भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 109

109.1

चक्रतीर्थम् इति ख्यातं ब्रह्महत्यादिनाशनम्
यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः ॥

109.2

यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शंकरं प्रभुः
पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम् ॥

109.3

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
दक्षक्रतौ प्रवृत्ते तु देवानां च समागमे ॥

109.4

दक्षेण दूषिते देवे शिवे शर्वे महेश्वरे
अनाह्वाने सुरेशस्य दक्षचित्ते मलीमसे ॥

109.5

दाक्षायण्या श्रुते वाक्ये अनाह्वानस्य कारणे
अहल्यायां चोक्तवत्यां कुपिताभूत् सुरेश्वरी ॥

109.6

पितरं नाशये पापं क्षमेयं न कथंचन
शृण्वती दोषवाक्यानि पित्रा चोक्तानि भर्तरि ॥

109.7

पत्युः शृण्वन्ति या निन्दां तासां पापावधिः कुतः
यादृशस् तादृशो वापि पतिः स्त्रीणां परा गतिः ॥

109.8

किं पुनः सकलाधीशो महादेवो जगद्गुरुः
श्रुतं तन्निन्दनं तर्हि धारयामि न देहकम् ॥

109.9

तस्मात् त्यक्ष्य इमं देहम् इत्य् उक्त्वा सा महासती
कोपेन महताविष्टा प्रजज्वाल सुरेश्वरी ॥

109.10

शिवैकचेतना देहं बलाद् योगाच् च तत्यजे
महेश्वरो ऽपि सकलं वृत्तम् आकर्ण्य नारदात् ॥

109.11

दृष्ट्वा चुकोप पप्रच्छ जयां च विजयां तथा
ते ऊचतुर् उभे देवं दक्षक्रतुविनाशनम् ॥

109.12

दाक्षायण्या इति श्रुत्वा मखं प्रायान् महेश्वरः
भीमैर् गणैः परिवृतो भूतनाथैः समं ययौ ॥

109.13

मखस् तैर् वेष्टितः सर्वो देवब्रह्मपुरस्कृतः
दक्षेण यजमानेन शुद्धभावेन रक्षितः ॥

109.14

वसिष्ठादिभिर् अत्युग्रैर् मुनिभिः परिवारितः
इन्द्रादित्याद्यैर् वसुभिः सर्वतःपरिपालितः ॥

109.15

ऋग्यजुःसामवेदैश् च स्वाहाशब्दैर् अलंकृतः
श्रद्धा पुष्टिस् तथा तुष्टिः शान्तिर् लज्जा सरस्वती ॥

109.16

भूमिर् द्यौः शर्वरी क्षान्तिर् उषा आशा जया मतिः
एताभिश् च तथान्याभिः सर्वतः समलंकृतः ॥

109.17

त्वष्ट्रा महात्मना चापि कारितो विश्वकर्मणा
सुरभिर् नन्दिनी धेनुः कामधुक् कामदोहिनी ॥

109.18

एताभिः कामवर्षाभिः सर्वकामसमृद्धिमान्
कल्पवृक्षः पारिजातो लताः कल्पलतादिकाः ॥

109.19

यद् यद् इष्टतमं किंचित् तत्र तस्मिन् मखे स्थितम्
स्वयं मघवता पूष्णा हरिणा परिरक्षितः ॥

109.20

दीयतां भुज्यतां वापि क्रियतां स्थीयतां सुखम्
एतैश् च सर्वतो वाक्यैर् दक्षस्य पूजितं मखम् ॥

109.21

आदौ तु वीरभद्रो ऽसौ भद्रकाल्या युतो ययौ
शोककोपपरीतात्मा पश्चाच् छूलपिनाकधृक् ॥

109.22

अभ्याययौ महादेवो महाभूतैर् अलंकृतः
तानि भूतानि परितो मखे वेष्ट्य महेश्वरम् ॥

109.23

क्रतुं विध्वंसयाम् आसुस् तत्र क्षोभो महान् अभूत्
पलायन्त ततः केचित् केचिद् गत्वा ततः शिवम् ॥

109.24

केचित् स्तुवन्ति देवेशं केचित् कुप्यन्ति शंकरम्
एवं विध्वंसितं यज्ञं दृष्ट्वा पूषा समभ्यगात् ॥

109.25

पूष्णो दन्तान् अथोत्पाट्य इन्द्रं व्यद्रावयत् क्षणात्
भगस्य चक्षुषी विप्र वीरभद्रो व्यपाटयत् ॥

109.26

दिवाकरं पुनर् दोर्भ्यां परिभ्राम्य समाक्षिपत्
ततः सुरगणाः सर्वे विष्णुं ते शरणं ययुः ॥

109.27

त्राहि त्राहि गदापाणे भूतनाथकृताद् भयात्
महेश्वरगणः कश्चित् प्रमथानां तु नायकः
तेन दग्धो मखः सर्वो वैष्णवः पश्यतो हरेः ॥

109.28

हरिणा चक्रम् उत्सृष्टं भूतनाथवधं प्रति
भूतनाथो ऽपि तच् चक्रम् आपतच् च तदाग्रसत् ॥

109.29

ग्रस्ते चक्रे ततो विष्णोर् लोकपाला भयाद् ययुः
तथा स्थितान् अवेक्ष्याथ दक्षो यज्ञं सुरान् अपि
तुष्टाव शंकरं देवं दक्षो भक्त्या प्रजापतिः ॥

109.30

जय शंकर सोमेश जय सर्वज्ञ शंभवे
जय कल्याणभृच् छंभो जय कालात्मने नमः ॥

109.31

आदिकर्तर् नमस् ते ऽस्तु नीलकण्ठ नमो ऽस्तु ते
ब्रह्मप्रिय नमस् ते ऽस्तु ब्रह्मरूप नमो ऽस्तु ते ॥

109.32

त्रिमूर्तये नमो देव त्रिधाम परमेश्वर
सर्वमूर्ते नमस् ते ऽस्तु त्रैलोक्याधार कामद ॥

109.33

नमो वेदान्तवेद्याय नमस् ते परमात्मने
यज्ञरूप नमस् ते ऽस्तु यज्ञधाम नमो ऽस्तु ते ॥

109.34

यज्ञदान नमस् ते ऽस्तु हव्यवाह नमो ऽस्तु ते
यज्ञहर्त्रे नमस् ते ऽस्तु फलदाय नमो ऽस्तु ते ॥

109.35

त्राहि त्राहि जगन्नाथ शरणागतवत्सल
भक्तानाम् अप्य् अभक्तानां त्वम् एव शरणं प्रभो ॥

109.36

एवं तु स्तुवतस् तस्य प्रसन्नो ऽभून् महेश्वरः
किं ददामीति तं प्राह क्रतुः पूर्णो ऽस्तु मे प्रभो ॥

109.37

तथेत्य् उवाच भगवान् देवदेवो महेश्वरः
शंकरः सर्वभूतात्मा करुणावरुणालयः ॥

109.38

क्रतुं कृत्वा ततः पूर्णं तस्य दक्षस्य वै मुने
एवम् उक्त्वा स भगवान् भूतैर् अन्तरधीयत ॥

109.39

यथागतं सुरा जग्मुः स्वम् एव सदनं प्रति
ततः कदाचिद् देवानां दैत्यानां विग्रहो महान् ॥

109.40

बभूव तत्र दैत्येभ्यो भीता देवाः श्रियः पतिम्
तुष्टुवुः सर्वभावेन वचोभिस् तं जनार्दनम् ॥

109.41

शक्रादयो ऽपि त्रिदशाः कटाक्षम् अवेक्ष्य यस्यास् तप आचरन्ति
सा चापि यत्पादरता च लक्ष्मीस् तं ब्रह्मभूतं शरणं प्रपद्ये

109.42

यस्मात् त्रिलोक्यां न परः समानो न चाधिकस् तार्क्ष्यरथान् नृसिंहात्
स देवदेवो ऽवतु नः समस्तान् महाभयेभ्यः कृपया प्रपन्नान्

109.43

ततः प्रसन्नो भगवाञ् शङ्खचक्रगदाधरः
किमर्थम् आगताः सर्वे तत्कर्तास्मीत्य् उवाच तान् ॥

109.44

भयं च तीव्रं दैत्येभ्यो देवानां मधुसूदन
ततस् त्राणाय देवानां मतिं कुरु जनार्दन ॥

109.46

तान् आगतान् हरिः प्राह ग्रस्तं चक्रं हरेण मे
किं करोमि गतं चक्रं भवन्तश् चार्तिम् आगताः
यान्तु सर्वे देवगणा रक्षा वः क्रियते मया ॥

109.47

ततो गतेषु देवेषु विष्णुश् चक्रार्थम् उद्यतः
गोदावरीं ततो गत्वा शंभोः पूजां प्रचक्रमे ॥

109.48

सुवर्णकमलैर् दिव्यैः सुगन्धैर् दशभिः शतैः
भक्तितो नित्यवत् पूजां चक्रे विष्णुर् उमापतेः ॥

109.49

एवं संपूज्यमाने तु तयोस् तत्त्वम् इदं शृणु
कमलानां सहस्रे तु यदैकं नैव पूर्यते ॥

109.50

तदासुरारिः स्वं नेत्रम् उत्पाट्यार्घ्यम् अकल्पयत्
अर्घ्यपात्रं करे गृह्य सहस्रकमलान्वितम्
ध्यात्वा शंभुं ददाव् अर्घ्यम् अनन्यशरणो हरिः ॥

109.51

त्वम् एव देव जानीषे भावम् अन्तर्गतं नृणाम्
त्वम् एव शरणो ऽधीशो ऽत्र का भवेद् विचारणा ॥

109.52

वदन्न् उदश्रुनयनो निलिल्ये ऽसाव् इतीश्वरे
भवानीसहितः शंभुः पुरस्ताद् अभवत् तदा ॥

109.53

गाढम् आलिङ्ग्य विविधैर् वरैर् आपूरयद् धरिम्
तद् एव चक्रम् अभवन् नेत्रं चापि यथा पुरा ॥

109.54

ततः सुरगणाः सर्वे तुष्टुवुर् हरिशंकरौ
गङ्गां चापि सरिच्छ्रेष्ठां देवं च वृषभध्वजम् ॥

109.55

ततः प्रभृति तत् तीर्थं चक्रतीर्थम् इति स्मृतम्
यस्यानुश्रवणेनैव मुच्यते सर्वकिल्बिषैः ॥

109.56

तत्र स्नानं च दानं च यः कुर्यात् पितृतर्पणम्
सर्वपापविनिर्मुक्तः पितृभिः स्वर्गभाग् भवेत्
तत् तु चक्राङ्कितं तीर्थम् अद्यापि परिदृश्यते ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc