भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 76

76.1

महेश्वरजटाजुटाद् गङ्गाम् आदाय गौतमः
आगत्य ब्रह्मणः पुण्ये ततः किम् अकरोद् गिरौ ॥

76.2

आदाय गौतमो गङ्गां शुचिः प्रयतमानसः
पूजितो देवगन्धर्वैस् तथा गिरिनिवासिभिः ॥

76.3

गिरेर् मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम्
उवाच प्राञ्जलिर् भूत्वा गङ्गां स द्विजसत्तमः ॥

76.4

त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि
क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥

76.5

एवम् उक्ता गौतमेन गङ्गा प्रोवाच गौतमम्
दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥

76.6

गच्छेयं देवसदनम् अथवापि कमण्डलुम्
रसातलं वा गच्छेयं जातस् त्वं सत्यवाग् असि ॥

76.7

त्रयाणाम् उपकारार्थं लोकानां याचिता मया
शंभुना च तथा दत्ता देवि तन् नान्यथा भवेत् ॥

76.8

तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम्
त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥

76.9

स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले
रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥

76.10

सर्वत्र सर्वभूतैव सर्वपापविनाशिनी
सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥

76.11

मर्त्या मर्त्यगताम् एव पश्यन्ति न तलं गताम्
नैव स्वर्गगतां मर्त्याः पश्यन्त्य् अज्ञानबुद्धयः ॥

76.12

यावत् सागरगा देवी तावद् देवमयी स्मृता
उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति ॥

76.13

ततो देवर्षिभिर् जुष्टां मातरं जगतः शुभाम्
गौतमो मुनिशार्दूलः प्रदक्षिणम् अथाकरोत् ॥

76.14

त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः
उभयोस् तीरयोः स्नानं करोमीति दधे मतिम् ॥

76.15

स्मृतमात्रस् तदा तत्रा विरासीत् करुणार्णवः
तत्र स्नानं कथं सिध्येद् इत्य् एवं शर्वम् अब्रवीत् ॥

76.16

कृताञ्जलिपुटो भूत्वा भक्तिनम्रस् त्रिलोचनम् ॥

76.17

देवदेव महेशान तीर्थस्नानविधिं मम
ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया ॥

76.18

महर्षे शृणु सर्वं च विधिं गोदावरीभवम्
पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥

76.19

ब्राह्मणान् भोजयित्वा च तेषाम् आज्ञां प्रगृह्य च
ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥

76.20

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम्
विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते ॥

76.21

भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः
श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम् ॥

76.22

अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान्
शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम्
अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc