भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 221

221.1

एवं सम्यग् गृहस्थेन देवताः पितरस् तथा
संपूज्या हव्यकव्याभ्याम् अन्नेनातिथिबान्धवाः ॥

221.2

भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः
भिक्षवो याचमानाश् च ये चान्ये पान्थका गृहे ॥

221.3

सदाचाररता विप्राः साधुना गृहमेधिना
पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥

221.4

कथितं भवता विप्र नित्यनैमित्तिकं च यत्
नित्यं नैमित्तिकं काम्यं त्रिविधं कर्म पौरुषम् ॥

221.5

सदाचारं मुने श्रोतुम् इच्छामो वदतस् तव
यं कुर्वन् सुखम् आप्नोति परत्रेह च मानवः ॥

221.6

गृहस्थेन सदा कार्यम् आचारपरिरक्षणम्
न ह्य् आचारविहीनस्य भद्रम् अत्र परत्र वा ॥

221.7

यज्ञदानतपांसीह पुरुषस्य न भूतये
भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥

221.8

दुराचारो हि पुरुषो नेहायुर् विन्दते महत्
कार्यो धर्मः सदाचार आचारस्यैव लक्षणम् ॥

221.9

तस्य स्वरूपं वक्ष्यामि सदाचारस्य भो द्विजाः
आत्मनैकमना भूत्वा तथैव परिपालयेत् ॥

221.10

त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना
तत्संसिद्धौ गृहस्थस्य सिद्धिर् अत्र परत्र च ॥

221.11

पादेनाप्य् अस्य पारत्र्यं कुर्याच् छ्रेयः स्वम् आत्मवान्
अर्धेन चात्मभरणं नित्यनैमित्तिकानि च ॥

221.12

पादेनैव तथाप्य् अस्य मूलभूतं विवर्धयेत्
एवम् आचरतो विप्रा अर्थः साफल्यम् ऋच्छति ॥

221.13

तद्वत् पापनिषेधार्थं धर्मः कार्यो विपश्चिता
परत्रार्थस् तथैवान्यः कार्यो ऽत्रैव फलप्रदः ॥

221.14

प्रत्यवायभयात् कामस् तथान्यश् चाविरोधवान्
द्विधा कामो ऽपि रचितस् त्रिवर्गायाविरोधकृत् ॥

221.15

परस्परानुबन्धांश् च सर्वान् एतान् विचिन्तयेत्
विपरीतानुबन्धांश् च बुध्यध्वं तान् द्विजोत्तमाः ॥

221.16

धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थपीडकः
उभाभ्यां च द्विधा कामं तेन तौ च द्विधा पुनः ॥

221.17

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थाव् अनुचिन्तयेत्
समुत्थाय तथाचम्य प्रस्नातो नियतः शुचिः ॥

221.18

पूर्वां संध्यां सनक्षत्रां पश्चिमां सदिवाकराम्
उपासीत यथान्यायं नैनां जह्याद् अनापदि ॥

221.19

असत्प्रलापम् अनृतं वाक्पारुष्यं च वर्जयेत्
असच्छास्त्रम् असद्वादम् असत्सेवां च वै द्विजाः ॥

221.20

सायंप्रातस् तथा होमं कुर्वीत नियतात्मवान्
नोदयास्तमने चैवम् उदीक्षेत विवस्वतः ॥

221.21

केशप्रसाधनादर्श दन्तधावनम् अञ्जनम्
पूर्वाह्ण एव कार्याणि देवतानां च तर्पणम् ॥

221.22

ग्रामावसथतीर्थानां क्षेत्राणां चैव वर्त्मनि
न विण्मूत्रम् अनुष्ठेयं न च कृष्टे न गोव्रजे ॥

221.23

नग्नां परस्त्रियं नेक्षेन् न पश्येद् आत्मनः शकृत्
उदक्यादर्शनस्पर्शम् एवं संभाषणं तथा ॥

221.24

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत्
नाधितिष्ठेच् छकृन्मूत्रे केशभस्मसपालिकाः ॥

221.25

तुषाङ्गारविशीर्णानि रज्जुवस्त्रादिकानि च
नाधितिष्ठेत् तथा प्राज्ञः पथि वस्त्राणि वा भुवि ॥

221.26

पितृदेवमनुष्याणां भूतानां च तथार्चनम्
कृत्वा विभवतः पश्चाद् गृहस्थो भोक्तुम् अर्हति ॥

221.27

प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः
भुञ्जीत चान्नं तच्चित्तो ह्य् अन्तर्जानुः सदा नरः ॥

221.28

उपघातम् ऋते दोषान् नान्नस्योदीरयेद् बुधः
प्रत्यक्षलवणं वर्ज्यम् अन्नम् उच्छिष्टम् एव च ॥

221.29

न गच्छन् न च तिष्ठन् वै विण्मूत्रोत्सर्गम् आत्मवान्
कुर्वीत चैवम् उच्छिष्टं न किंचिद् अपि भक्षयेत् ॥

221.30

उच्छिष्टो नालपेत् किंचित् स्वाध्यायं च विवर्जयेत्
न पश्येच् च रविं चेन्दुं नक्षत्राणि च कामतः ॥

221.31

भिन्नासनं च शय्यां च भाजनं च विवर्जयेत्
गुरूणाम् आसनं देयम् अभ्युत्थानादिसत्कृतम् ॥

221.32

अनुकूलं तथालापम् अभिकुर्वीत बुद्धिमान्
तत्रानुगमनं कुर्यात् प्रतिकूलं न संचरेत् ॥

221.33

नैकवस्त्रश् च भुञ्जीत न कुर्याद् देवतार्चनम्
नावाहयेद् द्विजान् अग्नौ होमं कुर्वीत बुद्धिमान् ॥

221.34

न स्नायीत नरो नग्नो न शयीत कदाचन
न पाणिभ्याम् उभाभ्यां तु कण्डूयेत शिरस् तथा ॥

221.35

न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं बुधैः
शिरःस्नातश् च तैलेन नाङ्गं किंचिद् उपस्पृशेत् ॥

221.36

अनध्यायेषु सर्वेषु स्वाध्यायं च विवर्जयेत्
ब्राह्मणानलगोसूर्यान् नावमन्येत् कदाचन ॥

221.37

उदङ्मुखो दिवा रात्राव् उत्सर्गं दक्षिणामुखः
आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः ॥

221.38

दुष्कृतं न गुरोर् ब्रूयात् क्रुद्धं चैनं प्रसादयेत्
परिवादं न शृणुयाद् अन्येषाम् अपि कुर्वताम् ॥

221.39

पन्था देयो ब्राह्मणानां राज्ञो दुःखातुरस्य च
विद्याधिकस्य गर्भिण्या रोगार्तस्य महीयतः ॥

221.40

मूकान्धबधिराणां च मत्तस्योन्मत्तकस्य च
देवालयं चैद्यतरुं तथैव च चतुष्पथम् ॥

221.41

विद्याधिकं गुरुं चैव बुधः कुर्यात् प्रदक्षिणम्
उपानद्वस्त्रमाल्यादि धृतम् अन्यैर् न धारयेत् ॥

221.42

चतुर्दश्यां तथाष्टम्यां पञ्चदश्यां च पर्वसु
तैलाभ्यङ्गं तथा भोगं योषितश् च विवर्जयेत् ॥

221.43

नोत्क्षिप्तबाहुजङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन
न चापि विक्षिपेत् पादौ पादं पादेन नाक्रमेत् ॥

221.44

पुंश्चल्याः कृतकार्यस्य बालस्य पतितस्य च
मर्माभिघातम् आक्रोशं पैशुन्यं च विवर्जयेत् ॥

221.45

दम्भाभिमानं तैक्ष्ण्यं च न कुर्वीत विचक्षणः
मूर्खोन्मत्तव्यसनिनो विरूपान् अपि वा तथा ॥

221.46

न्यूनाङ्गांश् चाधनांश् चैव नोपहासेन दूषयेत्
परस्य दण्डं नोद्यच्छेच् छिक्षार्थं शिष्यपुत्रयोः ॥

221.47

तद्वन् नोपविशेत् प्राज्ञः पादेनाकृष्य चासनम्
संयावं कृशरं मांसं नात्मार्थम् उपसाधयेत् ॥

221.48

सायं प्रातश् च भोक्तव्यं कृत्वा चातिथिपूजनम्
प्राङ्मुखोदङ्मुखो वापि वाग्यतो दन्तधावनम् ॥

221.49

कुर्वीत सततं विप्रा वर्जयेद् वर्ज्यवीरुधम्
नोदक्शिराः स्वपेज् जातु न च प्रत्यक्शिरा नरः ॥

221.50

शिरस् त्व् आगस्त्याम् आधाय शयीताथ पुरंदरीम्
न तु गन्धवतीष्व् अप्सु शयीत न तथोषसि ॥

221.51

उपरागे परं स्नानम् ऋते दिनम् उदाहृतम्
अपमृज्यान् न वस्त्रान्तैर् गात्राण्य् अम्बरपाणिभिः ॥

221.52

न चावधूनयेत् केशान् वाससी न च निर्धुनेत्
अनुलेपनम् आदद्यान् नास्नातः कर्हिचिद् बुधः ॥

221.53

न चापि रक्तवासाः स्याच् चित्रासितधरो ऽपि वा
न च कुर्याद् विपर्यासं वाससोर् नापि भूषयोः ॥

221.54

वर्ज्यं च विदशं वस्त्रम् अत्यन्तोपहतं च यत्
कीटकेशावपन्नं च तथा श्वभिर् अवेक्षितम् ॥

221.55

अवलीढं शुना चैव सारोद्धरणदूषितम्
पृष्ठमांसं वृथामांसं वर्ज्यमांसं च वर्जयेत् ॥

221.56

न भक्षयेच् च सततं प्रत्यक्षं लवणं नरः
वर्ज्यं चिरोषितं विप्राः शुष्कं पर्युषितं च यत् ॥

221.57

पिष्टशाकेक्षुपयसां विकारा द्विजसत्तमाः
तथा मांसविकाराश् च नैव वर्ज्याश् चिरोषिताः ॥

221.58

उदयास्तमने भानोः शयनं च विवर्जयेत्
नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥

221.59

न चैव शयने नोर्व्याम् उपविष्टो न शब्दकृत्
प्रेष्याणाम् अप्रदायाथ न भुञ्जीत कदाचन ॥

221.60

भुञ्जीत पुरुषः स्नातः सायंप्रातर् यथाविधि
परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥

221.61

इष्टापूर्तायुषां हन्त्री परदारगतिर् नृणाम्
नहीदृशम् अनायुष्यं लोके किंचन विद्यते ॥

221.62

यादृशं पुरुषस्येह परदाराभिमर्शनम्
देवाग्निपितृकार्याणि तथा गुर्वभिवादनम् ॥

221.63

कुर्वीत सम्यग् आचम्य तद्वद् अन्नभुजिक्रियाम्
अफेनशब्दगन्धाभिर् अद्भिर् अच्छाभिर् आदरात् ॥

221.64

आचामेच् चैव तद्वच् च प्राङ्मुखोदङ्मुखो ऽपि वा
अन्तर्जलाद् आवसथाद् वल्मीकान् मूषिकास्थलात् ॥

221.65

कृतशौचावशिष्टाश् च वर्जयेत् पञ्च वै मृदः
प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥

221.66

अन्तर्जानुस् तथाचामेत् त्रिश् चतुर् वापि वै नरः
परिमृज्य द्विर् आवर्त्य खानि मूर्धानम् एव च ॥

221.67

सम्यग् आचम्य तोयेन क्रियां कुर्वीत वै शुचिः
क्षुते ऽवलीढे वाते च तथा निष्ठीवनादिषु ॥

221.68

कुर्याद् आचमनं स्पर्शे वास्पृष्टस्यार्कदर्शनम्
कुर्वीतालम्भनं चापि दक्षिणश्रवणस्य च ॥

221.69

यथाविभवतो ह्य् एतत् पूर्वाभावे ततः परम्
न विद्यमाने पूर्वोक्त उत्तरप्राप्तिर् इष्यते ॥

221.70

न कुर्याद् दन्तसंघर्षं नात्मनो देहताडनम्
स्वापे ऽध्वनि तथा भुञ्जन् स्वाध्यायं च विवर्जयेत् ॥

221.71

संध्यायां मैथुनं चापि तथा प्रस्थानम् एव च
तथापराह्णे कुर्वीत श्रद्धया पितृतर्पणम् ॥

221.72

शिरःस्नानं च कुर्वीत दैवं पित्र्यम् अथापि च
प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥

221.73

व्यङ्गिनीं वर्जयेत् कन्यां कुलजां वाप्य् अरोगिणीम्
उद्वहेत् पितृमात्रोश् च सप्तमीं पञ्चमीं तथा ॥

221.74

रक्षेद् दारांस् त्यजेद् ईर्ष्यां तथाह्नि स्वप्नमैथुने
परोपतापकं कर्म जन्तुपीडां च सर्वदा ॥

221.75

उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम्
स्त्रीजन्मपरिहारार्थं पञ्चमीं चापि वर्जयेत् ॥

221.76

ततः षष्ठ्यां व्रजेद् रात्र्यां ज्येष्ठयुग्मासु रात्रिषु
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ॥

221.77

विधर्मिणो वै पर्वादौ संध्याकालेषु षण्ढकाः
क्षुरकर्मणि रिक्तां वै वर्जयीत विचक्षणः ॥

221.78

ब्रुवताम् अविनीतानां न श्रोतव्यं कदाचन
न चोत्कृष्टासनं देयम् अनुत्कृष्टस्य चादरात् ॥

221.79

क्षुरकर्मणि चान्ते च स्त्रीसंभोगे च भो द्विजाः
स्नायीत चैलवान् प्राज्ञः कटभूमिम् उपेत्य च ॥

221.80

देववेदद्विजातीनां साधुसत्यमहात्मनाम्
गुरोः पतिव्रतानां च ब्रह्मयज्ञतपस्विनाम् ॥

221.81

परिवादं न कुर्वीत परिहासं च भो द्विजाः
धवलाम्बरसंवीतः सितपुष्पविभूषितः ॥

221.82

सदा माङ्गल्यवेषः स्यान् न वामाङ्गल्यवान् भवेत्
नोद्धतोन्मत्तमूढैश् च नाविनीतैश् च पण्डितः ॥

221.83

गच्छेन् मैत्रीम् अशीलेन न वयोजातिदूषितैः
न चातिव्ययशीलैश् च पुरुषैर् नैव वैरिभिः ॥

221.84

कार्याक्षमैर् निन्दितैर् न न चैव विटसङ्गिभिः
निस्वैर् न वादैकपरैर् नरैश् चान्यैस् तथाधमैः ॥

221.85

सुहृद्दीक्षितभूपाल स्नातकश्वशुरैः सह
उत्तिष्ठेद् विभवाच् चैनान् अर्चयेद् गृहम् आगतान् ॥

221.86

यथाविभवतो विप्राः प्रतिसंवत्सरोषितान्
सम्यग् गृहे ऽर्चनं कृत्वा यथास्थानम् अनुक्रमात् ॥

221.87

संपूजयेत् तथा वह्नौ प्रदद्याच् चाहुतीः क्रमात्
प्रथमां ब्रह्मणे दद्यात् प्रजानां पतये ततः ॥

221.88

तृतीयां चैव गृह्येभ्यः कश्यपाय तथापराम्
ततो ऽनुमतये दद्याद् दद्याद् बहुबलिं ततः ॥

221.89

पूर्वं ख्याता मया या तु नित्यक्रमविधौ क्रिया
वैश्वदेवं ततः कुर्याद् वदत शृणुत द्विजाः ॥

221.90

यथास्थानविभागं तु देवान् उद्दिश्य वै पृथक्
पर्जन्यापोधरित्रीणां दद्यात् तु मणिके त्रयम् ॥

221.91

वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादिषु क्रमात्
ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमात् ॥

221.92

विश्वेभ्यश् चैव देवेभ्यो विश्वभूतेभ्य एव च
उषसे भूतपतये दद्याद् वोत्तरतः शुचिः ॥

221.93

स्वधा च नम इत्य् उक्त्वा पितृभ्यश् चैव दक्षिणे
कृत्वापसव्यं वायव्यां यक्ष्मैतत् तैति संवदन् ॥

221.94

अन्नावशेषमिश्रं वै तोयं दद्याद् यथाविधि
देवानां च ततः कुर्याद् ब्राह्मणानां नमस्क्रियाम् ॥

221.95

अङ्गुष्ठोत्तरतो रेखा पाणेर् या दक्षिणस्य च
एतद् ब्राह्मम् इति ख्यातं तीर्थम् आचमनाय वै ॥

221.96

तर्जन्यङ्गुष्ठयोर् अन्तः पित्र्यं तीर्थम् उदाहृतम्
पितॄणां तेन तोयानि दद्यान् नान्दीमुखाद् ऋते ॥

221.97

अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः
तीर्थं कनिष्ठिकामूले कायं तत्र प्रजापतेः ॥

221.98

एवम् एभिः सदा तीर्थैर् विधानं पितृभिः सह
सदा कार्याणि कुर्वीत नान्यतीर्थः कदाचन ॥

221.99

ब्राह्मेणाचमनं शस्तं पैत्र्यं पित्र्येण सर्वदा
देवतीर्थेन देवानां प्राजापत्यं जितेन च ॥

221.100

नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम्
प्राजापत्येन तीर्थेन यच् च किंचित् प्रजापतेः ॥

221.101

युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः
गुरुदेवपितॄन् विप्रान् न च पादौ प्रसारयेत् ॥

221.102

नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत्
शौचकालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः
न विलम्बेत मेधावी न मुखेनानलं धमेत् ॥

221.103

तत्र विप्रा न वस्तव्यं यत्र नास्ति चतुष्टयम्
ऋणप्रदाता वैद्यश् च श्रोत्रियः सजला नदी ॥

221.104

जितभृत्यो नृपो यत्र बलवान् धर्मतत्परः
तत्र नित्यं वसेत् प्राज्ञः कुतः कुनृपतौ सुखम् ॥

221.105

पौराः सुसंहता यत्र सततं न्यायवर्तिनः
शान्तामत्सरिणो लोकास् तत्र वासः सुखोदयः ॥

221.106

यस्मिन् कृषीवला राष्ट्रे प्रायशो नातिमानिनः
यत्रौषधान्य् अशेषाणि वसेत् तत्र विचक्षणः ॥

221.107

तत्र विप्रा न वस्तव्यं यत्रैतत् त्रितयं सदा
जिगीषुः पूर्ववैरश् च जनश् च सततोत्सवः ॥

221.108

वसेन् नित्यं सुशीलेषु सहचारिषु पण्डितः
यत्राप्रधृष्यो नृपतिर् यत्र सस्यप्रदा मही ॥

221.109

इत्य् एतत् कथितं विप्रा मया वो हितकाम्यया
अतःपरं प्रवक्ष्यामि भक्ष्यभोज्यविधिक्रियाम् ॥

221.110

भोज्यम् अन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम्
अस्नेहा अपि गोधूम यवगोरसविक्रियाः ॥

221.111

शशकः कच्छपो गोधा श्वाविन् मत्स्यो ऽथ शल्यकः
भक्ष्याश् चैते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ॥

221.112

पितृदेवादिशेषं च श्राद्धे ब्राह्मणकाम्यया
प्रोक्षितं चौषधार्थं च खादन् मांसं न दुष्यति ॥

221.113

शङ्खाश्मस्वर्णरूप्याणां रज्जूनाम् अथ वाससाम्
शाकमूलफलानां च तथा विदलचर्मणाम् ॥

221.114

मणिवस्त्रप्रवालानां तथा मुक्ताफलस्य च
पात्राणां चमसानां च अम्बुना शौचम् इष्यते ॥

221.115

तथाश्मकानां तोयेन अश्मसंघर्षणेन च
सस्नेहानां च पात्राणां शुद्धिर् उष्णेन वारिणा ॥

221.116

शूर्पाणाम् अजिनानां च मुशलोलूखलस्य च
संहतानां च वस्त्राणां प्रोक्षणात् संचयस्य च ॥

221.117

वल्कलानाम् अशेषाणाम् अम्बुमृच्छौचम् इष्यते
आविकानां समस्तानां केशानां चैवम् इष्यते ॥

221.118

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः
शोधनं चैव भवति उपघातवतां सदा ॥

221.119

तथा कार्पासिकानां च शुद्धिः स्याज् जलभस्मना
दारुदन्तास्थिशृङ्गाणां तक्षणाच् छुद्धिर् इष्यते ॥

221.120

पुनः पाकेन भाण्डानां पार्थिवानाम् अमेध्यता
शुद्धं भैक्ष्यं कारुहस्तः पण्यं योषिन्मुखं तथा ॥

221.121

रथ्यागमनविज्ञानं दासवर्गेण संस्कृतम्
प्राक्प्रशस्तं चिरातीतम् अनेकान्तरितं लघु ॥

221.122

अन्तः प्रभूतं बालं च वृद्धान्तरविचेष्टितम्
कर्मान्तागारशालाश् च स्तनद्वयं शुचि स्त्रियाः ॥

221.123

शुचयश् च तथैवापः स्रवन्त्यो गन्धवर्जिताः
भूमिर् विशुध्यते कालाद् दाहमार्जनगोकुलैः ॥

221.124

लेपाद् उल्लेखनात् सेकाद् वेश्म संमार्जनादिना
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥

221.125

मृदम्बु भस्म चाप्य् अन्ने प्रक्षेप्तव्यं विशुद्धये
औदुम्बराणाम् अम्लेन वारिणा त्रपुसीसयोः ॥

221.126

भस्माम्बुभिश् च कांस्यानां शुद्धिः प्लावो द्रवस्य च
अमेध्याक्तस्य मृत्तोयैर् गन्धापहरणेन च ॥

221.127

अन्येषां चैव द्रव्याणां वर्णगन्धांश् च हारयेत्
शुचि मांसं तु चाण्डाल क्रव्यादैर् विनिपातितम् ॥

221.128

रथ्यागतं च तैलादि शुचि गोतृप्तिदं पयः
रजो ऽग्निर् अश्वगोछाया रश्मयः पवनो मही ॥

221.129

विप्लुषो मक्षिकाद्याश् च दुष्टसङ्गाद् अदोषिणः
अजाश्वं मुखतो मेध्यं न गोर् वत्सस्य चाननम् ॥

221.130

मातुः प्रस्रवणे मेध्यं शकुनिः फलपातने
आसनं शयनं यानं तटौ नद्यास् तृणानि च ॥

221.131

सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत्
रथ्यापसर्पणे स्नाने क्षुत्पानानां च कर्मसु ॥

221.132

आचामेत यथान्यायं वाससः परिधापने
स्पृष्टानाम् अथ संस्पर्शैर् द्विरथ्याकर्दमाम्भसि ॥

221.133

पक्वेष्टकचितानां च मेध्यता वायुसंश्रयात्
प्रभूतोपहताद् अन्नाद् अग्रम् उद्धृत्य संत्यजेत् ॥

221.134

शेषस्य प्रोक्षणं कुर्याद् आचम्याद्भिस् तथा मृदा
उपवासस् त्रिरात्रं तु दुष्टभक्ताशिनो भवेत् ॥

221.135

अज्ञाने ज्ञानपूर्वे तु तद्दोषोपशमे न तु
उदक्यां वावलग्नां च सूतिकान्त्यावसायिनः ॥

221.136

स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ॥

221.137

आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा
न लङ्घयेत् तथैवाथ ष्ठीवनोद्वर्तनानि च ॥

221.138

गृहाद् उच्छिष्टविण्मूत्रं पादाम्भस् तत् क्षिपेद् बहिः
पञ्चपिण्डान् अनुद्धृत्य न स्नायात् परवारिणि ॥

221.139

स्नायीत देवखातेषु गङ्गाह्रदसरित्सु च
नोद्यानादौ विकालेषु प्राज्ञस् तिष्ठेत् कदाचन ॥

221.140

नालपेज् जनविद्विष्टान् वीरहीनास् तथा स्त्रियः
देवतापितृसच्छास्त्र यज्विसंन्यासिनिन्दकैः ॥

221.141

कृत्वा तु स्पर्शनालापं शुध्यत्य् अर्कावलोकनात्
अवलोक्य तथोदक्यां संन्यस्तं पतितं शवम् ॥

221.142

विधर्मिसूतिकाषण्ढ विवस्त्रान्त्यावसायिनः
मृतनिर्यातकांश् चैव परदाररताश् च ये ॥

221.143

एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः
अभोज्यभिक्षुपाखण्ड मार्जारखरकुक्कुटान् ॥

221.144

पतितापविद्धचाण्डाल मृताहारांश् च धर्मवित्
संस्पृश्य शुध्यते स्नानाद् उदक्याग्रामशूकरौ ॥

221.145

तद्वच् च सूतिकाशौच दूषितौ पुरुषाव् अपि
यस्य चानुदिनं हानिर् गृहे नित्यस्य कर्मणः ॥

221.146

यश् च ब्राह्मणसंत्यक्तः किल्बिषाशी नराधमः
नित्यस्य कर्मणो हानिं न कुर्वीत कदाचन ॥

221.147

तस्य त्व् अकरणं वक्ष्ये केवलं मृतजन्मसु
दशाहं ब्राह्मणस् तिष्ठेद् दानहोमविवर्जितः ॥

221.148

क्षत्रियो द्वादशाहं च वैश्यो मासार्धम् एव च
शूद्रश् च मासम् आसीत निजकर्मविवर्जितः ॥

221.149

ततः परं निजं कर्म कुर्युः सर्वे यथोचितम्
प्रेताय सलिलं देयं बहिर् गत्वा तु गोत्रकैः ॥

221.150

प्रथमे ऽह्नि चतुर्थे च सप्तमे नवमे तथा
तस्यास्थिसंचयः कार्यश् चतुर्थे ऽहनि गोत्रकैः ॥

221.151

ऊर्ध्वं संचयनात् तेषाम् अङ्गस्पर्शो विधीयते
गोत्रकैस् तु क्रियाः सर्वाः कार्याः संचयनात् परम् ॥

221.152

स्पर्श एव सपिण्डानां मृताहनि तथोभयोः
अन्वर्थम् इच्छया शस्त्र रज्जुबन्धनवह्निषु ॥

221.153

विषप्रतापादिमृते प्रायानाशकयोर् अपि
बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ॥

221.154

सद्यः शौचं मनुष्याणां त्र्यहम् उक्तम् अशौचकम्
सपिण्डानां सपिण्डस् तु मृते ऽन्यस्मिन् मृतो यदि ॥

221.155

पूर्वशौचं समाख्यातं कार्यास् तत्र दिनक्रियाः
एष एव विधिर् दृष्टो जन्मन्य् अपि हि सूतके ॥

221.156

सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च
पुत्रे जाते पितुः स्नानं सचैलस्य विधीयते ॥

221.157

तत्रापि यदि वान्यस्मिन्न् अनुयातस् ततः परम्
तत्रापि शुद्धिर् उदिता पूर्वजन्मवतो दिनैः ॥

221.158

दशद्वादशमासार्ध माससंख्यैर् दिनैर् गतैः
स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ॥

221.159

प्रेतम् उद्दिश्य कर्तव्यम् एकोद्दिष्टम् अतः परम्
दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ॥

221.160

यद् यद् इष्टतमं लोके यच् चास्य दयितं गृहे
तत् तद् गुणवते देयं तद् एवाक्षयम् इच्छता ॥

221.161

पूर्णैस् तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधैः
दत्तप्रेतोदपिण्डाश् च सर्वे वर्णाः कृतक्रियाः ॥

221.162

कुर्युः समग्राः शुचिनः परत्रेह च भूतये
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥

221.163

धर्मतो धनम् आहार्यं यष्टव्यं चापि यत्नतः
येन प्रकुपितो नात्मा जुगुप्साम् एति भो द्विजाः ॥

221.164

तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजनैः
एवम् आचरतो विप्राः पुरुषस्य गृहे सतः ॥

221.165

धर्मार्थकामं संप्राप्य परत्रेह च शोभनम्
इदं रहस्यम् आयुष्यं धन्यं बुद्धिविवर्धनम् ॥

221.166

सर्वपापहरं पुण्यं श्रीपुष्ट्यारोग्यदं शिवम्
यशःकीर्तिप्रदं नॄणां तेजोबलविवर्धनम् ॥

221.167

अनुष्ठेयं सदा पुंभिः स्वर्गसाधनम् उत्तमम्
ब्राह्मणैः क्षत्रियैर् वैश्यैः शूद्रैश् च मुनिसत्तमाः ॥

221.168

ज्ञातव्यं सुप्रयत्नेन सम्यक् श्रेयोभिकाङ्क्षिभिः
ज्ञात्वैव यः सदा कालम् अनुष्ठानं करोति वै ॥

221.169

सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते
सारात् सारतरं चेदम् आख्यातं द्विजसत्तमाः ॥

221.170

श्रुतिस्मृत्युदितं धर्मं न देयं यस्य कस्यचित्
न नास्तिकाय दातव्यं न दुष्टमतये द्विजाः
न दाम्भिकाय मूर्खाय न कुतर्कप्रलापिने ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc