भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 146

146.1

यायातम् अपरं तीर्थं यत्र कालञ्जरः शिवः
सर्वपापप्रशमनं तद्वृत्तम् उच्यते मया ॥

146.2

ययातिर् नाहुषो राजा साक्षाद् इन्द्र इवापरः
तस्य भार्याद्वयं चासीत् कुललक्षणभूषितम् ॥

146.3

ज्येष्ठा तु देवयानीति नाम्ना शुक्रसुता शुभा
शर्मिष्ठेति द्वितीया सा सुता स्याद् वृषपर्वणः ॥

146.4

ब्राह्मण्य् अपि महाप्राज्ञा देवयानी सुमध्यमा
ययातेर् अभवद् भार्या सा तु शुक्रप्रसादतः ॥

146.5

शर्मिष्ठा चापि तस्यैव भार्या या वृषपर्वजा
देवयानी शुक्रसुता द्वौ पुत्रौ समजीजनत् ॥

146.6

यदुं च तुर्वसुं चैव देवपुत्रसमाव् उभौ
शर्मिष्ठा च नृपाल् लेभे त्रीन् पुत्रान् देवसंनिभान् ॥

146.7

द्रुह्युं चानुं च पूरुं च ययातेर् नृपसत्तमात्
देवयान्याः सुतौ ब्रह्मन् सदृशौ शुक्ररूपतः ॥

146.8

शर्मिष्ठायास् तु तनयाः शक्राग्निवरुणप्रभाः
देवयानी कदाचित् तु पितरं प्राह दुःखिता ॥

146.9

मम त्व् अपत्यद्वितयम् अभाग्याया भृगूद्वह
मम दास्याः सभाग्याया अपत्यत्रितयं पितः ॥

146.10

तद् एतद् अनुमृश्यायं दुःखम् अत्यन्तम् आगता
मरिष्ये दानवगुरो ययातिकृतविप्रियात्
मानभङ्गाद् वरं तात मरणं हि मनस्विनाम् ॥

146.11

तद् एतत् पुत्रिकावाक्यं श्रुत्वा शुक्रः प्रतापवान्
कुपितो ऽभ्याययौ शीघ्रं ययातिम् इदम् अब्रवीत् ॥

146.12

यद् इदं विप्रियं मे त्वं सुतायाः कृतवान् असि
रूपोन्मत्तेन राजेन्द्र तस्माद् वृद्धो भविष्यसि ॥

146.13

न च भोक्तुं न च त्यक्तुं शक्नोति विषयातुरः
स्पृहयन् मनसैवास्ते निःश्वासोच्छ्वासनष्टधीः ॥

146.14

वृद्धत्वम् एव मरणं जीवताम् अपि देहिनाम्
तस्माच् छीघ्रं प्रयाहि त्वं जरां भूपातिदुर्धराम् ॥

146.15

एतच् छ्रुत्वा ययातिस् तु शापं शुक्रस्य धीमतः
कृताञ्जलिपुटो राजा ययातिः शुक्रम् अब्रवीत् ॥

146.16

नापराध्ये न संकुप्ये नैवाधर्मं प्रवर्तये
अधर्मकारिणः पापाः शास्या एव महात्मनाम् ॥

146.17

धर्मम् एव चरन्तं वै कथं मां शप्तवान् असि
देवयानी द्विजश्रेष्ठ वृथा मां वक्ति किंचन ॥

146.18

तस्मान् न मम विप्रेन्द्र शापं दातुं त्वम् अर्हसि
विद्वांसो ऽपि हि निर्दोषे यदि कुप्यन्ति मोहिताः
तदा न दोषो मूर्खाणां द्वेषाग्निप्लुष्टचेतसाम् ॥

146.19

ययातिवाक्याच् छुक्रो ऽपि सस्मार सुतया कृतम्
असकृद् विप्रियं तस्य दिवा रात्रौ प्रचण्डया ॥

146.20

गतकोपो ऽहम् इत्य् उक्त्वा काव्यो राजानम् अब्रवीत् ॥

146.21

ज्ञातं मयानयाकारि विप्रियं न वदे ऽनृतम्
शापस्येमं करिष्यामि शृणुष्वानुग्रहं नृप ॥

146.22

यस्मै पुत्राय संदातुं जराम् इच्छसि मानद
तस्य सा यात्व् इयं राजञ् जरा पुत्राय मद्वरात् ॥

146.23

पुनर् ययातिः श्वशुरं शुक्रं प्राह विनीतवत् ॥

146.24

यो गृह्णाति मया दत्तां जरां भक्तिसमन्वितः
स राजा स्याद् दैत्यगुरो तद् एतद् अनुमन्यताम् ॥

146.25

यो मद्वाक्यं नाभिनन्देत् सुतो दैत्यगुरो दृढम्
तं शपेयम् अनुज्ञात्र दातव्यैव त्वया गुरो ॥

146.26

एवम् अस्त्व् इति राजानम् उवाच भृगुनन्दनः
ततो ययातिः स्वं पुत्रम् आहूयेदं वचो ऽब्रवीत् ॥

146.27

यदो गृहाण मे शापाज् जरां जातां सुतो भवान्
ज्येष्ठः सर्वार्थवित् प्रौढः पुत्राणां धुरि संस्थितः
पुत्री तेनैव जनको यस् तदाज्ञावशे स्थितः ॥

146.28

नेत्य् उवाच यदुस् तातं ययातिं भूरिदक्षिणम्
ययातिश् च यदुं शप्त्वा तुर्वसुं कामम् अब्रवीत् ॥

146.29

नागृह्णात् तुर्वसुश् चापि पित्रा दत्तां जरां तदा
तं शप्त्वा चाब्रवीद् द्रुह्युं गृहाणेमां जरां मम ॥

146.30

द्रुह्युश् च नैच्छत् तां दत्तां जरां रूपविनाशिनीम्
अनुम् अप्य् अब्रवीद् राजा गृहाणेमां जरां मम ॥

146.31

अनुर् नेति तदोवाच शप्त्वा तं पूरुम् अब्रवीत्
अभिनन्द्य तदा पूरुर् जरां तां जगृहे पितुः ॥

146.32

सहस्रम् एकं वर्षाणां यावत् प्रीतो ऽभवत् पिता
यौवने यानि भोग्यानि वस्तूनि विविधानि च ॥

146.33

पुत्रयौवनसंतुष्टो ययातिर् बुभुजे सुखम्
ततस् तृप्तो ऽभवद् राजा सर्वभोगेषु नाहुषः
ततो हर्षात् समाहूय पूरुं पुत्रम् अथाब्रवीत् ॥

146.34

तृप्तो ऽस्मि सर्वभोगेषु यौवनेन तवानघ
गृहाण यौवनं पुत्र जरां मे देहि कश्मलाम् ॥

146.35

नेत्य् उवाच तदा पूरुर् जरया क्षीयते मया
विकारास् तात भावानां दुर्निवाराः शरीरिणाम् ॥

146.36

बलात् कालागता सह्या जराप्य् अखिलदेहिभिः
सा चेद् गुरूपकाराय गृहीता त्यज्यते कथम् ॥

146.37

स्वीकृतत्यागपापाद् धि देहिनां मरणं वरम्
अथवा तु जरां राजंस् तपसा नाशयाम्य् अहम् ॥

146.38

एवम् उक्त्वा तु पितरं ययौ गङ्गाम् अनुत्तमाम्
गौतम्या दक्षिणे पारे ततस् तेपे तपो महत् ॥

146.39

ततः प्रीतो ऽभवद् देवः कालेन महता शिवः
लोकातीतमहोदार गुणसन्मणिभूषितम्
किं ददामीति तं प्राह पूरुं स सुरसत्तमः ॥

146.40

शापप्राप्तां जरां नाथ पितुर् मम सुराधिप
तां नाशयस्व देवेश पितृशप्तांश् च कोपतः
मद्भ्रातॄञ् शापतो मुक्तान् कुरुष्व सुरपूजित ॥

146.41

तथेत्य् उक्त्वा जगन्नाथः शापाज् जातां जरां तथा
अनाशयज् जगन्नाथो भ्रातॄंश् चक्रे विशापिनः ॥

146.42

ततः प्रभृति तत् तीर्थं जरारोगविनाशनम्
अकालजजरादीनां स्मरणाद् अपि नाशनम् ॥

146.43

तन्नाम्ना चापि विख्यातं कालञ्जरम् उदाहृतम्
यायातं नाहुषं पौरं शौक्रं शार्मिष्ठम् एव च ॥

146.44

एवमादीनि तीर्थानि तत्राष्टोत्तरम् एव च
शतं विद्यान् महाबुद्धे सर्वसिद्धिकरं तथा ॥

146.45

तेषु स्नानं च दानं च श्रवणं पठनं तथा
सर्वपापप्रशमनं भुक्तिमुक्तिप्रदं भवेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc