भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 29

29.1

श्रुतो ऽस्माभिः सुरश्रेष्ठ भवता यद् उदाहृतम्
भास्करस्य परं क्षेत्रं भुक्तिमुक्तिफलप्रदम् ॥

29.2

न तृप्तिम् अधिगच्छामः शृण्वन्तः सुखदां कथाम्
तव वक्त्रोद्भवां पुण्याम् आदित्यस्याघनाशिनीम् ॥

29.3

अतः परं सुरश्रेष्ठ ब्रूहि नो वदतां वर
देवपूजाफलं यच् च यच् च दानफलं प्रभो ॥

29.4

प्रणिपाते नमस्कारे तथा चैव प्रदक्षिणे
दीपधूपप्रदाने च संमार्जनविधौ च यत् ॥

29.5

उपवासे च यत् पुण्यं यत् पुण्यं नक्तभोजने
अर्घश् च कीदृशः प्रोक्तः कुत्र वा संप्रदीयते ॥

29.6

कथं च क्रियते भक्तिः कथं देवः प्रसीदति
एतत् सर्वं सुरश्रेष्ठ श्रोतुम् इच्छामहे वयम् ॥

29.7

अर्घ्यं पूजादिकं सर्वं भास्करस्य द्विजोत्तमाः
भक्तिं श्रद्धां समाधिं च कथ्यमानं निबोधत ॥

29.8

मनसा भावना भक्तिर् इष्टा श्रद्धा च कीर्त्यते
ध्यानं समाधिर् इत्य् उक्तं शृणुध्वं सुसमाहिताः ॥

29.9

तत्कथां श्रावयेद् यस् तु तद्भक्तान् पूजयीत वा
अग्निशुश्रूषकश् चैव स वै भक्तः सनातनः ॥

29.10

तच्चित्तस् तन्मनाश् चैव देवपूजारतः सदा
तत्कर्मकृद् भवेद् यस् तु स वै भक्तः सनातनः ॥

29.11

देवार्थे क्रियमाणानि यः कर्माण्य् अनुमन्यते
कीर्तनाद् वा परो विप्राः स वै भक्ततरो नरः ॥

29.12

नाभ्यसूयेत तद्भक्तान् न निन्द्याच् चान्यदेवताम्
आदित्यव्रतचारी च स वै भक्ततरो नरः ॥

29.13

गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् उन्मिषन् निमिषन्न् अपि
यः स्मरेद् भास्करं नित्यं स वै भक्ततरो नरः ॥

29.14

एवंविधा त्व् इयं भक्तिः सदा कार्या विजानता
भक्त्या समाधिना चैव स्तवेन मनसा तथा ॥

29.15

क्रियते नियमो यस् तु दानं विप्राय दीयते
प्रतिगृह्णन्ति तं देवा मनुष्याः पितरस् तथा ॥

29.16

पत्त्रं पुष्पं फलं तोयं यद् भक्त्या समुपाहृतम्
प्रतिगृह्णन्ति तद् देवा नास्तिकान् वर्जयन्ति च ॥

29.17

भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता
भावशुद्ध्या क्रियते यत् तत् सर्वं सफलं भवेत् ॥

29.18

स्तुतिजप्योपहारेण पूजयापि विवस्वतः
उपवासेन भक्त्या वै सर्वपापैः प्रमुच्यते ॥

29.19

प्रणिधाय शिरो भूम्यां नमस्कारं करोति यः
तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

29.20

भक्तियुक्तो नरो यो ऽसौ रवेः कुर्यात् प्रदक्षिणाम्
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥

29.21

सूर्यं मनसि यः कृत्वा कुर्याद् व्योमप्रदक्षिणाम्
प्रदक्षिणीकृतास् तेन सर्वे देवा भवन्ति हि ॥

29.22

एकाहारो नरो भूत्वा षष्ठ्यां यो ऽर्चयते रविम्
नियमव्रतचारी च भवेद् भक्तिसमन्वितः ॥

29.23

सप्तम्यां वा महाभागाः सो ऽश्वमेधफलं लभेत्
अहोरात्रोपवासेन पूजयेद् यस् तु भास्करम् ॥

29.24

सप्तम्याम् अथवा षष्ठ्यां स याति परमां गतिम्
कृष्णपक्षस्य सप्तम्यां सोपवासो जितेन्द्रियः ॥

29.25

सर्वरत्नोपहारेण पूजयेद् यस् तु भास्करम्
पद्मप्रभेण यानेन सूर्यलोकं स गच्छति ॥

29.26

शुक्लपक्षस्य सप्तम्याम् उपवासपरो नरः
सर्वशुक्लोपहारेण पूजयेद् यस् तु भास्करम् ॥

29.27

सर्वपापविनिर्मुक्तः सूर्यलोकं स गच्छति
अर्कसंपुटसंयुक्तम् उदकं प्रसृतं पिबेत् ॥

29.28

क्रमवृद्ध्या चतुर्विंशम् एकैकं क्षपयेत् पुनः
द्वाभ्यां संवत्सराभ्यां तु समाप्तनियमो भवेत् ॥

29.29

सर्वकामप्रदा ह्य् एषा प्रशस्ता ह्य् अर्कसप्तमी
शुक्लपक्षस्य सप्तम्यां यदादित्यदिनं भवेत् ॥

29.30

सप्तमी विजया नाम तत्र दत्तं महत् फलम्
स्नानं दानं तपो होम उपवासस् तथैव च ॥

29.31

सर्वं विजयसप्तम्यां महापातकनाशनम्
ये चादित्यदिने प्राप्ते श्राद्धं कुर्वन्ति मानवाः ॥

29.32

यजन्ति च महाश्वेतं ते लभन्ते यथेप्सितम्
येषां धर्म्याः क्रियाः सर्वाः सदैवोद्दिश्य भास्करम् ॥

29.33

न कुले जायते तेषां दरिद्रो व्याधितो ऽपि वा
श्वेतया रक्तया वापि पीतमृत्तिकयापि वा ॥

29.34

उपलेपनकर्ता तु चिन्तितं लभते फलम्
चित्रभानुं विचित्रैस् तु कुसुमैश् च सुगन्धिभिः ॥

29.35

पूजयेत् सोपवासो यः स कामान् ईप्सितांल् लभेत्
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः ॥

29.36

आदित्यं पूजयेद् यस् तु चक्षुषा न स हीयते
दीपदाता नरो नित्यं ज्ञानदीपेन दीप्यते ॥

29.37

तिलाः पवित्रं तैलं वा तिलगोदानम् उत्तमम्
अग्निकार्ये च दीपे च महापातकनाशनम् ॥

29.38

दीपं ददाति यो नित्यं देवतायतनेषु च
चतुष्पथेषु रथ्यासु रूपवान् सुभगो भवेत् ॥

29.39

हविर्भिः प्रथमः कल्पो द्वितीयश् चौषधीरसैः
वसामेदोस्थिनिर्यासैर् न तु देयः कथंचन ॥

29.40

भवेद् ऊर्ध्वगतिर् दीपो न कदाचिद् अधोगतिः
दाता दीप्यति चाप्य् एवं न तिर्यग्गतिम् आप्नुयात् ॥

29.41

ज्वलमानं सदा दीपं न हरेन् नापि नाशयेत्
दीपहर्ता नरो बन्धं नाशं क्रोधं तमो व्रजेत् ॥

29.42

दीपदाता स्वर्गलोके दीपमालेव राजते
यः समालभते नित्यं कुङ्कुमागुरुचन्दनैः ॥

29.43

संपद्यते नरः प्रेत्य धनेन यशसा श्रिया
रक्तचन्दनसंमिश्रै रक्तपुष्पैः शुचिर् नरः ॥

29.44

उदये ऽर्घ्यं सदा दत्त्वा सिद्धिं संवत्सराल् लभेत्
उदयात् परिवर्तेत यावद् अस्तमने स्थितः ॥

29.45

जपन्न् अभिमुखः किंचिन् मन्त्रं स्तोत्रम् अथापि वा
आदित्यव्रतम् एतत् तु महापातकनाशनम् ॥

29.46

अर्घ्येण सहितं चैव सर्वे साङ्गं प्रदापयेत्
उदये श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ॥

29.47

सुवर्णधेनुअनड्वाह वसुधावस्त्रसंयुतम्
अर्घ्यप्रदाता लभते सप्तजन्मानुगं फलम् ॥

29.48

अग्नौ तोये ऽन्तरिक्षे च शुचौ भूम्यां तथैव च
प्रतिमायां तथा पिण्ड्यां देयम् अर्घ्यं प्रयत्नतः ॥

29.49

नापसव्यं न सव्यं च दद्याद् अभिमुखः सदा
सघृतं गुग्गुलं वापि रवेर् भक्तिसमन्वितः ॥

29.50

तत्क्षणात् सर्वपापेभ्यो मुच्यते नात्र संशयः
श्रीवासं चतुरस्रं च देवदारुं तथैव च ॥

29.51

कर्पूरागरुधूपानि दत्त्वा वै स्वर्गगामिनः
अयने तूत्तरे सूर्यम् अथवा दक्षिणायने ॥

29.52

पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते
विषुवेषूपरागेषु षडशीतिमुखेषु च ॥

29.53

पूजयित्वा विशेषेण सर्वपापैः प्रमुच्यते
एवं वेलासु सर्वासु सर्वकालं च मानवः ॥

29.54

भक्त्या पूजयते यो ऽर्कं सो ऽर्कलोके महीयते
कृसरैः पायसैः पूपैः फलमूलघृतौदनैः ॥

29.55

बलिं कृत्वा तु सूर्याय सर्वान् कामान् अवाप्नुयात्
घृतेन तर्पणं कृत्वा सर्वसिद्धो भवेन् नरः ॥

29.56

क्षीरेण तर्पणं कृत्वा मनस् तापैर् न युज्यते
दध्ना तु तर्पणं कृत्वा कार्यसिद्धिं लभेन् नरः ॥

29.57

स्नानार्थम् आहरेद् यस् तु जलं भानोः समाहितः
तीर्थेषु शुचितापन्नः स याति परमां गतिम् ॥

29.58

छत्त्रं ध्वजं वितानं वा पताकां चामराणि च
श्रद्धया भानवे दत्त्वा गतिम् इष्टाम् अवाप्नुयात् ॥

29.59

यद् यद् द्रव्यं नरो भक्त्या आदित्याय प्रयच्छति
तत् तस्य शतसाहस्रम् उत्पादयति भास्करः ॥

29.60

मानसं वाचिकं वापि कायजं यच् च दुष्कृतम्
सर्वं सूर्यप्रसादेन तद् अशेषं व्यपोहति ॥

29.61

एकाहेनापि यद् भानोः पूजायाः प्राप्यते फलम्
यथोक्तदक्षिणैर् विप्रैर् न तत् क्रतुशतैर् अपि ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc