ब्रह्म पुराण · अध्याय 224
भगवन् सर्वभूतेश सुरासुरनमस्कृत
धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥
कर्मणा मनसा वाचा त्रिविधैर् देहिनः सदा
बध्यन्ते बन्धनैः कैर् वा मुच्यन्ते वा कथं वद ॥
केन शीलेन वै देव कर्मणा कीदृशेन वा
समाचारैर् गुणैः कैर् वा स्वर्गं यान्तीह मानवाः ॥
देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये उमे सदा
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥
सत्यधर्मरताः शान्ताः सर्वलिङ्गविवर्जिताः
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः ॥
कर्मणा मनसा वाचा ये न हिंसन्ति किंचन
ये न मज्जन्ति कस्मिंश्चित् ते न बध्नन्ति कर्मभिः ॥
प्राणातिपाताद् विरताः शीलवन्तो दयान्विताः
तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु
त्यक्तहिंस्रसमाचारास् ते नराः स्वर्गगामिनः ॥
परस्वनिर्ममा नित्यं परदारविवर्जिकाः
धर्मलब्धार्थभोक्तारस् ते नराः स्वर्गगामिनः ॥
मातृवत् स्वसृवच् चैव नित्यं दुहितृवच् च ये
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥
स्वदारनिरता ये च ऋतुकालाभिगामिनः
अग्राम्यसुखभोगाश् च ते नराः स्वर्गगामिनः ॥
स्तैन्यान् निवृत्ताः सततं संतुष्टाः स्वधनेन च
स्वभाग्यान्य् उपजीवन्ति ते नराः स्वर्गगामिनः ॥
परदारेषु ये नित्यं चारित्रावृतलोचनाः
जितेन्द्रियाः शीलपरास् ते नराः स्वर्गगामिनः ॥
एष दैवकृतो मार्गः सेवितव्यः सदा नरैः
अकषायकृतश् चैव मार्गः सेव्यः सदा बुधैः ॥
अवृथापकृतश् चैव मार्गः सेव्यः सदा बुधैः
दानकर्मतपोयुक्तः शीलशौचदयात्मकः
स्वर्गमार्गम् अभीप्सद्भिर् न सेव्यस् त्व् अत उत्तरः ॥
वाचा तु बध्यते येन मुच्यते ह्य् अथवा पुनः
तानि कर्माणि मे देव वद भूतपते ऽनघ ॥
आत्महेतोः परार्थे वा अधर्माश्रितम् एव च
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥
वृत्त्यर्थं धर्महेतोर् वा कामकारात् तथैव च
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥
श्लक्ष्णां वाणीं स्वच्छवर्णां मधुरां पापवर्जिताम्
स्वगतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा
न पैशुन्यरताः सन्तस् ते नराः स्वर्गगामिनः ॥
पिशुनं न प्रभाषन्ते मित्रभेदकरं तथा
परपीडाकरं चैव ते नराः स्वर्गगामिनः ॥
ये वर्जयन्ति परुषं परद्रोहं च मानवाः
सर्वभूतसमा दान्तास् ते नराः स्वर्गगामिनः ॥
शठप्रलापाद् विरता विरुद्धपरिवर्जकाः
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥
न कोपाद् व्याहरन्ते ये वाचं हृदयदारिणीम्
शान्तिं विन्दन्ति ये क्रुद्धास् ते नराः स्वर्गगामिनः ॥
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः
शुभसत्यगुणैर् नित्यं वर्जनीया मृषा बुधैः ॥
मनसा बध्यते येन कर्मणा पुरुषः सदा
तन् मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥
मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा
स्वर्गं गच्छन्ति कल्याणि तन् मे कीर्तयतः शृणु ॥
दुष्प्रणीतेन मनसा दुष्प्रणीतान्तराकृतिः
नरो बध्येत येनेह शृणु वा तं शुभानने ॥
अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा
मनसापि न गृह्णन्ति ते नराः स्वर्गगामिनः ॥
तथैव परदारान् ये कामवृत्ता रहोगताः
मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः
भजन्ति मैत्र्यं संगम्य ते नराः स्वर्गगामिनः ॥
श्रुतवन्तो दयावन्तः शुचयः सत्यसंगराः
स्वैर् अर्थैः परिसंतुष्टास् ते नराः स्वर्गगामिनः ॥
अवैरा ये त्व् अनायासा मैत्रचित्तरताः सदा
सर्वभूतदयावन्तस् ते नराः स्वर्गगामिनः ॥
ज्ञातवन्तः क्रियावन्तः क्षमावन्तः सुहृत्प्रियाः
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥
शुभानाम् अशुभानां च कर्मणां फलसंचये
निराकाङ्क्षाश् च ये देवि ते नराः स्वर्गगामिनः ॥
पापोपेतान् वर्जयन्ति देवद्विजपराः सदा
समुत्थानम् अनुप्राप्तास् ते नराः स्वर्गगामिनः ॥
शुभैः कर्मफलैर् देवि मयैते परिकीर्तिताः
स्वर्गमार्गपरा भूयः किं त्वं श्रोतुम् इहेच्छसि ॥
महान् मे संशयः कश्चिन् मर्त्यान् प्रति महेश्वर
तस्मात् त्वं निपुणेनाद्य मम व्याख्यातुम् अर्हसि ॥
केनायुर् लभते दीर्घं कर्मणा पुरुषः प्रभो
तपसा वापि देवेश केनायुर् लभते महत् ॥
क्षीणायुः केन भवति कर्मणा भुवि मानवः
विपाकं कर्मणां देव वक्तुम् अर्हस्य् अनिन्दित ॥
अपरे च महाभाग्या मन्दभाग्यास् तथा परे
अकुलीनाः कुलीनाश् च संभवन्ति तथा परे ॥
दुर्दर्शाः केचिद् आभान्ति नराः काष्ठमया इव
प्रियदर्शास् तथा चान्ये दर्शनाद् एव मानवाः ॥
दुष्प्रज्ञाः केचिद् आभान्ति केचिद् आभान्ति पण्डिताः
महाप्रज्ञास् तथा चान्ये ज्ञानविज्ञानभाविनः ॥
अल्पवाचास् तथा केचिन् महावाचास् तथा परे
दृश्यन्ते पुरुषा देव ततो व्याख्यातुम् अर्हसि ॥
हन्त ते ऽहं प्रवक्ष्यामि देवि कर्मफलोदयम्
मर्त्यलोके नरः सर्वो येन स्वं फलम् अश्नुते ॥
प्राणातिपाती योगीन्द्रो दण्डहस्तो नरः सदा
नित्यम् उद्यतशस्त्रश् च हन्ति भूतगणान् नरः ॥
निर्दयः सर्वभूतेभ्यो नित्यम् उद्वेगकारकः
अपि कीटपतंगानाम् अशरण्यः सुनिर्घृणः ॥
एवंभूतो नरो देवि निरयं प्रतिपद्यते
विपरीतस् तु धर्मात्मा स्वरूपेणाभिजायते ॥
निरयं याति हिंसात्मा याति स्वर्गम् अहिंसकः
यातनां निरये रौद्रां सकृच्छ्रां लभते नरः ॥
यः कश्चिन् निरयात् तस्मात् समुत्तरति कर्हिचित्
मानुष्यं लभते वापि हीनायुस् तत्र जायते ॥
पापेन कर्मणा देवि युक्तो हिंसादिभिर् यतः
अहितः सर्वभूतानां हीनायुर् उपजायते ॥
शुभेन कर्मणा देवि प्राणिघातविवर्जितः
शुभेन कर्मणा देवि प्राणिघातविवर्जितः
निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते
सर्वभूतेषु सस्नेहो यथात्मनि तथा परे ॥
ईदृशः पुरुषो नित्यं देवि देवत्वम् अश्नुते
उपपन्नान् सुखान् भोगान् सदाश्नाति मुदा युतः ॥
अथ चेन् मानुषे लोके कदाचिद् उपपद्यते
एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम्
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0