भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 222

222.1

श्रोतुम् इच्छामहे ब्रह्मन् वर्णधर्मान् विशेषतः
चतुराश्रमधर्मांश् च द्विजवर्य ब्रवीहि तान् ॥

222.2

ब्राह्मणक्षत्रियविशां शूद्राणां च यथाक्रमम्
शृणुध्वं संयता भूत्वा वर्णधर्मान् मयोदितान् ॥

222.3

दानदयातपोदेव यज्ञस्वाध्यायतत्परः
नित्योदकी भवेद् विप्रः कुर्याच् चाग्निपरिग्रहम् ॥

222.4

वृत्त्यर्थं याजयेत् त्व् अन्यान् द्विजान् अध्यापयेत् तथा
कुर्यात् प्रतिग्रहादानं यज्ञार्थं ज्ञानतो द्विजाः ॥

222.5

सर्वलोकहितं कुर्यान् नाहितं कस्यचिद् द्विजाः
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥

222.6

गवि रत्ने च पारक्ये समबुद्धिर् भवेद् द्विजाः
ऋताव् अभिगमः पत्न्यां शस्यते वास्य भो द्विजाः ॥

222.7

दानानि दद्याद् इच्छातो द्विजेभ्यः क्षत्रियो ऽपि हि
यजेच् च विविधैर् यज्ञैर् अधीयीत च भो द्विजाः ॥

222.8

शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥

222.9

धरित्रीपालनेनैव कृतकृत्या नराधिपाः
भवन्ति नृपते रक्षा यतो यज्ञादिकर्मणाम् ॥

222.10

दुष्टानां शासनाद् राजा शिष्टानां परिपालनात्
प्राप्नोत्य् अभिमतांल् लोकान् वर्णसंस्थापको नृपः ॥

222.11

पाशुपाल्यं वणिज्यां च कृषिं च मुनिसत्तमाः
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥

222.12

तस्याप्य् अध्ययनं यज्ञो दानं धर्मश् च शस्यते
नित्यनैमित्तिकादीनाम् अनुष्ठानं च कर्मणाम् ॥

222.13

द्विजातिसंश्रयं कर्म तदर्थं तेन पोषणम्
क्रयविक्रयजैर् वापि धनैः कारुभवैस् तु वा ॥

222.14

दानं दद्याच् च शूद्रो ऽपि पाकयज्ञैर् यजेत च
पित्र्यादिकं च वै सर्वं शूद्रः कुर्वीत तेन वै ॥

222.15

भृत्यादिभरणार्थाय सर्वेषां च परिग्रहाः
ऋतुकालाभिगमनं स्वदारेषु द्विजोत्तमाः ॥

222.16

दया समस्तभूतेषु तितिक्षा नाभिमानिता
सत्यं शौचम् अनायासो मङ्गलं प्रियवादिता ॥

222.17

मैत्री चैवास्पृहा तद्वद् अकार्पण्यं द्विजोत्तमाः
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥

222.18

आश्रमाणां च सर्वेषाम् एते सामान्यलक्षणाः
गुणास् तथोपधर्माश् च विप्रादीनाम् इमे द्विजाः ॥

222.19

क्षात्रं कर्म द्विजस्योक्तं वैश्यकर्म तथापदि
राजन्यस्य च वैश्योक्तं शूद्रकर्माणि चैतयोः ॥

222.20

ससामर्थ्ये सति त्याज्यम् उभाभ्याम् अपि च द्विजाः
तद् एवापदि कर्तव्यं न कुर्यात् कर्मसंकरम् ॥

222.21

इत्य् एते कथिता विप्रा वर्णधर्मा मयाद्य वै
धर्मम् आश्रमिणां सम्यग् ब्रुवतो ऽपि निबोधत ॥

222.22

बालः कृतोपनयनो वेदाहरणतत्परः
गुरोर् गेहे वसन् विप्रा ब्रह्मचारी समाहितः ॥

222.23

शौचाचाररतस् तत्र कार्यं शुश्रूषणं गुरोः
व्रतानि चरता ग्राह्यो वेदश् च कृतबुद्धिना ॥

222.24

उभे संध्ये रविं विप्रास् तथैवाग्निं समाहितः
उपतिष्ठेत् तथा कुर्याद् गुरोर् अप्य् अभिवादनम् ॥

222.25

स्थिते तिष्ठेद् व्रजेद् याति नीचैर् आसीत चासिते
शिष्यो गुरौ द्विजश्रेष्ठाः प्रतिकूलं च संत्यजेत् ॥

222.26

तेनैवोक्तं पठेद् वेदं नान्यचित्तः पुरस्थितः
अनुज्ञातं च भिक्षान्नम् अश्नीयाद् गुरुणा ततः ॥

222.27

अवगाहेद् अपः पूर्वम् आचार्येणावगाहिताः
समिज्जलादिकं चास्य कल्यकल्यम् उपानयेत् ॥

222.28

गृहीतग्राह्यवेदश् च ततो ऽनुज्ञाम् अवाप्य वै
गार्हस्थ्यम् आवसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥

222.29

विधिनावाप्तदारस् तु धनं प्राप्य स्वकर्मणा
गृहस्थकार्यम् अखिलं कुर्याद् विप्राः स्वशक्तितः ॥

222.30

निर्वापेण पितॄन् अर्च्य यज्ञैर् देवांस् तथातिथीन्
अन्नैर् मुनींश् च स्वाध्यायैर् अपत्येन प्रजापतिम् ॥

222.31

बलिकर्मणा भूतानि वाक्सत्येनाखिलं जगत्
प्राप्नोति लोकान् पुरुषो निजकर्मसमार्जितान् ॥

222.32

भिक्षाभुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः
ते ऽप्य् अत्र प्रतितिष्ठन्ति गार्हस्थ्यं तेन वै परम् ॥

222.33

वेदाहरणकार्येण तीर्थस्नानाय च द्विजाः
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥

222.34

अनिकेता ह्य् अनाहारा ये तु सायंगृहास् तु ते
तेषां गृहस्थः सततं प्रतिष्ठा योनिर् उच्यते ॥

222.35

तेषां स्वागतदानानि वक्तव्यं मधुरं सदा
गृहागतानां दद्याच् च शयनासनभोजनम् ॥

222.36

अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते
स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥

222.37

अवज्ञानम् अहंकारो दम्भश् चापि गृहे सतः
परिवादोपघातौ च पारुष्यं च न शस्यते ॥

222.38

यश् च सम्यक् करोत्य् एवं गृहस्थः परमं विधिम्
सर्वबन्धविनिर्मुक्तो लोकान् आप्नोति चोत्तमान् ॥

222.39

वयःपरिणतौ विप्राः कृतकृत्यो गृहाश्रमी
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥

222.40

पर्णमूलफलाहारः केशश्मश्रुजटाधरः
भूमिशायी भवेत् तत्र मुनिः सर्वातिथिर् द्विजाः ॥

222.41

चर्मकाशकुशैः कुर्यात् परिधानोत्तरीयके
तद्वत् त्रिषवणं स्नानं शस्तम् अस्य द्विजोत्तमाः ॥

222.42

देवताभ्यर्चनं होमः सर्वाभ्यागतपूजनम्
भिक्षा बलिप्रदानं तु शस्तम् अस्य प्रशस्यते ॥

222.43

वन्यस्नेहेन गात्राणाम् अभ्यङ्गश् चापि शस्यते
तपस्या तस्य विप्रेन्द्राः शीतोष्णादिसहिष्णुता ॥

222.44

यस् त्व् एता नियतश् चर्या वानप्रस्थश् चरेन् मुनिः
स दहत्य् अग्निवद् दोषाञ् जयेल् लोकांश् च शाश्वतान् ॥

222.45

चतुर्थश् चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः
तस्य स्वरूपं गदतो बुध्यध्वं मम सत्तमाः ॥

222.46

पुत्रद्रव्यकलत्रेषु त्यजेत् स्नेहं द्विजोत्तमाः
चतुर्थम् आश्रमस्थानं गच्छेन् निर्धूतमत्सरः ॥

222.47

त्रैवर्णिकांस् त्यजेत् सर्वान् आरम्भान् द्विजसत्तमाः
मित्रादिषु समो मैत्रः समस्तेष्व् एव जन्तुषु ॥

222.48

जरायुजाण्डजादीनां वाङ्मनःकर्मभिः क्वचित्
युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश् च वर्जयेत् ॥

222.49

एकरात्रस्थितिर् ग्रामे पञ्चरात्रस्थितिः पुरे
तथा प्रीतिर् न तिर्यक्षु द्वेषो वा नास्य जायते ॥

222.50

प्राणयात्रानिमित्तं च व्यङ्गारे ऽभुक्तवज्जने
काले प्रशस्तवर्णानां भिक्षार्थी पर्यटेद् गृहान् ॥

222.51

अलाभे न विषादी स्याल् लाभे नैव च हर्षयेत्
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥

222.52

अतिपूजितलाभांस् तु जुगुप्सं चैव सर्वतः
अतिपूजितलाभैस् तु यतिर् मुक्तो ऽपि बध्यते ॥

222.53

कामः क्रोधस् तथा दर्पो लोभमोहादयश् च ये
तांस् तु दोषान् परित्यज्य परिव्राण् निर्ममो भवेत् ॥

222.54

अभयं सर्वसत्त्वेभ्यो दत्त्वा यश् चरते महीम्
तस्य देहाद् विमुक्तस्य भयं नोत्पद्यते क्वचित् ॥

222.55

कृत्वाग्निहोत्रं स्वशरीरसंस्थं शारीरम् अग्निं स्वमुखे जुहोति
विप्रस् तु भिक्षोपगतैर् हविर्भिश् चिताग्निना स व्रजति स्म लोकान्

222.56

मोक्षाश्रमं यश् चरते यथोक्तं शुचिश् च संकल्पितबुद्धियुक्तः
अनिन्धनं ज्योतिर् इव प्रशान्तं स ब्रह्मलोकं व्रजति द्विजातिः

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc