचितगुणाः कल्प्येरन्न वा ।
उभयथापि च दोषानुषङ्गो ऽपरिहार्य एव स्यात् ।
कल्प्यमाने तावदुपचितापचितगुणत्व उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः ।
नचान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्यते, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात् ।
अकल्प्यमाने तूपचितापचितगुणत्वे परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्वं एकैकगुणा एव कल्प्येरंस्ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानां,
कारणगुणपूर्वकत्वात्कार्यगुणानाम् ।
अथ सर्वे चतुर्गुणा एव कल्प्येतन्, ततो ऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् ।
नचैवं दृश्यते ।
तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ 16 ॥
fन्: मूर्त्युपचयात् स्थौल्यादित्यर्थः ।
अपरिग्रहाच् चात्यन्तम् अनपेक्षा
प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः ।
अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः ।
अपिच वैशेषिकास्तन्त्रार्थभूतान्षट्पदार्थान्द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यानत्यन्तभिन्नान्भिन्नलक्षणानभ्युपगच्छन्ति ।
यथा मनुष्यो ऽश्वः शश इति ।
तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणमभ्युपगच्छन्ति ।
तन्नोपपद्यते ।
कथम् ।
यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामत्यन्तभिन्नत्वान्नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति ।
अथ भवति द्रव्याधीनत्वं गुणादीनां ततो द्रव्यभावे भावाद्द्रव्याभावे ऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति ।
यथा देवदत्त एक एव सन्नवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति तद्वत् ।
तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम् ।
नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते ।
सत्यं दृश्यते ।
भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते ।
इह तु शुक्लः कम्बलो रोहिणी धेनुर्नीलमुत्पलमिति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषेण प्रतीयमानत्वान्नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति ।
तस्माद्द्रव्यात्मकता गुणस्य ।
एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता ।
गुणा(दी)नां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यादपृथक्कालत्वं वापृथक्स्वभावत्वं वा ।
सर्वथापि नोपपद्यते ।
अपृथकग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत ।
कथम् ।
तन्त्वारब्धो हि पटष्टन्तुदेशो ऽभ्युपगम्यते न पटदेशः ।
पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते न तन्तुदेशाः ।
तथाचाहुः - ऽद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्ऽ (वै. सू. 1.1.10) इति ।
तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते ।
तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्त इति हि ते ऽभ्युपगच्छन्ति ।
सो ऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वे ऽभ्युपगम्यमाने बाध्येत ।
अथापृथक्कालत्वमयुतसिद्दत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत ।
तथापृथक्स्वभावत्वे त्वयुतसिद्धत्वेन द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् ।
युतसिद्धयोः संबन्धः संयोगो ऽप्युतसिद्धयोस्तु समवाय इत्ययमभ्युपगमो मृषैव तेषां, प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः ।
अथान्यतरापेक्ष एवायमभ्युपगमः स्यादयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति, एवमपि प्राग्सिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते द्वयायत्तत्वात्संबन्धस्य ।
सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् ।
यथा चेत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते न समवाय एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यान्न समवायः ।
नापि संयोगस्य समवायस्य वा संबन्धव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति ।
संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् ।
न ।
एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयानेकशब्दप्रत्ययदर्शनात् ।
यथैको ऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्यानेकशब्दप्रत्ययभाग्भवति, मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्न्यत्वेन निविशमानैकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथासंबन्धिनोरेव संबन्धशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वं न व्यतिरिक्तवस्त्वस्तित्वेन , इत्युपलब्दिलक्षणप्राप्तस्यानुपलब्धेरभावो वस्त्वन्तरस्य ।
नापि संबन्दधिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः ।
स्वरूपाह्यरूपापेक्षयेत्युक्तोत्तरत्वात् ।
तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् ।
कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् ।
न ।
अविद्यामानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् ।
इयानेवाविद्यमानो विरुद्धो ऽविरुद्धो वार्थः कल्पनीयो नातो ऽधिक इति नियमहेत्वभावात् ।
कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च ।
नच वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्यो ऽन्ये ऽधिकाः शतं सहस्रं वार्था न कल्पयितव्या इति निवारको हेतुरस्ति ।
तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिद्ध्येत् ।
कश्चित्कृपालुः प्राणिनां दुःखबहुलं संसार एव माभूदिति कल्पयेत् ।
अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत् ।
कस्तयोर्निवारकः स्यात् ।
किञ्चान्यत् ।
द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः ।
नह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषो ऽस्ति ।
कार्यकारणद्रव्ययोराश्रिताश्रयभावो ऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् ।
न ।
इतरेतराश्रयत्वात् ।
कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिराश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः कुण्डबदरवदितरेतराश्रयता स्यात् ।
नहि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् ।
किञ्चान्यत् ।
परमाणूनां परिच्छिन्नत्वाद्यावत्यो दिशः षडष्टौ दश वा तावद्भिरवयवैः सावयवास्ते स्युः सावयवत्वादनित्याश्चेति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत ।
यांस्त्वं दिग्भेदभेदिनो ऽवयवान्कल्पयसि त एव परमाणव इति चेत् ।
न ।
स्थूलसूक्ष्मतारतम्यक्रमेणापरमकारणाद्विनाशोपपत्तेः ।
यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकं, तथा परमाणवो ऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः ।
विनश्यन्तो ऽप्यवयवविभागेनैव विनश्यन्तीति चेत् ।
नायं दोषः ।
यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगाद्द्रवभावापत्त्या काठन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यति ।
तथा कार्यरम्भो ऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात् ।
तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुति प्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षास्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः ॥ 17 ॥
fन्: तथात्वमत्यन्तभिन्नत्वम् ।
सांख्यो ऽत्रवेदान्ती ग्राह्यः ।
यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् ।
प्रभूतत्वसंभवान्निरवधित्वसंभवात् ।
संश्लेषः संग्रह एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः ।
4 समुदायाधिकरणम् . सू. 18-27
समुदाय उभयहेतुके ऽपि तदप्राप्तिः
वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम् ।
सोर्ऽधवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः ।
स च बहुप्रकारः प्रतिपत्तिभेदाद्विनेयभेदाद्वा ।
तत्रैते त्रयो वादिनो भवन्ति- केचित्सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिन इति ।
तत्र ते सर्वास्तित्ववादिनो बाह्यमान्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिकं च चित्तं चैत्तं च, तांस्तावत्प्रतिब्रूमः ।
तत्र भूतं पृथिवीधात्वादयः ।
भौतिकं रूपादयष्चक्षुरादयश्च ।
चतुष्टये च पृथिव्यादिपरमाणवः स्वरस्नेहोष्णस्वभावास्ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते ।
तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः ।
ते ऽप्यध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्त इति मन्यन्ते ।
तत्रेदमभिधीयते- यो ऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतो ऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुके ऽपि समुदाये ऽभिप्रेयमाणे तदप्राप्तिः स्यात्समुदायाप्राप्तिः ।
समुदायभावानुपपत्तिरित्यर्थः ।
कुतः ।
समुदायिनामचेतनत्वात् ।
चित्ताभिज्ज्वलनस्य च समुदायसिद्ध्यधीनत्वात् ।
अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात् ।
आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् ।
क्षणिकत्वाभ्युपगमाच्च निर्व्यापारत्वात्प्रवृत्त्यनुपपत्तेः ।
तस्मात्समुदायानुपपत्तिः ।
समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत ॥ 18 ॥
fन्: भूते भौतिकं बाह्यम्, चित्तं चैत्तं च कामाद्यन्तरमिति विभागः ।
चतुष्टये चतुर्विधाः ।
स्वराः कठिनाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णस्तैजसाः, ईरणं चलनं स्वभावो वायव्यानामिति ।
सविशेषेन्द्रियाणि रूपस्कन्धः, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदान्तस्कन्धः, गौरश्व इत्येवंनामविशिष्टसविकल्पप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माः संस्कारस्कन्धः ।
आशेरते ऽस्मिन् रागादय इत्याशयः संतानः ।
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात्
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा ।
तस्यां चोपपद्यमानायां वा किञ्चिदपरमपेक्षितव्यमस्ति ।
ते चाविद्यादयो ऽविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शा वेदना तृष्णा उपादानं भवो जातिर्जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्तेत्येवञ्जातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः क्वचित्प्रपञ्चिताः ।
सर्वेषामप्ययमविद्यादिकलापो ऽप्रत्याख्येयः ।
तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेर्ऽथाक्षिप्त उपपन्नः संघात इति चेत् ।
तन्न ।
कस्मात् ।
उत्पत्तिमात्रनिमित्तत्वात् ।
भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत ।
न त्ववगम्यते ।
यत इतरेतरप्रत्ययत्वे ऽप्यविद्यादीनां पूर्वपूर्वमुत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवेद्भवेन्न तु संघातोत्पत्तेः किञ्चिन्निमित्तं संभवति ।
नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् ।
अत्रोच्यते- यदि तावदयमभिप्रायो ऽविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य निमित्तं वक्तव्यम् ।
तच्च नित्येष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तेषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम् ।
किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत् ।
अथायमभिप्रायो ऽविद्यादय एव संघातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः ।
अथ मन्यसे संघाता एवानादौ संसारे संतत्यानुवर्तन्ते तदाश्रयाश्चाविद्यादय इति, तदपि संधातात्संघातान्तरमुत्पद्यमानं, नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत ।
नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् ।
अनियमाभ्युपगमे ऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् ।
उभयमप्यभ्युपगमविरुद्धम् ।
अपिच यद्भोगार्थः संघातः स्यात्स नास्ति स्थिरो भोक्तेति तवाभ्युपगमः ।
ततश्च भोगो भोगार्थ एव स नान्येन प्रार्थनीयः ।
तथा मोक्षो मोक्षार्थं एवेति मुमुक्षुणा नान्येन भवितव्यम् ।
अन्येन चेत्प्रार्थ्येतोभयं भोगमोक्षकालावस्थायिना तेन भवितव्यम् ।
अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः ।
तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेद्भवतु नाम नतु संघातः सिद्ध्येत् ।
भोक्त्रभावादित्यभिप्रायः ॥ 19 ॥
fन्: कार्यं प्रति अयते गच्छतीति प्रत्ययः कारणम् ।
विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत्षडायतनम् ।
तृष्ण्या वाक्कायचेष्टोपादानम् ।
हा पुत्र, तातेत्यादिप्रलापः परिदेवना ।
आश्रयेत्यादि भोक्तृविशेषणं अदृष्टाश्रयेष्वित्यर्थः ।
उत्तरोत्पादे च पूर्वनिरोधात्
उक्तमेतदविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति ।
तदपि तूत्पत्तिमात्रनिमित्तत्वं न संभवतीतिदमिदानीमुपपाद्यते ।
क्षणभङ्गवादिनो ऽयमभ्युपगम उत्तरस्मिन्क्षण उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति ।
नचैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम् ।
निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः ।
अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायस्तथापि नोपपद्यते ।
भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात् ।
अथ भाव एवास्य व्यापार इत्यभिप्रायस्तथापि नैवोपपद्यते ।
हेतुस्वभावानुपरक्तस्य फलस्येत्पत्त्यसंभवात् ।
स्वभावोपरागाभ्युपगमे च हेतुस्वभावस्य फलकालावस्थायित्वे सति क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः ।
विनैव वा स्वभावोपरागेण हेतु फलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः ।
अपिचोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्यातामवस्थान्तरं वा वस्त्वन्तरमेव वा ।
सर्वथापि नोपपद्यते ।
यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्यातां ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः ।
अस्थास्ति कश्चिद्विशेष इति मन्येतोत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यान्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः ।
अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्यातामश्वमहिषवत्, ततो वस्तु उत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः ।
यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम्, एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव ।
तस्मादप्यसंगतं सौगतं मतम् ॥ 20 ॥
fन्: निरुध्यमानत्वं विनाशकसांनिध्यम् ।
निरुद्धत्वमतीतत्वम् ।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा
क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम् ।
अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात्, ततः प्रतिज्ञोपरोधः स्यात् ।
चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत ।
निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत ।
अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात्ततो यौगपद्यं हेतुफलयोः स्यात् ।
तथापि प्रतिज्ञोपरोध एव स्यात् ।
क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत ॥ 21 ॥
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्
अपिच वैनाशिकाः कल्पयन्ति बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति ।
तदपि च क्षयं प्रतिसंख्याप्रतिसंखायानिरोधावकाशं चेत्याचक्षते ।
त्रयमपि चैतदवस्त्वभावमात्रं निरुपाख्यमिति मन्यन्ते, बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते, तद्विपरीतो ऽप्रतिसंख्यानिरोधः आवरणभावमात्रमाकाशमिति ।
तेषामाकाशं परस्तात्प्रत्याख्यास्यति ।
निरोधद्वयमिदानीं प्रत्याचष्टे ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरप्राप्तिः ।
असंभव इत्यर्थः ।
कस्मात् ।
अविच्छेदात् ।
एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्यातां भावगोचरौ वा ।
न तावत्संतानगोचरौ संभवतः ।
सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात् ।
नापि भावगोचरौ संभवतः ।
नहि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् ।
अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात् ।
तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः ॥ 22 ॥
fन्: निरुपाख्यं निःस्वरूपम् ।
प्रतीपा प्रतुकूलः संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या तया निरोधः ।
उभयथा च दोषात्
यो ऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्स्वयमेव वा ।
पूर्वस्मिन्विकल्पे निहर्तुकविनाशाभ्युपगमहानिप्रसङ्गः ।
उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गः ।
एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम् ॥ 23 ॥
fन्: परिकरा यमनियमादयस्तत्सहितात् ।
सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ।
आकाशे चाविशेषात्
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति, तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् ।
आकाशस्येदानीं निराक्रियते ।
आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः ।
प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् ।
आगमप्रामाण्यात्तावत् ऽआत्मन आकाशः संभूतःऽ (तै. 2.1) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्राप्तिः ।
विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यं, गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् ।
अपि चावरणाभावमात्रमाकाशमिच्छतामेकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतो ऽनवकाशत्वप्रसङ्गः ।
यत्रावरणाभावस्तत्र पतिष्यतीति चेत् ।
येनावरणभावो विशेष्यते तत्तर्हि वस्तुभूतमेवाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत ।
सौगते हि समये ऽपृथिवी भगवः किंसंनिश्चयाऽ इत्यस्मिन्प्रतिवचनप्रवाहे पृथिव्यादीनामन्ते वायुः ऽकिंसंनिश्चयःऽ इत्यस्य प्रश्नस्य प्रतिवचनं भवति ऽवायुराकाशसंनिश्चयःऽ इति ।
तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् ।
तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् ।
अपिच निरोधद्वयमाकाशं च त्रयमप्येतन्निरूपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् ।
नह्यवस्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य ।
धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यान्न निरुपाख्यत्वम् ॥ 24 ॥
fन्: पतिष्यति संचरिष्यतीत्यर्थः ।
किं सम्यक् निश्चय आश्रयो ऽस्या इति किं संनिश्चया ।
अनुस्मृतेश् च
अपिच वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन्नुपलब्धुरपि क्षणिकतामभ्युपेयात् ।
नच सा संभवति ।
अनुस्मृतेः अनुभवमुपलब्धिमनूत्पद्यमानं स्मरणमेवानुस्मृतिः ।
सा चोपलब्ध्येककर्तृका सती संभवति ।
पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात् ।
कथं ह्यहमदो ऽद्राक्षमिदं पश्यामीति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात् ।
अपिच दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धो ऽहमदो ऽद्राक्षमिदं पश्यामीति ।
यदि हि तयोर्भिन्नः कर्ता स्यात्ततो ऽहं स्माराम्यद्राक्षीदन्य इति प्रतीयात् ।
नत्वेवं प्रत्येति कश्चित् ।
यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोको ऽवगच्छति, स्मराम्यहमसावदो ऽद्राक्षीदिति ।
इह त्वहमदो ऽद्राक्षमिति दर्शनस्मरणयोर्विनाशिको ऽप्यात्मानमेवैकं कर्तारमवगच्छति ।
न नाहमित्यात्मनो दर्शनं निर्वृत्तं निह्नुते यथाग्निरनुष्णो ऽप्रकाश इति वा ।
तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात् ।
तथानन्तरमनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकामोत्तमादुच्छ्वासादतीताश्च प्रतिपत्तीरा जन्मन आत्मैककर्तृकाः प्रतिसंदधानः कथं क्षणभङ्गवादी वैनाशिको नापपेत स यदि ब्रूयात्सादृश्यादेतत्समपत्स्यत इति ।
तं प्रतिब्रूयात् ।
तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात्, सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात् ।
स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथासत्येकस्य क्षणद्वयावस्थ4नात्क्षणिकत्वप्रतिज्ञा पीड्येत ।
तेनेदं सदृशमिति प्रत्ययान्तरमेवेदं न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमितिचेत् ।
न ।
तेनेदमिति ।
भिन्नपदार्थोपादानात् ।
प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्तेनेदं सदृशमिति वाक्यप्रयोगो ऽनर्थकः स्यात् ।
सादृश्यमित्येव प्रयोगः प्राप्नुयात् ।
यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते तदा स्वपक्षसिद्धिः परपक्षदोषो वोभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन न बुद्धिसंतानमारोहति ।
एवमेवैषोर्ऽथ इति निश्चितं यत्तदेव वक्तव्यम् ।
ततो ऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् ।
नचायं सादृश्यात्संव्यवहारो युक्तः ।
तद्भावावगमात्तत्सदृशभावानवगमाच्च ।
भवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसंभवात्तदेवेदं स्यात्तत्सदृशं वेति संदेहः ।
उपलब्धरि तु संदेहो ऽपि न कदाचिद्भवति स एवाहं स्यां तत्सदृशो वेति ।
य एवाहंपूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामीति निश्चिततद्भावोपलम्भात् ।
तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ 25 ॥
नासतो ऽदृष्टत्वात्
इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छतामभावाद्भावोत्पत्तिरित्येतदापद्यते ।
दर्शयन्ति चाभावाद्भावोत्पत्तिम्- ऽनानुपमृद्य प्रादुर्भावात्ऽ इति ।
विनष्टाद्धि किल बीजादङ् कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः ।
कूटस्ताच्चेत्कारणात्कार्यमुत्पद्येताविशेषात्सर्वं सर्वत उत्पद्येत ।
तस्मादभावग्रस्तेभ्यो बीजादिभ्यो ऽङ् कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिरिति मन्यन्ते ।
तत्रेदमुच्यते- ऽनासतो ऽदृष्टत्वात्ऽ इति ।
नाभावाद्भाव उत्पद्यते ।
यद्यभावाद्भाव उत्पद्येताभावत्वाविशेषात्कारणविशेषाभ्युपगमो ऽनर्थकः स्यात् ।
नहि बीजादीनामुपमृदितानां यो ऽभावस्तस्याभावस्य शशविषाणादीनां च निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषो ऽस्ति, येन बीजादेवाङ् कुरो जायते क्षीरादेव दधीत्येवञ्जातीयकः कारणिशेषणादिभ्युपगमोर्ऽथवान्स्यात् ।
निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्यो ऽप्यङ् कुरादयो जायेरन् ।
नचैवं दृश्यते ।
यदि पुनरभावस्यापि विशेषो ऽभ्युपगम्येतोत्पलादीनामिव नीलत्वादिस्ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत ।
नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव, शशविषाणादिवत् ।
आभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात् ।
नचैवं दृश्यते ।
सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् ।
नच मृदान्विताः शरावादयो भावस्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते ।
मृद्विकारानेव तु मृदान्वितान्भावांल्लोकः प्रत्येति ।
यत्तूक्तं स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वामुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति ।
तद्दुरुक्तम् ।
स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् ।
येष्वपि बीजादिषु स्वरूपोपमर्दे लक्ष्यते तेष्वरपि नासावुपमृद्यमाना पूर्वावस्थोत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानामेवानुयायिनां बीजाद्यवयवानामङ् कुरादिकारणभावाभ्युपगमात् ।
तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनादनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः ।
अपिच चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते, परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यत इत्यभ्युपगम्य पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते ॥ 26 ॥
उदासीनानाम् अपि चैवं सिद्धिः
यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवंसत्युदासीनानामनीहमानानांपि जनानामभिमतसिद्धिः स्यात् ।
अभावस्य सुलभत्वात् ।
कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात् ।
कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्याप्यमत्रोत्पत्तिः ।
तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः ।
स्वर्गापवर्गयोश्च न कश्चित्कथञ्चित्समीहेत ।
नचैतद्युज्यते ऽभ्युपगम्यते वा केनचित् ।
तस्मादप्यनुपपन्नो ऽयमभावाद्भावोत्पत्त्यभ्युपगमः ॥ 27 ॥
fन्: अनीहमानानां प्रयत्नशून्यानाम् ।
अमत्रं घटादिपात्रम् ।
5 अभावाधिकरणम् । सू. 28-32
नाभाव उपलब्धेः
एवं बाह्यार्तवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठिते ।
केषाञ्चित्किल बाह्ये वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्यार्थवादप्रक्रियेयं विरोचिता ।
नासौ सुगताभिप्रायः ।
तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः ।
तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणान्तस्थ एव प्रमाणप्रमेयव्यवहारः सर्व उपपद्यते ।
सत्यपि बाह्येर्थे बुद्ध्यारोहमन्तरेण प्रमाणप्रमेयफलव्यवहारानवतारात् ।
कथं पुनरवगम्यते ऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिक्तो बाह्योर्ऽथो ऽस्तीति ।
तदसंभवादित्याह ।
स हि बाह्योर्थो ऽभ्युपगम्यमानः परमाणवो वा स्युस्तत्समूहा वा स्तम्भादयः स्युः ।
तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति (परमाण्वाभासज्ञानानुत्पत्तेः) ।
नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्यो ऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात् ।
एवं जात्यादीनपि प्रत्यक्षीत ।
अपिचानुभावमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य यो ऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् ।
अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना ।
अपिच सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति ।
नह्यनयोरेकस्यानुपलम्भे ऽन्यस्योपलम्भो ऽस्ति ।
नचैतत्स्वभावविवेके युक्तं, प्रतिबन्धकारणाभावात् ।
तस्मादप्यर्थाभावः ।
स्वप्नादिवच्चेदं द्रष्टव्यम् ।
यथाहि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्येनार्थेन ग्राह्यग्राहकाकारा भवन्ति, एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते ।
प्रत्ययत्वाविशेषात् ।
कथं पुनरसति बाह्यार्थे प्रत्ययवैचित्र्यमुपपद्यते ।
वासनावैचित्र्यादित्याह ।
अनादौ हि संसारे बीजाङ् कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते ।
अपिचान्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते ।
स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्योभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात् ।
अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मयानभ्युपगम्यमानत्वात् ।
तस्मादप्यभावो बाह्यार्थस्येति ।
एवं प्राप्ते ब्रूमः - ऽनाभाव उपलब्धेःऽ इति ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते ।
कस्मात् ।
उपलब्धेः ।
उपलभ्यते हि प्रतिप्रत्ययं बाह्योर्ऽथः स्तम्भः कुड्यं घटः पट इति ।
नचोपलभ्यमानस्यैवाभावो भवितुमर्हति ।
यथा हि कश्चिद्भुञ्जानो भुजितसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयान्नाहं भुञ्जे न वा तृप्यामीति, तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्यमर्थं नाहमुपलभे नच सो ऽस्तीति ब्रुवन्कथमुपादेयवचनः स्यात् ।
ननु नाहमहं ब्रवीमि न कञ्चिदर्थमुपलभ इति किं तूपलब्धिव्यतिरिक्तं नोपलभ इति ब्रवीमि ।
बाढमेवं ब्रवीषि निरङ् कुशत्वात्ते तुण्डस्य ।
नतु यक्त्युपेतं ब्रवीषि ।
यत उपलब्धिव्यतिरेको ऽपि बलादर्थस्याभ्युपगन्तव्य उपलब्धेरेव ।
नहि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते ।
उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते यत्प्रत्याचक्षाणा अपि बाह्यार्थमेव व्याचक्षते यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासत इति ।
ते ऽपि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाश्च बाह्यमर्थं बहिर्वदति वत्कारं कुर्वन्ति ।
इतरथा हि कस्माद्बहिर्वदति ब्रूयुः ।
नहि विष्णुमित्रो वन्ध्यापुत्रवदवभासत इति कश्चिदाचक्षीत ।
तस्माद्यथानुभवं तत्त्वमभ्युपगच्छद्भिर्बहिरेवावभासत इति युक्तमभ्युपगन्तुं नतु बहिर्वदवभासत इति ।
ननु बाह्यार्थस्यासंभवाद्बहिर्वदवभासत इत्यध्यवसितम् ।
नायं साधुरध्यवसायो यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संबवासंभवाववधार्येते न पुनः संभवासंभवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती ।
यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते तत्संभवति ।
यत्तु न केनचिदपि प्रमाणेनोपलभ्यते तन्न संभवति ।
इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योर्ऽथ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येतोपलब्धेरेव ।
नच ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य ।
अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषययोरुपायोपेयभावहेतुको नाभेदहेतुक इत्यब्युपगन्तव्यम् ।
अपिच घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदो न विशेष्यस्य ज्ञानस्य ।
द्वाभ्यां च भेद एतस्य सिद्धो भवत्येकस्माच्च द्वयोः ।
तस्मादर्थज्ञानयोर्भेदः ।
तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् ।
अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदो न विशेषणस् घटस्य ।
यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदो न विशेषणस्य क्षीरस्य तद्वत् ।
अपिच द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैवोपक्षीणयोरितरेतरग्राह्यग्राहकत्वानुपपत्तिः ।
ततश्च विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगतास्ता हीयेरन् ।
किञ्चान्यत् ।
विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योर्थः स्तम्भः कुड्यमित्येवञ्जातीयकः तस्मान्नाभ्युपगम्यत एवेति युक्तमभ्युपगन्तुम् ।
अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते न तथा बाह्यो ऽप्यर्थ इति चेत् ।
अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छस्यग्निरात्मानं दहतीतिवत्, अविरुद्धं तु लोकप्रसिद्धं स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योर्ऽथोनुभूयत इति नेच्छास्यहो पाण्डित्यं महद्दर्शितम् ।
नचार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव ।
ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे तदप्यनेन ग्राह्यं तदप्यन्येनेत्यनवस्था प्राप्नोति ।
अपिच प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति ।
तदुभयमप्यसत् ।
विज्ञानग्तहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादानवस्ताशङ्कानुपपत्तेः ।
साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः ।
स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात् ।
किञ्चान्यत् ।
प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।
शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् ।
बाढमेवम्, अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वयानुज्ञायत इति चेत् ।
न ।
अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् ।
अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते ।
साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानमित्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् ।
न ।
विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् ।
अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम् ॥ 28 ॥
fन्: पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
अविद्योपप्लवो ऽविद्यासंसर्गः ।
वैधर्म्याच् च न स्वप्नादिवत्
यदुक्तं बाह्यार्थपलायिना स्वप्नादिप्रत्ययवजिजागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः प्रत्ययत्वाविशेषादिति ।
तत्प्रतिवक्तव्यम् ।
अत्रोच्यते- न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति ।
कस्मात् ।
वैधर्म्यात् ।
वैधर्म्यं हि भवति स्वप्नजागरितयोः ।
किं पुनर्वैधर्म्यम् ।
बाधाबाधाविति ब्रूमः ।
बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य मिथ्या मयोपलब्धो महाजनसमागम इति, नह्यस्ति मम महाजनसमागमो निद्रालग्नं तु मे मनो बभूव तेनैषा भ्रान्तिरुद्बभूवेति ।
एवं मायादिष्वपि भवति यताविधं बाधः ।
नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते ।
अपिच समृतिरेषा यत्स्वप्नदर्शनम् ।
उपलब्धिस्तु जागरितदर्शनम् ।
स्मृत्युपलब्धयोश्च प्रत्यक्षमन्तरं स्वयमनुभूयतेर्ऽथविप्रयोगसंयोगात्मकमिष्टं पुत्रं स्मरामि नोपलभ उपलब्धुमिच्छामीति ।
तत्रैवंसति न शक्यते वक्तुं मिथ्या जागरितोपलब्धिरूपलब्धित्वात्स्वप्नोपलब्धिवदित्युभयोरन्तरं स्वयमनुभवता ।
नच स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् ।
अपिचानुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते ।
नच यो यस्य स्वतो धर्मो न संभवति सो ऽन्यस्य साधर्म्यात्तस्य संभविष्यति ।
नह्यग्निरुष्णो ऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति ।
दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः ॥ 29 ॥
fन्: निद्रालग्निमिति करणदोषाभिधानम् ।
संस्कारमात्रजं हि विज्ञानं समृतिः ।
प्रमाणजो ऽनुभव उपलब्धिः ।
न भावो ऽनुपलब्धेः
यदप्युक्तं विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्प्यत इति ।
तत्प्रतिवक्तव्यम् ।
अत्रोच्यते- नभावो वासनानामुपपद्येत त्वत्पक्षे ऽनुपलब्धेर्बाह्यानामर्थानाम् ।
अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति ।
अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः ।
अनादित्वे ऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यान्नाभिप्रायसिद्धिः ।
यावप्यन्यव्यतिरेकावर्थापलापिनोपन्यस्तौ वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवंसति प्रत्युक्तौ द्रष्टव्यौ ।
विनार्ऽथोपलब्ध्या वासनानुपपत्तेः ।
अपिच विनापि वासनाभिरर्थोपलब्ध्युपगमाद्विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमादर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः ।
अपिच वासना नाम संस्कारविशेषाः ।
संस्काराश्च नाश्रयमन्तरेणावकल्प्यन्ते ।
एवं लोके दृष्टत्वात् ।
नच तव वासनाश्रयः कश्चिदस्ति प्रमाणतो ऽनुपलब्धेः ॥ 30 ॥
fन्: भाव उत्पत्तिः सत्ता वा ।
क्षणिकत्वाच् च
यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितं तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति ।
नहि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि ।
देशकालनिमित्तापेक्षवासनाधानस्मृतिप्रतिसंधानादिव्यवहारः संभवति ।
स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः ।
अपिच विज्ञानवादे ऽपि क्षणिकत्वाभ्युपगमस्य समानत्वाद्यानि बाह्यार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि ऽउत्तरोत्पादे च पूर्वनिरोधात्ऽ इत्येवमादीनि तानीहाप्यनुसंधातव्यानि ।
एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ बाह्यार्थवादिपक्षो विज्ञानवादिपक्षश्च ।
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते ।
नह्ययं सर्वप्रमाणप्रसिद्धो लोकव्यवहारो ऽन्यत्तत्त्वमनधिगम्य शक्यते ऽपह्नोतुमपवादाभाव उत्सर्गप्रसिद्धेः ॥ 31 ॥
fन्: नादरः क्रियते सूत्रान्तराणि न रच्यन्त एतान्येवावृत्त्या योजयन्ते ।
सर्वथानुपपत्तेश् च
किं बहुना ।
सर्वप्रकारेण यथायथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथातथा सिकताकूपवद्विदीर्यत एव ।
न काञ्चिदप्यत्रोपपत्तिं पश्यामः ।
अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः ।
अपिच बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनो ऽसंबद्धप्रलापित्वं, प्रद्वेषो वा प्रजासु विरुद्धार्थप्रतिपत्त्या विमुह्येयुरिमाः प्रजा इति ।
सर्वथाप्यनादरणीयो ऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः ॥ 32 ॥
fन्: वेदबाह्या अत्र प्रजा ग्राह्याः ।
6 एकस्मिन्नसंभवाधिकरणम् । सू. 33-36
नैकस्मिन्न् असंभवात्
निरस्तः सुगतसमयः ।
विवसनसमय इदानीं निरस्यते ।
सप्त चैषां पदार्थाः संमता जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम ।
संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ ।
यथायोगं तयोरेवेतरान्तर्भावादिति मन्यन्ते ।
तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम- जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशास्तिकायश्चेति ।
सर्वेषामप्येषामवान्तरप्रभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति ।
सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति ।
स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति ।
एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति ।
अत्राचक्ष्महे- नायमभ्युपगमो युक्त इति कुतः ।
एकस्मिन्नसंभवात् ।
नह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् ।
य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युर्नैव वा तथा स्युः ।
इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् ।
नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति ।
नेति ब्रूमः ।
निरङ् कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वविशेषात्स्यादिति स्यानव्नास्तीत्यादिविकल्पोपनिपातादिनिर्धारणात्मकतैव स्यात् ।
एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षे ऽस्तिता स्याच्च पक्षे नास्तीति ।
एवंसति कथं प्रमाणभूतः संस्तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितष्वनिर्धारितासूपदेष्टुं शक्नुयात् ।
कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेर्ऽथे ऽनिर्धारितरूपे प्रवर्तेरन् ।
ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोको ऽनाकुलः प्रवर्तते नान्यथा ।
अतश्चानिर्धार्तार्थं शास्त्रं प्रणयन्मत्तोन्मत्तवदनुपादेयवचनः स्यात् ।
तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्यास्ति वा नास्ति वेति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यादित्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् ।
नचैषां पदार्थानामवक्तव्यत्वं संभवति ।
अवक्तव्याश्चेन्नोच्येरन् ।
उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् ।
उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च ।
तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा, एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वेति प्रलपन्मत्तोन्मत्तपक्षस्यैव स्यान्न प्रत्यायितव्यपक्षस्य ।
स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावस्तथा पक्षे नित्यता पक्षे चानित्यतेत्यनवधारणायां प्रवृत्त्यनुपपत्तिः ।
अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः ।
एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्सत्त्वे चैकस्मिन्धर्मे ऽसत्त्वस्य धर्मान्तरस्यासंभवादसत्त्वे चैवं सत्त्वस्यासंभवादसंगतमिदमार्हतं मतम् ।
एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः ।
यत्तु पुद्गलसंज्ञकेभ्यो ऽणुभ्यः संगाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते ॥ 33 ॥
fन्: जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेनिद्रियाणां प्रवृत्तिरास्रवः, तां संवृणोतीति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
अस्तिकायशब्दः सांकेतिकः पदार्थवाची ।
जीवश्चासावस्तिकायश्चेति विग्रहः ।
पूर्यन्ते गन्तीति पुद्गलाः परमाणुसंघाः कायाः ।
सप्तानांस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी तस्या नयो न्यायः ।
एवं चात्माकार्त्स्न्यम्
यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्त एवमात्मनो ऽपि जीवस्याकार्त्स्न्यमपरो दोषः प्रसज्येत ।
कथम् ।
शरीरपरमात्माणो हि जीव इत्यार्हता मन्यन्ते ।
शरीरपरिमाणतायां च सत्यामकृत्स्नो ऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत ।
शरीरीणां चानवस्थितपरिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् ।
पुत्तिकाजन्म च प्राप्मुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयेत ।
समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थविरेषु दोषः ।
स्यादेतत् ।
अन्तावयवो जीवस्तस्य त एवावयवा अल्पे शरीरे संकुचेयुर्महति च विकुचेयुरिति ।
तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्यते वा नवेति वक्तव्यम् ।
प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन् ।
अप्रतिघाते ऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात् ।
अपिच शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् ॥ 34 ॥
fन्: कर्मविपाकः कर्मणामभिव्यक्तिः ।
अथ प्रयायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत तत्राप्युच्यते-
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः
नच पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते ।
कुतः ।
विकारादिदोषप्रसङ्गात् ।
अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्, विक्रियावत्त्वे च चर्मादिवदनित्यं प्रसज्येत ।
ततश्च बन्धमोक्षाभ्युपगमो बाध्येत कर्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति ।
किञ्चान्यत् ।
आगच्छतामपगच्छतां चावयवानामागमापायधर्मवत्त्वादेवानामात्वं शरीरादिवत् ।
ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् ।
नच स निरूपयितुं शक्यते ऽयमसाविति ।
किञ्चान्यत् ।
आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्त्यपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् ।
नहि भूतेभ्यः प्रादुर्भवेयुर्भूतेषु च निलीयेरन्, अभौतिकत्वाज्जीवस्य ।
नापि कश्चिदन्यः साधारणो ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात् ।
किञ्चान्यत् ।
अनवधृतस्वरूपश्चैवंसत्यात्मा स्यात् ।
आगच्छतामपगच्छतां चावयवानामनियतपरिमाणत्वात् ।
अत एवमादिदोषप्रसङ्गान्न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्यते ।
अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः पर्यायेण परिमाणानवस्थाने ऽपि स्रोतःसंताननित्यतान्यायेनात्मनो नित्यता स्यात् ।
यथा रक्तपटानां विज्ञानानवस्थाने ऽपि तत्संताननित्यता तद्वद्धिसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते ।
संतानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः ।
वस्तुत्वे ऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ॥ 35 ॥
fन्: देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि स्रोतःप्रवाहः ।
विगतं सिग् वस्त्रं विसिचो दिगम्बरास्तेषामित्यर्थः ।
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः
अपिचान्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः ।
तद्वत्पूर्वयोरप्यविद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात् ।
एकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरान्तरप्राप्तिः ।
अथवान्त्यस्य जीवपरिमाणस्यावस्थितत्वात्पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात्, ततश्चाविशेषेण सर्वदैवाणुर्महान्वा जीवो ऽभ्युपगन्तव्यो न शरीरपरिमाणः ।
अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम् ॥ 36 ॥
पत्यधिकरणम् । सू. 37-41
पत्युर् असामञ्जस्यात्
इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते ।
तत्कथमवगम्यते ।
ऽप्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ ऽअभिध्योपदेशाच्चऽ (ब्र. 1.4.23,24) इत्यत्र प्रकृतिभावेनाधिष्ठातृभावेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्येण प्रतिष्ठापितत्वात् ।
यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत ।
तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते ।
सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा ।
केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वर इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति ।
माहेश्वरास्तु मन्यन्ते कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति ।
तथा वैशेषिकादयो ऽपि केचित्कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति ।
अत उत्तरमुच्यते- ऽपत्युरसामञ्जस्यात्ऽ इति ।
पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते ।
कस्मात् ।
असामञ्स्यात् ।
किं पुनरसामञ्जस्यम् ।
हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत ।
प्राणिकर्मापेक्षितत्वाददोष इति चेत् ।
न ।
कर्मेश्वरयोः प्रवर्त्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात् ।
नानादित्वादिति चेत् ।
न ।
वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः ।
अपिच ऽप्रवर्तनालक्षणा दोषाःऽ (न्यायसू. 1.1.18) इति न्यायवित्समयः ।
नहि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते ।
स्वार्थप्रयुक्त एव च सर्वो जनः परार्थे ऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यं, स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात् ।
पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम् ॥ 37 ॥
fन्: सांख्ययोगव्यपाश्रयाः हिरण्यगर्भपतञ्जलिप्रभृतयः ।
माहेश्वराश्चत्वारः - शैवाः, पाशुपताः, कारुणिकसिद्धान्तिनः, कापालिकाश्चेति ।
पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
संबन्धानुपपत्तेश् च
पुनरप्यस्माञ्जस्यमेव ।
नहि प्रधानपुरुषव्यतिरिक्त ईश्वरो ऽन्तरेणसंबन्धं प्रधानपुरुषयोरीशिता ।
न तावत्संयोगलक्षणः संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च ।
नापि समवायलक्षणः संबन्धः, आश्रयाश्रयिभावानिरूपणात् ।
नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुं, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात् ।
ब्रह्मवादिनः कथमिति चेत् ।
न ।
तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः ।
अपिचागमबलेन ब्रह्मवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमो ऽस्ति ।
परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतो यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः ।
परस्यापि सर्वज्ञप्रणीतागमसद्भावात्समानमागमबलमिति चेत् ।
न ।
इतरेतराश्रयत्वप्रसङ्गादागमप्रत्ययत्वात्सर्वज्ञत्वसिद्धिः सर्वज्ञप्रत्ययाच्चागमसिद्धिरिति ।
तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना ।
एवमन्यास्वपि वेदब्रह्मास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम् ॥ 38 ॥
अधिष्ठानानुपपत्तेश् च
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ।
स हि परिकल्प्यमानः कुमभकार इव मृदादीनि प्रधानादीन्यधिष्ठाय प्रवर्तयेत् ।
नचैवमुपपद्यते ।
नह्यप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात् ॥ 39 ॥
करणवच् चेन् न भोगादिभ्यः
।
स्यादेतत् ।
यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषो ऽधितिष्ठत्येवं प्रधानमपीश्वरो ऽधिष्ठास्यतीति ।
तथापि नोपपद्यते ।
भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते ।
नचात्र भोगादयो दृश्यन्ते ।
करणग्रामसाम्ये वाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन् ।
अन्यथा वा सूत्रद्वयं व्याख्यायते- अधिष्ठानानुपपत्तेश्च इतश्चानुपपत्तिस्तार्किकपरिकल्पिस्येश्वरस्य ।
साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते न निरधिष्ठानः ।
अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यपि किञ्चिच्छरीरं करणायतनं वर्णयितव्यं स्यात् ।
नच तद्वर्णयितुं शक्यते ।
सृष्ट्युत्तरकालभावित्वाच्छरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः ।
निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः ।
एवं लोके दृष्टत्वात् ।
ऽकरणवच्चेन्न भोगादिभ्यःऽ ।
अथ लोकदर्शनानुसारेणेश्वरस्यापि किञ्चित्कारणानामायतनं शरीरं कामेन कल्प्येत ।
एवमपि नोपपद्यते ।
सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्वं प्रसज्येत ॥ 40 ॥
fन्: भोगः सुखदुःखानुभवः ।
आदिपदाद्विषयानुभवग्रहः ।
करणान्यत्र सन्तीति करणवच्छरीरम् ।
अन्तवत्त्वम् असर्वज्ञता वा
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य ।
स हि सर्वज्ञस्तैरभ्युपगम्यते ऽनन्तश्च ।
अनन्तं च प्रधानमनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यते ।
तत्र सर्वज्ञेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत ।
उभयथापि दोषो ऽनुषक्त एव ।
कथम् ।
पूर्वस्मिंस्तावद्विकल्प इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यं भाव्येवं लोके दृष्टत्वात् ।
यद्धि लोक इयत्तापरिच्छिन्नं वस्तु पटादि तदन्तवद्दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात् ।
संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम् ।
स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति ।
पुरुषगता च महासंख्या ।
ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारिणः संसारान्मुच्यन्ते तेषां संसारो ऽन्तवान्संसारित्वं च तेषामन्तवत् ।
एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां चान्तवत्त्वं स्यात् ।
प्रधानं च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयं संसारित्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत् ।
किंविषये वा सर्वज्ञतेश्वरते स्याताम् ।
प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सत्यादिमत्त्वप्रसङ्गः ।
आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः ।
अथ मा भूदेष दोष इत्युत्तरो विकल्पो ऽभ्युपगम्येत न प्रधानस्य पुरुषाणामात्मनश्चेयत्तेश्वरेण परिच्छिद्यत इति, तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत ।
तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः ॥ 41 ॥
fन्: संख्या वा परिमाणं वेयत्ता ।
8 उत्पत्त्यसंभवाधिकरणम् । सू. 42-45
उत्पत्त्यसंभवात्
येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्यातः ।
येषां पुनः प्रकृतिश्चाधिष्ठाता चोभयात्मकं कारणमीश्वरो ऽभिमतस्तेषां पक्षः प्रत्याख्याययते ।
ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः प्रकृतिश्चाधिष्ठाता चेति ।
श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः ।
तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति ।
उच्यते- यद्यप्येवजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवत्त्यस्तित्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारमभः ।
तत्र भागवता मन्यन्ते ।
भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वं, स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेवव्यूहरूपेण संकर्षणव्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च ।
वासुदेवो नाम परमात्मोच्यते ।
संकर्षणो नाम जीवः ।
प्रद्युम्नो नाम मनः ।
अनिरुद्धो नामाहङ्कारः ।
तेषां वासुदेवः परा परकृतिरितरे संकर्षणादयः कार्यम् ।
तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति ।
तत्र यत्तावदुच्येत यो ऽसौ नारायणः परो ऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा स आत्मानात्मानमनेकधा व्यूह्यावस्थित इति, तन्न निराक्रियते, ऽस एकधा भवति त्रिधा भवतिऽ (छा. 7.26.2) इत्यादिश्रुतिभ्यः परमात्मनो ऽनेकधाभावस्याधिगतत्वात् ।
यदपि तस्य भगवतो ऽभिगमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते,
तदपि न प्रतिषिध्यते ।
श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात् ।
यत्पुनरिदमुच्यते वासुदेवात्संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नः प्रद्युम्नाच्चानिरुद्ध इति ।
अत्र ब्रूमः - न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति ।
अनित्यत्वादिदोषप्रसङ्गात् ।
उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ।
ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् ।
कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात् ।
प्रतिषेधिष्यति चाचार्यो जीवस्योत्पत्तिम्- ऽनात्माश्रुतेर्नित्यत्वाच्च ताभ्यःऽ (ब्र.सू. 2.3.17) इति ।
तस्मादसंगतैषा कल्पना ।
fन्: व्यूहो मूर्तिः ।
वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम्, पूजाद्रव्याणामर्जनमुपादानम्, इज्या पूजा, स्वाध्यायो ऽष्टाक्षरादिजपः, योगो ध्यानम् ।
न च कर्तुः करणम्
इतश्चासंगतैषा कल्पना ।
यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते ।
वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते ।
कर्तृजाच्च तस्मादनिरुद्धसंज्ञको ऽहङ्कार उत्पद्यत इति ।
नचैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः ।
नचैवंभूतां श्रुतिमुपलभामहे ॥ 43 ॥
विज्ञानादिभावे वा तदप्रतिषेधः
अथापि स्यान्न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यैर्धर्मैरन्विता अभ्युपगम्यन्ते वासुदेवा एवैते सर्वे निर्देषा निरधिष्ठान निरवद्याश्चेति ।
तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति ।
अत्रोच्यते- एवमपि तदप्रतिषेध उत्पत्त्यसंभवस्याप्रतिषेधः प्राप्नोत्येवामुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः ।
कथम् ।
यदि तावदयमभिप्रायः परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणो नैषामेकात्मकत्वमस्तीति, ततो ऽनेकेश्वरकल्पनानार्थक्यम्, एकेनैवेश्वरेणेश्वरकार्यसिद्धेः ।
सिद्धान्तहानिश्च ।
भगवानेकैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् ।
अथायमभिप्राय एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसंभवः ।
नहि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति संकर्षणाच्च प्रद्युम्नस्य प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् ।
भवितव्यं हि कार्यकारणयोरतिशयेन यथा मृद्घटयोः ।
नह्यसत्यतिशये कार्यं कारणमित्यवकल्पते ।
नच पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिष्वेकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदो ऽभ्युपगम्यते ।
वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते ।
नचैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन्, ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात् ॥ 44 ॥
fन्: निर्देषा रागादिशून्याः, निरधिष्ठाना प्रकृत्यजन्याः, निरवद्या नाशादिरहिता इत्यर्थः ।
विप्रतिषेधाच् च
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0