ब्रह्मसूत्र (अन्य संस्करण) · अध्याय 3.2
संध्ये सृष्टिराह हि
निर्मातारं चैके पुत्रादयश् च
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः
पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्धविपर्ययौ
देहयोगाद् वा सो ऽपि
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च
अतः प्रबोधो ऽस्मात्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः
मुग्धे ऽर्धसंपत्तिः परिशेषात्
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि
न भेदाद् इति चेन् न प्रत्येकम् अतद्वचनात्
अपि चैवम् एके
अरूपवद् एव हि तत्प्रधानत्वात्
प्रकाशवच् चावैयर्थ्यात्
आह च तन्मात्रम्
दर्शयति चाथो अपि स्मर्यते
अत एव चोपमा सूर्यकादिवत्
अम्बुवदग्रहणात् तु न तथात्वम्
वृद्धिह्रासभाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्याद् एवम्
दर्शनाच् च
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः
तदव्यक्तमाह हि
अपि च संराधने प्रत्यक्षानुमानाभ्याम्
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्
अतो ऽनन्तेन तथा हि लिङ्गम्
उभयव्यपदेशात्त्वहिकुण्डलवत्
प्रकाशाश्रयवद्वा तेजस्त्वात्
पूर्ववद् वा
प्रतिषेधाच् च
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः
सामान्यात् तु
बुद्ध्यर्थः पादवत्
स्थानविशेषात्प्रकाशादिवत्
उपपत्तेश् च
तथान्यप्रतिषेधात्
अनेन सर्वगतत्वमायामशब्दादिभ्यः
फलमत उपपत्तेः
श्रुतत्वाच् च
धर्मं जैमिनिरत एव
पूर्वं तु बादरायणो हेतुव्यपदेशात्
मूल पाठ: Brahmasūtra text extracted from Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0