बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 2
शरीरं सुचिरेणापि सुखस्य स्वं न जायते ।
परेणाभिभवो नाम स्वभावस्य न युज्यते ॥
अग्र्याणां मानसं दुःखम् इतरेसां शरीरजम् ।
दुःखद्वयेन लोको ऽयम् अहन्य् अहनि हन्यते ॥
कल्पनायाः सुखं वश्यं वश्या दुःखस्य कल्पना ।
अतो ऽस्ति किंचित् सर्वत्र न दुःखाद् ब लवत्तरम् ॥
कालो यथा यथा याति दुःखवृद्धिस् तथा तथा ।
तस्मात् कडेवरस्यास्य परवद् दृ श्यते सुखम् ॥
व्याधयो ऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः ।
तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः ॥
सुखस्य वर्धमानस्य यथा दृष्टो विपर्ययः ।
दुःखस्य वर्धमानस्य तथा नास्ति विपर्ययः ॥
मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0