भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 225

225.1

किंशीलः किंसमाचारः पुरुषः कैश् च कर्मभिः
स्वर्गं समभिपद्येत संप्रदानेन केन वा ॥

225.2

दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु
भक्षभोज्यान्नपानानां वाससां च महामतिः ॥

225.3

प्रतिश्रयान् सभाः कुर्यात् प्रपाः पुष्करिणीस् तथा
नित्यकादीनि कर्माणि करोति प्रयतः शुचिः ॥

225.4

आसनं शयनं यानं गृहं रत्नं धनं तथा
सस्यजातानि सर्वाणि सक्षेत्राण्य् अथ योषितः ॥

225.5

सुप्रशान्तमना नित्यं यः प्रयच्छति मानवः
एवंभूतो नरो देवि देवलोके ऽभिजायते ॥

225.6

तत्रोष्य सुचिरं कालं भुक्त्वा भोगान् अनुत्तमान्
सहाप्सरोभिर् मुदितो रमित्वा नन्दनादिषु ॥

225.7

तस्माच् च्युतो महेशानि मानुषेषूपजायते
महाभागकुले देवि धनधान्यसमाचिते ॥

225.8

तत्र कामगुणैः सर्वैः समुपेतो मुदान्वितः
महाकार्यो महाभोगो धनी भवति मानवः ॥

225.9

एते देवि महाभागाः प्राणिनो दानशालिनः
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥

225.10

अपरे मानवा देवि प्रदानकृपणा द्विजाः
ये ऽन्नानि न प्रयच्छन्ति विद्यमाने ऽप्य् अबुद्धयः ॥

225.11

दीनान्धकृपणान् दृष्ट्वा भिक्षुकान् अतिथीन् अपि
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥

225.12

न धनानि न वासांसि न भोगान् न च काञ्चनम्
न गाश् च नान्नविकृतिं प्रयच्छन्ति कदाचन ॥

225.13

अप्रलुब्धाश् च ये लुब्धा नास्तिका दानवर्जितः
एवंभूता नरा देवि निरयं यान्त्य् अबुद्धयः ॥

225.14

ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात्
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥

225.15

क्षुत्पिपासापरीताश् च सर्वलोकबहिष्कृताः
निराशाः सर्वभोगेभ्यो जीवन्त्य् अधर्मजीविकाः ॥

225.16

अल्पभोगकुले जाता अल्पभोगरता नराः
अनेन कर्मणा देवि भवन्त्य् अधनिनो नराः ॥

225.17

अपरे दम्भिनो नित्यं मानिनः परतो रताः
आसनार्हस्य ये पीठं न यच्छन्त्य् अल्पचेतसः ॥

225.18

मार्गार्हस्य च ये मार्गं न प्रयच्छन्त्य् अबुद्धयः
अर्घार्हान् न च संस्कारैर् अर्चयन्ति यथाविधि ॥

225.19

पाद्यम् आचमनीयं वा प्रयच्छन्त्य् अभिबुद्धयः
शुभं चाभिमतं प्रेम्णा गुरुं नाभिवदन्ति ये ॥

225.20

अभिमानप्रवृद्धेन लोभेन समम् आस्थिताः
संमान्यांश् चावमन्यन्ते वृद्धान् परिभवन्ति च ॥

225.21

एवंविधा नरा देवि सर्वे निरयगामिनः
ते चेद् यदि नरास् तस्मान् निरयाद् उत्तरन्ति च ॥

225.22

वर्षपूगैस् ततो जन्म लभन्ते कुत्सिते कुले
श्वपाकपुल्कसादीनां कुत्सितानाम् अचेतसाम् ॥

225.23

कुलेषु ते ऽभिजायन्ते गुरुवृद्धोपतापिनः
न दम्भी न च मानी यो देवतातिथिपूजकः ॥

225.24

लोकपूज्यो नमस्कर्ता प्रसूतो मधुरं वचः
सर्वकर्मप्रियकरः सर्वभूतप्रियः सदा ॥

225.25

अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा
स्वागतेनैव सर्वेषां भूतानाम् अविहिंसकः ॥

225.26

यथार्थं सत्क्रियापूर्वम् अर्चयन्न् अवतिष्ठते
मार्गार्हाय ददन् मार्गं गुरुम् अभ्यर्चयन् सदा ॥

225.27

अतिथिप्रग्रहरतस् तथाभ्यागतपूजकः
एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते ॥

225.28

ततो मानुष्यम् आसाद्य विशिष्टकुलजो भवेत्
तत्रासौ विपुलैर् भोगैः सर्वरत्नसमायुतः ॥

225.29

यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत्
संमतः सर्वभूतानां सर्वलोकनमस्कृतः ॥

225.30

स्वकर्मफलम् आप्नोति स्वयम् एव नरः सदा
एष धर्मो मया प्रोक्तो विधात्रा स्वयम् ईरितः ॥

225.31

यस् तु रौद्रसमाचारः सर्वसत्त्वभयंकरः
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥

225.32

लोष्टैः स्तम्भैर् उपायैर् वा जन्तून् बाधेत शोभने
हिंसार्थं निष्कृतिप्रज्ञः प्रोद्वेजयति चैव हि ॥

225.33

उपक्रामति जन्तूंश् च उद्वेगजननः सदा
एवं शीलसमाचारो निरयं प्रतिपद्यते ॥

225.34

स चेन् मनुष्यतां गच्छेद् यदि कालस्य पर्ययात्
बह्वाबाधापरिक्लिष्टे कुले जयति सो ऽधमे ॥

225.35

लोकद्विष्टो ऽधमः पुंसां स्वयं कर्मकृतैः फलैः
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥

225.36

अपरः सर्वभूतानि दयावान् अनुपश्यति
मैत्री दृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥

225.37

नोद्वेजयति भूतानि न च हन्ति दयापरः
हस्तपादैश् च नियतैर् विश्वास्यः सर्वजन्तुषु ॥

225.38

न रज्ज्वा न च दण्डेन न लोष्टैर् नायुधेन च
उद्वेजयति भूतानि शुभकर्मा दयापरः ॥

225.39

एवं शीलसमाचारः स्वर्गे समुपजायते
तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥

225.40

स चेत् स्वर्गक्षयान् मर्त्यो मनुष्येषूपजायते
अल्पायासो निरातङ्कः स जातः सुखम् एधते ॥

225.41

सुखभागी निरायासो निरुद्वेगः सदा नरः
एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥

225.42

इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः
ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तो ऽर्थकोविदाः ॥

225.43

दुष्प्रज्ञाश् चापरे देव ज्ञानविज्ञानवर्जिताः
केन कर्मविपाकेन प्रज्ञावान् पुरुषो भवेत् ॥

225.44

अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः
एवं त्वं संशयं छिन्धि सर्वधर्मभृतां वर ॥

225.45

जात्यन्धाश् चापरे देव रोगार्ताश् चापरे तथा
नराः क्लीबाश् च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥

225.46

ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस् तथा
परिपृच्छन्त्य् अहरहः कुशलाकुशलं सदा ॥

225.47

वर्जयन्तो ऽशुभं कर्म सेवमानाः शुभं तथा
लभन्ते स्वर्गतिं नित्यम् इह लोके यथासुखम् ॥

225.48

स चेन् मनुष्यतां याति मेधावी तत्र जायते
श्रुतं यज्ञानुगं यस्य कल्याणम् उपजायते ॥

225.49

परदारेषु ये चापि चक्षुर् दुष्टं प्रयुञ्जते
तेन दुष्टस्वभावेन जात्यन्धास् ते भवन्ति हि ॥

225.50

मनसापि प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्
रोगार्तास् ते भवन्तीह नरा दुष्कृतकारिणः ॥

225.51

ये तु मूढा दुराचारा वियोनौ मैथुने रताः
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वम् उपयान्ति ते ॥

225.52

पशूंश् च ये वै बध्नन्ति ये चैव गुरुतल्पगाः
प्रकीर्णमैथुना ये च क्लीबा जायन्ति वै नराः ॥

225.53

अवद्यं किं तु वै कर्म निरवद्यं तथैव च
श्रेयः कुर्वन्न् अवाप्नोति मानवो देवसत्तम ॥

225.54

श्रेयांसं मार्गम् अन्विच्छन् सदा यः पृच्छति द्विजान्
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥

225.55

यदि मानुष्यतां देवि कदाचित् संनियच्छति
मेधावी धारणायुक्तः प्राज्ञस् तत्रापि जायते ॥

225.56

एष देवि सतां धर्मो गन्तव्यो भूतिकारकः
नृणां हितार्थाय सदा मया चैवम् उदाहृतः ॥

225.57

अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः
ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥

225.58

व्रतवन्तो नराः केचिच् छ्रद्धादमपरायणाः
अव्रता भ्रष्टनियमास् तथान्ये राक्षसोपमाः ॥

225.59

यज्वानश् च तथैवान्ये निर्मोहाश् च तथा परे
केन कर्मविपाकेन भवन्तीह वदस्व मे ॥

225.60

आगमालोकधर्माणां मर्यादाः पूर्वनिर्मिताः
प्रमाणेनानुवर्तन्ते दृश्यन्ते ह दृढव्रताः ॥

225.61

अधर्मं धर्मम् इत्य् आहुर् ये च मोहवशं गताः
अव्रता नष्टमर्यादास् ते नरा ब्रह्मराक्षसाः ॥

225.62

ये वै कालकृतोद्योगात् संभवन्तीह मानवाः
निर्होमा निर्वषट्कारास् ते भवन्ति नराधमाः ॥

225.63

एष देवि मया सर्व संशयच्छेदनाय ते
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc