भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 145

145.1

मार्कण्डेयं नाम तीर्थं सर्वपापविमोचनम्
सर्वक्रतुफलं पुण्यम् अघौघविनिवारणम् ॥

145.2

तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः
मार्कण्डेयो भरद्वाजो वसिष्ठो ऽत्रिश् च गौतमः ॥

145.3

याज्ञवल्क्यश् च जाबालिर् मुनयो ऽन्ये ऽपि नारद
एते शास्त्रप्रणेतारो वेदवेदाङ्गपारगाः ॥

145.4

पुराणन्यायमीमांसा कथासु परिनिष्ठिताः
मिथः समूचुर् विद्वांसो मुक्तिं प्रति यथामति ॥

145.5

केचिज् ज्ञानं प्रशंसन्ति केचित् कर्म तथोभयम्
एवं विवदमानास् ते माम् ऊचुर् उभयं मतम् ॥

145.6

मदीयं तु मतं ज्ञात्वा ययुश् चक्रगदाधरम्
तस्य चापि मतं ज्ञात्वा ऋषयस् ते महौजसः ॥

145.7

पुनर् विवदमानास् ते शंकरं प्रष्टुम् उद्यताः
गङ्गायां च भवं पूज्य तम् एवार्थं शशंसिरे ॥

145.8

कर्मणस् तु प्रधानत्वम् उवाच त्रिपुरान्तकः
क्रियारूपं च तज् ज्ञानं क्रिया सैव तद् उच्यते ॥

145.9

तस्मात् सर्वाणि भूतानि कर्मणा सिद्धिम् आप्नुयुः
कर्मैव विश्वतोव्यापि तदृते नास्ति किंचन ॥

145.10

विद्याभ्यासो यज्ञकृतिर् योगाभ्यासः शिवार्चनम्
सर्वं कर्मैव नाकर्मी प्राणी क्वाप्य् अत्र विद्यते ॥

145.11

कर्मैव कारणं तस्माद् अन्यद् उन्मत्तचेष्टितम्
ऋषीणां यत्र संवादो यत्र देवो महेश्वरः ॥

145.12

चकार निर्णयं सर्वं कर्मणावाप्यते नृभिः
मार्कण्डं मुख्यतः कृत्वा ततो मार्कण्डम् उच्यते ॥

145.13

तीर्थम् ऋषिगणाकीर्णं गङ्गाया उत्तरे तटे
पितॄणां पावनं पुण्यं स्मरणाद् अपि सर्वदा ॥

145.14

तत्राष्टौ नवतिस् तात तीर्थान्य् आह जगन्मयः
वेदेन चापि तत् प्रोक्तम् ऋषयो मेनिरे च तत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc