भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 118

118.1

अश्वत्थतीर्थम् आख्यातं पिप्पलं च ततः परम्
उत्तरे मन्दतीर्थं तु तत्र व्युष्टिम् इतः शृणु ॥

118.2

पुरा त्व् अगस्त्यो भगवान् दक्षिणाशापतिः प्रभुः
देवैस् तु प्रेरितः पूर्वं विन्ध्यस्य प्रार्थनं प्रति ॥

118.3

स शनैर् विन्ध्यम् अभ्यागात् सहस्रमुनिभिर् वृतः
तम् आगत्य नगश्रेष्ठं बहुवृक्षसमाकुलम् ॥

118.4

स्पर्धिनं मेरुभानुभ्यां विन्ध्यं शृङ्गशतैर् वृतम्
अत्युन्नतं नगं धीरो लोपामुद्रापतिर् मुनिः ॥

118.5

कृतातिथ्यो द्विजैः सार्धं प्रशस्य च नगं पुनः
इदम् आह मुनिश्रेष्ठो देवकार्यार्थसिद्धये ॥

118.6

अहं यामि नगश्रेष्ठ मुनिभिस् तत्त्वदर्शिभिः
तीर्थयात्रां करोमीति दक्षिणाशां व्रजाम्य् अहम् ॥

118.7

देहि मार्गं नगपते आतिथ्यं देहि याचते
यावद् आगमनं मे स्यात् स्थातव्यं तावद् एव हि ॥

118.8

नान्यथा भवितव्यं ते तथेत्य् आह नगोत्तमः
आक्रामन् दक्षिणाम् आशां तैर् वृतो मुनिभिर् मुनिः ॥

118.9

शनैः स गौतमीम् आगात् सत्त्रयागाय दीक्षितः
यावत् संवत्सरं सत्त्रम् अकरोद् ऋषिभिर् वृतः ॥

118.10

कैटभस्य सुतौ पापौ राक्षसौ धर्मकण्टकौ
अश्वत्थः पिप्पलश् चेति विख्यातौ त्रिदशालये ॥

118.11

अश्वत्थो ऽश्वत्थरूपेण पिप्पलो ब्रह्मरूपधृक्
ताव् उभाव् अन्तरं प्रेप्सू यज्ञविध्वंसनाय तु ॥

118.12

कुरुतां काङ्क्षितं रूपं दानवौ पापचेतसौ
अश्वत्थो वृक्षरूपेण पिप्पलो ब्राह्मणाकृतिः ॥

118.13

उभौ तौ ब्राह्मणान् नित्यं पीडयेतां तपोधन
आलभन्ते च ये ऽश्वत्थं तांस् तान् अश्नात्य् असौ तरुः ॥

118.14

पिप्पलः सामगो भूत्वा शिष्यान् अश्नाति राक्षसः
तस्माद् अद्यापि विप्रेषु सामगो ऽतीव निष्कृपः ॥

118.15

क्षीयमाणान् द्विजान् दृष्ट्वा मुनयो राक्षसाव् इमौ
इति बुद्ध्वा महाप्राज्ञा दक्षिणं तीरम् आश्रितम् ॥

118.16

सौरिं शनैश्चरं मन्दं तपस्यन्तं धृतव्रतम्
गत्वा मुनिगणाः सर्वे रक्षःकर्म न्यवेदयन् ॥

118.17

सौरिर् मुनिगणान् आह पूर्णे तपसि मे द्विजाः
राक्षसौ हन्म्य् अपूर्णे तु तपस्य् अक्षम एव हि ॥

118.18

पुनः प्रोचुर् मुनिगणा दास्यामस् ते तपो महत्
इत्य् उक्तो ब्राह्मणैः सौरिः कृतम् इत्य् आह तान् अपि ॥

118.19

सौरिर् ब्राह्मणवेषेण प्रायाद् अश्वत्थरूपिणम्
राक्षसं ब्राह्मणो भूत्वा प्रदक्षिणम् अथाकरोत् ॥

118.20

प्रदक्षिणं तु कुर्वाणं मेने ब्राह्मणम् एव तम्
नित्यवद् राक्षसः पापो भक्षयाम् आस मायया ॥

118.21

तस्य कायं समाविश्य चक्षुषान्त्राण्य् अपश्यत
दृष्टः स राक्षसः पापो मन्देन रविसूनुना ॥

118.22

भस्मीभूतः क्षणेनैव गिरिर् वज्रहतो यथा
अश्वत्थं भस्मसात् कृत्वा अन्यं ब्राह्मणरूपिणम् ॥

118.23

राक्षसं पापनिलयम् एक एव तम् अभ्यगात्
अधीयानो विप्र इव शिष्यरूपो विनीतवत् ॥

118.24

पिप्पलः पूर्ववच् चापि भक्षयाम् आस भानुजम्
स भक्षितः पूर्ववच् च कुक्षाव् अन्त्राण्य् अवैक्षत ॥

118.25

तेनालोकितमात्रो ऽसौ राक्षसो भस्मसाद् अभूत्
उभौ हत्वा भानुसुतः किं कृत्यं मे वदन्त्व् अथ ॥

118.26

मुनयो जातसंहर्षाः सर्व एव तपस्विनः
ततः प्रसन्ना ह्य् अभवन्न् ऋषयो ऽगस्त्यपूर्वकाः ॥

118.27

वरान् ददुर् यथाकामं सौरये मन्दगामिने
स प्रीतो ब्राह्मणान् आह शनिः सूर्यसुतो बली ॥

118.28

मद्द्वारे नियता ये च कुर्वन्त्य् अश्वत्थलम्भनम्
तेषां सर्वाणि कार्याणि स्युः पीडा मद्भवा न च ॥

118.29

तीर्थे चाश्वत्थसंज्ञे वै स्नानं कुर्वन्ति ये नराः
तेषां सर्वाणि कार्याणि भवेयुर् अपरो वरः ॥

118.30

मन्दवारे तु ये ऽश्वत्थं प्रातर् उत्थाय मानवाः
आलभन्ते च तेषां वै ग्रहपीडा व्यपोहतु ॥

118.31

ततः प्रभृति तत् तीर्थम् अश्वत्थं पिप्पलं विदुः
तीर्थं शनैश्चरं तत्र तत्रागस्त्यं च सात्त्रिकम् ॥

118.32

याज्ञिकं चापि तत् तीर्थं सामगं तीर्थम् एव च
इत्याद्यष्टोत्तराण्य् आसन् सहस्राण्य् अथ षोडश
तेषु स्नानं च दानं च सत्त्रयागफलप्रदम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc