ब्रह्म पुराण · अध्याय 124
पुत्रतीर्थम् इति ख्यातं पुण्यतीर्थं तद् उच्यते
सर्वान् कामान् अवाप्नोति यन्महिम्नः श्रुतेर् अपि ॥
तस्य स्वरूपं वक्ष्यामि शृणु यत्नेन नारद
दितेः पुत्राश् च दनुजाः परिक्षीणा यदाभवन्
अदितेस् तु सुता ज्येष्ठाः सर्वभावेन नारद ॥
क्षीणाः सुता आवयोर् एव भद्रे किं कुर्महे कर्म लोके गरीयः
पश्यादितेर् वंशम् अभिन्नम् उत्तमं सौराज्ययुक्तं यशसा जयश्रिया
जितारिम् अभ्युन्नतकीर्तिधर्मं मच्चित्तसंहर्षविनाशदक्षम्
समानभर्तृत्वसमानधर्मे समानगोत्रे ऽपि समानरूपे
न जीवयेयं श्रियम् उन्नतिं च जीर्णास्मि दृष्ट्वा त्व् अदितिप्रसूतान्
काम् अप्य् अवस्थाम् अनुयामि दुःस्था ऽदितेर् विलोक्याथ परां समृद्धिम्
एवं ब्रुवाणाम् अतिदीनवक्त्रां विनिश्वसन्तीं परमेष्ठिपुत्रः
कृताभिपूजो विगतश्रमस् तां स सान्त्वयन्न् आह मनोभिरामाम्
खेदो न कार्यः समभीप्सितं यत् तत् प्राप्यते पुण्यत एव भद्रे
तत्साधनं वेत्ति महानुभावः प्रजापतिस् ते स तु वक्ष्यतीति
साध्व्य् एतत् सर्वभावेन प्रश्रयावनता सती ॥
एवं ब्रुवाणां च दितिं दनुः प्रोवाच नारद ॥
भर्तारं कश्यपं भद्रे तोषयस्व निजैर् गुणैः
तुष्टो यदि भवेद् भर्ता ततः कामान् अवाप्स्यसि ॥
तथेत्य् उक्त्वा सर्वभावैस् तोषयाम् आस कश्यपम्
दितिं प्रोवाच भगवान् कश्यपो ऽथ प्रजापतिः ॥
किं ददामि वदाभीष्टं दिते वरय सुव्रते ॥
दितिर् अप्य् आह भर्तारं पुत्रं बहुगुणान्वितम्
जेतारं सर्वलोकानां सर्वलोकनमस्कृतम् ॥
येन जातेन लोके ऽस्मिन् भवेयं वीरपुत्रिणी
तं वरेयं सुरपितर् इत्य् आह विनयान्विता ॥
उपदेक्ष्ये व्रतं श्रेष्ठं द्वादशाब्दफलप्रदम्
तत आगत्य ते गर्भम् आधास्ये यन् मनोगतम्
निष्पापतायां जातायां सिध्यन्ति हि मनोरथाः ॥
भर्तृवाक्याद् दितिः प्रीता तं नमस्यायतेक्षणा
उपदिष्टं व्रतं चक्रे भर्त्रादिष्टं यथाविधि ॥
तीर्थसेवापात्रदान व्रतचर्यादिवर्जिताः
कथम् आसादयिष्यन्ति प्राणिनो ऽत्र मनोरथान् ॥
ततश् चीर्णे व्रते तस्यां दित्यां गर्भम् अधारयत्
पुनः कान्ताम् अथोवाच कश्यपस् तां दितिं रहः ॥
न प्राप्नुवन्ति यत्कामान् मुनयो ऽपि तपस्स्थिताः
यथाविहितकर्माङ्ग अवज्ञया तच् छुचिस्मिते ॥
निन्दितं च न कर्तव्यं संध्ययोर् उभयोर् अपि
न स्वप्तव्यं न गन्तव्यं मुक्तकेशी च नो भव ॥
भोक्तव्यं सुभगे नैव क्षुतं वा जृम्भणं तथा
संध्याकाले न कर्तव्यं भूतसंघसमाकुले ॥
सान्तर्धानं सदा कार्यं हसितं तु विशेषतः
गृहान्तदेशे संध्यासु न स्थातव्यं कदाचन ॥
मुशलोलूखलादीनि शूर्पपीठपिधानकम्
नैवातिक्रमणीयानि दिवा रात्रौ सदा प्रिये ॥
उदक्शीर्षं तु शयनं न संध्यासु विशेषतः
वक्तव्यं नानृतं किंचिन् नान्यगेहाटनं तथा ॥
कान्ताद् अन्यो न वीक्ष्यस् तु प्रयत्नेन नरः क्वचित्
इत्यादिनियमैर् युक्ता यदि त्वम् अनुवर्तसे
ततस् ते भविता पुत्रस् त्रैलोक्यैश्वर्यभाजनम् ॥
तथेति प्रतिजज्ञे सा भर्तारं लोकपूजितम्
गतश् च कश्यपो ब्रह्मन्न् इतश् चेतः सुरान् प्रति ॥
दितेर् गर्भो ऽपि ववृधे बलवान् पुण्यसंभवः
एतत् सर्वं मयो दैत्यो मायया वेत्ति तत्त्वतः ॥
इन्द्रस्य सख्यम् अभवन् मयेन प्रीतिपूर्वकम्
मयो गत्वा रहः प्राह इन्द्रं स विनयान्वितः ॥
दितेर् दनोर् अभिप्रायं व्रतं गर्भस्य वर्धनम्
तस्य वीर्यं च विविधं प्रीत्येन्द्राय न्यवेदयत् ॥
विश्वासैकगृहं मित्रम् अपायत्रासवर्जितम्
अर्जितं सुकृतं नाना विधं चेत् तद् अवाप्यते ॥
नमुचेश् च प्रियो भ्राता मयो दैत्यो महाबलः
भ्रातृहन्त्रा कथं मैत्र्यं मयस्यासीत् सुरेश्वर ॥
दैत्यानाम् अधिपश् चासीद् बलवान् नमुचिः पुरा
इन्द्रेण वैरम् अभवद् भीषणं लोमहर्षणम् ॥
युद्धं हित्वा कदाचिद् भो गच्छन्तं तु शतक्रतुम्
दृष्ट्वा दैत्यपतिः शूरो नमुचिः पृष्ठतो ऽन्वगात् ॥
तम् आयान्तम् अभिप्रेक्ष्य शचीभर्ता भयातुरः
ऐरावतं गजं त्यक्त्वा इन्द्रः फेनम् अथाविशत् ॥
स वज्रपाणिस् तरसा फेनेनैवाहनद् रिपुम्
नमुचिर् नाशम् अगमत् तस्य भ्राता मयो ऽनुजः ॥
भ्रातृहन्तृविनाशाय तपस् तेपे मयो महत्
मायां च विविधाम् आप देवानाम् अतिभीषणाम् ॥
वरांश् चावाप्य तपसा विष्णोर् लोकपरायणात्
दानशौण्डः प्रियालापी तदाभवद् असौ मयः ॥
अग्नींश् च ब्राह्मणान् पूज्य जेतुम् इन्द्रं कृतक्षणः
दातारं च तदार्थिभ्यः स्तूयमानं च बन्दिभिः ॥
विदित्वा मघवा वायोर् मयं मायाविनं रिपुम्
उपक्रान्तं सुयुद्धाय विप्रो भूत्वा तम् अभ्यगात्
शचीभर्ता मयं दैत्यं प्रोवाचेदं पुनः पुनः ॥
देहि दैत्यपते मह्यम् अर्थिने ऽपेक्षितं वरम्
त्वां श्रुत्वा दातृतिलकम् आगतो ऽहं द्विजोत्तमः ॥
मयो ऽपि ब्राह्मणं मत्वा ऽवदद् दत्तं मया तव
विचारयन्ति कृतिनो बह्व् अल्पं वा पुरो ऽर्थिनि ॥
इत्य् उक्ते तु हरिः प्राह सख्यम् इच्छे ह्य् अहं त्वया
इन्द्रं मयः पुनः प्राह किम् अनेन द्विजोत्तम ॥
न त्वया मम वैरं भोः स्वस्तीत्य् आह हरिर् मयम्
तत्त्वं वदेति स हरिर् दैत्येनोक्तः स्वकं वपुः ॥
दर्शयाम् आस दैत्याय सहस्राक्षं यद् उच्यते
ततः सविस्मयो दैत्यो मयो हरिम् उवाच ह ॥
किम् इदं वज्रपाणिस् त्वं तवायोग्या कृतिः सखे ॥
परिष्वज्य विहस्याथ वृत्तम् इत्य् अब्रवीद् धरिः
केनापि साधयन्त्य् अत्र पण्डिताश् च समीहितम् ॥
ततः प्रभृति शक्रस्य मयेन महती ह्य् अभूत्
सुप्रीतिर् मुनिशार्दूल मयो हरिहितः सदा ॥
इन्द्रस्य भवनं गत्वा तस्मै सर्वं न्यवेदयत्
किं मे कृत्यम् इति प्राह मयं मायाविनं हरिः ॥
हरये च मयो मायां प्रादात् प्रीत्या तथा हरिः
प्राप्तः संप्रीतिमान् आह किं कृत्यं मय तद् वद ॥
अगस्त्यस्याश्रमं गच्छ तत्रास्ते गर्भिणी दितिः
तस्याः शुश्रूषणं कुर्वन्न् आस्स्व तत्र कियन्ति च ॥
अहानि मघवंस् तस्या गर्भम् आविश्य वज्रधृक्
वर्धमानं च तं छिन्धि यावद् वश्यो ऽथवा मृतिम्
प्राप्नोति तावद् वज्रेण ततो न भविता रिपुः ॥
तथेत्य् उक्त्वा मयं पूज्य मघवान् एक एव हि विनीतवत् तदा प्रायाद् दितिं मातरम् अञ्जसा
शुश्रूषमाणस् तां देवीं शक्रो दैतेयमातरम् सा न जानाति तच् चित्तं शक्रस्य द्विषतो दितिः
गर्भे स्थितं तु यद् भूतं देवेन्द्रस्य विचेष्टितम्
अमोघं तन् मुनेस् तेजः कश्यपस्य दुरासदम् ॥
ततः प्रगृह्य कुलिशं सहस्राक्षः पुरंदरः
अन्तःप्रवेशकामो ऽसौ बहुकालं समावसन् ॥
संध्योदक्शीर्षनिद्रां ताम् अवेक्ष्य कुलिशायुधः
इदम् अन्तरम् इत्य् उक्त्वा दित्याः कुक्षिं समाविशत् ॥
अन्तर्वर्ति च यद् भूतम् इन्द्रं दृष्ट्वा धृतायुधम्
हन्तुकामं तदोवाच पुनः पुनर् अभीतवत् ॥
किं मां न रक्षसे वज्रिन् भ्रातरं त्वं जिघांससि
नारणे मारणाद् अन्यत् पातकं विद्यते महत् ॥
ऋते युद्धान् महाबाहो शक्र युध्यस्व निर्गते
मयि तस्मान् नैतद् एवं तव युक्तं भविष्यति ॥
शतक्रतुः सहस्राक्षः शचीभर्ता पुरंदरः
वज्रपाणिः सुरेन्द्रस् त्वं ते न युक्तं भवेत् प्रभो ॥
अथवा युद्धकामस् त्वं मम निष्क्रमणं यथा
तथा कुरु महाबाहो मार्गाद् अस्माद् अपासर ॥
कुमार्गे न प्रवर्तन्ते महान्तो ऽपि विपद्गताः
अविद्यश् चाप्य् अशस्त्रश् च नैव चायुधसंग्रहः ॥
त्वं विद्यावान् वज्रपाणे मां निघ्नन् किं न लज्जसे
कुर्वन्ति गर्हितं कर्म न कुलीनाः कदाचन ॥
हत्वा वा किं तु जायेत यशो वा पुण्यम् एव वा
वध्यन्ते भ्रातरः कामाद् गर्भस्थाः किं नु पौरुषम् ॥
यदि वा युद्धभक्तिस् ते मयि भ्रातर् असंशयम्
ततो मुष्टिं पुरस्कृत्य वज्रिणे ऽसौ व्यवस्थितः ॥
बालघाती ब्रह्मघाती तथा विश्वासघातकः
एवंभूतं फलं शक्र कस्मान् मां हन्तुम् उद्यतः ॥
यस्याज्ञया सर्वम् इदं वर्तते सचराचरम्
स हन्ता बालकं मां वै किं यशः किं तु पौरुषम् ॥
एवं ब्रुवन्तं तं गर्भं चिच्छेद कुलिशेन सः
क्रोधान्धानां लोभिनां च न घृणा क्वापि विद्यते ॥
न ममार ततो दुःखाद् आहुस् ते भ्रातरो वयम्
पुनश् चिच्छेद तान् खण्डान् मा वधीर् इति चाब्रुवन् ॥
विश्वस्तान् मातृगर्भस्थान् निजभ्रातॄञ् शतक्रतो
द्वेषविध्वस्तबुद्धीनां न चित्ते करुणाकणः ॥
एवं तु खण्डितं खण्डं हस्तपादादिजीववत्
निर्विकारं ततो दृष्ट्वा सप्तसप्त सुविस्मितः ॥
एकवद् बहुरूपाणि गर्भस्थानि शुभानि च
रुदन्ति बहुरूपाणि मा रुतेत्य् अब्रवीद् धरिः ॥
ततस् ते मरुतो जाता बलवन्तो महौजसः
गर्भस्था एव ते ऽन्योन्यम् ऊचुः शक्रं गतभ्रमाः ॥
अगस्त्यं मुनिशार्दूलं माता यस्याश्रमे स्थिता
अस्मत्पिता तव भ्राता सख्यं ते बहु मन्यते ॥
अस्मान् उपरि सस्नेहं मनस् ते विद्महे मुने
न यत् करोति श्वपचः प्रवृत्तस् तत्र वज्रधृक् ॥
इत्य् एतद् वचनं श्रुत्वा अगस्त्यो ऽगात् ससंभ्रमः
दितिं संबोधयाम् आस व्यथितां गर्भवेदनात् ॥
तत्रागस्त्यः शचीकान्तम् अशपत् कुपितो भृशम् ॥
संग्रामे रिपवः पृष्ठं पश्येयुस् ते सदा हरे
जीवताम् एव मरणम् एतद् एव हि मानिनाम्
पृष्ठं पलायमानानां यत् पश्यन्त्य् अहिता रणे ॥
सापि तं गर्भसंस्थं च शशापेन्द्रं रुषा दितिः ॥
न पौरुषं कृतं तस्माच् छापो ऽयं भविता तव
स्त्रीभिः परिभवं प्राप्य राज्यात् प्रभ्रश्यसे हरे ॥
एतस्मिन्न् अन्तरे तत्र कश्यपो वै प्रजापतिः
प्रायाच् च व्यथितो ऽगस्त्याच् छ्रुत्वा शक्रविचेष्टितम्
गर्भान्तरगतः शक्रः पितरं प्राह भीतवत् ॥
अगस्त्याच् च दितेश् चैव बिभेमि क्रमितुं बहिः ॥
एतस्मिन्न् अन्तरे प्राप्य कश्यपो ऽपि प्रजापतिः
पुत्रकर्म च तद् दृष्ट्वा गर्भान्तःस्थितिम् एव च
दितिशापम् अगस्त्यस्य श्रुत्वासौ दुःखितो ऽभवत् ॥
निर्गच्छ शक्र पुत्रैतत् पापं किं कृतवान् असि
न निर्मलकुलोत्पन्ना मनः कुर्वन्ति पातके ॥
स निर्गतो वज्रपाणिः सव्रीडो ऽधोमुखो ऽब्रवीत्
तन्मूर्तिर् एव वदति सदसच्चेष्टितं नृणाम् ॥
यद् उक्तम् अत्र श्रेयः स्यात् तत्कर्ताहम् असंशयम् ॥
ततो ममान्तिकं प्रायाल् लोकपालैः स कश्यपः
सर्वं वृत्तम् अथोवाच पुनः पप्रच्छ मां सुरैः ॥
दितिगर्भस्य वै शान्तिं सहस्राक्षविशापताम्
गर्भस्थानां च सर्वेषाम् इन्द्रेण सह मित्रताम् ॥
तेषाम् आरोग्यतां चापि शचीभर्तुर् अदोषताम्
अगस्त्यदत्तशापस्य विशापत्वम् अपि क्रमात् ॥
ततो ऽहम् अब्रवं वाक्यं कश्यपं विनयान्वितम्
प्रजापते कश्यप त्वं वसुभिर् लोकपालकैः ॥
इन्द्रेण सहितः शीघ्रं गौतमीं याहि मानद
तत्र स्नात्वा महेशानं स्तुहि सर्वैः समन्वितः ॥
ततः शिवप्रसादेन सर्वं श्रेयो भवेद् इति
तथेत्य् उक्त्वा जगामासौ कश्यपो गौतमीं तदा ॥
स्नात्वा तुष्टाव देवेशम् एभिर् एव पदक्रमैः
सर्वदुःखापनोदाय द्वयम् एव प्रकीर्तितम्
गौतमी वा पुण्यनदी शिवो वा करुणाकरः ॥
पाहि शंकर देवेश पाहि लोकनमस्कृत
पाहि पावन वागीश पाहि पन्नगभूषण ॥
पाहि धर्म वृषारूढ पाहि वेदत्रयेक्षण
पाहि गोधर लक्ष्मीश पाहि शर्व गजाम्बर ॥
पाहि त्रिपुरहन् नाथ पाहि सोमार्धभूषण
पाहि यज्ञेश सोमेश पाह्य् अभीष्टप्रदायक ॥
पाहि कारुण्यनिलय पाहि मङ्गलदायक
पाहि प्रभव सर्वस्य पाहि पालक वासव ॥
पाहि भास्कर वित्तेश पाहि ब्रह्मनमस्कृत
पाहि विश्वेश सिद्धेश पाहि पूर्ण नमो ऽस्तु ते ॥
घोरसंसारकान्तार संचारोद्विग्नचेतसाम्
शरीरिणां कृपासिन्धो त्वम् एव शरणं शिव ॥
एवं संस्तुवतस् तस्य पुरतो ऽभूद् वृषध्वजः
वरेण च्छन्दयाम् आस कश्यपं तं प्रजापतिम् ॥
कश्यपो ऽपि शिवं प्राह विनीतवद् इदं वचः
स प्राह विस्तरेणाथ इन्द्रस्य तु विचेष्टितम् ॥
शापं नाशं च पुत्राणां परस्परम् अमित्रताम्
पापप्राप्तिं तु शक्रस्य शापप्राप्तिं तथैव च
ततो वृषाकपिः प्राह दितिं चागस्त्यम् एव च ॥
मरुतो ये भवत्पुत्राः पञ्चाशच् चैकवर्जिताः
सर्वे भवेयुः सुभगा भवेयुर् यज्ञभागिनः ॥
इन्द्रेण सहिता नित्यं वर्तयेयुर् मुदान्विताः ॥
इन्द्रस्य तु हविर्भागो यत्र यत्र मखे भवेत्
आदौ तु मरुतस् तत्र भवेयुर् नात्र संशयः ॥
मरुद्भिः सहितं शक्रं न जयेयुः कदाचन
जेता भवेत् सर्वदैव सुखं तिष्ठ प्रजापते ॥
अद्यप्रभृति ये कुर्युर् अनयाद् भ्रातृघातनम्
वंशच्छेदो विपत्तिश् च नित्यं तेषां भविष्यति ॥
अगस्त्यम् ऋषिशार्दूलं शंभुर् अप्य् आह यत्नतः ॥
न कुर्यास् त्वं च कोपं च शचीभर्तरि वै मुने
शमं व्रज महाप्राज्ञ मरुतस् त्व् अमरा भवन् ॥
दितिं चापि शिवः प्राह प्रसन्नो वृषभध्वजः ॥
एको भूयान् मम सुतस् त्रैलोक्यैश्वर्यमण्डितः
इत्य् एवं चिन्तयन्ती त्वं तपसे नियताभवः ॥
तद् एतत् सफलं ते ऽद्य पुत्रा बहुगुणाः शुभाः
अभवन् बलिनः शूरास् तस्माज् जहि मनोरुजम्
अन्यान् अपि वरान् सुभ्रूर् याचस्व गतसंभ्रमा ॥
तद् एतद् वचनं श्रुत्वा देवदेवस्य सा दितिः
कृताञ्जलिपुटा नत्वा शंभुं वाक्यम् अथाब्रवीत् ॥
लोके यद् एतत् परमं यत् पित्रोः पुत्रदर्शनम्
विशेषेण तु तन् मातुः प्रियं स्यात् सुरपूजित ॥
तत्रापि रूपसंपत्ति शौर्यविक्रमवान् भवेत्
एको ऽपि तनयः किंतु बहवश् चेत् किम् उच्यते ॥
मत्पुत्रास् ते प्रभावाच् च जेतारो बलिनो ध्रुवम्
इन्द्रस्य भ्रातरः सत्यं पुत्राश् चैव प्रजापतेः ॥
अगस्त्यस्य प्रसादाच् च गङ्गायाश् च प्रसादतः
यत्र देव प्रसादस् ते तच् छुभं को ऽत्र संशयः ॥
कृतार्थाहं तथापि त्वां भक्त्या विज्ञापयाम्य् अहम्
शृणुष्व देव वचनं कुरुष्व च जगद्धितम् ॥
वदेत्य् उक्ता जगद्धात्रा दितिर् नम्राब्रवीद् इदम् ॥
संततिप्रापणं लोके दुर्लभं सुरवन्दित
विशेषेण प्रियं मातुः पुत्रश् चेत् किं नु वर्ण्यते ॥
स चापि गुणवाञ् श्रीमान् आयुष्मान् यदि जायते
किं तु स्वर्गेण देवेश पारमेष्ठ्यपदेन वा ॥
सर्वेषाम् अपि भूतानाम् इहामुत्र फलैषिणाम्
गुणवत्पुत्रसंप्राप्तिर् अभीष्टा सर्वदैव च
तस्माद् आप्लवनाद् अत्र क्रियतां समनुग्रहः ॥
महापापफलं चेदं यद् एतद् अनपत्यता
स्त्रिया वा पुरुषस्यापि वन्ध्यत्वं यदि जायते ॥
तद् अत्र स्नानमात्रेण तद्दोषो नाशम् आप्नुयात्
स्नात्वा तत्र फलं दद्यात् स्तोत्रम् एतच् च यः पठेत् ॥
स तु पुत्रम् अवाप्नोति त्रिमासस्नानदानतः
अपुत्रिणी त्व् अत्र स्नानं कृत्वा पुत्रम् अवाप्नुयात् ॥
ऋतुस्नाता तु या काचित् तत्र स्नाता सुतांल् लभेत्
त्रिमासाभ्यन्तरं या तु गुर्विणी भक्तितस् त्व् इह ॥
फलैः स्नात्वा तु मां पश्येत् स्तोत्रेण स्तौति मां तथा
तस्याः शक्रसमः पुत्रो जायते नात्र संशयः ॥
पितृदोषैश् च ये पुत्रं न लभन्ते दिते शृणु
धनापहारदोषैश् च तत्रैषा निष्कृतिः परा ॥
तत्रैषां पिण्डदानेन पितॄणां प्रीणनेन च
किंचित् सुवर्णदानेन ततः पुत्रो भवेद् ध्रुवम् ॥
ये न्यासाद्यपहर्तारो रत्नापह्नवकारकाः
श्राद्धकर्मविहीनाश् च तेषां वंशो न वर्धते ॥
दोषिणां तु परेतानां गतिर् एषा भवेद् इति
संततिर् जायतां श्लाघ्या जीवतां तीर्थसेवनात् ॥
संगमे दितिगङ्गायाः स्नात्वा सिद्धेश्वरं प्रभुम्
अनाद्यपारम् अजरं चित्सदानन्दविग्रहम् ॥
देवर्षिसिद्धगन्धर्व योगीश्वरनिषेवितम्
लिङ्गात्मकं महादेवं ज्योतिर्मयम् अनामयम् ॥
पूजयित्वोपचारैश् च नित्यं भक्त्या यतव्रतः
स्तोत्रेणानेन यः स्तौति चतुर्दश्यष्टमीषु च ॥
यथाशक्त्या स्वर्णदानं ब्राह्मणानां च भोजनम्
यः करोत्य् अत्र गङ्गायां स पुत्रशतम् आप्नुयात् ॥
संप्राप्य सकलान् कामान् अन्ते शिवपुरं व्रजेत्
स्तोत्रेणानेन यः कश्चिद् यत्र क्वापि स्तवीति माम्
षण्मासात् पुत्रम् आप्नोति अपि वन्ध्याप्य् अशङ्कितम् ॥
ततः प्रभृति तत् तीर्थं पुत्रतीर्थम् उदाहृतम्
तत्र तु स्नानदानाद्यैः सर्वकामान् अवाप्नुयात् ॥
मरुद्भिः सह मैत्र्येण मित्रतीर्थं तद् उच्यते
निष्पापत्वेन चेन्द्रस्य शक्रतीर्थं तद् उच्यते ॥
ऐन्द्रीं श्रियं यत्र लेभे तत् तीर्थं कमलाभिधम्
एतानि सर्वतीर्थानि सर्वाभीष्टप्रदानि हि ॥
सर्वं भविष्यतीत्य् उक्त्वा शिवश् चान्तरधीयत
कृतकृत्याश् च ते जग्मुः सर्व एव यथागतम्
तीर्थानां पुण्यदं तत्र लक्षम् एकं प्रकीर्तितम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0