भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 77

77.1

त्र्यम्बकश् च इति प्राह गौतमं मुनिभिर् वृतम् ॥

77.2

द्विहस्तमात्रे तीर्थानि संभविष्यन्ति गौतम
सर्वत्राहं संनिहितः सर्वकामप्रदस् तथा ॥

77.4

नर्मदा तु सरिच्छ्रेष्ठा पर्वते ऽमरकण्टके
यमुना संगता तत्र प्रभासे तु सरस्वती ॥

77.5

कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद
तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम् ॥

77.6

पयोउष्णी संगता यत्र तत्रत्या तच् च मुक्तिदम्
इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥

77.7

सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति
किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे ॥

77.8

सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः
तिस्रः कोट्यो ऽर्धकोटी च योजनानां शतद्वये ॥

77.9

तीर्थानि मुनिशार्दूल संभविष्यन्ति गौतम
इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥

77.10

ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी
ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥

77.11

स्मरणाद् एव पापौघ हन्त्री मम सदा प्रिया
पञ्चानाम् अपि भूतानाम् आपः श्रेष्ठत्वम् आगताः ॥

77.12

तत्रापि तीर्थभूतास् तु तस्माद् आपः पराः स्मृताः
तासां भागीरथी श्रेष्ठा ताभ्यो ऽपि गौतमी तथा ॥

77.13

आनीता सजटा गङ्गा अस्या नान्यच् छुभावहम्
स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥

77.14

इत्य् एतत् कथितं पुत्र गौतमाय महात्मने
साक्षाद् धरेण तुष्टेन मया तव निवेदितम् ॥

77.15

एवं सा गौतमी गङ्गा सर्वेभ्यो ऽप्य् अधिका मता
तत्स्वरूपं च कथितं कुतो ऽन्या श्रवणस्पृहा ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc