भाषा

ENहिગુ
ग्रंथ पाठ

Bower Manuscript · अध्याय 1

1.1

इ. fओल्. 1: बोwएर् मनुस्च्रिप्त्
व्1 ओं देवर्षिसिद्धगणकिन्नरनागयक्षविद्याधराध्युषितसानुर् अनन्तरत्नः । पुण्यस् त्रिपिष्टपतलोद्धृतदेवरम्यः _ _ ^ _ ^ ^ ^ _ ^ ^ _
2 न् उदग्रः

1.2

यत्र स्फुटन्मणिसहस्रमयूखजालविक्षोभितं दशसु दिक्षु भयात् प्रलिनम्* । चन्द्रोडुसूर्यहुतभुङ्निलयाभिशंकि प्रावृड्नि शा स्व्
3 अपि पुनर् न तमो ऽभ्युपैति

1.3

यः सेव्यते मुनिगणैर् अनिशं सशिष्यैर् नैकैः समित्कुशफलोदकपुष्पहस्तैः । स्वर्गाङ्गनाभिर् अपि च प्रविमृष्टशाखाः
4 कुंजेषु यस्य तरवः कुसुमार्थिनीभिः

1.4

यत्र त्रिलोचनजटामुकुटैकदेश नित्यस्थितोडुपतिदीधितिसंप्रयोगात्* । शीतौ दिवापि हिमवत्स्फटिकोपलाभम् अम्ब्व्
5 इ न्दु कान्तमणयः प्रचुरं स्रवन्ति

1.5

यस्याब्दमुक्तजलधौतशिलातलेषु कुंजेषु नैकविधवीगणनादितेषु । रम्येषु पुष्पफलदद्रुमसंक टे षु
6 रात्रौ हुताशनवद् औषधयो ज्वलन्ति

1.6

चन्द्रांशुगौरतरकेशरभारभृद्भिर् मत्तेभमस्तकतटक्षतजोत्क्षितांशैः । सिंहैः शिलोच्चयगुहावदना ट्ट हासैर्
7 न क्षम्यते ऽम्बुधरवृन्दरवो ऽपि यत्र

1.7

तस्मिन् गिराव् अवनिमण्डलमण्डभूते सर्वातिथाव् इव जगद् विभवप्रदानैः । सर्वर्तुपुष्पफलवद्द्रुमरम्य सा नाव्
8 एते विधूततमसो मुनयो वसन्ति

1.8

आत्रेयहारितपराशरभेलगर्गशांबव्यसुश्रुतवसिष्ठकरालकाप्यः । सर्वौषधीरसगुणाकृतिवीर्यनाम जि ज्ञासवः
9 समुदिताः शतशः प्रचेरुः

1.9

दृष्ट्वा पत्रैर् हरितहरितैर् इन्द्रनीलप्रकाशैः कन्दैः कुन्दस्फटिककुमुदेन्द्वंशुशंखाभ्रशुभ्रैः । उत्पन्नास्थो
10 म् उ निम् उपगतः सुश्रुतः काशिराजं किन्व् एतत् स्याद् अथ स भगवान् आह तस्मै यथावत्*

1.10

पुरामृतं प्रमथितम् असुरेन्द्रः स्वयं पपौ । तस्य चिच्छेद भगवान् उ त्त मांगं
11 जनार्दनः

1.11

कण्ठनाडी समासन्ना विच्छिन्ने तस्य मूर्धनि । विन्दवः पतिता भूमाव् आद्यं तस्येह जन्म तु

1.12

इ. fओल्. 2: बोwएर् मनुस्च्रिप्त्
र्1 न भक्षय न् त्य् एनम् अतश् च विप्राः शरीरसंपर्कविनिःसृतत्वात्* । गन्धोग्रताम् अप्य् अत एव चास्य वदन्ति शास्त्राधिगमप्रवीणाः

1.13

लवणरसवियोगाद् आहुर् एनं रशूनम्
2 लशुन इति तु संज्ञा चास्य लोकप्रतीता । बहुभिर् इह किम् उक्तैर् देशभाषाभिधानैः शृणु रसगुणवीर्याण्य् अस्य चैवोपयोगात्*

1.14

रसे च पाके च कटुः प्र दि ष्टः
3 पाके तथा स्वादुर् उदाहृतो ऽन्यः । लघुश् च गन्धेन स दुर्जरश् च वीर्येण चोष्णः प्रथितश् च वृष्यः

1.15

आंब्लोष्णस्नेहभावात् पवनबलहरः
4 प्रोक्तो मुनिवृषैः मधुर्यात् पित्तभावाद् अपि च स रसतया पित्तप्रशमनः । औष्ण्यात् तैक्ष्ण्यात् कटुत्वात् कफबलविजयी विद्वद्भिर् उदितः सर्वान् रोगान् निहन्याद् इति
5 विधिविहितो दोषत्रयहरः

1.16

पवनं विनिहन्त्य् अपि चास्थिगतं कफम् अप्य् अचिराद् उदितं शमयेत्* । जनयेद् अपि चाग्निबलं प्रबलं बलवर्णकरः प्रव र श् च
6 मतः

1.17

अथ खलु बहुविधमद्यमांससर्पिर् यवगोधूमभुजां सुखात्मकानाम्* । अयम् इह लशुनोत्सवः प्रयोज्यो निमकाले च मधौ च माध वे च

1.18

7 त्यज्यन्ते कामिनीभिर् जयनसमुचिता यत्र कञ्चीकलापाः हाराः शैत्यान् न वक्षस्तनतटयुगला पीडनात् संप्रयान्ति । कान्ता नेन्द्वङ्शुजालव्यतिकरसुभगा हर्म्य पृ ष्ठोपभोगाः
8 काले तस्मिन् प्रयोज्यो ह्य् अगुरु बहुमतं कुंकुम् आंकाश् च यत्र

1.19

हर्म्याग्रेष्व् अथ तोरणेषु बलभीद्वारेषु चाविष्कृताः कन्दाढ्या लशुनस्रजो विरचयेद् भूमौ
9 तथैवार्चनम्* । मालास् तत् परिचारकस्य च जनस्यारोपयेत् तन् मयीर् इत्य् अस्यैष विधिर् जनस्य विहितः स्वल्पोपमा नामतः

1.20

अथ शुद्धतनुः शुचिर् विविक्तः
10 सुरविप्रान् प्रतिपूज्य पावकं च । लशुनात् स्वरसं पटान्तपूतं प्रपिबेद् अह्नि शुभग्रहर्क्षयुक्ते

1.21

कुडवं कुडवाद् अथापि चार्धं कुडवं सार्धम् अतो ऽपि वाति मात्रम्* ।
व्1 नियता न हि काचिद् अत्र मात्रा प्रपिबेद् दोषबलामयानि दृष्ट्व् आ

1.22

सतालवृ न्त व्यजनानिलैः शुभ् ऐ ः प् इ बन्तम् एन ं समभ् इ स्पृश् ए च् छनैः ।
2 भवेत् तु मूर्च्छा पिबतो ऽपि वा यदि स्पृशेत् ततः शीतजलैः सचन्दनैः

1.23

सुरात्रितीयांशविमूर्च्छितस्य गण्डूषम् एकं प्रपिबेद् रसस्य । पूर्वं गलक्रीडिवि धान हे तोः
3 स्थित्वा मुहूर्तं च पिबेत् सशेषम्*

1.24

तस्मिञ् जीर्णे क्षिरशाल्यान्नभुक् स्यात् क्षिरायोज्यो जांगलानां रसैर् वा । हृद्यैर् यूषैः संस्कृतैर् वैदलैर् वा युक्तः स्नेहैर् मात्रयैकं च
4 कालम्*

1.25

पिबेन् मार्द्वीकं वा मधु मधुसंआंशच् छ् आत मदिराम् अरिष्टं शीधुं वा जगलम् अगजं मैरेयम् अपि वा । अतो ऽन्यद् वा मद्यं भवति गुणवद् यत् तत् ससलिलं पिबेद् एकैकं वा न
5 भवति यथा मद्यव्यतिकरः

1.26

अमद्यपः सुखोदकं पिबेत् तथाम्ब्लकांचिकम्* । तुषोदकं सुवीरजं पिबेच् च मस्तु यच् छुभम्*

1.27

न गुडेन कथंचिद् एनम् अद्यान् न तथामं च जलं पिबे त्
6 प्रयुजन्* । सततं च भवेद् अजीर्णशंकी न च खादेद् अबहूनि वासराणि

1.28

अथ कन्दाञ् च्छुभाञ् च्छ्लक्ष्णान् पिष्टान् सर्पिश् च तत्समम्* । खजेनाभिप्रमथ्यैतद् एकध्यं घृतभाजने

1.29

7 व्युष्टं दशाहात् प्रभृति भक्षयेद् बिल्वसंमितम्* । जीर्णे च रसकल्पोक्तम् आहारविधिम् आचरेत्*

1.30

द्वाव् अप्य् एताव् अभिहितौ कल्पौ प्राग्रहरौ मया । अनयोर् यत्नवा न्
8 ना स्यात् कल्पान् अन्याञ् च्छृणुष्व मे

1.32

कन्दाञ् च्छङ्खाभान् अपहृतमलान् सक्तु कुल्मासचुक्रैः सर्पिस्तैलाभ्यां समित विकृतैः सूपमांसप्रकारैः । मौद्गैश् चूर्णैर् हरितकयु तै र्
9 गन्धसौवर्चलाढ्यैर् अद्यात् संस्कारैर् बहुभिर् अपरैः साधितान् वेतराणि

1.32

मांसैः सार्धं साधयित्वास्य काण्डं पूतं हृद्यं तं रसं पाययीत । सिद्धं तद्वत् क्षीरम् अस्मै
10 प्रदद्याद् यूषं वा स्याद् वैदलं तद्विमिश्रम्*

1.33

अथ तैलशुक्तसहितं लशुनं निहितं यवेषु परिलिप्य मृदा । स्थितम् एकम् अब्दम् उपयुज्य नरः स् उच् इ र् ए स्थ् इत् आ न्
11 अपि जहाति गदान्*

1.34

त्रिरत्नम् उषिता तु गौर् अनतृणा यदा स्यात् तदा तृणार्धम् उपकल्पयेल् लशुन _ ^ _ _ ^ _ ।
इ. fओल्. 3: बोwएर् मनुस्च्रिप्त्
र्1 पयो दधिघृतानि तक्रम् अथवापि तद् ब्राह्मणः प्रयुज्य विविधान् गदान् अभिविजित्य शर्मी भवेत्*

1.35

प्रस्थान् द्वात्रिंशल् लशुनरसतः
2 किण्वम् अर्धार्धम् अस्मात् तैलप्रस्थो व्यपगतमलः पिष्टतः षट् च देयाः । दद्यान् निक्वाथाद् अपि च कलशं मेषशृंग्याः
3 सुशीतं प्रस्थौ च द्वौ पुनर् अभिहरेत् तत्र पिष्टस्य धीमान्*

1.36

इति सुरेयं पंच पंचाहाद् रसवर्णगन्धैः समन्विता
4 भवति तैलं नामतश् चेदम् उदीर्णम् अत्यर्थकार्मुकम्* । तैलम् एतद् यः सुराम् अपि वा पुरुषः प्रयुंजीत यत्नतः
5 परिहरन्ति तं गदानीकान्य् आजौ कृतास्त्रान् इवेतरे

1.37

प्रस्थं पिष्ट्वा शोधितम् एकं लशुनानां युंज्याच् चूर्णैस् त्रैफलैर् अर्ध प लितैः ।
6 सर्पिस्तैलाभ्यां कुडवश् चेति दशाहं व्युष्टं कासश्वासविडं विघ्नम् उशन्ति

1.38

हन्याद् युक्तो मारुतगुल्मं पवनघ्नैः
7 कुष्टं हन्याद् योजितमात्रं खदिरेण । कासश्वासघ्नो हयगन्धाव्यतिमिश्रः स्वर्यः प्रोक्तश् चैष विमिश्रो मधुयष्ट्या

1.39

नानाविधान् एष निहन्ति रोगान्
8 नानाविधद्रव्यविशेषयुक्तः । न यन्त्रणा कुत्रचिद् अस्ति कल्पे यथा प्रयुक्तः सुखिभिः स कल्पः

1.40

रसायनवरस्यास्य प्रयुक्तस्य
9 गुणानि मत्* । समासतः प्रोच्यमानान् सुश्रुते ऽग्रमनाः शृणु

1.41

कुष्ठारोचकगुल्मकासकृशताश्वित्राग्निसादप्रणुत्* वातासृग्दरशूलशोषजठरप्लिहोदरार्शोहरः ।
10 पक्षाघातकटिग्रहक्रिमिगदोदावर्तमेहापहः तन्द्रीपीनसवाहुपृष्टपवनापस्मारसंसूदनः

1.42

श्रीमान् वेणुमृदंगवल्गुनिनदस् तप्ताग्रहेमद्युतिर् मेधाधीबलवान्
11 सुसंहततनुर् बल्यादिभिर् वर्जितः । नित्योत्साहसुवर्धिभिः समुदितैः सर्वैर् दृढैर् इन्द्रियैः जीवेद् अब्दशतं दृढानलबलः स्त्रिष्व् अक्षयो वा पु मा न्*

1.43

_
व्1 ^ ^ ^ ^ लशुना ं कल्प उक्तो मयायं मुनि भि र् अपि च दृष्टः प्राक्तनैर् एवम् एव । प ^ ^ ^ ^ ^ _ _ _ प्रयुङ्क्ता ं च सम्यग् ^ ^ ^ ^ .ऋ ^ .ऊ .य्. _ ^ _ _ ^ _ _

1.44

_
2 आहारपक्तिधातूनां साम्यम् आरोग्यम् एव च । पुष्टिस् तेजस् तथोत्सहम् आयुश् चैवाग्निसंभवाः

1.45

अग्निर् आहारमूलस् तु पक्तिमूलाश् च धातवः । धातुसाम्यात् तथारोग्यम् आरोग्य् आत् पु ष् ट् इ र्
3 उत्तमा

1.46

पुष्ट्या तेजस् तथोत्साहः सर्वैर् एतैश् च जीवितम्* । प्राणिनां वर्धते तस्माद् अग्निम् आदौ परिक्षयेत्*

1.47

धातुसाम्यात् समः प्रोक्तः स वै श्रेष्ठः प्रकीर्तितः । विषमे दाधिकं सर्पिः पिबेद् वा हवुषादिक म्*

1.48

4 स्निग्धोष्णा वर्तयश् चेष्टस् तथा पानाशनानि च । मन्दे तु लंघनं पूर्वं पश्चात् पाचनदीपनम्*

1.49

चूर्णारिष्टप्रयोगाश् च हिताः पित्तकफापहाः । यथासात्म्यं प्रयोक्तव्यं समे ऽग्नौ भिषजाम् इति

1.50

भव ति
5 चात्र ॥ मन्दे तीक्ष्णे च मृयते विनोपकरणैर् नरः । विषमे रोगबाहुल्यं समे जीवेच् चिरं सुखी

1.51

तस्माद् रोगेषु सर्वेषु सर्वकालेषु बुद्धिमान्* । अग्निमूला क्रिया
6 कार्या पश्चाद् आमयशान्तये

1.52

स्वरसेन शंखपुष्प्या ब्राह्मीमण्डूकपर्णिमधुकानाम्* । मेधारोग्यबलार्थी जीवितुकामः प्रयुंजीत

1.53

मासेन तु मेधावी षण्मासाच् छ्रुतधरो भवत्य् अ ज रः ।
7 जीवति वर्षसहस्रं समा प्रयोगाच् चतद्वयं विधिवत्*

1.55

एवं परतः परतः प्रयुंजमानो भवत्य् अजरः ॥ - - - - ॥ {ओ} [रेस्त् देर् zएइले fरेइ]
8 यवागूखडयूषेषु लेहचूर्णागदेषु च । गुडिकांजनवर्त्यासुधूमप्रधमनेषु च

1.56

पुटपाकतर्पणस्वेदेनावमनाश्च्योतनेषु च

1.57

9 अन्येषु चाप्य् अनुक्तेषु यत्र भागो न कीर्तितः । द्रव्याणां समभागः स्याद् द्विगुणे मधुसर्पिषी

1.58

त्रिगुणं तु गुडं दद्यात् सिता चूर्णं चतुर्गुणं । पेष्येषु य त्र
10 नोद्दिष्टं द्रवन् तत्र जलं मतम्*

1.59

दधिमूत्रपयःसर्पिरोमशृंगशफेषु च । गव्यं प्रकल्पयेत् सर्वं मधूनां माक्षिकोद्भवम्*

1.60

दाडिमत्वचया
11 सार्धं कटुतैलं विपाचयेत्* । कर्णौ भगोष्ठौलिंगश् च सर्व एतेन वर्धति

1.61

चित्रकार्धफलं मूलात् तृवृत्सातलयोस् तथा ।
12 x x xं दन्तिमूलानां कर्षां कर्षं पृथक् पृथक्

1.62

पिप्पल्याः सैन्धवाच् चैव तथा हिंग्वंब्लवेतसात्* । विंशतिश् चाभया मुख्या
इ. fओल्. 4: बोwएर् मनुस्च्रिप्त्
र्1 x x x x विपाचयेत्*

1.63

गुडस्याष्टपलात् सम्यक् कुर्वीत दशमोदकान्* । एकैकं भक्षयेत् तस्माद् दशमे दशमे ऽहनि

1.64

दोषाणां पाचनार्थाय जलम् उष्णं पिबेद् अनु । विरेकान्ते ततः स्नात्वा सात्म्य म्
2 अन् न् अं प्रयोजयेत्*

1.65

नात्र कश्चित् परीहारो वाक्कायमनसां सदा । सर्वर्तुको नरेन्द्राणां विरेको ऽगस्तिनिर्मितः

1.66

जरामृत्युप्रमथनः सर्वामयविनाशनः । वृष्यो रसायनश् चैव
3 मेधारोग्याभिवर्धनः

1.67

नापुत्राय प्रदातव्यो नाशिष्याय कथंचन । राजद्विष्टे न दातव्यो ये चान्ये पापचारिणः

1.68

द्वे पंचमूले मधुकं गुडूची रास्नाश्वगन्धामरदारु पाठा । त्वचं ब ले
4 द्वे तगरं तिलाश् च मूर्वां कुलत्थान् नलदं घनं च

1.69

पुनर्नवां वेणुफलत्वचं च जीवन्त्य् अथैलागुरु जीवकश् च । एरण्डमूलं सुफलप्ररोहं कुरण्डपुष्पाणि
5 महौषधं च

1.70

द्वाभ्यां त्रिभिर् वा क्वथितं सतोयम् आजं पयो गव्यम् अथाविकं वा । ससैन्धवं किंचिद् अतः सुखोष्णम् आश्च्योतनं वातकृते ऽक्षिरोगे

1.71

दार्व्युत्पलं प द्म कतुंगयाषामेदामृणालं
6 मधुकं समंगा । कालीयकं पर्पटका लता च द्राक्षाथ कार्ष्मर्यपरूषकं च

1.72

मूलानि गुन्द्रानडवेतसानां शुंगानि चापुष्पवतां तृणा ना म्* ।
7 प्रपौण्डरीकं सकिराततिक्तं भद्रश्रियं निम्बपटोलवाशम्*

1.73

द्वौ त्रीणि वाजे पयसि स्त्रिया वा श्रितान्य् अथाश्च्योतनम् उत्तमं स्यात्* । सशर्करं माक्षिकसंप्रयुक्तं पैत्ते ऽक्षि रो गे
8 रुधिरात्मके च

1.74

त्रीण्य् ऊषणानि त्रिफला हरिद्र् आ कासीसजातीगृहधूमजात्यः । लाक्षाथ दन्ती सुरसो वचा पाठाश्वगन्धामरदारु चाग्र्यम्*

1.75

सकट्फलैलागुरुकण्ट का री
9 रोध्रं करञ्जं बृहतीं श्वदंष्ट्राम्* । द्वे त्रीणि वातः सलिले श्रितानि कोष्णानि कार्याणि ससैन्धवानि

1.76

आश्च्योतनं श्लेष्मकृते ऽक्षिरोगे मधुप्रगाढं प्रवदन्ति सन्तः । परुष क् आम् र् अ त कतिन्तिडीकवृक्षाम्ब्लजंब्वाम्रकपित्थकोलैः

1.77

10 समातुलुंगैर् अथ दाडिमाम्ब्लैर् मद्यैः पयोभिर् दधिमस्तुना वा । दार्व्युत्पलाद्यैः क्वथितैश् च साम्ब्लैर् आश्च्योतनं सैन्धवसं प्रयुक्तं *

1.78

11 x त्यासशीतोष्णकृतां निहन्ति रक्तात्मिकां नेत्ररुजं प्रसह्य । संसर्गजे सर्वसमुत्थिते वा हीनाधिकत्वं प्रसमीक्ष्य रोगे

1.79

कुर्वीत xं _ .र्. ^ _ ^ _ _
व्1 _ पहरी विविज्ञः । एरण्डमूलं सफलप्ररोहं विजर्जनं क्षीरयुतं त्व् अजानाम्*

1.80

स्याद् वातरक्तापहम् एतद् अग्र्यम् आश्च्योतन ं सद् भ् इ षज् ओ वद न् त् इ ॥ प्रपौण्डर् ई क ं मधुक ं हरिद्राञ् च _ ^ _ _ ^ ^ _ ^ _ _

1.81

2 आश्च्योतनं शर्करया विमिश्रं पित्तानिलार्त्तिं विनिवर्तयेत ॥ नतं श्वदंष्ट्रा बृहती त्वचं च ह्रीवेरम् इत्य् एष शृतस् त्व् अजानाम्*

1.82

क्षीरोदकैः सैन्धवसंप्रयुक्तम् आश्च्योतनं वातकफापहं स्या त्* ॥ _ _ ^
3 दार्व्या मधुकं च मुख्यं गव्ये पयस्यात् क्वथितः स्त्रिया वा

1.83

आश्च्योतनो मारुतरक्तपित्ते सशर्करः सद्भिषजा विधेयः ॥ चूर्णानि सूक्ष्माणि फलत्रवस्य बध्व सिते क्षौमपटैकदेशे

1.84

आजे पय स्य् अं ग नया
4 जले वा परिप्लुतं सर्वरुजापहं स्यात्* ॥ दार्वीं हरिद्रां त्रिफलां समुस्तं सशर्करं माक्षिकसंप्रयुक्तम्*

1.85

आश्च्योतनं मानुषदुग्धयुक्तं पित्तास्रवातापहम् अग्र्यम् उक्तम्* ॥ एरण्डमूलैस् त रु णैः
5 सपत्रैः कल्कैर् अथो षष्टिकतण्डुलानाम्*

1.86

घृताप्लुतं शावरकं प्रलिप्तं पूर्वेण कल्पेन रुजापहं स्यात्*

1.87

स्वेदपुटपाकनाबनतर्पनघृतपानलेपपरिषेकान्* । आश्च्योतन नि र्दिष्टैर्
6 द्रव्यैर् एतैः प्रकल्पयीत भिषक्*

1.88

ऋतुव्याधिहिताभीलुव्यंगनीलीकनाशनान्* । विषषोथापहंश् चैव मुखलेपान् प्रचक्षते

1.89

त्वक्क्षीरिणां चन्दनपद्मकौ च गुन्द्रां मृ णा लं
7 घनबालकौ च । मूलं कुशानां तगरैलवालु तालीसपत्रं नलदं तिलाश् च

1.90

मसूरदूर्वामयवं मृणालं रसश् च यष्टीमधुकोत्पलानाम्* । शैलेयमुस्तागुरु
8 झामकं च स्थौणेयकैला तगरं तिलाश् च

1.90

त्वक्पत्रकुष्ठागुरु झामकं च मांसीं हरेणुं परिपेलवं च । यष्टिह्वरोध्रागुरु चन्दनं च पुनर्नवा कृष्णतिला लता च

1.92

इत्य् अर्ध रू पैर्
9 वदनप्रलेपैः कालेषु घर्मादिषु संप्रयोज्यः । निदर्शिता दृष्टिहिता नराणां दोषापहान् मे शृणु चोच्यमानान्*

1.93

वातामयघ्ना जलदागमोक्ताः पित्ता म यघ्नाः
10 शरदि प्रदिष्टाः । ग्रीष्मोपदिष्टा रुधिरामयघ्नाः कफामयघ्नाः कुसुमागमोक्ताः

1.94

कर्पासमूलानि लताम् उशीरकालीयका क्षीरवतां त्वचश् च । भद्रश्रि य
11 _ ^ ^ कं यवाश् च वदन्ति वर्ण्यान् वदनप्रलेपान्*

1.95

एतानि मूत्रेण गवां प्रशोष्य कोलाम्ब्लमूत्रैः सह मिश्रिता वा । स्युर् मातुलुंगस्य रसे युता वा ससर्षपाः शोष्य
इ. fओल्. 5: बोwएर् मनुस्च्रिप्त्
र्1 मुखे विधेयाः

1.96

_ _ ^ _ _ ^ ^ _ ^ कासु क्ल् इ ष्टे च दुष्ट् ए रुधिरे च मुक्त् ए । स्न् एहे व् इ रेके विविधे च नास्ये कृते विधेया वदनप्रलेपाः

1.97

त्वक्पत्रमांसी नतचन्दनं च मनःशिला व्याघ्र न खं
2 हरेणु म्* । x आम्ब्लीककुष्ठ् अं सुरसे हरिद्रे विषापहाः स्युर् वदनप्रलेपाः

1.98

मूर्वाश्वगन्धा त्रिफला करञ्जं शोथापहाः स्युर् वदनप्रलेपाः ॥ मूर्वापि गोमूत्रयूतं वदन्ति शोथापहं
3 स् य् आद् वदनप्रलेपम्*

1.99

मुखे प्रलिप्ते न हसेन् न रुद्यात् स्वप्नं न सेवेत तथा न चाद्यात्* । नाग्नौ प्रतप्येन् न च धारयेत शुष्कं प्रलेपं वदने मनुष्यः

1.100

अभीलु नीलीकम् अथापि
4 कुष्ठं व्यंगं सपिल्पुं तिलकांश् च जन्तोः । शाम्यन्ति सद्यो वदनप्रलेपाद् दृष्टिश् च वक्त्रं च भवेत् प्रसन्नम्*

1.101

मुखे प्रलिप्ते हसतो ऽश्नतो वा श्लेष्मा सवायुः
5 स्वपतः प्रकोपः । यात्याशु तस्माच् छिरसो विरेकाः स्नेहाश् च धूमाश् च पुनः प्रयोज्याः

1.102

अग्निप्रतापाद् विद्रुतश् च जन्तोर् धृते च शुष्के वदनप्रलेपे । अभीलु पू र्वान्
6 प्रवदन्ति रोगांस् तेषां यथोक्तं विदधीत शान्तिम्*

1.103

नक्तान्धतैमिर्यशिरोर्त्तिदाहं पित्तात्मिकां चक्षुरुजां सदाहाम्* । दोषास् तथान्ये ऽपि मुखत्वचस्थाः शाम्यन्ति सद्यो
7 वदनप्रलेपात्*

1.104

अक्ष्णोर् विकारे कफमारुताभ्यं नस्तःकृते पीनसरोगिणां च । हनुग्रहे शिर्षरुजासु चैव वदन्ति वर्ज्यान् वदनप्रलेपान्*

1.105

अंगुलस्य चतुर्भागो
8 मुखलेपो विधीयते । मध्यमस् तु त्रिभागः स्याद् अन्त्य स् त्व् अर्धांगुलो भवेत्*

1.106

यष्टिह्वरोध्रं त्रिफला मृणालं सितोपलां कांचनगैरिकं च । पत्रत्वगेलागुरु देवदारु पुनर्नवा व्याघ्रनखां ज नं च

1.107

9 मनःशिलालं बृहतीत्वचं च मांसीहरे ण् उ ं परि पेलवं च । सौवीरकं गैरिककट्फलं च स्याच् छारिवा शर्करया विमिश्रा

1.108

इत्य् अर्धरूपैश् चतुरः प्रदिष्टाः कफास्रपि त्तान् इ ल रो गशान्तौ ।
10 विडालकैस् तैर् नयनं समन्ताद् आ पक्ष्ममूलात् प्रदिहेद् बहिर् वा

1.109

रोध्रं च किंचित् तु घृतेन दिग्धम् अयोविघृष्टाम् अभयाम् अथो वा । त्वचं बृहत्याः समम् अञ्जन ं च विडा ल कः
11 सर्वरुजापहः स्यात्*

1.110

गैरिकरसांजनांजनमनःशिलारीतिकुसुमसमभागाः । ईषन्मरिचसहीया द्विगुणं .ऐ x x x x x x x x

1.111

व्1 मरिचकुसुमे च हरितं विपचेन् मृद्वग्निना घृतसहीयम्* । अंजनविडालको ऽयं चतु र् व् इ वक्ष्याम x x x

1.112

x x x x ^ _ _ ^ गोक्तखाल् इत् य _ ^ _ । x x x x ^ _ _ ^
2 प्रोच्यमानं निबोधत

1.114

रसदोषाद् व्यवायाच् च पित्तशोणितदूषणात्* । भवत्य् अकालपलितं वृद्धस्य जरसा भवेत्*

1.114

प्रायेण श्लेष्मला नार्याश् छाया शल्य ^ _ ^ _ । .ऊ x x x
3 निषेविण्यो रजो दुष्टं सृजन्ति च

1.115

प्रसन्नरक्तपित्तोष्मा केशभूमिर् अतः स्त्रियाः । न च्यवन्ति ततः केशास् तस्माद् अखलिताः स्त्रियः

1.116

पुंसाम् अतो विपर्यासे रक्तपित्तं प्रदुष्य ते । x x .ऋ त्
4 केशमूलानि खलतिं कुरुते शिरः

1.117

निष्केशं ताम्रवालं च खालित्यं यच् चिरोत्थितम्* । न तत् सिध्यति साध्यं तु नवं सम्यग् उपाचरेत्*

1.118

खालित्यपलिते पूर्वं बहुशो वेधयेत् सिराः ।
5 दुष्टशोणितशुद्धस्य वमनादिक्रिया हिता

1.119

यथो x x ^ _ पश्चाच् छुद्धकोष्ठः प्रयोजयेत्* । तैलयोगांश् च विविधान् केशरागांस् तथैव च

1.120

केशसंजननांश् चैव तथा संवर्धनानि च ।
6 प्रक्षालनाश् च केशानां यथा दोषहरा हिताः

1.121

{ओ} ॥ स्वाद्वम्ब्ललवणोपेतैर् घृतैर् मारुतकासिनम्* । सान्नैर् उपाचरेद् धीमान् केवलैर् वा यथाबलम्*

1.122

ग्राम्यानूपौदकरसैः सगुडैः सप ला ण्डुभिः ।
7 अम्ब्लस्निग्धोष्णमधुरैर् भोज्या गोधूमशालयः

1.123

सुरां समण्डां घर्माम्बु रसान् वापि प्रकामतः । वातकासे बहु स्नेहं सगुडं वा पयः पिबेत्*

1.124

शृंगवेरषडीद्रा क्ष शृंगीपिप्पलिभार्गिभिः ।
8 गुडतैलयुतो लेहो हितो मारुतकासिनाम्*

1.125

पिप्पलीमारुताजाजीषडीपुष्करचित्रकैः । ससैन्धवम् इदं चूर्णं हितं मारुतकासिनाम्*

1.126

9 पलानि क्वाथयेत् त्रिंशत् कण्टकार्या जलाढके । चतुर्भागस्थिते पूते दद्याद् गुडपलान्य् अगे

1.127

चूर्णैर् नागरभर्ग्येलापिप्पलीषडिचित्रकैः । घृततैलपलैश् चापि
10 संय् उ तं लेहवत् पचेत्*

1.128

चतुर्भिर् आघनीभावाच् छीते च द्विपलं मधु । पिप्पलीपलचूर्णं च दत्वा लिख्यात् तु कासनुत्*

1.129

दशमूलकषायेण भार्गीकल्कं घृतं पचेत्* ।
11 दक्षतित्तिरिनिर्यूहे तत् पर ं वातकासनुत्*

1.130

कण्टकार्या रसप्रस्थे घृतस्य कुडवं पचेत्* । पुनर्ववायाः कल्केन तत् परं वातकासनुत्*

1.131

भार्गीकल्कं घृतं चाथ पचेद् दध्नि चतुर्गुणे ।
12 व् य् आघ् र् ईरस ं द्विगुणितं वातकासहरं परम्*

मूल पाठ: Bower Manuscript · Edition: August Friedrich Rudolf Hoernle, 3 vols., Calcutta 1893-1912. (Archaeological Survey of India, New Imperial Series, 22) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc